प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८३ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८४
[[लेखकः :|]]
अध्यायः ८५ →


अथ चतुरशीतितमोऽध्यायः
श्रीभगवानुवाच
द्विजदेवार्चनं चैव करोति सततं गृही ।
स्वधर्माचरणं चैव चातुर्वर्ण्यं च नित्यणः ।। १ ।।

कुर्वन्ति गृहिणामाशां सर्वे देवादयस्तथा ।
अकृत्वाऽतिथिपूजां च गृहस्थश्च सदाऽशुचिः ।। २ ।।

पितरः कर्मकाले चातिथिकाले च देवताः ।
सर्वे गृहस्थमायान्ति निपानमिव धेनवः ।। ३ ।।

समायाति प्रयत्नेन सयाह्ने क्षुधितोऽतिथिः ।
पूजां लब्ध्वाऽऽशिषं कृत्वा प्रयाति गृहिणो गृहात् ।। ४ ।।

अकृत्वाऽतिथिपूजां च गृही भवति पातकी ।
त्रैलोक्यजनितं पापं लभते नात्र संशयः ।। ५ ।।

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिर्वते ।
पितरस्तस्य देवाश्च वह्नयश्च तथैव च ।। ६ ।।

निराशाः प्रतिगच्छन्ति गृहिणोऽतिथयो गृहात् ।
स्त्रीध्नैर्गोघ्नैः कृतघ्नैश्च ब्राह्मणैर्गुरुतल्पगैः ।। ७ ।।

तुल्यदोषो भवत्येव येनातिथिरनर्चितः ।
स्वात्मनः पातकं दत्त्वा पुण्यमादाय गच्छति ।। ८ ।।

तस्मात्कृत्वा सर्वसेवां देवादींश्च शुभाशयः ।
पोष्याणां भरणं कृत्वा पश्चाद्भुङ्क्ते स धर्मवित् ।। ९ ।।

यस्य माता गृहे नास्ति भार्या च पुंश्चली तथा ।
अरण्यं तेन गन्तव्यमरण्याद्दुःखदं गृहम् ।। १० ।।

पतीं द्वेष्टि सदा दुष्टा विषतुन्यं च पश्यति ।
ददाति तस्मै नाऽऽहारं भर्त्सनं कुरुते सदा ।। ११ ।।

पूजितं मुनितुल्यं च सा च पापीयसी परम् ।
संततं तृणवन्मत्वा न्यक्कारं कुरुते सदा ।। १२ ।।

दुर्वाक्यावह्निना दग्धो मृततुल्यश्च जीवति ।
यावज्जीवनपर्यन्तं संप्राप्य दुष्टवंशजाम् ।। १३ ।।

गृहिणीनां सदाचारं श्रूयतां तच्छ्रु तौ श्रुतम् ।
गृहिणी पतिभक्ता च देवब्राह्मणबूजिता ।। १४ ।।

सा शुद्धा प्रातरुत्थाय नमस्कृत्य पतिं सुरम् ।
प्राङ्गणे मङ्गलं दद्याद्गोमयेन जलेन च ।। १५ ।।

गृहकृत्यं च कृत्वा च स्नात्वाऽऽगत्य गृहं सती ।
सुरं विप्रं पतिं नत्वा पूजयेद्गृहदेवताम् ।। १६ ।।

गृहकृत्यं सुनिर्वृत्य भोजयित्वा पतिं सती ।
अतिथिं पूजयित्वा च स्वयं भुङ्कते सुखंसती ।। १७ ।।

पुत्रैश्च पूजितस्तातः शिष्यैश्च पूजितो गुरुः ।
आज्ञया कुरुते कर्म पुत्रः शिष्यश्च भृत्यवत् ।। १८ ।।

न प्रेरयेद्गुरुं तातं पुत्रः शिष्यश्च कर्मसु ।
पित्रे च गुरवे नित्यं सर्वस्वं च समर्पयेत् ।। १९ ।।

