प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८५ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८६
[[लेखकः :|]]
अध्यायः ८७ →

अथ षडशीतितमोऽध्यायः
नन्द उवाच
केदारकन्याप्रस्तावात्कथितं कर्मकीर्तनम् ।
कृत्यास्त्रीणां प्रसङ्गेन तद्व्यासेन वद प्रभो ।। १ ।।

केदारकन्या सा का वा को वा केदारभूपतिः ।
कस्य वंशेचतज्जन्म तन्मे व्याख्यातुमर्हसि ।। २ ।।

श्रीकृष्ण उवाच
पुरातु ब्रह्मणाः पुत्रो मनुः स्वांयभुवस्तथा ।
तस्य स्त्री शतरूपा च धन्या मान्या च योषिताम् ।। ३ ।।

प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः ।
उत्तानपादपुत्रश्च ध्रुव एव महायशाः ।। ४ ।।

तत्पुत्रो नन्दसावर्णिः केदारश्च तदात्मजः ।
सप्तद्वीपपतिः श्रीमान्केदारो वैष्णवः स्वयम् ।। ५ ।।

तस्य रक्षानिमित्तेन सत्सभायां सुदर्शनम् ।
गवां लक्षं शुद्धं स्वर्णशृङ्गं च भूषितम् ।। ६ ।।

वह्निशुद्धानि वस्त्राणि दत्तानि वरुणेन च ।
सुवर्णानां तथा लक्षं सर्वसस्यां वसुंधराम् ।। ७ ।।

मणिरत्नं च मुक्ताश्च हीरकं परमं तथा ।
माणिक्यामश्वरत्नानां लक्षं लक्षं चहस्तिनाम् ।। ८ ।।

रौप्यं प्रवालं मिष्टान्नं शतधान्याचलं वरम् ।
नित्यं नित्यं ब्राह्मणेम्यो ददौ च रत्नभूषणाम् ।। ९ ।।

शतलक्षं ब्राह्मणानां भोजयामास नित्यशः ।
जलभोजनपात्राणि सुवर्णानां ददौ नृपः ।। १० ।।

सुवर्णानां यज्ञसूत्रमङ्गुलीयकमुत्तमम् ।
आसनं स्वर्णरत्नानां ब्राह्मणेभ्यो ददौ मुदा ।। ११ ।।

ब्राह्मणानां च लक्षं च सूपकारं नृपस्य च ।
ब्राह्मणानां द्विलक्षं च परिवेषणकारकम् ।। १२ ।।

घृतकुल्या मधुकुल्या दधिकुल्या मनोहराः ।
गुडकुल्या दुग्धकुल्या नित्यं प्रार्थनमीप्सितम् ।। १३ ।।

प्रातरारभ्य संध्यान्तं विप्राणां भोजनं तथा ।
दुःशिनां भिक्षुकाणां च धनदानं यथोचितम् ।। १४ ।।

फलमूलाशनो राजा वैष्णवश्च जितेन्द्रियः ।
सर्व मदर्पणं कृत्वाऽजपन्मां च दिवानिशम् ।। १५ ।।

एकदा सूपकारश्च तमुवाच नृपेश्वरम् ।
विप्राणां भोजनायैव दशलक्षमुपस्थितम् ।। १६ ।।

भुञ्जते ब्राह्मणाश्चाद्य रूक्षमन्नं वद प्रभो ।
कुर्वन्तु भक्षणं ते वै विप्राः सूपादिना नृप ।। १७ ।।

चतुर्योजनपर्यन्तमधिकारो नृपस्य च ।
यो राजा तच्छतसुणः स एव मण्डलेश्वरः ।। १८ ।।

तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्तितः ।
राजेन्द्राणां पञ्चलक्षं नित्यं केदारसंसदि ।। १९ ।।

अमूल्यरत्नमाणिक्यं मुक्ताहीरं मणीश्वरम् ।
गजरत्नमश्वरत्नं केदाराय करं ददौ ।। २० ।।

कमलाकलया जाता यज्ञकुण्डसमुद्भवाः ।
वह्रिशुद्धांसुकाधाना रत्नभूषणभूषिता ।। २१ ।।

कामुकी कामिनीश्रेष्ठा कन्या कमललोचना ।
कन्याऽस्मि ते महाराजेत्युवाच नृपतिं च सा ।। २२ ।।

