प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०९४

← अध्यायः ९३ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९४
[[लेखकः :|]]
अध्यायः ९५ →

अथ चतुर्नवतितमोऽध्यायः

नारायण उवाच
उद्धवो विस्मयं प्राप्य भयं च विपुलं मुने ।
चेतनं कारयामास तामुवाच मृतामिव ।। १ ।।
तद्भक्तिं समभिज्ञाय स्वात्मानं भक्तसंख्यकम् ।
तुच्छं मेने जगत्सर्वं दृष्ट्वा भाग्यवतीं सतीम् ।। २ ।।
उद्धव उवाच
चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तु ते ।
त्वमेद प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि सांप्रतम् ।। ३ ।।
त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही ।
सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः ।। ४ ।।
लोकास्त्वामेव गायन्ति संगीतैर्मङ्गलस्तवैः ।
त्वत्सुकीर्तिं च देवाश्च सनकाद्याश्च संततम् ।। ५ ।।
कृतपापहरां पुण्यां तीर्थपूजां च निर्मलाम् ।
हरिभक्तिप्रदां भद्रां सर्वविघ्नदिनाशिनीम् ।। ६ ।।
त्वमेव राधा त्वं कृष्णस्त्वं पुमान्प्रकृतिः परा ।
राधामाधवयोर्भेदो न पुराणे श्रुतौ तथा ।। ७ ।।
राधिकां मूर्च्छितां दृष्ट्वा पश्चात्कृत्वा तमुद्ववम् ।
उवाच माधवी गोपी राधायाः पुरतः स्थिता ।। ८ ।।
माधव्युवाच
किं वा चोरस्य कृष्णस्य रूपं वा वेषमुत्तमम् ।
किं सुखं विभवं किं वा गौरवं चाप्यनुत्तमम् ।। ९ ।।
किं वा तद्वीर्यमैश्वर्यं शौर्य वा दुरतिक्रमम् ।
किं वा सिद्धं प्रसिद्धं वा किं वा तुल्यं गुणोत्तमम् ।। १० ।।
इतो वा कुत आयातः पुनरेव कुतो गतः ।
बालको गोपवेषश्च नहि राजात्मजः पुमान् ।। ११ ।।
त्वं किं स्मरसि कल्याणि गोपालं नन्दनन्दनम् ।
आत्मानं रक्षयत्नेन कः प्रियः स्वात्मनः परः ।। १२ ।।
धिक्त्वां राधेऽतिनिर्लज्जां तवैव जीवनं वृथा ।
जगतो युवतीनां च करोषि सुयशःक्षयम् ।। १३ ।।
नारीणां गोपनं कार्य सुव्यक्ते स्वयशःक्षयम् ।
यत्नेन चक्षुषो वाऽर्हं सखि संचरणं कृरु ।। १४ ।।
अन्तरे पतिभावं च संगोप्य भावनं कुरु ।
न वै जातिश्च शत्रूणां मित्राणां च सुरेश्वरि ।। १५ ।।
शत्रुः कार्यवशेनैव मित्रं च कर्मणा भवेत् ।
स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसेन मूर्खता ।। १६ ।।
कः कस्य वल्लभो राधे कः कस्याप्रिय एव च ।
कार्यं च समयं ज्ञात्वा सन्तः कुर्वन्ति संततम् ।। १७ ।।