न कुर्यान्नरबुद्धिं च गुरौ पितरि संततम् ।
कृत्वा च नरबुद्धिं च ब्रह्महत्यां लभेद्ध्रुवम् ।। २० ।।

मातरं पूजयेद्भक्त्या पितुश्चाप्यधिकां तथा ।
मातुः परं गुरुं चैव पूजयेद्भक्तियोगतः ।। २१ ।।

पिता माता गुरुर्भार्या शिष्यः पुत्रः सदाऽक्षमः ।
अनाथा भगिनी कन्या नित्यं पोष्या गुरुप्रिया ।। २२ ।।

एवं च कथितं तात सर्वेषां धर्ममुत्तमम् ।
श्त्रीजातिर्वास्तपीशुद्धा ताश्च सर्वाः पतिव्रताः ।। २३ ।।

सर्वा जातिरेकविधा चाऽऽदौ सृष्टा च ब्रह्मणा ।
ताः सर्वाः प्रकृतेरंशाः पवित्राः पण्डिताधिकाः ।। २४ ।।

केदारकन्याशापेन स हि धर्मः क्षयं गतः ।
तदा कोपेन धात्रा च कृत्या स्त्री च विनिर्मिता ।। २५ ।।

कृत्या स्त्री त्रिविधा जातिर्ब्रह्मणा निर्मिता पुरा ।
उत्तमा प्रथमा सा च मध्यमा चाधमा व्रज ।। २६ ।।

उत्तमा पतिभक्ता सा किंचिद्धर्मसमन्विता ।
प्राणान्तेऽपि न कुरुते तं जारमयशकरम् ।। २७ ।।

पूजयेत्सा यथा कान्तं तथा देवद्विजातिथीन् ।
व्रतानि चोपवासांश्च कुरुते सर्वपूजनम् ।। २८ ।।

गुरुणा रक्षिता यत्नाज्जारं च न भजेद्भयात् ।
स कृत्रिमा मध्यमा च यथाकिंचित्पतिं भजेत् ।। २९ ।।

स्थानं नास्तिक्षणं नास्ति नास्ति प्रार्थयिता नरः ।
तेन हे नन्द तासां च सतीत्वमुपजायते ।। ३० ।।

अधमा परमा दुष्टाऽत्यन्तासद्वंशजा तथा ।
अधर्मशीला दुःशीला दुर्मुखा कलहान्विता ।। ३१ ।।

पतिं भर्त्सयते नित्यं जारं च सेवते सदा ।
दुःशं ददाति कान्ताय विषतुल्यं च पश्यति ।। ३२ ।।

जारद्वारमुपायेन हन्ति कान्तं मनोहरम् ।
धर्मिष्ठं च वरिष्ठं च गरिष्ठं च महीतले ।। ३३ ।।

कामदेवसमं चापि जारं पश्यति कामतः ।
शुभदृष्ट्या कटाक्षेण शरवत्पापीयसी मुदा ।। ३४ ।।

सुवेषं पुरुषं द्रष्ट्वा युवानं रतिशूकरम् ।
योनिः क्लिद्यति नारीणां कामिनीनां निरन्तरम् ।। ३५ ।।

ददाति भर्त्रे नाऽऽहारं विषोक्तिं वक्ति संततम् ।
अधर्मं चिन्तयेच्छश्वज्जारं च परमं मुदा ।। ३६ ।।

गुरुभिर्भर्त्सिता सा च रक्षिता च शतेन च ।
तथाऽपि जारं कुरुते नापि साध्या नृपेरपि ।। ३७ ।।

नास्ति तस्याः प्रियं किंचित्सर्वं कार्यवशेन च ।
गावस्तृणमिवारण्ये प्रार्थयन्ती नवं नवम् ।। ३८ ।।

विद्युदाभा जले रेखा तस्या प्रीतिस्तथैव च ।
अधर्मयुक्ता सततं कपटं वक्ति निश्चितम् ।। ३९ ।।

