प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०८३

← अध्यायः ८२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८३
[[लेखकः :|]]
अध्यायः ८४ →

अथ त्र्यशीतितमोऽध्यायः
नन्द उवाच
वेदानां कारणं त्वं च ब्रह्मादीनां च पुत्रक ।
सर्वं कथय भद्रं ते कं पृच्छामि त्वया विना ।। १ ।।

विप्राणां यो हि धर्मश्च क्षत्रविद्शूद्रकर्मणाम् ।
संन्यासिनां च यो धर्मो यतीनां ब्रह्मचारिणाम् ।। २ ।।

विप्राणां विधवास्त्रीणां वैष्णवानां सतामपि ।
पतिव्रतानां स्त्रीणां च तत्सर्व वक्तुमर्हसि ।। ३ ।।

गृहिणां गृहिणीनां च शिष्याणां च विशेषतः ।
पुत्राणां चापि कन्यानां पितरं मातरं प्रति ।। ४ ।।

स्त्रीजातिश्च कतिविधा भक्तः कतिविधः प्रभो ।
ब्रह्माण्डं च कतिविधं वदनं च किमात्मकम् ।।
किं नित्यं कृत्रिमं किं च ब्रूहि सर्वं क्रमेण च ।। ५ ।।

श्रीभगवानुवाच
संध्यापूतः सदा विप्रः कुरुते मम सेवनम् ।
नित्यं भुङ्कते मत्प्रसादमनिवेद्य कदा च न ।। ६ ।।

अन्नं विष्ठा जलं यद्विष्णोरनिवेदितम् ।
विष्णुप्रसादभोजी च जीवन्मुक्तश्च ब्राह्मणः ।। ७ ।।

नित्यं तपस्यानिरतः शुचिः शान्तश्च शास्त्रवित् ।
व्रततीर्थाश्रितो धर्मी नानाध्यापनसंयुतः ।। ८ ।।

विष्णुमन्त्रं गृहीत्वा च कृत्वा च गुरुसेवनम् ।
गुहीत्वा तदनुज्ञां च पश्चाद्भवति स गृही ।। ९ ।।

दक्षिणां नित्यबूजानां गुरवे च निवेदयेत् ।
गुरूणां पोषणं नित्यं कर्तव्यं नात्र संशयः ।। १० ।।

सर्वेषामपि वन्द्यानां पिता चैव महान् गुरुः ।
पितुः शतगुणैर्माता मातुः शतगुणैः सुरः ।। ११ ।।

मन्त्रदस्तन्त्रदश्चैव सृराणां च चतुर्गुणः ।
नारायणाश्च भगवान्गुरुः प्रत्यक्ष ईश्वरः ।। १२ ।।

उद्देशे दीयते तस्मै सुरायेति श्रुतौ श्रुतम् ।
प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः ।। १३ ।।

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः ।
गुरौ च सर्वदेवाश्च तिष्ठन्ति सततं मुदा ।। १४ ।।

गुरौ तुष्टे हरिस्तुष्टो यस्मिंस्तुष्टे च देवता ।
गुरुः पुत्रसमं स्नेहं शिष्येषु न करिष्यति ।। १५ ।।

लभते ब्रह्महत्यां च भुङ्क्ते कृत्वा च नाऽऽशिषम् ।
स्वधर्मनिरतो विप्रो ब्राह्मणश्च सदा शुचिः ।। १६ ।।

विष्णुसेवी सदा विप्रस्तदन्योऽप्यशुचिः सदा ।
ब्राह्मणो वृषवाहश्च शूद्राणां सूपकारकः ।। १७ ।।

ब्राह्मणो देवलश्चैव संध्याहीनश्च दुर्बलः ।
ब्राह्मणश्च दिवाशायी शूद्रश्राद्धान्नभोजनः ।। १८ ।।

शूद्राणां शवदाही च ते च शूद्रसमा द्विजाः ।
शालग्राममहामन्त्रं कृत्वा पूजां विधानतः ।। १९ ।।

भुङ्क्ते नंवेद्यशेषं च तत्पादोदकमेव च ।
हरेः पादोदकं पीत्वा तीर्थस्नायी भवेन्नरः ।। २० ।।