शत्रुर्धनापहारी च प्राणहर्ता ततः परः ।
कटुवक्ता दुःखदाता शत्रूणां लक्षणं श्रृणु ।। १८ ।।
स्वकुलात्त्वां बहिष्कृत्य विसृज्य शोकसागरे ।
गृहीत्वा चेतनं प्राणान्निष्ठुरो दारुणो गतः ।। १९ ।।
किं किं स्मरसिमूढे हि त्यज शोकं सुदारुणम् ।
आत्मानं रक्ष यत्नेन कः प्रियः स्वात्मनः परः ।। २० ।।
पद्मावत्युवाच
भवता कथितं पूर्णं यमुनाजलसंनिधौ ।
अरसस्य रतिर्दूरं नारीणां न सुखं प्रिये ।। २१ ।।
विद्युज्ज्वारा जले रेखा खलानां प्रीतिरेव च ।
न नीतिर्तीतिशास्त्रेषु सुविश्वासः खलेषु च ।। २२ ।।
यदा त्वं यमुनाकूले मुखं वीक्ष्य हरेरहो ।
सस्मितं सकटाक्षं च पुनः कृत्वाऽस्य गोपनम् ।। २३ ।।
पुनः पुनस्त्वं संवीक्ष्य त्वया त्यक्तं च चेतनम् ।
गृहं त्यक्त्वा गुरुभयं सखीनां वचनं शुभम् ।। २४ ।।
संततं ध्यायसे कृष्णं नाऽऽहारं जीवनं तथा।
क्व कृष्णो मथुरायां च क्वापि त्वं कदलीवने ।। २५ ।।
त्वं यदि त्यजसि प्राणान्नाऽऽविर्भवति सोऽधुना ।
काले द्रक्ष्यसि स्वात्मानं यदि रक्षसि सुन्दरि ।। २६ ।।
चन्द्रमुख्युवाच
प्राक्तनेन शुभं सर्वं सुखं च विभवश्चिरम् ।
दुःखं शोको प्राक्तनेन विपत्संपच्च सांप्रतम् ।। २७ ।।
भारते पुण्यभूमौ च सर्वेषामीप्सिते वरे ।
लभेत्पतिं हरिं कान्तं तपसा प्रकृतेः परम् ।। २८ ।।
तथाऽपि प्रदहेद्गात्रं कामबाणेन सांप्रतम् ।
अस्याः शत्रुः कथं चन्द्रो मधुर्वा मधुमाधवौ ।। २९ ।।
शंकरेण प्रदग्धोऽभूत्पुनरेव स मन्मथः ।
चन्द्रं भक्षतु राहुश्च पुनश्चोद्वमनं तथा ।। ३० ।।
मधुश्च मित्रशोकेन प्राणांस्त्यक्त्वा ययौयमम् ।
सुधासिन्धुश्च चेन्दुर्यो विषसिन्धुश्च मां प्रति ।। ३१ ।।
सुवेषः स्याज्ज्वलद्वह्निश्चन्दनं तद् घृताहुतिः ।
संततं प्रदहेद्गात्रं सुगन्धिश्च समीरणः ।। ३२ ।।
त्यक्ताहारा मम सखी पश्य श्वसिति जीवति ।
प्रशंसांकुरु कृष्णस्य मुखेन कुरुनन्दन ।। ३३ ।।
तन्नामस्मृतिमात्रेण तद्गुणश्रवणेन च ।
तद्वार्तया च शुभया सहसा चेतनं भवेत् ।। ३४ ।।
शशिकलोवाच
त्वं किं माधवि जानासि कृष्णमात्मानमीश्वरम् ।
यं तं ब्रह्मादयो देवा वेदाश्चत्वार एव च ।। ३५ ।।
ध्यायन्ति संतसं सन्तः पादपद्मं सुरेप्सितम् ।
पद्मा सरस्वती दुर्गा सोऽनन्तोऽपि महेश्वरः ।। ३६ ।।
यं न जानन्ति सिद्धेन्द्र मुनीन्द्रां मनवस्तथा ।
सर्वात्मनः कुतो रूपं निर्गुणस्य कुतो गुणाः ।। ३७ ।।