व्रते तपसि धर्मे च न मनो गृहकर्मणि ।
न गुरौ न च देवेषु जारे स्निग्धं च चञ्चलम् ।। ४० ।।

स्त्रीजातित्रिविधानां च कथा च कथिता मया ।
भक्तानां त्रिविधानां च लक्षणं श्रूयतामिति ।। ४१ ।।

तृणशय्यारतो भक्तो मन्नामगुणकीर्तिषु ।
मनो निवेशयेत्त्यक्त्वा संसारसुखकारणम् ।। ४२ ।।

व्यायते मत्पदाब्जं च पूजयेद्भक्तिभावतः ।
अहैतुकीं तस्य देवाः संकल्परहितस्य च ।। ४३ ।।

सर्वसिद्धिंन वाञ्छन्ति तेऽणिमादिकमीप्सितम् ।
ब्रह्मत्वममरत्वं वा सुरत्वं सुखकारणम् ।। ४४ ।।

दास्यं विना नहीच्छन्ति सालोक्यादिचतुष्टयम् ।
नैव निर्वाणमुक्तिं च सुधापानमभीप्सितम् ।। ४५ ।।

वाञ्छन्ति निश्चिलां भक्तिं मदीयामतुलामपि ।
स्त्रीपुंविभेदो नास्त्येव सर्वजीवेषु भिन्नता ।। ४६ ।।

तेषां सिद्धेश्वराणां च प्रवराणां व्रजेश्वर ।
क्षुत्पिपासादिकं निद्रालोभमोहादिकं रिपुम् ।। ४७ ।।

त्पक्त्वा दिवानिशं मां च ध्यायन्ते च दिगम्बराः ।
समद्भक्तोत्तमो नन्द श्रूयतां मध्यमादिकम् ।। ४८ ।।

नाऽऽसक्तः कर्मसु गृही पूर्वप्राक्तनतः शुचिः ।
करोति सततं चैव पूर्वकर्मनिकृन्तनम् ।। ४९ ।।

न करोत्यपरं वत्नात्संकल्परहितः स च ।
सर्वं कृष्णस्य यत्किंचिन्नाहं कर्ता च कर्मणः ।। ५० ।।

कर्मणा मनसा वाचा सततं चिन्तयेदिति ।
न्यूनभक्तश्च तन्न्यूनः स च प्राकृतिकः श्रुतौ ।। ५१ ।।

यमं वा यमदूतं वा स्वप्नेऽपि न च पश्यति ।
पुरुषाणां सहस्रं च पूर्वभक्तः सुद्धरेत् ।। ५२ ।।

पुंसां शतं मध्यमश्च तच्चतुर्थं च प्राकृतः ।
भक्तश्च त्रिविधस्तात कथितश्च तवाऽऽज्ञया ।। ५३ ।।

ब्रह्माण्डरचनाख्यानं श्रूयतां सावधानतः ।
ब्रह्माण्डरचनार्थं च भक्ता जानन्ति यत्नतः ।। ५४ ।।

मुनयश्च सुराः सन्तः किंचिज्जानन्ति दुःखतः ।
जानामि विश्वं सर्वार्थ ब्रह्माऽऽनन्तो ।।
महेश्वरः ।। ५५ ।।

धर्मः सनत्कुमारश्च नरनारायणावृषी ।
कपिलश्च गणेशश्च दुर्गा लक्ष्मीः सरस्वती ।। ५६ ।।

वेदाश्च वेदमाता च सर्वज्ञा राधिका स्वयम् ।
एते जानन्ति विश्वार्थ नान्यो जानाति कश्चन ।। ५७ ।।

वैषम्यार्थ च सुधियः सर्वे विज्ञातुमक्षमाः ।
नित्याकाशो यथाऽऽत्मा च तथा नित्या दिशो दश ।। ५८ ।।

