प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ९२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९३
[[लेखकः :|]]
अध्यायः ९४ →

अथ त्रिनवतितमोऽध्यायः
नारायण उवाच
उद्धवस्तवनं श्रुत्वा चेतनां प्राप्य राधिका ।
विलोक्य कृष्णाकारं च तमुवाच शुचाऽन्विता ।। १ ।।

राधिकोवाच
किन्नाम भवतो वत्स केन वा प्रेरितो भवान् ।
आगतो वा कुत इति ब्रूह मां केन हेतुना ।। २ ।।

कृष्णाकृतिस्त्वं सर्वाङ्गैर्मन्ये त्वां कृष्णपार्षदम् ।
कृष्णस्य सुशलं ब्रूहि बरदेवस्य सांप्रतम् ।। ३ ।।

नन्दस्तिष्ठति तत्रैव हेतुना केन तद्वद ।
समायास्यति सोविन्दो रम्यं वृन्दावनं वनम् ।। ४ ।।

पुनर्द्रक्ष्यामि तस्यैव पूर्णचन्द्रमुखं शुभम् ।
पुनः क्रीडां करिष्यामि तेनाहं रासमण्डले ।। ५ ।।

जले च विहरिष्यामि पुनर्वा सखिभिः सह ।
श्रीनन्दनन्दनाङ्गे च पुनर्दास्यामि चन्दनम् ।। ६ ।।

उद्धव उवाच
उद्दवेत्यभिधानं मे क्षत्रियोऽहं वरानने ।
प्रेषितः शुभवार्तार्थं कृष्णेन परमात्मना ।। ७ ।।

तवान्तिकं समायातः पार्षदोऽहं हरेरपि ।
कृष्णस्य बलदेवस्य शिवं नन्दस्य सांप्रतम् ।। ८ ।।

राधिकोवाच
अस्ति तद्यमुनाकूलं सुगन्धिपवनोऽस्ति सः ।
तस्य केलिकदम्बानां मूलमस्तयेव सांप्रतम् ।। ९ ।।

पुण्यं वृन्दावनं रम्यं तद्विद्यमानमीप्सितम् ।
पुंस्कोकिलानां विरुतं तल्पं चन्दनचर्चितम् ।। १० ।।
चतुर्विधं च भोज्यं च मधुपानं च सुन्दरम् ।
दुरन्तो दुःखदोऽप्यस्ति पापिष्ठो मन्मथस्तथा ।। ११ ।।

ते च रत्नप्रदीपाश्च ज्वलन्ति रासमण्डले ।
मणीन्द्रसारनिर्माणमस्त्येव रतिमन्दिरम् ।। १२ ।।

गोपाङ्गनागणोऽस्त्येव पूर्णचन्द्रोऽस्ति शोभितः ।
सुगन्धिपुष्परचितं तल्पं चन्दनचर्चितम् ।। १३ ।।

ताम्बूलं रतिभोगार्हं कर्पूरादिसुसंस्कृतम् ।सुगन्धिमालतीमाल्यं श्वेतचामरदर्पणम् ।। १४ ।।

मुक्तामाणिक्यसंसक्तहीरहारमनोहरम् ।
कस्तूरीकुङ्कुमाक्तं च पात्रपूर्णं च चन्दनम् ।। १५ ।।

नानोपकाननं रम्यं रम्यक्रीडासरोवरम् ।
सुगन्धिपुष्पोद्यानं च पद्मश्रेणीमनोहरम् ।। १६ ।।

अस्त्येवं सर्वविभवः प्राणनाथः कुतो मम ।
हा कृष्ण हा रामानाथ क्वासि मे प्राणवल्लभ ।। १७ ।।

क्व वाऽपराधो दास्याश्च दासीदोषः पदे पदे ।
इत्येवमुक्त्वा सा देवी पुनर्मूर्च्छामवाप सा ।। १८ ।।

चेतनां कारयामास पुनरेव स उद्धवः ।
तां दृष्ट्वा परमाश्चर्य मेने क्षत्रियपुंगवः ।। १९ ।।

सखीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः ।
गोपीनां च त्रिलक्षैश्च सुप्रियैः प्रियसेविताम् ।। २० ।।
दिवानिशं वेष्टितां च गोपीनां शतकोटिभिः ।
काचित्कज्जलहस्ता च काचिन्माल्यवराऽपरा ।। २१ ।।

काचित्सिन्दूरहस्ता च काचिद्गोरोचनाकरा ।
काचिच्चन्दनपात्रं च हस्ते कृत्वा च तिष्ठति ।। २२ ।।

काचिद्दर्पणहस्ता च काचित्कुङ्कुमावहिका ।
कस्तूरीपात्रमिष्टं च काचिद्वहति तत्र वै ।। २३ ।।

काचिच्चम्पकपात्रं च करे धृत्वा च तिष्ठति ।
मधुभिर्मधुरैः पूर्णं पात्रं धृत्वा शुचाऽन्विता ।। २४ ।।

काचित्सुगन्धितैलं च गृहीत्वा परितिष्ठति ।
काचिद्वहति ताम्बूलं कर्पूरादिसुवासितम् ।। २५ ।।

काचिद्वासितमच्छं च जलं धृत्वा च तिष्ठति ।
क्रीडापुत्तलिकां काचिच्चित्राढ्यां परिरक्षति ।। २६ ।।

काचिद्वहति कन्दूकं काचिच्च रत्नभूषणम् ।
वह्निशुद्धांशुकं काचिदमूल्यं परिरक्षति ।। २७ ।।

काचिद्भक्षयोपहारं च गृहीत्वा परिवर्तते ।
काचिच्च केशवेशार्थकरोति माल्यमीप्सितम् ।। २८ ।।

काचित्कङ्कतिकां धृत्वा पुरतः परितिष्ठति ।
काचिद्यावकहस्ता च काचिद्धात्रीरसं मुदा ।। २९ ।।

दूरतोऽपि वहत्येवं भीता च परितिष्ठति ।
काचिद्भीता भिया स्तौतिकाचिद्रोदिति शोकतः ।। ३० ।।
काचित्तां बौधयेत्येर्व विदग्धा विरहातुराम् ।
काचिदुत्तापतप्ता च स्निग्धतल्पे मनोहरे ।। ३१ ।।

स्थापयेद्दाहदूरार्थं स्निग्धपद्मदले शुभे ।
एवंभूतां चतां दृष्टवा चोवाच पुनरुद्धवः ।।
सुप्रियं कर्णपीयूषं विनयेन च भीतिवत् ।। ३२ ।।

उद्धव उवाच
जाने त्वां देवदेवीशां सुस्निग्धां सिद्धयोगिनीम् ।
सर्वशक्तिस्वरूपां च सूलप्रकृतिमीश्वरीम् ।। ३३ ।।

श्रीदामशापाद्धरणीं प्राप्तां गोलोककामिनीम् ।
कृष्णप्राणाधिकां देवीं तद्वक्षःस्थलवासिनीम् ।। ३४ ।।

शृणु देवि प्रवक्ष्यामि शुभवार्तामभीप्सिताम् ।
सुस्थिरं सखिभिः सार्धं हृदयस्नग्धिकारिणीम् ।। ३५ ।।

दुःखदावाग्निदग्धायाः सुधावर्षणरूपिणीम् ।
विरहव्याधियुक्ताया रसायनसमां शुभाम् ।। ३६ ।।

तत्र तिष्ठति नन्दोऽयं सानन्दो सुदितः सदा ।
निमन्त्रितश्च वसुना कृष्णोपनयनावधि ।। ३७ ।।

गृहीत्वा सबलं कृष्णं साङ्गे मङ्गलकर्मणि ।
स नन्दः परमानन्दो सुदाऽऽयास्यति गोकुलम् ।। ३८ ।।

आगत्य कृष्णो मुदितः प्रणम्य मातरं पुनः ।
नक्तमायास्यति मुदा पुण्यं वृन्दावनं वनम् ।। ३९ ।।

