प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८६ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८७
[[लेखकः :|]]
अध्यायः ८८ →

अथ सप्ताशीतितमोध्यायः
नन्द उवाच
त्वां ज्ञातुं नहि शक्ताश्च वेदा वेदप्रभुं स्वयम् ।
सुरा ब्रह्मेशसेषाद्या मुनिसिद्धादयस्तथा ।। १ ।।

को भवानिति विज्ञातुं परं कौतूहलं मम ।
तत्सर्व स्वात्मयाथार्थ्यं निर्जने कथय प्रभो ।। २ ।।

नारायण उवाच
एतस्मिन्नन्तरे तत्र कृष्णं द्रष्टुं मुनीश्वराः ।
आजग्मुः सहसा वत्स ज्वलन्तो ब्रह्मतेजसा ।। ३ ।।

पुलहश्च पुलस्त्यश्च क्रतुश्च भृगुरङ्गिराः ।
प्रचेताश्च वसिष्ठश्च दुर्वासाः कण्व एव च ।। ४ ।।

कात्यायनः पाणिनिश्च कणादो गौतमस्तथा ।
सनकश्च सनन्दश्च दृतीयश्च सनातनः ।। ५ ।।

कपिलश्चाऽऽसुरिश्चैव वायुः पञ्चशिखस्तथा ।
विश्वामित्रो वाल्मीकिश्च कश्यपश्च पराशरः ।। ६ ।।

विभाण्डको मरीचिश्च शुक्रौऽत्रिश्च बृहस्पतिः ।
गार्ग्यश्यापि तथा वात्स्यो व्यासश्च जैमिनिस्तथा ।। ७ ।।

मितवागृष्यशृङ्गश्च याज्ञवल्क्यः शुकस्तथा ।
सौभरिः शुद्धजटिलो भरद्वाजः सुभद्रकः ।। ८ ।।

मार्कण्डेयो लोमशश्च आसुरिश्च विटङ्कणः ।
अष्टावक्र शतानन्दो वामदेश्च भासुरिः ।। ९ ।।

संवर्तश्चाप्युतथ्यश्च नरोऽहं चापि नारद ।
जाबालिः पर्शुरामश्चाप्यगस्त्यः पैल एव च ।। १० ।।

युधामन्युर्गौ रमुखोऽप्युपमन्युः श्रृतश्रवाः ।
मैत्रेयश्च्यवनश्चैव वररुच्यर्षिरेव च ।। ११ ।।

तान्दृष्ट्वा सहसोत्थाय नमस्कृत्य पुटाञ्जलिः ।
सिंहासनेषु रम्येषु वासयामास सादरम् ।। १२ ।।

पूजयामास विधिवत्कुशलप्रश्नपूर्वकम् ।
परस्परं च संभाष्य मध्ये कृष्ण उवास सः ।। १३ ।।

एतस्मिन्नन्तरे कृष्णस्तेजोराशिं ददर्श सः ।
ददुशुस्ते च मुनयोऽप्याकाशे च समुज्ज्वलम् ।। १४ ।।

तेजसोऽभ्यन्तरे वत्स कुमारं कनकप्रभाम् ।
यथैव पञ्चवर्षीयं नग्नं बालकमीप्सितम् ।। १५ ।।

आविर्बभूव सहसा समामध्ये च नारद ।
उत्तिष्टमानं सहसा तं दृष्ट्वा मुनपुंगवाः ।। १६ ।।

प्रणेमुर्मुनयः सर्वे शौरिश्च प्रणनाम तम् ।
सस्मितं स्निग्धनेत्रं चकृत्वा युक्तिं च सादरम् ।। १७ ।।

स सर्वानाशिषं कृत्वा समुवास च संसदि ।
उवाच तांश्च शौरिं च भगवन्तं सनातनम् ।। १८ ।।

सनत्कुमार उवाच
भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् ।
कृष्णस्य कुशलप्रश्नं सिवबीजस्य निष्फलम् ।। १९ ।।

सांप्रतं कुशुलं वश्च दर्शनं परमात्मनः ।
भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ।। २० ।।