मुच्यते सर्वपापेम्यो विष्णुलोकं स गच्छति ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।। २१ ।।

शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ।
गङ्गाजलाद्दशगुणं शालग्रामजलं व्रज ।। २२ ।।

नित्यं भुङ्क्ते च यो विप्रो जीवन्मुक्तः सुरैः समः ।
विप्राणां नित्यकृत्यं च विष्णोर्नैवेद्यभोजनम् ।। २३ ।।

यत्नेन पूजनं तस्य तत्पाजोदकमेवनम् ।
नित्यं त्रिसंध्यं कुरुते भक्त्या च मम पूजनम् ।। २४ ।।

एकादश्यां न भुङ्क्ते च मम वै जन्मवासरे ।
शिवरात्रौ च हे तात श्रीरामनवमीदिने ।। २५ ।।

न च भुङ्क्ते व्रती यो हि जीवन्मुक्तो हि स द्विजः ।
पृथिव्यां यानि तीर्थानि तस्य पादे च तानि च ।। २६ ।।

विप्रपादोदकं पीत्वा तीर्थस्नायी भवेन्नरः ।
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।। २७ ।।

तावत्पुष्करपात्रेषु पिवन्ति पितरो जलम् ।
विष्णुप्रसादभोजी च पवित्रां कुरुते महीम् ।। २८ ।।

तीर्थानि च नरांश्चैव जीवन्मुक्तो हि स द्विजः ।
सर्वतीर्थेषु स स्नातो व्रतानां च फलं लभेत् ।। २९ ।।

पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।
वह्निवायुसमः पूतस्तेजसा भास्करोपमः ।। ३० ।।

यमदूतं यमं चैव स च स्वप्ने न पश्यति ।
वैकुण्ठे मोदते सोऽपि पार्षदो हरिणा सह ।। ३१ ।।

न भवेत्तस्य पातो हि विप्रस्य हरिसेविनः ।
विष्णुमन्त्रोपासकश्य स एव वैष्णवो द्विजः ।। ३२ ।।

ब्राह्मणो वैष्णवः प्राज्ञो न हि तस्मात्परः पुमात् ।
वेदोक्तो वा पुराणोक्स्तन्त्रोक्तो वा ।।
मनुः शुचिः ।। ३३ ।।

विचारतो गृहीत्वा तं शैवः शाक्तश्च वैष्णवः ।
गुरुवक्त्राद्विष्णुमन्त्रोयस्य कर्णे विशत्ययम् ।। ३४ ।।

तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ।
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।। ३५ ।।

भीत्तवा ब्रह्मण्डमखिलं यास्यत्येव हरेः पदम् ।
पूर्वान्सप्त परान्सप्त सप्त मातामहादिकान् ।। ३६ ।।

सोदरानृद्धरेद्भक्तस्तत्प्रसूं तत्प्रसूं तथा ।
जपेन्नारायणक्षेत्रे पुरश्चरणपूर्वकम् ।। ३७ ।।

पुरुषाणां सहस्रं च लीलयाऽ।त्मानमुद्वरेत् ।
मन्त्रग्रहणमात्रेण फलमेतद्व्रजेश्वर ।। ३८ ।।

पुरश्चरणसंपर्कात्पुरुषाणां शतं शतम् ।
ऐकान्तिको वैष्णवश्चपुंसां लक्षं समुद्धरेत् ।। ३९ ।।

क्रिया विष्णुपदे यस्य संकल्पाश्च बहिःकृता ।
द्विजाः सुरा मम प्राणा भक्तः प्राणत्परः प्रियः ।। ४० ।।

विश्वेषु प्रियपात्रेषु न मे भक्तात्परः प्रियः ।
तेजीयांसं गुरुं दृष्ट्वा सर्वत्र रक्षितुं क्षमम् ।। ४१ ।।

कनोति मन्त्रग्रहणं तस्माद्भूयाद्विचक्षणः ।
वयोहीनाज्ज्ञानहीनाद्विद्याहीनात्तथैव च ।।
जातिहीनाद्गुरोर्मन्त्रं गृह्णीयान्न कदाचन ।। ४२ ।।