सत्यमुक्तं च सत्यस्य यत्तदेव यथोचितम् ।
धत्ते भारावतरणे पृथिव्याश्च मनोहरम् ।। ३८ ।।
सुखमाह्लादकं रम्यं भक्तानुग्रहविग्रहम् ।
किमनिर्वचनीयं च रूपं जनमनोहरम् ।। ३९ ।।
कोटिकन्दर्पलावण्यं लीलाधाम शुभाक्षयम् ।
यत्पादपद्ममधुरं मधु मन्दाकिनीजलम् ।। ४० ।।
दध्रे शिरसि भक्त्या च सर्वेशः शंकरः परः ।
शश्वत्करोति वैरागी तीर्थकीर्तेश्च कीर्तनम् ।। ४१ ।।
क्षणं नृत्यति भक्त्या च पञ्चवक्त्रेण गायति ।
आहारं भूषणं वस्त्रं परित्यज्य दिगम्बरः ।। ४२ ।।
ब्रह्म ज्योतिः स्वरूपं च ध्यात्वा शुभ्रं सुनिर्मलम् ।
ब्रह्मा च तपसा जन्म नयत्येव हि सेवया ।।
शेषः सनत्कुमारश्च सिद्धसंघश्य योगवित् ।। ४३ ।।
सुशीलोवाच
निर्मञ्छनार्हं न भवेत्तस्य कामशतं शतम् ।
चन्द्रोऽशिवनीकुमारो वा रुपेषु केन गण्यते ।। ४४ ।।
असंख्येषु च विश्वेषु ब्रह्मविष्णुशिवादयः ।
मुनयो मनवः सिद्धा भक्ताः सन्तश्च संततम् ।। ४५ ।।
ध्यायन्ते यत्पदाम्भोजं निर्गुणस्याऽऽत्मनश्च वै ।
वेदाः स्तोतुं न शक्ताश्च यमीशं च सरस्वती ।। ४६ ।।
जडीभूता च भीता च स्तवनेन क्षमाण्येतु ।
सहस्रवक्त्रः स्तवने कम्पितश्च निरन्तरम् ।। ४७ ।।
वेदानां जनको ब्रह्मा स्तोत्रेण तस्य हीश्वरः ।
तं सत्यं नित्यमीशं च माधवी परिनिन्दति ।। ४८ ।।
अपवित्रा सभा भूता गोपीनां जीवनं वृथा ।
तासु पुण्यवती शोकः प्रणश्यति न संशयः ।। ५० ।।
रत्नमालोवच
दधार वामहस्तेन शैलं गोवर्धनं हरिः) ।
ततः किं तद्दशः शौर्य जगतां जनकस्य च ।। ५१ ।।
शैलानां च सहस्रं यो भेतुं शक्तश्च दैत्यराट् ।
लीलामात्रेण तेषां च लक्षं हन्तु क्षमो हरिः ।। ५२ ।।
यदंशकलया जातः सूकरो विष्णुरीश्वरः ।
वसुधां दशनाग्रेण चोद्दधार च लीलया ।। ५३ ।।
शैलानां च सहस्राणि यत्र सन्ति महीतले ।
दैत्याश्च वाऽप्यसंख्याश्च वीराः शूरास्तथैव च ।। ५४ ।।
तेनैव कर्मणा तस्य न शौर्यं न च पौरुषम् ।
न यशाश्च प्रशंसा वा सखि सर्वात्मनाऽऽत्मना ।। ५५ ।।
पारिजातोवाच
सप्तद्वीपा च वसुधा सशैलवनसागरा ।
काञ्चनीभूमिसहिता सर्वाधारा मनोहरा ।। ५६ ।।
सप्त स्वर्गाश्च विविधा ब्रह्मलोकावधि प्रिये ।
विचित्राः सुन्दराश्चैव पातालानां च सप्त च ।। ५७ ।।
एतैः परिमितं विश्वं ब्रह्माण्डं ब्रह्मणा कृतम् ।
महद्विष्णोर्लोमकूपे तदेवं चाणुवत्स्थितम् ।। ५८ ।।