राजा संपूज्य तां भक्त्या तस्थौ पत्नींसर्प्य च ।
सा विज्ञाय प्रसूं तातं कृत्वा च विनयं सुदा ।। २३ ।।

ययौ पुण्यवनं रम्यं तपसे यमृनान्तिकम् ।
तत्तपस्यावनं यस्मात्तस्माद्दृन्दावनं स्मृतम् ।। २४ ।।

तपसा वरयामास मां वरं च वरं वरम् ।
ब्रह्मा ददौ वरं तस्यै पश्यात्कृष्णं लभेष्यसि ।। २५ ।।

स चैकदा नदीतीने वसन्ते सस्मिता सती ।
शयाना पुष्पशय्यायां रत्नाभरणभूषिता ।। २६ ।।

ब्रह्मा परीक्षितुं यातःसाध्वीं च सुमनोहराम् ।
ददर्श कन्या रहसि युवानं पुरुषं परम् ।। २७ ।।

चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।
सस्मीतं कामुकं रम्यं रमणीनां च वाञ्छितम् ।। २८ ।।

यथा षोडशवर्षीयं कुमारं कनकप्रभम् ।
कोटिकन्दर्पलीलाभं वीताम्बरधरं वरम् ।। २९ ।।

शरत्पार्वणाचन्द्रास्यं शरत्पद्मसुलोचनम् ।
दृष्ट्वा तं च समुत्थाय वासयामास संनिधौ ।। ३० ।।

पूजां चकार भक्त्या च फलं मूलं ददौ मुदा।
सुवा सितं जलं दत्त्वा प्रणनाम मुदाऽन्विता ।। ३१ ।।

पूजां गृहीत्वा मुदितः सादरं तामुवाच ह ।
विप्ररूपी च भगवान्प्रज्वलन्ब्रह्मातेजसा ।।
कामुकीनां च काम्यं च सतीनां दुष्करं व्रज ।। ३२ ।।

धर्म उवाच
भवती कस्य कन्या वा किं ते नाम मनोहरे ।
किं करोषि रहस्येव तन्मे कथितुमर्हसि ।। ३३ ।।

कस्य हेतोस्तपस्या ते किं वा वाञ्छसि सुन्दरि ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम् ।। ३४ ।।

वृन्दोवाच
विप्र केदारकन्याऽहं वृन्दा वृन्दावने स्थिता ।
तपः करोमि रहसि चिन्तयामि हरिं पतिम् ।। ३५ ।।

यदि दातुं समर्थोऽसि देहि मे वाञ्छितं वरम् ।
असमर्थोऽसि चेद्गच्छ किं ते प्रश्नेन ब्राह्मण ।। ३६ ।।

धर्म उवाच
निरीहमदितर्क्यं च परमात्मानमीश्वरम् ।
निर्गुणं च निराकारं भक्तानुग्रहविग्रहम् ।। ३७ ।।

का क्षमा तं पतिं कर्तुं विना लक्षमीं सरस्वतीम् ।।
चतुर्भुजस्य द्वे भार्ये हरेर्वैकुण्ठशाथिनः ।। ३८ ।।

गोलोके द्विभुजस्यापि श्रीवंशीवदनस्य च ।
किशोरगोपवेषस्य परिपूर्णतमस्य च ।। ३९ ।।

तस्य भार्या स्वयं राधा महालक्ष्मीः परात्परा ।
ब्रह्मस्वरूपा परमा परमात्मानमीश्वरम् ।। ४० ।।

भजते सततं शान्तं सुरम्यं श्यामसुन्दरम् ।
कोटिकन्दर्पसौन्दर्यनिन्दितं सुकलेवरम् ।। ४१ ।।

अमूल्यरत्नाभरणं सत्यं च नित्यविग्रहम् ।
पीताम्बरधरं रम्यं दातारं सर्वसंपदाम् ।। ४२ ।।

श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः ।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।। ४३ ।।

यन्निमेषो भवेद्वृन्दे ब्रह्मणः पततेन च ।
पञ्चविंशत्सहस्रेणा युगेनेन्द्रस्य पातनम् ।। ४४ ।।

चतुर्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् ।
तावतीति निशा तस्य विधातुर्जगतामपि ।। ४५ ।।