अचिराद्द्रक्ष्यसि सति श्रीकृष्णमुखपङ्कजम् ।
सर्वं विरहदुःखं च संत्यक्ष्यसि च सांप्रतम् ।। ४० ।।
सुस्थिरा भव मातस्त्वं त्यज शोकं सुदारुणम् ।
वह्निशुद्धांशुकं रम्यं परिधाय प्रहर्षिता ।। ४१ ।।

अमूल्यरत्ननिर्माणभूषणग्रहणं कुरु ।
गृहाणचन्दनं स्निग्धं कस्तूरीकुङ्कुमान्वितम् ।। ४२ ।।

कुरुष्व केशसंस्कारं मालतीमाल्यभूषितम् ।
सुवेषं कुरु कल्याणि गण्डे च चित्रपत्रकम् ।। ४३ ।।

सिन्दूरबिन्दुं सीमन्ते कस्तूरीचन्दनान्वितम् ।
अलक्तकाक्तं चरणं युक्तं यावकभूषणैः ।। ४४ ।।

कुरुष्व तिष्ठचोतिष्ठ रत्नसिंहासने वरे ।
सपङ्कपङ्कजं तल्पं त्यज सार्धं शुचा सति ।। ४५ ।।

भुङ्क्ष्व कृष्णेन मनसा विशुद्धं मधुरं मधु ।
संस्कृतं भासितं तोयं ताम्बूलं च सुवासितम् ।। ४६ ।।

रत्नेन्द्रसारनिर्माणपर्यङ्के मुमनोहरे ।
वह्निसद्धांशुकाक्ते च मालतीमाल्यभूषिते ।। ४७ ।।

सुगन्धियुक्ते कस्तूरीजातीचम्पकचन्दनैः ।
परितो मालतीमाल्यहीरहारविभूषिते ।। ४८ ।।

मणीन्द्रमुक्तामाणिक्यसुन्दरैश्च परिष्कृते ।
पुष्पमाल्योपधाने च मङ्गलार्हे मुदाऽन्विता ।। ४९ ।।

शयनं कुरु देवेशि गोपीभिः सेविता सदा ।
करोतु सेवनं शश्वत्प्रियालिः श्वेतयामरैः ।। ५० ।।
पदारविन्दसेवां च गोपीभक्ता मनोहरे ।
सद्रत्नसारनिर्माणपर्यङ्के सुमनोहरे ।। ५१ ।।

त्येवमुक्त्वा स मुने पुनस्तूष्णीं बभूव ह ।
प्रणम्य पादपद्मं च ब्रह्मादिसुरवन्दितम् ।। ५२ ।।

उद्धवस्य वचःश्रुत्वा सस्मिता राधिका सती ।
यौतुकं च ददौ तस्मै रत्नसाराङ्गुलीयकम् ।। ५३ ।।

अमूल्यं सुन्दरं रम्यं विश्वकर्मविनिर्मितम् ।
मुखदृश्यं पीतवर्ण सुदीप्तं सुप्रदीपवत् ।। ५४ ।।

कृष्णय वह्निना दत्तमपूर्वं रासमण्डले ।
मणिकुण्डलयुग्मं चामूल्यरत्नविनिर्मितम् ।। ५५ ।।

अमूल्यरत्ननिर्माणं सर्वभूषणमीप्सितम् ।
वह्निशुद्धांशुकयुगं रत्ननिर्माणनायकम् ।। ५६ ।।

हीरहारविनिर्माणं हारं च सुमनोहरम् ।
पुरा दत्तं च सुप्रित्या कृष्णाय वरुणेन च ।। ५७ ।।

श्रीसूर्येण च यद्दत्तं श्रीकृष्णाय स्यमन्तकम् ।
प्रदत्तं कौ(यौ) तुकं तस्मै यद्दत्तं हरिणा पुरा ।। ५८ ।।

यद्दत्तं च महेन्द्रेण रत्नसिंहासनं वरम् ।
तत्प्रदत्तं मुदा देब्या तस्मै प्रीत्या च राधाया ।। ५९ ।।

मणीन्द्रसारनिर्माणं छत्ररत्नं मनोहरम् ।
मुक्तामाणिक्यसारेण हीरहारसमन्वितम् ।। ६० ।।
विचित्ररत्नपद्मेन विचित्रं वारुणं सदा ।
शोभितं परितश्चान्यै रत्ननिर्माणदर्पणैः ।। ६१ ।।