तस्य यावन्ति लोमानि तानि विश्वानि सन्ति च ।
स एव षोडशांशश्च कृष्णस्य परमात्मनः ।। ५९ ।।
तस्यैव किं यशः शौर्चं महिमानमनूपमम् ।
घस्मरी गोपकन्या च किं वा जानाति माधवी ।। ६० ।।
माधव्युवाच
मया यदुक्तं न ज्ञात्वा मूढा जल्पन्ति गोपिकाः ।
उद्धव शुणु मे वाक्यं यन्मया कथितं शुभम् ।। ६१ ।।
स्वेच्छया सगुणो विष्णुः स्वेच्छया निर्गुणोभवेत् ।
भुवो भारावतरणे गोपवेषः शिशुर्विभुः ।। ६२ ।।
यदि वेदाः पुराणानि सिद्धाः सन्तश्च संततम् ।
ब्रह्मेशशेषभक्ताश्च न जानन्ति यमीश्वरम् ।। ६३ ।।
तं किं जानामि मूढाऽहं घस्मरी गोपकन्यका ।
तथाऽपि मद्वचः सत्यं श्रूयतां वत्स तत्क्षणम् ।। ६४ ।।
किमनिर्वचनीयं च रूपं शौर्यं यशो बलम् ।
वीर्यं वेषं च सिद्धिं चाप्यन्यो वा यो गुणो हरेः ।। ६५ ।।
स्वेच्छामयस्य तस्यैव सगुणस्य च सांप्रतम् ।
किमनिर्वचनीयं च वर्तते तद्विशेषणम् ।। ६६ ।।
निर्गुणस्य च विष्णोश्च वेहहीनस्य स्वात्मनः ।
वर्तते च किमाख्येयं तस्य रूपादिकं च किम् ।। ६७ ।।
मां निन्दति महामूढा न बुद्धा वचनं मम ।
एषा जानाति किं मूढा तं सत्यं प्रकृतेः परम् ।। ६८ ।।
ज्योतिः स्वरूपं परमं परमात्मानमीश्वरम् ।
तमनिर्वचनीयं च भक्तानुग्रहविग्रहम् ।। ६९ ।।
यत्पादपद्भं पद्मा सा त्रैलोक्यजननी परा ।
सेवते कम्पिता भीता दासीवत्सततं भिया ।। ७० ।।
विष्णुमाया च प्रकृतिर्मूलरूपा सनातनी ।
ब्रह्मस्वरूपा परमा भीता दक्षिणपार्श्वतः ।। ७१ ।।
सरस्वती जडीभूता भीता च परमेश्वरी ।
स्तोतुं न शक्ता वेदाः किं स्तुवन्ति परमेश्वरम् ।। ७२ ।।
तासां तद्वचनं श्रुत्वा चोद्धवो भक्तिविह्वलः ।
पुलकाञ्चितसर्वाङ्गो रुरोद च पपात च ।। ७३ ।।
मूर्च्छं संप्राप्य भक्त्त्या च ध्यात्वा तं परमेश्वरम् ।
तुच्छं मेने स चाऽऽत्मानं गोपीं भक्त्याऽप्युवाच सः ।। ७४ ।।
उद्धव उवाच
धन्यं यशस्यं द्वीपानां जम्बुद्वीपं मनौहरम् ।
यत्र भारतवर्षं च पुण्यदं शुभदं तथा ।। ७५ ।।
वणिजां च पुश्यकृतं वाणिज्यस्थलमीप्सितम् ।
अत्र कृत्वा सुपुण्यं च भुङ्क्तेऽन्यत्र शुभं फलम् ।। ७६ ।।
धन्यं भारतवर्षं तु पुण्यदं शुभदं वरम् ।
गोपीपादाब्जरजसा पूतं परमनिर्मलम् ।। ७७ ।।
ततोऽपि गोपिका धन्या सान्या योषित्सु भारते ।
नित्यं पश्यन्ति राधायाः पादपद्मं सुपुण्यदम् ।। ७८ ।।
षष्टिवर्षसहस्राणि तपस्तप्तं च ब्रह्मणा ।
