प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८९ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९०
[[लेखकः :|]]
अध्यायः ९१ →

अथ नवतितमोऽध्यायः
श्रीकृष्ण उवाच
शृणु नन्द प्रवक्ष्यमि सानन्दं मानसं यथा ।
कथां रम्यां सुमधुरां पुराणेषु परिष्कृताम् ।। १ ।।

परिपूर्णतमो धर्मो धार्मिकाश्च कृते युगे ।
परिपूर्णतमं सत्यं परिपूर्णतमा दया ।। २ ।।

अतीव प्रज्वलद्रूपा वेदाश्चत्वार एव च ।
वेदाङ्गाश्चापि पिपिधासाश्चेतिहासाच संहिताः ।। ३ ।।

पुराणानि सुरम्याणि पञ्चरात्राणि पञ्च च ।
रुचिराणि सुभद्राणि धर्मशास्त्राणि यानि च ।। ४ ।।

विप्रा वेदविदः सर्वे पुण्यवन्तस्तपस्विनः ।
नारायणं ते ध्यायन्ति तन्मन्त्रं च जपन्ति च ।। ५ ।।

ब्राह्मणाःक्षत्रिया वैश्याश्यतुर्वर्णाश्च वैष्णवाः ।
शूद्रा ब्राह्मणभृत्याश्च सत्यधर्मपरायणाछ ।। ६ ।।

राजानो धार्मिकाश्चैव प्रजापालनतत्पराः ।
गृह्णान्त्येव प्रजानां च षोडशांशकराषृपाः ।। ७ ।।

करशून्याश्च विप्राश्च पूज्याः स्वच्छन्दगामिनः ।
ततं सर्वसस्याढ्या रत्नाधारा वसुंधरा ।। ८ ।।

गुरुभक्ताश्च शिष्याश्च पितृभक्ताः सुतास्तथा ।
योषितः पतिभक्ताश्च पतिव्रतपरायणाः ।। ९ ।।

ऋतौ संभोगिनः सर्वे न स्त्रीलुब्धा न लम्मपटाः ।
न भयं दस्युचौर्याणां न तत्र पारदारिकाः ।। १० ।।

तरवः पूर्णफलिनः पूर्णक्षीराश्च धेनवः ।
बलवन्तो जनाः सर्वे दीर्घाः सौन्दर्यसंयुताः ।। ११ ।।

लक्षवर्षायुषः केचित्पुण्यवन्तो क्ष्यरोगिणः ।
यथा विप्रा विष्णुभक्ता स्त्रिवर्णां विष्णुसेविनः ।। १२ ।।

जलपूर्णा नदा नद्यः संततं कंदरास्तथा ।
तीर्थपूताश्चतुर्वर्णास्तपः पूता द्विजातयः ।। १३ ।।

मनःपूताश्च निखिलाः खलहीनं जगत्त्रयम् ।
सत्कीर्तिपरिबूर्णं च यशस्यं मङ्गलान्वितम् ।। १४ ।।

पितरः सर्वकालेषु तिथिकालेषु देवताः ।
सर्वकालेष्वतिथयः पूजिताश्च गृहे गृहे ।। १५ ।।

त्रिवर्णा विप्रभक्ताश्च विप्रभोजतत्पराः ।
ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम् ।। १६ ।।

नारायणोत्कीर्तनेन हर्षयुक्तास्तदुत्सवे ।
न शत्रवो जनानां च सर्वे सर्वंहितैषिणः ।। १७ ।।

नाऽऽत्मप्रशंसकाः केचित्सर्वे परगुणोत्सुकाः ।
न देवानां द्विजानां च विदुषां तत्र निन्दकाः ।। १८ ।।

पुरुषा योषितश्चापि न हि सूर्खाश्च पण्डिताः ।
न दुःखिनो जनाःसत्ये सर्वेषां रत्नमन्दिरम् ।। १९ ।।

मणिमाणिक्यरत्नौघरत्नस्वर्णसमन्वितम् ।
न भिक्षुका न रोगार्ताः शोकहीनाश्चहर्षिताः ।। २० ।।