निर्गुणास्य निरीहस्य सर्वबीजस्य तेयसा ।
भारावतरणायैव चाऽऽविर्भूतस्य सांप्रतम् ।। २१ ।।

श्रीकृष्ण उवाच
शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् ।
तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते ।। २२ ।।

सनत्कुमार उवाच
शरीरे प्राकृते नाथ संततं च शुभाशुभम् ।
नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् ।। २३ ।।

श्रीभगवानुवाच
यो यो विग्रहधारी च स च प्राकृतिकः स्मृताः ।
देहो न विद्यते विप्र तां नित्यां प्राकृतिं विना ।। २४ ।।

सनत्कुमार उवाच
रक्तबिन्दूद्भवा देहास्ते च प्राकृतिका स्मृताः ।
कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः ।। २५ ।।

सर्वबीजस्य सर्वादिर्भवांश्च भगवान्स्वयम् ।
सर्वेषामवतारणां प्रधानं बीजमव्ययम् ।। २६ ।।

कृत्वा वदन्ति वेदाश्च नित्यं सत्यं सनातनम् ।
ज्योतिःस्वरूपं प्रधानं बीजमव्ययम् ।। २७ ।।

मायया सगुणं चैव मायेशं निर्गुणं परम् ।
प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो ।। २८ ।।

श्रीकृष्ण उवाच
संप्रतं वासुदेवोऽहं रक्तपीर्याश्रितं वपुः ।
कथं न प्रकृतो विप्र शिवप्रश्नमभीप्सितम् ।। २९ ।।

सनत्कुमार उवाच
वासुः सर्वनिवासश्च विश्वानि यस्य लोमसु ।
तस्य देवः परं ब्रह्म वासुदेव इतीरितः ।। ३० ।।

वासुदेवेति तन्नाम वेदेषु च चतुर्षु च ।
पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ।। ३१ ।।

रक्तवीर्याश्रितो देहः क्व ते वेदे निरूपितः ।
साक्षिणो मुनयश्चैव धर्मः सर्वत्र एव च ।। ३२ ।।

साक्षिणो मम वेदाश्च रविचन्दौ च संप्रतम् ।। ३३ ।।

भृगुरुवाच
सत्यं वदसि त्वमेव वैष्णवाग्रणीः ।
स्वागतं कुशलं शश्वत्किंनिमित्तमिहाऽऽगतः ।। ३४ ।।

सनत्कुमार उवाच
श्रूयतां मुनयः सर्वे श्रूयतां कृष्ण सांप्रतम् ।
अहो येन निमित्तेन चातिशीघ्रमिहाऽऽगतः ।। ३५ ।।

श्रीकृष्ण उवाच
भगवन्मर्वधर्मज्ञ किंनिमित्तमिहाऽऽगतः ।
सर्वं जानासि सर्वज्ञ त्वमेव विदुषां वरः ।। ३६ ।।

सनत्कुमार उवाच
धन्योऽसि भगवञ्छश्वन्मान्योऽसि जगतामपि ।
सर्वेश्वरेश्वरोऽसि त्वं तत्परो नास्ति विश्वतः ।। ३७ ।।

श्रीकृष्ण उवाच
यज्ञानां च व्रतानां च तपस्यानां द्विजेश्वर।
सततं फलदाताऽहं दक्षिणाभिः सहेति य ।। ३८ ।।

इति श्रुत्वा कुमारश्च जवेन प्रययौ वने ।
मत्वाऽऽश्चर्य च वचनं वारयामास तेऽपितम् ।। ३९ ।।

ऋषय ऊचुः
हे सिद्धेन्द्र महाभाग कुमार करुणामय ।
का शङ्कितकथा प्रोक्ता भगवत्कृष्णसंनिधौ ।। ४० ।।

किं पुत्र दृष्टमाश्चर्य श्रुतं किमपि कुत्रचित् ।
अतीव कृत्वा विस्तीर्णमस्माकं वक्तुमर्हसि ।। ४१ ।।

एत स्मिन्न्नतरे ब्रह्मा पार्वत्या सह शंकरः ।
अनन्तश्चापि धर्मश्च श्रीसूर्यश्च निशाकरः ।। ४२ ।।