अशास्त्रार्थ क्षतं मन्त्रं न गुह्णीयात्कदाचन ।
मूर्खादाश्रमहीनाच्च पितुः संन्यासिनस्तथा ।। ४३ ।।

रोगिणो वंशहीनाच्च भार्याहीनात्तथैव च ।
मन्त्रक्षिप्तात्तथा मन्त्रं न गृह्णीयात्कदाचन ।। ४४ ।।

विष्णुमन्त्रं न गृह्णीयाद्विष्णुभक्ति विहीनतः ।
न च शैवान्न शाक्ताच्च गृह्णीयाद्वैष्णवाद्द्विजात् ।। ४५ ।।

वयोहीनात्तथाऽल्पायुर्ज्ञानहीनादपण्डितः ।
विद्याहीनाद्भवेन्मूढो जातिहीनात्क्षयो भवेत् ।। ४६ ।।

मूर्खान्मूर्खो भवेत्सद्यो दुःखी स्वाश्रमहीनतः ।
यशोहानिः पितुश्चैव मृत्युः संन्यासिनस्तथा ।। ४७ ।।

रोगिणो व्याधियुक्तश्च निर्वंशो वंशहीनतः ।
भार्याहीनोऽपि स्त्रीहीनान्मन्त्रक्षिप्ताद्गुरो समः ।। ४८ ।।

विष्णुभक्तिविहीनाच्च भक्तिहीनो भवेन्नरः ।
शैवाच्छाक्ताद्गृहीत्वा च हरौ भक्तिर्न वर्धते ।। ४९ ।।

ब्राह्मणो वैष्णवः शुद्धः पक्वान्नं दातुमीश्वरः ।
पक्वान्नं हरये दातुमक्षमश्चेतरो जनः ।। ५० ।।

ओंकारोच्चारणाद्धोमाच्छालग्रामशिलार्चनात् ।
मह्यं पक्वान्नदानाच्च विप्रादन्यो व्रजेदधः ।। ५१ ।।

उदासीनाद्दूराचारान्न गृङ्णीयान्मनुं सुधीः ।
दैवाद्यदि च गृह्णीयाद्धनहीनो भवेद्ध्रुवम् ।। ५२ ।।

ब्राह्मणानां सदा भक्ष्यं हविष्यं च निरामिषम् ।
आमिषस्य परित्यागात्सूर्यंवत्तेजसा भवेत् ।। ५३ ।।

नित्यं नूतनभाण्डेन कर्तव्यः पाक एव च ।
अथवा पक्षपर्यन्तं ततस्त्याज्यं मनीथिभि। ।। ५४ ।।

स्थानं सुसंस्कृतं कृत्वा पाकं निर्वृ त्य पूजकः ।
स्थाने परिष्कृते विप्रो दत्त्वा मह्यं च भक्तितः ।। ५५ ।।

तदा निवेद्य भुङ्क्ते च दत्त्वा विप्राय सादरम् ।
अनिवेद्य च भुक्त्त्वा च सुरापीतिर्भवेद्द्विजः ।। ५६ ।।

चन्द्रसूर्येपरागे वै चाऽऽशौचे मृतजातयोः ।
स्पृष्टेनाशुचिना सद्याः पाकभाण़्डं परित्यजेत् ।। ५७ ।।

भृष्टं द्रव्यं तथाऽन्नं च धृत्वा धौते च वाससी ।
पादप्रक्षालनं कृत्वा भुङ्कते स्थानो परिष्कृते ।। ५८ ।।

द्विर्भोजनं न कर्तव्यं स्थिते सूर्ये द्विजातिभिः ।
निष्फलं तद्भवेत्कर्म भुक्त्वा च नरकं व्रजेत् ।। ५९ ।।

यात्रां युद्वं नदीतीरं पुनर्भोजनमैथुने ।
वर्जंयेच्छ्राद्धदिवसे हविष्याशी च संयमी ।। ६० ।।