न हि भूषणहीराश्च नरा नार्यश्च केचन ।
न पापिनो न धूर्ताश्च न क्षुधार्ता न कुत्सिताः ।। २१ ।।

जराहीनाः प्राणिनश्च शश्वद्यौवनसंस्थिताः ।
आधिव्याधिविहीनाश्च निर्विकाराश्च देहिनः ।। २२ ।।

यदुक्तो वै सत्ययुगे धर्मः सत्यं दयादिकम् ।
पादहीनश्च त्रेतायां सत्यार्ध द्वापरेऽपि च ।। २३ ।।

धर्मै कपाच्च प्रथमे कलेश्चातिकृशोऽबलः ।
दुष्टानां दस्युचौर्याणामङ्कुरः प्रभवेद्व्रज ।। २४ ।।

अधर्मनिरताः केचिद्भीताः संगोपिनस्तथा ।
भीता गुप्ताश्च पुंश्चल्यौ भीताश्च पारदारिकाः ।। २५ ।।

धर्मिष्ठानां भयं शश्वदधर्मिष्ठाश्च कम्पिताः ।
स्वल्पधर्मरता भूपाः स्वल्पवेदरता द्विजाः ।। २६ ।।

व्रतधर्मरताः केचित्सर्वे स्वच्छन्दगामिनः ।
यावत्तिष्ठन्ति तीर्थानि यावत्तिष्ठन्ति साधवः ।। २७ ।।

यावत्तिष्ठन्ति ग्रामाणां देवाः शास्त्राणि पूजनम् ।
तावत्किंचित्तपः सत्यं स्वर्गधर्माश एव च ।। २८ ।।

कलेर्दोषनिधेस्तात गुण एको महानपि।
मानसं संभवेत्पुण्यं सुकृतं न हि दृष्कृतम् ।। २९ ।।

तीर्थादिके गते तात नष्टो धर्माश एव च ।
कलारूपश्च धर्मश्च यथा कुह्वां निशाकरः ।। ३० ।।

नन्द उवाच
तीर्थान्येतानि सर्वाणि तिष्ठन्त्येव कियद्दिनम् ।
साधवो ग्राम्यदेवाश्च शास्त्राण्येतानि वत्सक ।। ३१ ।।

श्रीकृष्ण उवाच
कलौ दशसहस्राणि हरिस्तिष्ठति मेदिनीम् ।
देवानां प्रतिमा बूज्या शास्त्राणि च पुराणकम् ।। ३२ ।।

तदर्धमपि तीर्थानि गङ्गादीनि सुनिश्चितम् ।
तदर्ध ग्रामदेवाश्च वेदाश्च विदुषामपि ।। ३३ ।।

अधर्मः परिबूर्णश्च तदन्ते च कलौ पितः ।
एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च ।। ३४ ।।

न मन्त्रपूतोद्वाहश्च न हि सत्यं न य क्षमा ।
स्त्रीस्वीकाररतो नित्यं ग्राम्यधर्मप्रधानतः ।। ३५ ।।

न यज्ञसूत्रं तिलकं ब्राह्मणनां च नित्यशः ।
संध्याशास्त्रविहीनाश्च विप्रवंशाःश्रुता अपि ।। ३६ ।।

सर्वैः सार्ध च सर्वेषां भक्षणं नियमच्युतम् ।
अभक्ष्यभक्षा लोकाश्च चतुर्वर्णाश्च लम्पटाः ।। ३७ ।।

नारीषु न सती काचित्पुंश्चली च गृहे गृहे ।
करोति तर्जनं कान्तं भृत्यतुल्यं च कम्पितम् ।। ३८ ।।

जाराय दत्त्वा मिष्टान्नं ताम्बूलं वस्त्रचन्दनम् ।
न ददात्येव चाऽऽहारं स्वामिने दुःखिने पितः ।। ३९ ।।

पुत्रेण भर्त्सितस्तातः शिष्येण भर्त्सितो गुरुः ।
प्रजाभिस्ताडितो भूपो भूपेन पीडिताः प्रजाः ।। ४० ।।