आदित्या वसवो रुद्रा दिक्पालाद्याश्च देवताः ।
श्रीकृष्णः सहसोत्थाय संभाध्य चपृथक्पृथकु ।। ४३ ।।

मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।
प्रणेसुर्ऋषयः सर्वे शेषं शंभुं विधिं शिवाम् ।। ४४ ।।

परस्परं च संभाषा बभूव द्विजदेवयोः ।
समुवासाऽऽसने मध्ये कुमारः कनकप्रभः ।।
कयां कथितुमारेभे संसदि द्विजदेवयोः ।। ४५ ।।

मया गतश्च गोलोको न दृष्टो राधिकापतिः ।
ततो गतं च वैकुण्ठं तत्र नास्ति चतुर्भुजः ।। ४६ ।।

ततो गतश्च क्षीरोदस्तत्र नास्ति हरिः स्वयम् ।
परिश्रान्तो विषण्णश्च स्नातं क्षीरोदधेस्तटे ।। ४७ ।।

विस्तीर्णवालुकामध्ये कच्छपः शतयोजनः ।
भीतश्च कम्पितस्तत्र दृष्टो दुःखी च शुष्कितः ।। ४८ ।।

निःसारितो राघवेण मीनेन च महात्मना ।
धन्योऽसीति मयोक्तश्च नाहं धन्य उवाच सः ।। ४९ ।।

क्षीरोदः सागरो धन्यो जन्तवो यत्र मद्विधाः ।
मत्तो महत्तराश्चापि ह्यसंख्याश्च महामुने ।। ५० ।।

भवान्धन्योऽस्ति क्षीरोद तेनोक्तो नाहमेव च ।
धन्या वसुंधरा देवी यत्रैव सप्तसागराः ।। ५१ ।।

धन्याऽसि वसुधेत्युक्ता नाहमेवेत्युवाच सा ।
धन्योऽनन्तो ममाऽऽधारः कृष्णांशो नागराड्विभुः ।। ५२ ।।

महस्रमूर्ध्ना मध्येऽहं मूर्ध्नि शूर्पे च सर्षपः ।
धन्योऽसि शेषेत्युक्तोऽयं धन्यो नाहमुवाच वै ।। ५३ ।।

धन्यः कूर्मो ममाऽऽधारो गच्छ तत्रैव वै मुने ।
धन्योऽसि कूर्मेत्युक्तोऽयं नारं धन्योऽस्मि वै मुने ।। ५४ ।।

वायुना धार्यमाणोऽहं मत्तो धन्यतमश्च सः ।
धन्योऽसीत्युक्तः पवनो धन्यो नाहमुवाच सः ।। ५५ ।।

धन्यश्च भगवान्ब्रह्मा विधाता जगतामपि ।
धन्योऽसि तत्र धाता च धन्यो नाहमुवाचसः ।। ५६ ।।

धन्यो महेश्वरो देवो योगीन्द्राणां गुरोर्गुरुः ।
सर्वाराध्यः सर्वपूज्यो धर्मरूपः सनातनः ।। ५७ ।।

कालकालश्च संहर्ता स्वयं मृत्युंजयः प्रभुः ।
धन्योऽसि तत्र शंभुश्च धन्यो नाहमुवाच सः ।। ५८ ।।

सर्वादौ पूजनं यस्य ज्ञानिनां च गुरोर्गुरुः ।
धन्यो गणेश्वरो देवो देवानां प्रवरः परः ।। ५९ ।।

सिद्धेन्द्रेषु मुनीन्द्रेषु देवेन्द्रेषु श्रुतौ श्रुतम् ।
योगीन्द्रेषु च प्राज्ञेषु न गणेशात्परः पुमान् ।। ६० ।।

निम्नगासु यथा गङगा तीर्थेषु पुष्करं यथा ।
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।। ६१ ।।

वेदो नारायणः साक्षाद्वयं पूज्या व्यवस्थया ।
तस्माच्छास्त्राणि सर्वाणि पुराणानि च सन्ति वै ।। ६२ ।।