यद्दत्तं ब्रह्मण प्रीत्या हरये रासमण्डले ।
सुप्रीत्या राधया तत्र प्रदत्तमुद्धवाय च ।। ६२ ।।

मणिकारविनिर्माणं मणिराजविराजितम् ।
जपामाल्यं संस्कृतं च यद्दत्तं शंभुना पुरा ।। ६३ ।।

तदेव दत्तं तस्मै चाप्यमूल्यं पुण्यदं शुभम् ।
जन्ममृत्युजराव्याधिहरं चातिमनोहरम् ।। ६४ ।।

चन्द्रकान्तमणिं रम्यं चन्द्रदत्तं परिष्कृतम् ।
चन्द्रावलीं ददौ तस्मै सुदीप्तं पूर्णचन्द्रवत् ।। ६५ ।।

विशुद्धं मधुपूर्णं च मधुपात्रं यदक्षयम् ।
धर्मेण यत्प्रदत्तं च तद्दत्तं प्रियया हरेः ।। ६६ ।।

जलभोजनपात्रं च शृद्रं स्वर्णविनिर्मितम् ।
मिष्टान्नं परमान्नं चददौ सुस्वादुमिष्टकम् ।। ६७ ।।

भोजतं कारयित्वा च कर्पूरादिसुवासितम् ।
ताम्बूलं च ददौ शीघ्रं माल्यं सुस्निग्धचन्दनम् ।। ६८ ।।

शुभाशिषं च प्रददौ वाञ्छितं प्रवरं वरम् ।
ज्ञानं कृष्णेन यद्दत्तं गोलोके रासमण्डले ।। ६९ ।।

पुरुषाणां शतं यावन्निश्चलां कमलां ददौ ।
विद्यां यशस्करीं शुद्धां यशः कीर्तिं सुनिर्मलाम् ।। ७० ।।
सर्वसिद्धिं हरेर्दास्यं हरिभक्तिं च निश्चलाम् ।
पार्षदप्रवरत्वं च पार्षदं च हरेरिति ।। ७१ ।।

वरं प्रसादं दत्त्वा च समुत्थाय मुदाऽन्वितम् ।
वह्निशुद्धांशुके धृत्वा चामूल्यं रत्नभूषणम् ।। ७२ ।।

हीरहारं रत्नमालां परिघाय मनोहराम् ।
सिन्दूरं कज्जलं पुष्पमाल्यं सुस्तिग्धचन्दनम् ।। ७३ ।।

रत्नसिंहासनस्थं तं पूजिता पूजितं मुदा ।
वेष्टिता हर्षनिरतं गौपीनां शातकोटि भिः ।।
तप्तकाञ्चनवर्णाभा शतचन्द्रसमप्रभा ।। ७४ ।।

राधिकोवाच
सत्यमायास्यति हरिः सत्यं निष्कपटं वद ।
वद तथ्यं भयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि ।। ७५ ।।

वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशतात्किल ।। ७६ ।।

न हि सत्यात्परो धर्मो नानृतात्पातकं परम् ।। ७७ ।।

उद्धव उवाच
सत्यमायास्यति हरिः सत्यं द्रक्ष्यसि सुन्दरि ।
ध्रुवं त्यक्ष्यसि संतापं दृष्ट्वा चन्द्रमुखं हरेः ।। ७८ ।।

मद्दर्शनान्महाभागे गतस्ते विरहज्वरः ।
नानाभोगसुखं भुक्त्वा त्यज चिन्तां दुरत्ययाम् ।। ७९ ।।

अहं प्रस्थापयास्यामि गत्वा मधुपुरीं हरिम् ।
विधाय तत्प्रबोधं च कार्यमन्यत्करिष्यति ।। ८० ।।
विदायं कुरु मे मातर्यास्यामि हरिसंनिधिम् ।
सर्वं तं कथयिष्यामि त्वद्वृत्तान्तं यथोचितम् ।। ८१ ।।