यथा नित्या च प्रकृतिस्तथैव विश्वगोलकः ।
गोलोकश्च यथा नित्यस्तथा वैकुण्ठ एव च ।। ५९ ।।

एकदा मयि गोलोके रासे नित्यं प्रकुर्वति ।
आविर्भूता च वामाङ्गाद्बाला षोढशवार्षिकी ।। ६० ।।

श्वेतचम्पकवर्णाभा शरच्चन्द्रसमप्रभा ।
अतीव सुन्दरी रामा रमणीनां परावरा ।। ६१ ।।

ईषद्धास्यप्रसन्नास्या कौमलाङ्गी मनोहरा ।
वह्निशुद्धांशुकाधाना रत्नाभरणभूषिता ।। ६२ ।।

यथा जलदपङ्क्तिश्च बलाकाभिर्तिभूषिता ।
सिन्दूरबिन्दूना चारुचन्द्रचन्दनबिन्दुभिः ।। ६३ ।।

कस्तूरीबिन्दुभिः सार्धं सीमन्तान्धःस्यलोज्ज्वला ।
अमूल्यरत्ननिर्माणसुस्निग्धकिरणोज्ज्वला ।। ६४ ।।

विचित्रैश्च सुचित्रैश्च सुकपोलस्थलोज्ज्वला ।
खमेन्द्रचञ्चुविजितनासामौक्तिकशोभिता ।। ६६ ।।

गजेन्द्रगण़्डनिर्मुक्तमुक्ताभूषणभूषिता ।
शुक्त्या विमुक्तमुक्ताभदन्तपङ्क्तिमनोहरा ।। ६७ ।।

वलिताकलिताऽतीव पक्वबिम्बाधरा वरा ।
शश्वत्पूर्णेन्दुनिन्दास्या पद्मनिन्दितलोचना ।। ६८ ।।

कृष्णसारनिभोद्भिन्नसुचारुकज्जलोज्ज्वला ।
अमूल्यरत्ननिर्माणकेयूरकङ्कणोज्ज्वला ।। ६९ ।।

मणीन्द्रराजराजीभिः शङ्खयुग्मकरोज्जवला ।
रत्नाङ्गुलीयकैरेभिरमृताङ्गुलिभूषिता ।। ७० ।।

रत्नेन्द्रराजराजेन क्वणन्मञ्जीररञ्जिता ।
रत्नपाशकराजीभिः पादाङ्गुलिविराजिता ।। ७१ ।।

सुन्दरालक्तरागेण चरणाधःस्थलोज्ज्वला ।
गजेन्द्रगामिनी रामा कामिनी वामलोचना ।। ७२ ।।

मां ददर्श कटाक्षेण रमणी रमणोत्सुका ।
रासे संभूय रामा सा दधार पुरतो मम ।। ७३ ।।

तेन राधा समाख्याता बुराविद्भिः प्रपूजिता ।
प्रहृष्टा प्रकृतिश्चास्यास्तेन प्रकृतिरीश्वरी ।। ७४ ।।

शक्ता स्यात्सर्वकार्येषु तेन शक्तिः प्रकीर्तिता ।
सर्वाधारा सर्वरूपा मङ्गलार्हा च सर्वतः ।। ७५ ।।

सर्वमङ्गलदक्षा सा तेन स्यात्सर्वमङ्गला ।
वैकुण्ठे सा महालक्ष्मीर्मूर्तिभेदे सरस्वती ।। ७६ ।।

प्रसूय वेदान्विदिता वेदमाता च सा सदा ।
सावित्री स च गायत्री धात्री त्रिजगतामपि ।। ७७ ।।

पुरा संहृत्य दुर्गं च सा दुर्गा च प्रकीर्तिता ।
तेजसः सर्वदेवानामाविर्भूता पुरा सती ।। ७८ ।।

तेनाऽऽद्या प्रकृतिर्ज्ञेया सर्वासुरविमर्दिती ।
सर्वानन्दा च सानन्दा दुःखदारिद्रयनाशिनी ।। ७९ ।।