दस्युचोरेश्च दुष्टैश्च शिष्टाश्च परिपीडिताः ।
सस्यहीना च वसुधा क्षीरहीनाश्च धनेवः ।। ४१ ।।

स्वल्पक्षीरे घृतं नास्ति नवनीतं च नित्यशः ।
सत्यहीना जनाः सर्वे नित्यं मिथ्या वदन्ति च ।। ४२ ।।

शौचसंध्याशास्त्रहीना ब्राह्मणा वृषवाहकाः ।
सूपकाराश्च शूद्राणां शूद्राणां शवदाहकाः ।। ४३ ।।

शूद्रस्त्रीनिरताः शश्वच्छूद्रा विप्रवधूरताः ।
खादन्ति यस्य विप्रस्य भक्ष्यं च परिपाचकाः ।। ४४ ।।

मातुः परां तस्य पत्नीं शूद्रा गृह्णन्ति लम्पटाः ।
भृत्यश्च हत्वा राजानं स्वयं राजा भविष्यति ।। ४५ ।।

नारी हत्वा पतिं कामाद्भजेज्जारं च कौतुकात् ।
पुत्रश्च पितरं हत्वा स्वयं भूपो भविष्यति ।। ४६ ।।

सर्वे स्वच्छन्दनिरताः शिश्नोदरपरायणाः ।
वङ्खरा व्याधियुक्ताश्च कुत्सिताश्च कुचैलकाः ।। ४७ ।।

विक्षुण्णमन्त्रलिप्ताश्च मिथ्यामन्त्रप्रचारकाः ।
जातिहीनाश्च गुरवो वयोहीनाश्च निन्दकाः ।। ४८ ।।

राजानश्चापि मलेच्छाश्च यवना धर्मनिन्दकाः ।
सत्कीर्तिमपि साधूनां कुर्वन्त्युन्मूलनं मुदा ।। ४९ ।।

पितृदेवद्विजातीनामतिथीनां च नित्यशः ।
पूजा नास्ति गुरूणां च पित्रोश्च पूजनं स्त्रियाः ।। ५० ।।

स्त्रीबन्धूनां गौरवं च स्त्रीणां च सततं पितः ।
चोरः सत्कुलजातिश्च ब्रह्मदेवस्वहारकः ।। ५१ ।।

मानं वहन्ति लोभेन युगधर्मेण कौतुकात् ।
देवायतनहीनं च जगत्सर्व भयाकुलम् ।। ५२ ।।

अराजकं च दुर्नीतं संततं कलिदोषतः ।
बुभृक्षिताः कुचैलाश्च दरिद्रा व्याधिनो नराः ।। ५३ ।।

कपर्दकघटाध्यक्षो राजेन्द्रो हि घटेश्वरः ।
वृद्धाङ्गुष्टसमा लोका वृक्षाःशाकसमास्तथा ।। ५४ ।।

तालानां नारिकेलाणां पनसानां तथैव च ।
फलानि सर्षपाण्येव तत्क्षुद्रं च ततः परम् ।। ५५ ।।

जलभाजनपात्रेण सस्येन वाससा तथा ।
विहीनं मन्दिरं सर्वं गृहाणामपरिष्कृतम् ।। ५६ ।।

गन्धकेन परिवृतं दीपहीनं तमेयुतम् ।
हिंस्रजन्तुभयाद्भीता जनाः सर्वे च पापिनः ।। ५७ ।।

सर्वे च कलहाविष्टा पुंश्चल्यः कलहप्रियाः ।
रूपवत्यो न कामिन्यो नराश्चापि न रूपिणः ।। ५८ ।।

नद्यो नदाः कंदराश्च तडागाश्च सरोवराः ।
जलपद्मविहीनाश्च जलहीना धनास्तथा ।। ५९ ।।

अपत्यहीना नार्यश्च कामुक्यो जारसंयुताः ।
अश्वत्थच्छेदिनः सर्वे वृक्षहीना वसुंधरा ।। ६० ।।