एवं त्रिंशद्दिनैर्मासं द्विषट्के मासि वर्षकम् ।
एवं शतायुस्तस्यैव निबोध बोधतत्परम् ।। ४६ ।।

यावज्जीवनपर्यन्तं सेवन्ते सनकादयः ।
कल्पानां कोटिकोटिं च तन्न साध्याश्चयो विभुः ।। ४७ ।।

सहस्रवक्त्रः शेषश्च सेवते च जपन्सदा ।
दिवानिशं च यं भक्त्या कल्पकोटिशतं शतम् ।। ४८ ।।

तन्न साध्यो हितकरो दुराराध्यः परात्परः ।
ब्रह्मा ब्रह्मास्वरूपं तं भजेज्जन्मनि जन्मनि ।। ४९ ।।

वक्त्रैश्चतुर्भिः सततं स्तौति नित्यं सनातनम् ।
वेदेऽनिर्वचनीयश्च वेदानां जनको विधिः ।। ५० ।।

विधाता फलदाता च दाता च सर्वसंपदाम् ।
तन्न साध्यो हि भगवान्कालकालान्तकः ।। ५१ ।।

संहारकर्ता जगतां कलया रुद्ररूपतः ।
स स्तौति पञ्चवक्त्रेण कोऽन्योऽन्यस्यापि का कथा ।। ५२ ।।

तत्परश्च प्रियो नास्ति वृन्दे भगवातः शृणु ।
सर्वशक्तिस्वरूपा सा दुर्गा दुर्गतिनाशिनी ।। ५३ ।।

ब्रह्मस्वरूपा परमा मूलप्रकृतिरीश्वरी ।
नारायणी विष्णुमाया वैष्णवी सा सनातनी ।। ५४ ।।

यन्मायया जगद्भ्रान्तमनित्ये भ्रमते सदा ।
सा स्तौति भक्त्यायं देवं वृन्देऽयङ्गे.दिवानिशम् ।। ५५ ।।

स्तौति भक्त्या स्वशक्त्या च गजवक्त्रः षडाननः ।
ध्यायते यं गणेशश्च सर्वादौ यस्य पूजनम् ।। ५६ ।।

भगवान्सर्वदेवेशो ज्ञानिनां च गुरोर्गुरुः ।
सिद्वेन्द्रेषु च देवेन्द्रे योमीन्द्रे ज्ञानिनां गुरौ ।। ५७ ।।

न गणेशात्परो विद्वान्गणेशश्च सुराधिपः ।
सरस्वती च यं स्तोतुमशक्ता परमेश्वरी ।। ५८ ।।

दिवानिशं पादपद्मं भक्त्या पद्मा निषेवते ।
यत्कटाक्षाज्जगत्सर्व परिपूर्णतमं शिवम् ।। ५९ ।।

यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु ।। ६० ।।

पृथिवी सेवया यस्य सर्वाधारा वसंधरा ।
समृद्रा निश्चलाः शैला यस्य भीताश्च सुन्दरि ।। ६१ ।।

तीर्थसारा च सा गङ्गा पवित्रा मुक्तिदायिनी ।
जगतां पावनी देवी यस्य पादाब्जसेवया ।। ६२ ।।

पवित्रा तुलसी देवी स्मरणाद्यस्य सेवनात् ।
नवग्रहाश्च दिक्पाला भीता यस्य प्रतापतः ।। ६३ ।।

ब्रह्मण्डेषु च सर्वेषु ब्रह्मविष्णुशिवात्मकाः ।
अन्ये ये ये सुरेशाश्च शेषाद्या मुनयस्तथा ।। ६४ ।।

केचित्कलास्वरूपाश्चाप्यंशरूपाश्च केचन ।
केचित्कलांशाः कृष्णस्य केचिच्च परमात्मनः ।। ६५ ।।

पतिमिच्छसि कल्याणि प्रकृतेः परमीश्वरम् ।
गोलोके राधिका साध्यो नान्येषां च कदाचन ।। ६६ ।।

मां भजस्व महाभागे नृपाणामीश्वरं पतिम् ।
बलवन्तं च देवेभ्यो दैत्येभ्यश्च वरानने ।। ६७ ।।