यस्मान्निरूपितो धर्मश्चेतिहासश्च संहिता ।
तस्माद्धन्याश्च ते वेदा वदन्त्यत्र मनीषिणाः ।। ६३ ।।

यूयं धन्याश्च मान्याश्चेत्युक्ता वेदा मया ततः ।
ऊयुस्ते न वयं धन्या यज्ञसंघश्य सांप्रतम् ।। ६४ ।।

वयं व्यवस्थाकर्तारो यज्ञौघः फलदः स्वयम् ।
तस्माद्धन्यः स एवापि गच्छ गच्छ महामुने ।। ६५ ।।

धन्योऽसि यज्ञसंघोऽसीत्युक्तस्तत्र मया विभो ।
ऊचुस्ते न वयं धन्या धन्यं कर्म शुभं मुने ।। ६६ ।।

शुभकर्मासि धन्यं त्वं नाहं धन्यमुवाच तत् ।
कर्मणां फलदाता यः कर्महेतुश्च सांप्रतम् ।। ६७ ।।

धातुर्विधाता भगवान्सर्वादिः सर्वकारकः ।
श्रीकृष्णः परमात्मा च धन्यो मान्यश्चनिश्चितम् ।। ६८ ।।

धर्मालयं ततो गत्वा न दुष्ट्वा जगदीश्वरम् ।
मथुरामागतो द्रष्टुं परिपूर्णतम् प्रभुम् ।। ६९ ।।

यज्ञानां तपसां चैव व्रतानां शुभकर्मणाम् ।
ईश्वरं फलदातारं परमात्मानमेव च ।। ७० ।।

कारणं कारणानां च ब्रह्मादीनां पुरःसरम् ।
धन्योऽसीति मयोक्तश्च दक्षिणाभिः सहेति च ।। ७१ ।।

इत्युक्तेन भगवता कथितं सर्वकारणम् ।
दक्षिणाभिश्च फलदो हतयज्ञो ङ्यदक्षिणाः ।। ७२ ।।

दक्षिणा विप्रमुद्दिश्य तत्काले तु न दीयते ।
एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत् ।। ७३ ।।

मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् ।
संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् ।। ७४ ।।

वर्षाणां च सहस्रं च मूत्रकुण्डे निपत्य च ।
ततश्चाण़्डालतां याति व्याधियुक्तश्च पातकी ।। ७५ ।।

दात्रा न दीयते दानं ग्रहीत्रा चेन्न गृह्यते ।
उभौ तौ नरकं प्राप्तौ वर्षाणां च सहस्रकम् ।। ७६ ।।

यजमानश्च चाण्डालो ब्रह्मणस्तत्पुरोहितः ।
व्याधियुक्तावुभौ तौ च पापिनौ कर्मणः फलात् ।। ७७ ।।

सर्वे देवाश्च मुनयो जहसुर्विस्मयं ययुः ।
विस्मयं च ययौ नन्दस्तत्याज पुत्रभावकम् ।। ७८ ।।

रुरोद च सभामध्ये लज्जाहीनः शुचाऽऽकुलः ।
त्यज मौहमितीत्युक्त्वा बोधयामास पार्वती ।। ७९ ।।

नन्द उवाच
अमूल्यरत्नं माणिक्यं यथा कुजन्मनो गृहे ।
स्थितं तेन च देवेश तथाऽहं वञ्चितः प्रभो ।। ८० ।।

ममापराधं भगवान् क्षमस्व प्रकृतेः पर ।
यास्यामि न पुनर्गेहं गोकुलं यमुनातटम् ।। ८१ ।।

वृन्दावनं तथाऽऽवासं क्रीडावासं गदाग्रज ।
तत्सर्वं च यशोदाया गोपिकान्तिकमेव च ।। ८२ ।।

किं ब्रवीमि यशोदां य प्रेयसीं राधिकामपि ।
प्रेमपात्रं च बालौघं वद भोः कथयामि किम् ।। ८३ ।।

इत्युक्त्वा च सभामध्ये मर्च्छां संप्राप नारद ।
क्रोडे कृत्वा जगन्नाथो बोधयामास तत्क्षणम् ।। ८४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
सप्ताशीतितमोऽध्यायः ।। ८७ ।।