शत्रुणां भयदात्रौ च भक्तानां भयहारिणौ ।
दक्षकन्या सती का च शैलजातेति पार्वती ।। ८० ।।

सर्वाधारस्वरूपा सा कलया सा वसुंधरा ।
कलया तुलसी गङ्गा कलया सर्वयोषितः ।। ८१ ।।

सृष्टिं करोमि च यया तात शक्त्या पुनः पुनः ।
दृष्ट्वा तां रासमध्यस्थां मम क्रीडा ।।
तया सह ।। ८२ ।।

बभूव सुचिरं तात यावद्वै ब्रह्मणः शतम् ।
अत्यद्भुतं कौतुकं च महाश्रृङ्गारमीप्सितम् ।। ८३ ।।

तयोर्द्वयोर्धर्मराशिः सुस्राव रासमण़्डले ।
तस्मान्मनोहरं जज्ञे नामनाकारसरोवरम् ।। ८४ ।।

पपात धर्मधाराऽधो वेगेन विश्वगोलके ।
बभूव जलबूर्णं च ब्रह्माण्डानां च गोलकम् ।। ८५ ।।

जलपूर्ण पुरा सर्व शृष्टिशून्यं व्रजेश्वर ।
श्रुङ्गारान्ते च तस्यां च वीर्याधानं मया कृतम् ।। ८६ ।।

दधार गर्भ सा राधा यावद्वै ब्रह्मणाः शतम् ।
सुस्राव सा तदन्ते च डिम्भं च परमाद्भुतम् ।। ८७ ।।

चुकोप देवी तं दृष्ट्वा रुरोद विषसाद सा ।
पादेन प्रेरयामास तमधो विश्वगोलके ।। ८८ ।।

स पपात जले तात सर्वाधारो महान्विराट् ।
दृष्ट्वाऽपत्यं जलस्थं च मया शप्ता च सा पुरा ।। ८९ ।।

अनपत्या च सा राथा मच्छापेन पुरा विभो ।
तेन प्रसूताः क्रमतो दुर्गा लक्ष्मीः सरस्वती ।। ९० ।।

चतस्रः परिबूर्णास्ताः प्रसूताश्च सुनिश्चितम् ।
देव्योऽन्याश्चापि कामिन्यस्ताः प्रसूता व्रजेश्वर ।। ९१ ।।

कलया प्रभवो यासां कलांशांशेन वा व्रज ।
जज्ञे महान्विराड्येन डिम्भेन कलयाऽऽश्रयः ।। ९२ ।।

अमृताङ्गुष्ठपीयूषं मया दत्तं पपौ च सः ।
जले स्थावररूपश्च शेते च निजकर्मणः ।। ९३ ।।

उपधानं जलं तल्पं तस्य योगबलेन च ।
तस्य लोम्नां च कूपानि जलपूर्णानि संततम् ।। ९४ ।।

प्रत्येकं क्रमतस्तेषु शेते क्षुद्रविराट् पुनः ।
सहस्रपत्रं कमलं जज्ञे क्षुद्रस्य नाभितः ।। ९५ ।।

तत्र जज्ञे वरो ब्रह्मा तेनायं कमलोद्भवः ।
तत्राऽऽविर्भूय स विधिश्चिन्ताग्रस्तो बभूव सः ।। ९६ ।।

कस्माद्देहःक्वा माता मे पिता वा क्व च बान्धवः ।
दिव्यं त्रिलक्षवर्षञ्च बभ्राम कमलान्तरे ।। ९७ ।।

ततो दिव्यं पञ्चलक्षं सस्मार तपसा च माम् ।
तदा मया दत्तमन्त्रं जजाप कमलान्तरे ।। ९८ ।।

दिव्यवर्षसप्तलक्षं नियतं संयतः शुचिः ।
तदा मत्तो वरं लब्ध्वा स्रष्टा सृष्टिं चकार सः ।। ९९ ।।

