ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०९८

← अध्यायः ९७ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९८
[[लेखकः :|]]
अध्यायः ९९ →

अथाष्टनवतितमोऽध्यायः
नारायण उवाच
अथोद्धवो यशोदां च प्रणम्य त्वरया मुदा ।
खर्जूरकाननं वामे कृत्वा च यमुनां ययौ ।। १ ।।

स्नात्वा भुक्त्वा च तत्रैव जगाम् मथुरां पुनः ।ददर्श वटमूले च गोविन्दं रहसि स्थितम् ।। २ ।।

प्रफुल्लोऽप्युद्धवं दृष्टवा सस्मितं तमुवाच सः ।
रुदन्तं शोकदग्धं च साश्रुनेत्रं च कातरम् ।। ३ ।।

श्रीभगवानुवाच
आगच्छोद्धव कल्याणं राधा जीवति जीवति ।
कल्याणयुक्ता गोप्यश्च जीवन्ति विरहज्वरात् ।। ४ ।।

शुभं गोपशिशूनां च वत्सानां च गवामपि ।
माता मे पुत्रविरहाद्यशोदा कीदृशी च सा ।। ५ ।।

वद बन्धो यथार्थं तत्त्वां दृष्ट्वा किमुवाच सा ।
त्वयोक्ता जननी किं वा पुनः सा किमुवाच माम् ।। ६ ।।

दृष्टं तद्यमुनाकूलं पुण्यं वृन्दावनं वनम् ।
निर्जनोपवनोघैश्च सुरम्यं रासमण्डलम् ।। ७ ।।

रम्यं कुञ्जकुटीरौधै रम्यं क्रीडासरोवरम् ।
पुष्पोद्यानं विकसितं संकुलं च मधुव्रतैः ।। ८ ।।

भाण्डीरे च वटो दृष्टः सुस्निग्धो बालकान्वितः ।
दृष्टो गोष्ठो गवां दृष्टं गोकुलं गोकुलव्रजम् ।। ९ ।।

यदि जीवति राधा सा दृष्ट्वा त्वां किमुवाच माम् ।
तत्सर्वं वद हे बन्धी चाऽऽन्दोलयति मे मनः ।। १० ।।
किमूचुर्गोपिकाः सर्वाः किमुचुर्गोपबालकाः ।
गोपाश्च वृद्धाः किंवोचुर्वयस्या जनकस्य मे ।। ११ ।।

बलवेवस्य जननी किमूचे रोहिणी सती ।
किमुचूरपरास्तात बन्धुवल्लभवल्लवाः ।। १२ ।।

किं भुक्तं किमपूर्वं वा दत्तं मात्रा च राधया ।
कीदृग्वाक्यं सुमधुरं संभाषा कीदृशीति च ।। १३ ।।

गोपानां गोपिकानां च शिशूनां मातुरेव च ।
राधायाश्चापि कीदृग्वा मयि प्रेमोद्धवाधिकम् ।। १४ ।।

मां च स्मरति माता मे मां च स्मरति रोहिणी।
मां च स्मरति सा राधा मत्प्रेमविरहाकुला ।। १५ ।।

मां च स्मरन्ति गोप्यश्च गोपाश्च गोपबालकाः ।
भाण्डीरे वटमूले च बालाः क्रीडन्ति मां विना ।। १६ ।।

दत्तमन्नं ब्राह्मणीभिर्यत्र भुक्तं सुधोपमम् ।
प्रमदाबालकैः सार्धं तद्दृष्टं पदमीप्सितम् ।। १७ ।।

इन्द्रयागस्थलं दृष्टं दृष्टो गोवर्धनो वरः ।
ब्रह्मणा च हृता गावो यत्र तद्दृष्टमुत्तमम् ।। १८ ।।

श्रीकृष्णस्य वचः श्रुत्वा शोकोक्तं मधुरान्वितम् ।
उद्धवः समुवाचेदं भगवन्तं सनातनम् ।। १९ ।।

उद्धव उवाच
यद्यदुकतं त्वया नाथ सर्वं दृष्टं यथेप्सितम् ।
सफलं जीवनं जन्म कृतमत्रैव भारते ।। २० ।।
दृष्टं भारतसारं च पुण्यं वृन्दावनं वनम् ।
तत्सारं व्रजभूमौ च सुरम्यं रासमण्डलम् ।। २१ ।।

तत्सारभूता गोलोकवासिन्यो गोपिकाः वराः ।
दृष्टा तत्मारभूता च राधा रासेश्वरी परा ।। २२ ।।