द्विजाय विष्णुभक्ताय पात्रं दद्याद्वुधाय च ।
वृषलीपतये चैव न दद्याय्छूद्रयाजिने ।। ६१ ।।

संध्याहीनाय दुष्टाय वृषवाहाय यत्नतः ।
शुक्रविक्रयिणे चैव देवलाय कदाचन ।। ६२ ।।

प्रदत्तं पात्रमेतेभ्यो ब्राह्मणं नरकं नयेत् ।
पात्रे भुक्तवा तद्दिवसे मैथुनान्नरकं व्रजेतु ।। ६३ ।।

सर्वेभ्यः पातकी तात कन्याविक्रयकारकः ।
मून्यं गृहीत्वा यो दद्यात्स महारौरवं व्रजेत् ।। ६४ ।।

कन्यालोमप्रमाणान्तं वर्षं च पितृभिः सह ।
कुम्भीपाके पच्यते च पुत्रश्चापि पुरोहितः ।। ६५ ।।

तस्मात्कन्यां सुपात्राय दानं कुर्याद्विचक्षणः ।
शूद्रवद्ब्राह्मणेभ्यश्च नैव तद्वंशचाय च ।। ६६ ।।

विप्रवैष्णवयोर्धर्मः कथितश्च व्रजेश्वरः ।
यदुक्तं च पुराणैश्च चतुर्भिः श्रुतिभिस्तथा ।। ६७ ।।

द्विजार्चनं क्षत्रियाणां तथा नारायणार्चनम् ।
राज्यानां पालनं चैव रणे निर्भयता तथा ।। ६८ ।।

नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम् ।
पुत्रतुल्यं प्रजानां च दुःखिनां परिपालनम् ।। ६९ ।।

शस्त्रास्त्राणां च नैपुण्यं रणे शौण्डीर्यमेव च ।
तपश्च धर्मकृत्यं च यत्नतः कुरुते मुदा ।। ७० ।।

पण्डितं नीतिज्ञास्त्रज्ञं नित्यं च परिपालयेत् ।
नियोजयेत्सभामध्ये नित्यं सद्भिश्च संयुते ।। ७१ ।।

हस्त्यश्वरथपादातं सेनाङ्गं च चतुष्टयम् ।
पालयेद्यत्नतो नित्यं यशस्वी च प्रतापवान् ।। ७२ ।।

रणे निमन्त्रितश्चैव दाने न विमुखो भवेत् ।
रणे वा यस्त्यजेत्प्राणांस्तस्य स्वर्गो यशस्करः ।। ७३ ।।

वैश्यानामपि वाणिज्यमीश्वरः कृषिपालने ।
विप्रदेवार्चनं दानं तपस्या व्रतसेवनम् ।। ७४ ।।

विप्राणामर्चनं नित्यं शूद्रधर्मो विधीयते ।
तत्कृषी तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत् ।। ७५ ।।

गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।
श्वापदः शतजन्मानि शूदो विप्रधनापहः ।। ७६ ।।

यः शूद्रो ब्राह्मणीगामी मातृगामी स पातकी ।
कृम्भीपाके पच्यते स यावद्वै ब्रह्मणः शातम् ।। ७७ ।।

कुम्भीपाके तप्रतैले भुक्तः सर्पैरहर्निशम् ।
शब्दं च विकृताकारं कुरुते यमताडनात् ।। ७८ ।।

ततश्चाण्डालयोनिः स्यात्सप्तजन्मसु पातकी ।
सप्तजन्मसु सर्पश्च जलौकाः सप्तजन्मसु ।। ७९ ।।

जन्मकोटिसहत्रं च विष्ठायां जायते कृमिः ।
पुंश्चलीनां योनिकृमिः स भवेत्सप्तजन्मसु ।। ८० ।।

गर्वा व्रणकृमिः स्याच्च पातकी सप्तजन्मसु ।
योनौ योनौ भ्रमत्येवं न पुनर्जायते नरः ।। ८१ ।।

संन्यासिनां च यो धर्मो मन्मुखाच्च निशामय।
दण्डग्रहणमात्रेण नरो नारायणो भवेत् ।। ८२ ।।