राधिकापादपद्मस्य रेणूनामुपलब्धये ।। ७९ ।।
गोलोकवासिनी राधा कृष्णप्राणाधिका परा ।
तत्र श्रीदामशापेन वृषभानसुताऽधुना ।। ८० ।।
ये ये भक्ताश्च कृष्णस्य देवा ब्रह्मादयस्तथा ।
राधायाश्चापि गोपीनांकरां नार्हन्ति षोडशीम् ।। ८१ ।।
कृष्णभक्तिं विजानाति योगीन्द्रश्च महेश्वरः ।
राधा गोप्यश्च गोपाश्च गोलोकवासिनश्च ये ।। ८२ ।।
किंचित्सनत्कुमारश्च ब्रह्मा चेद्विषयी तथा ।
किंचिदेव विजानन्ति सिद्धा भक्ताश्च निश्चितम् ।। ८३ ।।
धन्योऽहं कृतकृत्योऽहमागतो गोकुलं यतः ।
गोपिकाभयो गुरुभ्यश्च हरिभक्तिं लभेऽचलाम् ।। ८४ ।।
मथुरां च न यास्यामि तीर्थकीर्तेश्च कीर्तनम् ।
श्रोष्यामि किंकरो भूत्वा गोपीनां जन्मजन्मनि ।। ८५ ।।
न गोपीभ्यः परो भक्तो हरेश्च परमात्मनः ।
यादृशीं लेभिरेगोप्यो भक्तिं नान्ये च तादृशीम् ।। ८६ ।।
कलावत्युवाच
पितणां मानसी कन्या धन्या मेना कलावती ।
वयं तिस्रो भगिन्यश्च भ्रमामः पृथिवीतले ।। ८७ ।।
धन्या जनकपत्नी नः सीतामाता पतिव्रता ।
अयोनिसंभवा राधा अहं चायोनिसंभवा ।। ८८ ।।
राधा श्रीदामशापेन वृषभानसुता भुवि ।
सनत्कुमारशापेन वयमेव महीतले ।। ८९ ।।
क्षीरोदसागरं रम्यं श्वेतद्वीपं मनोहरम् ।
तिस्रो भगिन्यो भक्त्या च विष्णुंद्रष्टुं गता वयम् ।। ९० ।।
अम्युत्थानादि न कृतं कोपादस्माञ्छशाप ह ।
सनत्कुमारो भगवान्योगीन्द्राणां गुरोर्गुरुः ।। ९१ ।।
सनत्कुमार उवाच
मूढास्तिष्ठत भूमौ च पुनः स्वर्गं न यास्यथ ।
मर्त्यप्राणिप्रिया भूत्वा चाहंकारैण हैतुना ।। ९२ ।।
पुनर्वरं च प्रत्येकं ददौ तुष्टो द्विचेश्वरः ।
विष्णोर्वशस्य शैलस्य हिमाधारस्य कामिनी ।। ९३ ।।
ज्येष्ठा भवतु त्वत्कन्या भविष्यत्येव पार्वती ।
धन्या प्रिया तु भवतु योगिनो जनकस्य च ।। ९४ ।।
तस्य कन्या महालक्ष्मीः सीतादेवी भविष्यति ।
वृषभानस्य वैश्यस्य योगिनां प्रवरस्य च ।। ९५ ।।
दुर्वाससश्च शिष्यस्य कनिष्ठा च कलावती ।
भविष्यति प्रिया साध्वीद्वापरान्ते च गोकुले ।। ९६ ।।
कलावतीसुता राधा देवी गोलोकवासिनी ।
श्रीदामगोपशापेन भविष्यति न संशयः ।। ९७ ।।
ईशो ब्रह्मेशशेषाणां भारावतरणेन च ।
आगमिष्यति पृथवीं च पुण्यक्षेत्रं च भारतम् ।। ९८ ।।
कलावती वृष्भानः कौतुकात् कन्यया सह ।
जीवन्मुक्तश्च गोलोकं गमिष्यति न संशयः ।। ९९ ।।
धन्या च सीत्या सार्धं वैकुण्ठं च गमिष्यति ।
