प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ९० ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९१
[[लेखकः :|]]
अध्यायः ९२ →

अथैकनवतितमोऽध्यायः
श्रीभगवानुवाच
निषेकेन परिष्वङ्गो विभेदस्तेन वा भवेत् ।
क्षणेन दर्शनं तेन निषेकः केन वार्यते ।। १ ।।

गमनागमनार्थ चाप्युद्धवः कथयिष्यति ।
प्रस्थापयामि तं शीघ्रं विज्ञास्यसि ततः पितः ।। २ ।।

यशोदां रोहिणीं चैव गोपिकां गोपबालकान् ।
प्राणाधिकां राधिकां तां गत्वा संबोधयिष्यति ।। ३ ।।

एतस्मिन्नन्तरे तत्र वसुदेवश्च देवकी ।
बलदेवश्चोद्धवश्च तथाऽक्रूरश्च सत्वरम् ।। ४ ।।

वसुदेव उवाच
नन्द त्वं बलवाञ्ज्ञानी सद्बन्धुश्च सखा मम ।
त्यज मोहं गृहं गच्छ वत्सस्तेऽयं यथा मम ।। ५ ।।

दूरीभूता गोकुलाच्च मथुरा नास्ति बान्धव ।
महोत्सवे सदानन्दे नन्द द्रक्ष्यसि पुत्रकम् ।। ६ ।।

देवक्युवाच
यथाऽयमावयोः पुत्रस्तथैव भवतो ध्रुवम् ।
सालसः केन हे नन्द शुचा देहो हि लक्ष्यते ।। ७ ।।

एकादशाब्दं सबलः स्थित्वा ते मन्दिरे सुखम् ।
कथं स्वल्पदिनेनैव शोकग्रस्तो भविष्यसि ।। ८ ।।

तिष्ठ पुत्रेण सार्धं च मथुरायां कियद्दिनम् ।
पूर्णचन्द्राननं पश्य जन्म त्वं सफलं कुरु ।। ९ ।।

श्रीभगवानुवाच
घच्छोद्धव सुखं भद्रं भविष्यति तव प्रियम् ।
प्रहर्ष गोकुलं गत्वा यशोदां रोहिणीं प्रसूम् ।। १० ।।
गोपवालसमूहं च राधिकां गोपिकागणम् ।
प्रबोधयाऽऽध्यात्मिकेन मद्दत्तेन शुचश्छिदा ।। ११ ।।

नन्दस्तिष्ठतु सानन्दं मन्मातुराज्ञया शुचा ।
नन्दस्थितिं सद्विनयं यशोदां कथयिष्यसि ।। १२ ।।

इत्येवमुक्त्वा श्रीकृष्णः पित्रा मात्रा बलेन च ।
अक्रूरेण समं तूर्ण ययावभ्यन्तरं गृहम् ।। १३ ।।

उद्धवो रजनीं स्थित्वा मथुरायां च नारद ।
प्रभाते प्रययौ शीघ्रं रम्यं वृन्दावनं वनम् ।। १४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदानाo एकनव-
तितमोऽध्यायः ।। ९१ ।।