पूर्वकर्माणि दग्ध्वा च परकर्मनिकृन्तनम् ।
कुरुते चिन्तयेन्मां च ह्यायाति मम मन्दिरम् ।। ८३ ।।

संन्यासिनां पदस्पर्शात्सद्यः पूता वसुंधरा ।
सद्यः पुनन्ति तीर्थानि वैष्णवस्य यथा व्रज ।। ८४ ।।

संन्यासिनश्च स्पर्शेन निष्पापो जायते नरः ।
संन्यासिनं भोजयित्वा चाश्वमेधफलं लभेत् ।। ८५ ।।

नत्वा च कामतो दृष्ट्वा राजसूयफलं लभेत् ।
फलं संन्यासिनां तुन्यं यतीनां ब्रह्मचारिणाम् ।। ८६ ।।

संन्याची याति सायाह्ने क्षुधितो गृहिणां गृहम् ।
सदन्नं वा कदन्नं वा तद्दत्तं नैव वर्जयेत् ।। ८७ ।।

न याचते च मिष्टान्नं न कुर्यात्कोपमेव च ।
न धनग्रहणं कुर्यादेकवासा निरीहतः ।। ८८ ।।

शीतग्रीष्मसमानश्च लोभमोहविवर्जितः ।
तत्र स्थित्वैकरात्रं च प्रातरन्यत्स्थलं व्रजेत् ।। ८९ ।।

यानमानोहणं कृत्वा गृहीत्वा गृहिणो धनम् ।
गृहं कृत्वा गृही रम्यात्स्वधर्मात्पतितो भवेत् ।। ९० ।।

कृत्वा चकृषिवाणिज्यं कुवृत्तिं कुरुते च यः ।
स संन्यासी हृताचारः स्वधर्मात्वतितो भवेत् ।। ९१ ।।

अशुभं च शुभं वाऽपि स्वकर्म कुरुते यदि ।
बहिष्कृतः स्वधर्मो वाऽप्युपहास्यश्च वै भवेत् ।। ९२ ।।

ब्राह्मणी पतिहीना या भवेन्निष्कामिनी सदा ।
एकभुक्ता दिनान्ते सा हविष्यान्नरता सदा ।। ९३ ।।

न धत्ते दिव्यवस्त्रं च गन्धद्रव्यं सुतैलकम् ।
स्रजं च चन्दनं चैव शङ्खसिन्दूरभूषणम् ।। ९४ ।।

त्यक्त्वा मलिनवस्त्रा स्यान्नित्यं नारायणं स्मरेत् ।
नारायणस्य सेवां च कुरुते नित्यमेव च ।। ९५ ।।

तन्नामोच्चारणं शश्वत्कुरुते नान्यभक्तितः ।
पुत्रतुल्यं च पुरुषं सदा पश्यति धर्मतः ।। ९६ ।।

मिष्टान्नं न च भुङ्क्ते सा न कुर्याद्विभवं व्रज ।
एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने ।। ९७ ।।

श्रीरामस्य नवम्यां तु शिवरात्रौ पवित्रया ।
अघोरायां च प्रेतायां चन्द्रसूर्योपरागयोः ।। ९८ ।।

भृष्टं द्रव्यं परित्यज्य भुज्यते परमेव च ।
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचानिणाम् ।। ९९ ।।

संन्यासिनां च सौमांससुरातुल्यं श्रुतौ श्रुतम् ।
रक्तशाकं मसूरं च जम्बीरं पर्णमेव च ।। १०० ।।

अलाबुर्वर्तुलाकारा वर्जनीया च तैरवि ।
पर्यङ्कशायिनी नारी विधवा पातयेत्पतिम् ।। १०१ ।।

यानमारोहणं कृत्वा विधवा नरकं व्रजेत् ।
न कुर्यात्केशसंस्कारं गात्रसंस्कारमेव च ।। १०२ ।।

केशवेणी जटारूपे तत्क्षौरं तीर्थकं विना ।
तैलाभ्यङ्गंन कुर्वीत नहि पश्यति दर्पणम् ।। १०३ ।।