फलहीनाश्च तरवः शाखाः स्कन्धविहीनकाः ।
फलानि स्वादुहीनानि चान्नानि च जलानि च ।। ६१ ।।

मानवाः कटुवक्तारो निर्दया धर्मवर्जिताः ।
तदन्ते द्वादाशादित्याः संहरिष्यन्ति मानवान् ।। ६२ ।।

सर्वाञ्जन्तुंश्च तापेन बहुवृष्ट्या व्रजेश्वर ।
अवशिष्टा च पृथिवी कथामात्रावशेषिता ।। ६३ ।।

कलौ गते च पृथिवी क्षेत्रं वर्षागते तथा ।
पुनः सत्यप्रवृत्तिश्च भविष्यति क्रमेण वै ।। ६४ ।।

इत्येवं कथितं सर्वं गच्छ तात व्रजं सुखम् ।
अहं दुग्धमुखो बालःपुत्रस्ते कथयामि किम् ।। ६५ ।।

नवनीतं घृतं दुग्धं दधि तक्रं परिष्कृतम् ।
स्वस्तिकं शुभकर्मार्हं मिष्टान्नं च सुधोपमम् ।। ६६ ।।

मिष्टद्रव्यं च यत्किंचित्पितृदेवनिमित्तकम् ।
भुक्तं बलाच्च तत्सर्व बालानां रोदनं बलम् ।। ६७ ।।

तत्क्षमस्वापराधं मे बालदोषः पदे पदे ।
त्वं पिता तव पुत्रोऽहं यशोदा जननी मम ।। ६८ ।।

मदीयं परिहासं च यशोदां रोहिणीं वद ।
कुमारास्याच्छ्रुतं सर्व सोऽहमित्येवमीप्सितम् ।। ६९ ।।

कीर्तयिष्यसि तत्सर्व सर्व गोकुलवासिनम् ।
कालः करोति ससैर्ग बन्धूनां बन्धुभिः सह ।। ७० ।।

कालः करोति विच्छेदं विरोधं प्रीतिमेव च ।
कालः सृष्टिं च कुरुते कालश्च परिपालनम् ।। ७१ ।।

कालः करोति सानन्दं कालः संहरते प्रजाः ।
सुखं दुःखं भयं शोकं जरां मृत्युं च जन्म च ।। ७२ ।।

सर्वं कर्मानुरोधेन काल एव करोति च ।
सर्वं कालकृतं तात विस्मयं न व्रजं व्रज ।। ७३ ।।

कुतस्त्वं गोकुले वैश्यो नन्दो वैश्याधिपो नृपः ।
वसुदेवसुतोऽचहं च मथुरायामहो कुतः ।। ७४ ।।

पिता मे कंसभीतेन त्वद्गृहे च समप्रितः ।
पितु परः पिता त्वं च माता मातुः पराऽपिवा ।। ७५ ।।

मया दत्तेन ज्ञानेन पार्वत्या च व्रजेश्वर ।
त्यज मोहं महाभाग गच्छ तात सुखं गृहम् ।। ७६ ।।

नन्द उवाच
स्मर वृन्दावनं तात रम्यं पुण्यं महोत्सवम् ।
गोकुलं गोकुलं रम्यं सुन्दरं यमुनातटम् ।। ७७ ।।

रमणीनां सुरम्यं च त्वत्प्रियं रासमण्डलम् ।
गोपालिका गोपबालान्यशोदां रोहिणीं प्रियाम् ।। ७८ ।।

प्राणाधिकां राधिकां न कथं स्मरसि पुत्रक ।
वारमेकं स्वल्पदिनं गोकुलं गच्छ वत्सक ।। ७९ ।।

इत्येवमुक्तवा नन्दश्च क्रोडे कृष्णं चकार सः ।
नेत्राश्रुणा च पूर्णेन तं सिषेच शुचाऽन्वितः ।। ८० ।।

चुचुम्ब तद्गण्डयुगं कृत्वा वक्षसि मोहतः ।
सानन्दः परमानदो भगवांस्तमुवाच सः ।। ८१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
नवतितमोऽध्यायः ।। ९० ।।