सुखानि यानि कल्याणि त्रिषु लोकेषु सन्ति वै ।
भुङ्क्ष्व तान्येव सर्वाणि मत्प्रसादान्न संशयः ।। ६८ ।।

सप्तसागलपारे च काञ्चनी रुचिरा वरे ।
देवानां क्रीडनार्थाय विधात्रा निर्मिता पुरी ।। ६९ ।।

तत्रैव गच्छभद्रं ते रम रामे मया सह ।
महेन्द्रस्य प्रियवनं पुष्पोद्यानसमन्वितम् ।। ७० ।।

गच्छ स्वर्णमयीं लङ्कां नानारत्नविभूषिताम् ।
तत्रैव गच्छ भद्रं ते रमo ।। ७१ ।।

विस्पन्दकं सुवसनं नन्दकं पुष्पभद्रकम् ।
तत्रैव गच्छ भद्रं ते रमo ।। ७२ ।।

सुमेरुगह्वरं वाऽपि क्षीरोर्द वा मनोहरम् ।
तत्रैव गच्छ भद्रं ते रमo ।। ७३ ।।

सत्यलोकं ब्रह्मलोकं रम्यं सद्म रहःस्थलम् ।
तत्रैव गच्छ भद्रं ते रमo ।। ७४ ।।

मलये निलयं रम्यं रत्नेन्द्रसारनिर्मितम् ।
सुगन्धियुक्तं सततं शुद्धं चन्दनवायुना ।। ७५ ।।

मालती यूथिका रम्या केतकी माधवी तथा ।
चारुचम्पकपुष्पाणां गन्धेन सुमनोहरम् ।। ७६ ।।

पिकानां भ्रमराणां च मधुरध्वनिसंयुतम् ।
तत्रैव गच्छ भद्रं ते रमo ।। ७७ ।।

इन्द्रस्य वरुणास्यैव वायोरपि यमस्य च ।
धनेश्वरस्य बह्रेश्च धर्मस्य शशिनस्तथा ।। ७८ ।।

सुरम्यं लोकमेतेषां मध्ये तेवि यथेच्छसि ।
तत्रैव गच्छ भद्रं ते रमo ।। ७९ ।।

रत्नद्वीपं मणिद्वीपं रम्यं चन्द्रसरोवरम् ।
तत्रैव गच्छ भद्रं ते रमo ।। ८० ।।

इत्येवमुक्त्वा संभोक्तुं गच्छन्तं तं छलेन च ।
न वास्तवपरीक्षार्थं सतीत्वं बोधितुं व्रज ।। ८१ ।।

उवाच सा नृपसुता कोपवक्त्रास्यलोचना ।
हितं सत्यं योगयुक्तं धर्मार्थं च यशस्करम् ।। ८२ ।।

वृन्दोवाच
धैर्य कुरु महाभाग श्रेष्ठो जातिषु ब्रह्मणः ।
ब्रह्मणानां तपो मूलं सत्यं वेदव्रतं धृतिः ।। ८३ ।।

परस्त्रीसहसंभोगः स्वभावश्चाप्यधर्मिणाम् ।
अधर्मेणैव हे विप्र दुष्टोऽभद्राणि पश्यति ।। ८४ ।।

ततः सपत्ने जयति समूलस्थो विनश्यति ।
पतिव्रतानां गमने बलात्कारेण निश्चितम् ।। ८५ ।।

मातृगामी भवेत्सद्यो ब्रह्महत्याशतं भवेत् ।
कुम्भीपाके पच्यते च यावच्चन्द्रदिवाकरौ ।। ८६ ।।

प्रदग्धस्तैलतप्तेषु न मृतः सूक्ष्मदेहतः ।
ताडितो यमदूतैश्च लोहदण़्डेन मूर्धनि ।। ८७ ।।

क्षणं सुखं चिरं दुःखं सर्वनाशस्य कारणम् ।
अगम्यागमनं दुःखं धर्मिष्ठो नैव वाञ्छति ।। ८८ ।।

क्षमस्वगच्छ भद्रं ते ब्राह्मण ज्ञानदुर्बल ।
यथा दीपशिखां दृष्ट्वा कीटः पतति निश्चितम् ।। ८९ ।।

मिष्टं दृष्ट्वा बडीशाग्रे लुब्धमीनो मृगो यथा ।
यथा विषाक्तं भक्ष्यं च भुङ्क्ते भोक्ता बुभुक्षितः ।। ९० ।।