मायया प्रति ब्रह्माण्डे ब्रह्मविष्णुशिवात्मकाः ।
दिक्पाला द्वादशादित्या रुद्राश्चैकादशापि च ।। १०० ।।

नवग्रहाष्टौ वसवो देवाः कोटित्रयं तथा ।
ब्राह्मणाक्षत्रविट्शूद्रा यक्षगन्धर्वकिन्नराः ।। १०१ ।।

भूतादयो राङसाश्चाप्येवं सर्वं चराचरम् ।
विश्वे विश्वे विनिर्माणाः स्वर्गाः सप्त क्रमेण च ।। १०२ ।।

सप्तसागरसंयुक्ता सप्तद्वीपा वसुंधरा ।
काञ्चनीभूमिसंयुक्ता तमोयुक्तं स्थलं तथा ।। १०३ ।।

पातालाश्च तथा सप्त ब्रह्माण्डमेभिरेव च ।
विश्वे विश्वे चन्द्रसूयो पुण्यक्षेत्रं च भारतम् ।। १०४ ।।

तीर्थान्येतानि सर्वत्र गङ्गादीति व्रजेश्वर ।
यावन्ति लोमकूपानि महाविष्णोः क्रमेण च ।। १०५ ।।

विश्वान्येव ही तावन्ति ह्यमंख्यातानि च ध्रुवम् ।
विश्वेषासूर्ध्वाभामे च वैकुण्ठश्च निराश्रयः ।। १०६ ।।

मदिच्छया विनिर्माणा वेदाः कथितुमक्षमाः ।
कुयोगिनाम दृष्टश्चामभक्तानां विनिश्चितम् ।। १०७ ।।

तस्मादुपरि गोलोकः पञ्चाशत्कोटियोजनः ।
वायुना धार्यमाणश्च विचित्रः परमाश्रमः ।। १०८ ।।

अतीव रम्यनिर्माणो नित्यरूपो मदिच्छया ।
शतश्रृङ्गेण शैलेन पुण्यवृन्दावनेन च ।। १०९ ।।

सुरासमण्डलेनापि नद्या विरजया युतः ।
कोटियोजनविस्तीर्णा प्रस्थेन विरजा व्रज ।। ११० ।।

दैर्ध्यं तस्याः शतगुणं परितः परमा शुभा ।
अमूल्यरत्ननिकरैर्हीरमाणिक्ययोस्तथा ।। १११ ।।

मणीनां कौस्तुभादीनामसंख्यानां मनोहरा ।
अमूल्यरत्ननिर्माणं तत्रावि प्रतिमन्दिरम् ।। ११२ ।।

मनोहरं च प्राकारमदृष्टं विश्वकर्मणा ।
गोपीभिर्गोपनिकरैर्वैष्टितं कामधेनुभिः ।। ११३ ।।

कल्पवृक्षैः पारिजातैरसंख्यैश्च सरोवरैः ।
पुष्पोद्यानैःकोटिभिश्च संवृतं रासमण्डलम् ।। ११४ ।।

वेष्टितं वेष्टितैर्गोपैर्मन्दिरैः शतकोटिभिः ।
रत्नप्रदीपयुक्तैश्च पुष्पतल्पसमन्वितैः ।। ११५ ।।

सुगन्धिचन्दनामोदैः कस्तूरीकुङ्कुमान्वितैः ।
क्रीडोपयुक्तैर्भोगेश्च ताम्बूलैर्वासितैर्जलैः ।। ११६ ।।

धूपैः सुरभिरम्यैश्च माल्यैश्च रत्नदर्पणैः ।
रक्षकै रक्षितं शश्वद्राधादासीत्रिकोटिभिः ।। ११७ ।।

अमूल्यरत्नाभरणैर्वह्निशुद्धांशुकैरपि ।
लक्षणत्तगजेन्द्राणां वेष्टितं च बलैः क्रमात् ।। ११८ ।।