मुखं च परपुंसां च यात्रां नृत्यं महोत्सवम् ।
नर्तनं गायनं चैव सुवेषं पुरुषं शुभम् ।। १०४ ।।

शृणुयाच्च सतां धर्म सामवेदनिरूपितम् ।
परमार्थ परं चैव निबोध कथयामि ते ।। १०५ ।।

अध्यापनमध्यानं शिष्याणां परिपालनम् ।
गुरुणां सेवनं नित्यं द्विचदेवार्चनं तथा ।। १०६ ।।

सिद्धान्तशास्त्रनैपुण्यं भावनं स्वात्मतोषणम् ।
व्याख्यानं परिशुद्धं च ग्रन्थाभ्यस्तं च संततम् ।। १०७ ।।

प्यवस्थापरिशुद्ध्यर्थ विचारो वेदसंमतः ।
शास्त्रार्थाचरणं चैव कतध्यं स्वयमेव च ।। १०८ ।।

देवाह्निकेषु नैपुण्यं वेदाचरणमीप्सितम् ।
वेदोक्तभक्षणं चैव पवित्राचरणं सदा ।। १०९ ।।

पतिव्रतानां यं धर्म तं निबोध व्रजेश्वर ।
नित्यंतु भर्तर्यौत्सुक्यात्तत्पादोदकमीप्सितम् ।। ११० ।।

भक्तिभावेन सततं भोक्तव्यं तदनुज्ञया ।
व्रतं तपस्यां देवार्चां परित्यज्य प्रयत्नतः ।। १११ ।।

कुर्याच्चरणसेवां च स्तवनं परितोषणम् ।
तदाज्ञारहितं कर्म न कुयद्विरैतः सती ।। ११२ ।।

नारायणात्परं कान्तं ध्यायते सततं सती ।
परपुंसां मुखं चैव सुवेषपुरुषं परम् ।। ११३ ।।

यात्रामहोत्सवं नृत्यं नर्तनं गायनं व्रज ।
परक्रीडां च सततं न हि पश्यति सुव्रता ।। ११४ ।।

यद्भक्ष्यं स्वामिनो नित्यं तदेवमपि योषिताम् ।
नहि त्यजेत्तु तत्सङ्गं क्षणमेव च सुव्रता ।। ११५ ।।

उत्तरे नोत्तरं दद्यात्स्वामिनश्य पतिव्रता ।
न कोपं कुरुते शुद्वा ताडिता चापि कोपतः ।। ११६ ।।

क्षुधितं भोजयेत्कान्तं दद्यात्पानं च भोजनम् ।
न बोधयेत्तं निद्रालुं प्ररेयेन्नैव कर्मसु ।। ११७ ।
पुत्राणां च शतगुणं स्नेहं कुर्यात्पतीं सती ।
पतिर्बन्धुर्गतिर्भर्ता दैवतं कुलयोषितः ।। ११८ ।।

शुभं दृष्ट्वा सुधातुल्यं कान्तं पश्यति सुन्दरी ।
सस्मितं वदनं कृत्वा भक्तिभावेन यत्नतः ।। ११९ ।।

पुरुषाणां सहस्रं च सती स्त्री च समुद्धरेत् ।
पतिः पतिव्रतानां च मुच्यते सर्वपातकात् ।। १२० ।।

नास्ति तेषां कर्मभोगः सतीनां व्रततेजसा ।
तया सार्धं च निष्कर्मी मोदते हरिमन्दिरे ।। १२१ ।।

पृथिव्यां यानि तीर्थानि सतीपादेषु तान्यपि ।
तेजश्च सर्वदेवानां मुनीनां च सतीषु च ।। १२२ ।।

तपस्विनां तपः सर्वं व्रतिनां यत्फलं व्रज ।
दाने फलं यद्दातणां तत्सर्व तासु संततम् ।। १२३ ।।

स्वयं नारायणः शंभुर्विधाता जगतामपि ।
सुराः सर्वे च मुनयो भीतास्ताभ्यां च संततम् ।। १२४ ।।

सतीनां पादरजसा सद्यः पूता वसुंधरा ।
पतिव्रतां नमस्कृत्वा मुच्यते पातकान्नरः ।। १२५ ।।