गृह्णाति दुष्टो दुष्टं च विषकुम्भं पयोमुखम् ।
तथा दृष्ट्वा परस्त्रीणां मुखपद्मं मनोहरम् ।। ९१ ।।

विनाशबीजं मोहेन भ्रान्तो भवति लम्पटः ।
मुखं च रुचिरं स्त्रीणां श्रोणियुग्मं मनोहरम् ।। ९२ ।।

कामाधारं नाशबीजमधर्मस्थलमेव च ।
भगं नरककुण्डं च लालामूत्रसमन्वितम् ।। ९३ ।।

दुर्गन्धियुक्तं पापं च यमदण्डस्य कारणम् ।
यथा लिङ्गं विशत्येव पापयोनौ च योषिताम् ।। ९४ ।।

तथा पुमान्विशत्येव रौरवे च युगे युगे ।
रहस्यं चाऽऽपदं दृष्ट्वा मां तवं धर्षितुमिच्छसि ।। ९५ ।।

अत्रैव सर्वदेवाश्च लोकपालाश्च ब्राह्मणा ।
जाज्वल्यमानो धर्मश्च साक्षी शास्ता च कर्मणाम् ।। ९६ ।।

यमश्च दण़्डकर्ता च स्थापितो हरिणा स्वयम् ।
स्वयं कुष्णश्च धर्मात्मा ज्ञानरुपो महेश्वरः ।। ९७ ।।

दुर्गा बुद्धिर्मनो ब्रह्म चेन्द्रियाणि सुरास्तथा ।
सर्वप्राणिषु तिष्ठन्ति साक्षिणाः कर्मणां द्विज ।। ९८ ।।

क्व गुप्तं क्व रहस्यं वा ब्रह्मण ज्ञानदुर्बल ।
क्षमस्व गच्छ भद्रं ते अवध्याश्च द्विजातयः ।। ९९ ।।

शक्ताऽहं भमसात्कर्तुं गच्छ वत्स यथासुखम् ।
तपस्यासु मम गतमष्टोत्तरशतं युगम् ।। १०० ।।

नास्ति गोर्त्र मत्पितुश्च न माता न पिता मम ।
सर्वान्तरात्मा भगवान्कृष्णो रक्षति मां द्विज ।। १०१ ।।

कृष्णेन स्थापितो धर्मो मां च रक्षति नित्यशः ।
आदित्यश्च तथा चन्द्रः पवनश्च हुताशनः ।। १०२ ।।

ब्रह्मा शंभुर्भगवती दुर्गा रक्षति मां सदा ।
येन शुक्लीकृता हंसाः शुकाश्च हरिताः कृताः ।। १०३ ।।

मयूराश्चित्रिता येन स मे रक्षां करिष्यति ।
अनाथबालवृद्धानां रक्षकाः सर्वदेवताः ।। १०४ ।।

नारीबुद्व्या न मां धर्मस्त्यक्त्वा गच्छेद्धि सर्वदा ।
मां मातरं परित्यज्य गच्छ वत्स यथासुखम् ।। १०५ ।।

इत्येवमुक्त्वा देवी सा तस्थौ तत्र धरा यथा ।
आगच्छन्तं च संभोक्तुं मा यान्तं बोधनेन च ।। १०६ ।।

शशापेति च सा कोपाद्ब्रह्मपन्धो क्षयो भव ।
क्षयो भव दुराचार हे पापिष्ठ क्षयो भव ।। १०७ ।।

पुनः शप्तं स्वयं सूर्यो वारयामास यत्नतः ।
एतसिमन्नन्तरे तात तत्रव जगदीश्वराः ।। १०८ ।।

आजग्मुरतिसंत्रस्ता ब्रह्मविष्णुशिवादयः ।
धर्म दृष्ट्वा कलारूपं रुरुदुस्त्रिदशेश्वराः ।। १०९ ।।

कृत्वा क्रोडेऽतीव कृशं कुह्वा भीतं यथा विधुम् ।
निश्चेष्टं मलिनं दग्धं सतीकोपाग्निना व्रज ।। ११० ।।