नवयौवनसंपन्नै रूपैर्निरुपमैरपि ।
रम्यं च वर्तुलाकारं चन्द्रबिम्बं यथा व्रज ।। ११९ ।।

अमूल्यरत्नरचितं दशयोजनविस्तृतम् ।
कस्तूरीकुङ्कुमै रभ्यैः सुगन्धिचन्दनार्चितम् ।। १२० ।।

आवृतं मङ्गलघटैः फलपल्लवसंयुतैः ।
दधिलाजैश्च पर्णैश्च स्निग्धदूर्वाङ्कुरैः फलैः ।। १२१ ।।

श्रीरामकदलीस्तम्भैरसंख्यैश्च मनोहरैः ।
पट्टसूत्रनिबद्धैश्च स्निग्धैश्चन्दनपल्लवैः ।। १२२ ।।

चन्दनासक्तमाल्यैश्च भूषणैश्च विभूषितम् ।
अमूल्यरत्नरचितं शतशृङ्गमनोहरम् ।। १२३ ।।

कोटियोजनमूर्ध्वं च दैर्ध्यं शतगुणोत्तरम् ।
शैलप्रस्थपरिमितं पञ्चाशत्कोटियोजनम् ।। १२४ ।।

अतीव कमनीयं य वेदानिर्वचनीयकम् ।
प्राकारमिव तस्यापि गोललोकस्य मनोहरम् ।। १२५ ।।

परितो वेष्टितं रम्यं हीरहारसमन्वितम् ।
तत्र वृन्दावनं रम्यं युक्तं चन्दनपादपैः ।। १२६ ।।

कल्पवृक्षैश्च नम्यैश्च मन्दारैः कामधेनुभिः ।
शोभितं शोभनाढ्यैश्च पुष्पोद्यानैर्मनोहरैः ।। १२७ ।।

क्रीडासरोवरै रम्यैः सुरम्यै रतिमन्दिरैः ।
अतीव रम्यं रहसि रासयोग्यस्थलान्वितम् ।। १२८ ।।

रक्षितं रक्षकै रम्यैरसंख्यैर्गोपिकागणैः ।
परितो वर्तुलाकारं त्रिलक्षयोजनं वनम् ।। १२९ ।।

षट्पदध्वनिसंयुक्तं पुंस्कोकिलरुतान्वितम् ।
तत्राक्षयो वटो रम्यो रहस्ये बहृविस्तृतः ।। १३० ।।

सहस्रयोजनोर्ध्वश्च परितश्च चतुर्गुणः ।
गोपीनां कल्पवृक्षश्च सर्ववाञ्छाफलप्रदः ।। १३१ ।।

क्रीडान्वितैरावृतश्च राधादासीत्रिलक्षकैः ।
विरजातीरनिराणां वायुना शीतलेन च ।। १३२ ।।

पुष्पान्वितेन मन्देन पवित्रश्च सुगन्धिना ।
दासीगणैरसंख्यैश्च वृन्दावनविनोदिनी ।। १३३ ।।

तत्र क्रीडति राधा सा मम प्राणाधिदेवता ।
सेयं श्रीदामशापेन वृषभानसुताऽधुना ।। १३४ ।।

ब्रह्मादिदेवैः सिद्धेन्द्रैर्मुनीन्द्रैः पूजिता व्रज ।
सिद्धैर्गुणैर्बलैर्बुद्ध्या ज्ञानयोगैश्च विद्यया ।। १३५ ।।

तात सर्वप्रकारेण वन्द्या सत्सदृशी प्रिया ।
इत्येवं कथितं नन्द ब्रह्माण्डानां च वर्णनम् ।।
यथोचितं परिमितं किं भूयः श्रोतुमिच्छसि ।। १३६ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
भगवन्नन्दसंo चतुरशीतितमोऽध्यायः ।। ८४ ।।