राधिकोवाच
गमिष्यसि यदा वत्स मथुरां सुमनोहराम् ।
श्रृणु दुःखकथां कांचित्तिष्ठ वत्स स्थिरोभव ।। ८२ ।।

मां विस्मृतो न भवसि विरहज्वरकातराम् ।
कथयिष्य सि मत्कान्तं ध्रुवं प्रस्थापयिष्यसि ।। ८३ ।।

नारीणां मनसो वार्तां को वा जानाति पण्डितः ।
किंचिच्छास्त्रानुसारेण प्रकरोति निरूपणम् ।। ८४ ।।

वेदा वक्तुं न शक्ताश्च शास्त्राणि किं वदन्ति च ।
कथ यिष्यामि त्वां सर्वं पुत्र कृष्णं च वक्ष्यसि ।। ८५ ।।

गेहे वने न भेदो मे पश्वादिषु तथा नृषु ।
किं वा जलं किमु स्वप्नमज्ञानं च दिवानिशम् ।। ८६ ।।

आत्मानं च न जानामि चौदयं चन्द्रसूर्ययोः ।
क्षणं प्राप्य हरेर्वार्तां चेतनं मे बभूव ह ।। ८७ ।।

कृष्णाकृतिं च पश्यामि श्रृणोमि मुरलीध्वनिम् ।
कुलं लज्जां भयं त्यक्त्वा चिन्तयामिहरेः पदम् ।। ८८ ।।

संप्राप्य सर्वजगतामीश्वरं प्रकृतेः परम् ।
न ज्ञानं मायया तस्य ज्ञात्वा गोपपतेर्मंम ।। ८९ ।।

ध्यायन्ते यत्पदाम्भोजं वेदा ब्रह्मादयः सुराः ।
स भर्त्सितो मया कीपाद्ध्दि शत्यमिदं मम ।। ९० ।।
तत्पदाम्भोजसेवाभिर्गुणप्रस्तावतोऽपि वा ।
तद्भक्त्या यत्क्षणो नीतो ध्यातो ध्यानेन पूजया ।। ९१ ।।

तत्रापि मङ्गलं सर्वं हर्षमायुर्व्यंवस्थितम् ।
विघ्नं च हृदि संतापस्तद्विच्छेदे सदोद्धव ।। ९२ ।।

क्रीडाप्रीतिर्नं भविता तादुशीष्टा पुनर्मम ।
तादृशं प्रेमसौभाग्यं निर्जने न च संगमः ।। ९३ ।।

वृन्दावनं न यास्यामि तत्सङ्गे पुनरुद्धव ।
चन्दनं वा न दास्यामि नन्दनन्दनवक्षसि ।। ९४ ।।

मालां तस्मै न दास्यामि न द्रक्ष्यामि मुखाम्बुजम् ।
मालतीनां केतकीनां चम्पकानां च काननम् ।। ९५ ।।

पुनरेव न यास्यामि सुन्दरं रासमण्डलम् ।
हरिसङ्गे न यास्यामि रम्यं चन्द्रनकाननम् ।। ९६ ।।

पुनरेव न यास्यामि मलयं रत्नमन्दिरम् ।
माधवीनां वनं रम्यं रहस्यं मधुकाननम् ।। ९७ ।।

श्रीखण्डकाननं रम्यं स्वच्छं चन्द्रसरोवरम् ।
विस्पन्दकं सुरवनं नन्दनं पुष्पभद्रकम् ।। ९८ ।।

भद्रकं हरिणां सार्धं न यास्यामि पुनः पुनः ।
क्व सा रम्या विकसिता माधवे माधवीलता ।। ९९ ।।

क्व गता माधवी रात्रिः क्व मधुः क्वापि माधवः ।
इस्येवमुक्त्वा सा राधा ध्यात्वा कृष्णपदाम्बुजम् ।।
पुनर्मुर्च्छां च संप्रप्य रूदती पुलकान्विता ।। १०० ।।
इति श्रीब्रह्मo महाo नारदनाo श्रीकृष्मजन्मखo उत्तरo राधोद्धवसंo
त्रिनवतितमोऽध्यायः ।। ९३ ।।