श्रीभवानुवाच
क्षमस्व वृन्दे मद्भक्ते जन्ममृत्युजराहरे ।
धर्म जीवय मद्भक्तं रक्ष धर्म पतिव्रते ।। १११ ।।

ब्रह्मोवाच
ध्वान्तपूर्ण जगत्सर्दं विना धर्म बभूव ह ।
कम्पितौ चन्द्रसूर्यौ च शेषश्चापि वसुंधरा ।। ११२ ।।

महदेव उवाच
प्रनष्टं च जगत्सर्वं विना धर्मेण सुन्दरि ।
धर्मं जीवय भद्रं ते स्वस्ति तेऽस्तु वरानने ।। ११३ ।।

सूर्य उवाच
वरं वृष्णीष्व भद्रं ते यत्ते मनसि वाञ्छितम् ।
धर्मं जीवय भद्रं ते रक्ष सृष्टिं पतिव्रते ।। ११४ ।।

अनन्त उवाच
धर्मं करोषि तपसा कथं धर्मं विहसि च ।
धर्मं जीवय भद्रं ते सर्वधर्मो भवेत्तव ।। ११५ ।।

चन्द्र उवाच
द्विजरूपधरो धर्मस्त्वां परीक्षितुमागतः ।
ब्रह्मणा प्रेरितश्चैव निर्दोषश्च विहिंसितः ।। ११६ ।।

महेन्द्र उवाच
तपसोपान्जितो धर्मो धर्मेण च फलं नृपाम् ।
कथं फलं च तपसां यदि धर्मः क्षयं गतः ।। ११७ ।।

वरुण उवाच
धर्मं जीवय धर्मिष्ठे धर्मं रक्ष सनातनम् ।
निष्फलं कर्मिणां कर्म विना धर्मेणा धार्मिके ।। ११८ ।।

पवन उवाच
जगत्पूतं कुरु शुभे धर्मं जौवय सांप्रतम् ।
धर्मे प्रनष्टे तपसां तवापूर्वं विनङ्क्ष्यति ।। ११९ ।।

वह्निरुवाच
स्वधर्मोपार्जनं कर्तुमागताऽसि च भारतम् ।
विहंसि धर्ममज्ञात्वा पुनर्जीवय सुन्दरि ।। १२० ।।

यम उवाच
वेदोक्तकर्मकर्तणासहं विश्वे वरानने ।
धर्मानुसारात्फलदो धर्म जीवय सत्वरम् ।। १२१ ।।

देवानां वचनं क्षुत्वा समुत्थाय पतिव्रता ।
नमस्कृत्य सुरेशांश्चतानुवाच तपस्विनी ।। १२२ ।।

वृन्दोवाच
अहं देवा न जानामि धर्मं ब्राह्मणरूपिणम् ।
कृतः क्षयो मया कोपान्मां परीङितुमागतः ।। १२३ ।।

जीवयामि ध्रुवं धर्मं युष्माकं च प्रसादतः ।
इत्येवमुक्त्वा सा वृन्दा चेत्युवाच व्पजेश्वर ।। १२४ ।।

तपः सत्यं यदि मम सत्यं च विष्णुपूजनम् ।
तेन पुण्येन सद्योऽत्र द्विजो भवतु विज्वरः ।। १२५ ।।

यदि मे च भवेत्सत्यं व्रतं सत्यं तपःशुचि ।
तेन पुण्येन सत्येन द्विजो भo ।। १२६ ।।

यदि नारायणः सत्यः सर्वात्मा नित्यविग्रहः ।
ज्ञानात्मकः शिवः सत्यो द्विजो भo ।। १२७ ।।

ब्रह्म सत्यं च ते देवाः प्रकृतिः परमा यदि ।
यज्ञः सत्यस्तपः सत्यं द्विजो भo ।। १२८ ।।

इत्येवमुक्त्वा सा वृन्दा धर्म क्रोडे चकार च ।
तं दृष्ट्वा च कलारूपं रुरोद कृपयासती ।। १२९ ।।

एतस्मिन्नन्तरे मूर्तिर्धर्मभार्या शुचाऽऽकुला ।
निपत्य विष्णुपादे य शिरसा चेत्युवाच सा ।। १३० ।।

मूर्तिरुवाच
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।
तूर्णं जीवय कान्तं मे जगन्नाथ कृपामय ।। १३१ ।।