मेनका योगिनी सिद्धा पार्वत्याश्च वरेण च ।। १०० ।।
कल्पान्ते विष्णुलोके च लक्ष्मीवन्मोदते चिरम् ।
विना विपत्त्या महिमा केषां कुत्र भविष्यति ।। १०१ ।।
कर्मणा च गते दुःखे प्रभवेद्दुर्लभं सुखम् ।
पुरा पितणां कन्याश्च स्वर्मभोगविलासिकाः ।। १०२ ।।
लक्ष्मीसमा वरेणापि विप्रस्य विष्णुदर्शनात् ।
कर्मक्षयं चाप्यस्माकं बभूव विष्णुदर्शनात् ।। १०३ ।।
पुण्ये तेन तीव्रेण कुमारस्यापि दर्शनम् ।
श्रुतं तत्र कुमारास्याज्ज्ञानं परमदुर्लभम् ।। १०४ ।।
ब्रह्मविष्णुशिवादीनां सिद्धानां जगतामपि ।
ईश्वरः परमात्मा च श्रीकृष्णः प्रकृतेः परः
निर्गुणश्च निरीहश्च परः स्वेच्छामयो वरः ।। १०५ ।।
तुलस्युवाच
सर्वप्राणिषु देवाश्च तिष्ठन्त्येव पृथक्पृथक् ।
प्राणो विष्णुश्च विषयी मनो ब्रह्मा च चेतना ।। १०६ ।।
प्रकृतिर्बुद्धिरूपा च सर्वशक्त्यधिदेवता ।
ज्ञानस्वरूपः शंभुश्च स्वयं धर्मश्च पूरुषः ।। १०७ ।।
निर्गुणः परमात्मा च तद्ब्रह्म प्रकृतेः परम् ।
स एव कृष्णः साक्षी च कर्मणां जीविनामपि ।। १०८ ।।
भोक्ता च सुखदुःखानां जीवस्तत्प्रतिबिम्बकः ।
चक्षुषोश्चन्द्रसूर्यौ च जिह्वायां च सरस्वती ।। १०९ ।।
वसुंधरा त्वचि सदा बाह्वोस्ते लोकपालकाः ।
आत्मनश्चापि ते सर्पे परिचारकरूपिणः ।। ११० ।।
आत्मन्येव प्रियास्ते च सर्वे गच्छन्ति जीविनः ।
यथा संसदि संसारे नरदेह(व) मिवानुगाः ।। १११ ।।
तस्मात्सर्वात्मनाऽऽत्मानं भजन्ति संततं सदा ।
सन्तश्च परया भक्त्या ध्यायन्ते योगिनो मुदा ।। ११२ ।।
कर्मिणां कर्मणां साक्षी कुतः कर्म च गोपनम् ।
अन्तर्यामी च कृष्णश्च प्रचारं कुरुते मुदा ।। ११३ ।।
कालिकोवाच
नरा बालाश्च वृद्धाश्च युवानस्त्रिविधास्तथा ।
देवादयश्च चे सिद्धाः सर्वे जानन्ति तं परम् ।। ११४ ।।
उद्धव उवाच
सांप्रतं मूर्च्छितां राधां युक्तो बोधयितुं बुधः ।
अत्र युक्तिः प्रधाना त्वं तां प्रबोधय चोद्धव ।। ११५ ।।
चेतनं कुरु कल्याणि जगन्मातर्निबोध माम् ।
उद्भवं कृष्णभक्तस्य किंकरस्यापि किंकरम् ।। ११६ ।।
प्रसादं कुरु मातर्मां यास्यामि मथुरां पुनः ।
न स्वतन्त्रः पराधीनो योषा दारुमयी यथा ।। ११७ ।।
यथा वृषो वशीभूतो वृषवाहस्य संततम् ।
तथा मातर्जगत्सर्वं जगन्नाथस्य निश्चितम् ।। ११८ ।।
इति श्रीब्रह्मo महाo श्रीकृष्मजन्मखo उत्तo नारदनाo राधोद्धवसंo
चतुर्नवतितमोऽध्यायः ।। ९४ ।।