कदलीवनमध्ये च निर्जने सुहृदस्थले ।
पङ्कस्थे पङ्कजदले सजले चन्दनार्चिते ।। २३ ।।

शयनेऽतिविषण्णा सा रत्नभूषणवर्जिता ।
अतीव मलिना क्षीणाऽऽच्छादिता शुक्लवाससा ।। २४ ।।

सेविता सखिभिस्तत्र सततं श्वेतचामरैः ।
कृशोदरी निराहारा क्षणं श्वसिति च क्षणम् ।। २५ ।।

क्षणं जीवति किं वा सा विरहज्वरपीडिता ।
किं वा जलं स्थलं किं दा नक्तं किं वा दिनं हरे ।। २६।।नरं पशुं न जानाति किं परं किमु बान्धवम् ।
बाह्यज्ञानविरहिता ध्यायमाना पदं तव ।। २७ ।।

त्रेलोक्ये यशसा भाति तन्मृत्युर्यशसंभवः ।
स्त्रीहत्यां नैव वाञ्छन्ति ज्ञानहीनाश्च दस्यवः ।। २८ ।।

गच्छ शीघ्रं जगन्नाथ कदलीवनमीप्सितम् ।
बहिर्भूता न जगतां सा राधा त्वत्परायणा ।। २९ ।।

अतीव भक्ता न त्याज्या प्रभुणा रक्षिता सदा ।
न हि राधापरा भक्ता न भूता न भविष्यति ।। ३० ।।
मन्मथः शंकराद्भीतो भवांश्च तत्पुरःसुरः ।
भवद्विधं पतिं प्राप्य कामदग्धा च राधिका ।। ३१ ।।

तस्मात्सर्वपरं कर्म तन्न केनापि वार्यते ।
मधुर्दहति चन्द्रश्च सततं किरणेन च ।। ३२ ।।

शश्वत्सुगन्धिवायुश्चाप्यनाथा सर्वबीडिता ।
तप्तकाञ्चनवर्णभा साऽधुना कज्जलोपमा ।। ३३ ।।

सुवर्णवर्णकेशी च वासोवेषविवर्चिता ।
स्वयं विधाता त्वद्भक्तः सुराणां प्रवरो विभुः ।। ३४ ।।

त्वद्भक्तः शंकरो देवो योगीन्द्राणां गुरोर्गुरुः ।
सनत्कुमारस्त्व द्भक्तो गणेशो ज्ञानितां वरः ।। ३५ ।।

मुनीन्द्राश्च कतिविधास्त्वद्भक्ता धरणीतले ।
त्वद्भक्ता यादृशी राधा न भक्तादृशोऽपरः ।। ३६ ।।

ध्यायते यादृशी राधा स्वयं लक्ष्मीर्न तादृशी ।
हरिरायाति चेत्येवं राधाग्रे स्वीकृतं मया ।। ३७ ।।
शीघ्रं गच्छ महाभाग तदेव सार्थकं कुरु ।
अद्धवस्य वचःश्रुत्वा जहासोवाच माधवः
वेदोक्तं कथयामास सहितं सत्यसुव्रतम् ।। ३८ ।।

श्रीभगवानुवाच
स्त्रीषु धर्मविवाहेषु वृत्त्यर्थे प्राणसंकटे ।
गवामर्थे ब्राह्मणार्थे नानृतं स्याज्जुगुप्सितम् ।। ३९ ।।

तत्स्वीकारविहीनेन कुतस्त्वं नरकः कुतः ।
गोलोकं याति मद्भक्तो नरकं न हि पश्यति ।। ४० ।।
त्वदङ्गीकारसाफल्यं करिष्यामि तथाऽपि च ।
यास्यामि स्वप्ने च गोकुलं विरहाकुलम् ।। ४१ ।।

इत्याकणर्य ययौ गेहमुद्धवश्च महायशाः ।
हरिर्जगाम स्वप्ने च गोकुलं विर्हाकुलम् ।। ४२ ।।

स्वप्ने राधां समाश्वास्य दत्त्वा ज्ञानं सुदुर्लभम् ।
संतोष्य क्रीडया तां च गोपिकाश्च यथोचितम् ।। ४३ ।।

बोधयित्वा यशोदां च स्तनं पीत्वा च निद्रिताम् ।
गोपान्गोपशिशूंश्चैव बोधयित्वा ययौ पुनः ।। ४४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
अष्टनवतितमोऽध्यायः ।। ९८ ।।