पतिहीना च या नारी पापिनी सा भवार्णवे ।
यथाऽऽस्यं चक्षुर्विरतं प्राणहीना यथा तनूः ।। १३२ ।।

मितं ददाति हि पिता मितं भ्रादा मितं सुतः ।
मितं बन्धुर्मितं माता सर्वदाता पतिः प्रभुः ।। १३३ ।।

इत्येवमुक्त्वा सा देवी तत्र तस्थौ रुरोद च ।
उवाच वृन्दां णगवान्सर्वात्मा प्रकृतेः परः ।। १३४ ।।

श्रीभगवानुवाच
त्वयाऽऽयुस्तपसा लब्धं यावदायुश्च ब्रह्मणः ।
तदेव देहि धर्माय गोलोकं गच्छ सुन्दरि ।। १३५ ।।

तन्वाऽनया च तपसा पश्चान्मां च लभिष्यसि ।
पश्चाद्गोलोकमागत्य वाराहे च वरानने ।। १३६ ।।

वृषभानसुता त्वं च राधाच्छाया भविष्यसि ।
मत्कलांशश्च रायाणस्त्वां विवाह ग्रहीष्यति ।। १३७ ।।

मां लभिष्यसि रासे च गोपीभी राधया सह ।
राधा श्रीदामशापेन वृषभानसुता यदा ।। १३८ ।।

सा चैव वास्तवी राधा त्वं च च्छायास्वरुपिणी ।
विवाहकाले रायाणस्त्वां च च्छायां ग्रहीष्यति ।। १३९ ।।

त्वां दत्त्वा वास्तवी राधा साऽन्तर्धाना भविष्यति ।
राधैवेति विमूढाश्च विज्ञास्यन्ति ।।
च गोकुले ।। १४० ।।

स्वप्ने राधापदाम्भोजं न रि पश्यन्ति बल्लवाः ।
स्वयं राधा मम क्रोडे छाया रायाणकामिनी ।। १४१ ।।

विष्णोश्च वचनं श्रुत्वा ददावायुश्च सुन्दरी ।
उत्तस्थौ पूर्ण धर्मश्च तप्तकाञ्चनसंनिभः ।।
पूर्वस्मात्सुन्दरः श्रीमान्प्रणनाम परात्परम् ।। १४२ ।।

वृन्दोवाच
देवाः शृणुत मद्वाक्यं दुर्लङ्घ्यं सावधानतः ।
न हि मिथ्या भवेद्वाक्यं मदीयं च निशामय ।। १४३ ।।

क्षयो भवेति वाक्यं च मयोक्तं कोपभीतया ।
वारत्रयं पुनर्वक्तुं वारयामास भास्करः ।। १४४ ।।

सत्ये च परिपूर्णोऽयं यथापूर्वो यथाऽधुना ।
त्रिपादश्चापि त्रेतायां द्वापदो द्विपरे तथा ।। १४५ ।।

एकपादश्च दर्मोऽयं कलेश्च प्रथमे हरे ।
शेषे कलाषोडशांशः पुनः सत्ये यथा पुरा ।। १४६ ।।

त्रिर्निर्गतं मम मुखात्क्षयस्तेन ततः क्रमात् ।
पुनरुक्ते च मनसि वारयामास भास्करः ।। १४७ ।।

तेनैव रेतुनाऽयं च करिशेषे कलामयः ।
तथा शप्तः स्थितो दुर्गे कलिशेषे तथा ध्रुवम् ।। १४८ ।।

एतस्मिन्नन्तरे नन्द ददृशुर्देवता रथम् ।
गोलोकादागतं वेगादतीव सुन्दरं शुभम् ।। १४९ ।।

अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम् ।
मणिमाणिक्यमुक्ताभिर्वस्त्रैश्च श्वेतचामरै। ।। १५० ।।

विभूषितं भूषणौश्च रुचिरै स्तनदर्पणैः ।
नत्वा हरिं हरं वृन्दा ब्रह्माणं सर्वदेवताः ।। १५१ ।।

समारुङ्य रथं दृष्ट्वा गोलोकं च जगाम सा ।
देवा जग्मुश्च स्वस्थानं किं भूयः श्रोतुमिच्छसि ।। १५२ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
षडशीतितमोऽध्यायः ।। ८६ ।।