त्रैलोक्यं भस्मसात्कर्तुं क्षणेनैव पतिव्रता ।
स्वतेजसा समर्था सा महापुण्यवती सदा ।। १२६ ।।

सतीनां च पतिः साधुः पुत्रो निःशंक एव च ।
न हि तस्य भयं किंचिद्देवेभ्यश्च यमादपि ।। १२७ ।।

शतजन्मपुण्यवतां गेहे जाता पतिव्रता ।
पतिव्रताप्रसूः पूता जीवन्मुक्तः पिता तथा ।। १२८ ।।

सती स्त्री प्रातरुत्थाय त्यक्त्वा च रात्रिवाससम् ।
भर्तारं च नमस्कृत्य करोति स्तवनं मुदा ।। १२९ ।।

गृहकार्यं ततः कृत्वा स्नात्वा धौते च वाससी ।
गृहीत्वा शुक्लपुष्पं च भक्तितः पूजयेत्पतिम् ।। १३० ।।

स्नापयित्वा सुपूतेन जलेन निर्मलेन च ।
तस्मै दत्त्वा धौतवस्त्रं तत्पादौ क्षालयेन्मुदा ।। १३१ ।।

आसने वासयित्वा च दत्त्वा भाले च चन्दनम् ।
सर्वाङ्गलेपनं कृत्वा दत्त्वा माल्यं गलेऽपि च ।। १३२ ।।

सामवेदोक्तमन्त्रेण भोगद्रव्यैः सुधोपमैः ।
संपूज्य भक्तितः कान्तं स्तुत्वा च प्रणमेन्मुदा ।। १३३ ।।

ओं नमः कान्ताय शान्ताय सर्वदेवाश्रयाय स्वाहा ।
इत्यनेनैव मन्त्रेण दत्त्वा पुष्पं च चन्दनम् ।। १३४ ।।

पाद्यार्ध्यं धूपदीपौ च वस्त्रं नैवेद्यमुत्तमम् ।
जलं सुवासितं शुद्धं ताम्बूलं च सुवासितम् ।। १३५ ।।

दत्त्वा स्तोत्रं पठेद्यद्यत्कृतं वै पाठ्यमेव च ।
ओं नमः कान्ताय भर्त्रे च शिरश्चन्द्रस्वरूपिणे ।। १३६ ।।

नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च ।
नमो ब्रह्मस्वरूपाय सतीप्राणपराय च ।। १३७ ।।

नमस्याय च पूज्याय हृदाधाराय ते नमः ।
पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च ।। १३८ ।।

ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे ।
पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः ।। १३९ ।।

पतिश्च निर्गुणाधारो ब्रह्मरूप नमोऽस्तु ते ।
क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतं च यत् ।। १४० ।।

पत्नीबन्धो दयासिन्धो दासीदोषं क्षमस्व मे ।
इदं स्तोत्रं महापुण्यं सृष्ट्यादौ पद्मया कृतम् ।। १४१ ।।

सरस्वत्या च धरया गङ्गया च पुरा व्रज ।
सावित्र्या च कृतं पूर्वं ब्रह्मणे चापि नित्यशः ।। १४२ ।।

पार्वत्या च कृतं भक्त्या कैलासे शंकराय च ।
मुनीनां च सुराणां च पत्नीभिश्च कृतं पुरा ।। १४३ ।।

पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् ।
इदं स्तोत्रं महापुण्यं या श्रृणोति पतिव्रता ।। १४४ ।।

नरोऽन्यो वाऽपि नारी वा लभते सर्ववाञ्छितम् ।
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ।। १४५ ।।

रौगी च मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत् ।। १४६ ।।

फलं च सर्वं तपसां व्रतानां च व्रजेश्वर ।
इदं स्तुत्वा नमस्कृत्वा भुङ्क्ते सा तदनुज्ञया ।।
उक्तः पतिव्रताधर्मो गृहिणां श्रुयतां व्रज ।। १४७ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तंo नारदानाo भगवन्नन्दसंo
त्र्यशीतितमोऽध्यायः ।। ८३ ।।