ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०९९

← अध्यायः ९८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ९९
[[लेखकः :|]]
अध्यायः १०० →

अथ नवनवतितमोऽध्यायः
नारायण उवाच
एतस्मिन्नन्तरे गर्गो वसुदेवाश्रमं ययौ ।
दण्डी छत्री च जटिलो दीप्तश्च ब्रह्मतेजसा ।। १ ।।

शुक्लयज्ञोपवीती च तपस्वी संयतः सदा ।
शुक्लदन्तः शुक्लवासा यदोः कुलपुरोहितः ।। २ ।।

तं दृष्ट्वा सहसोत्थाय देवकी प्रणनाम च ।
वसुदेवश्च भक्त्या च रत्नसिहासनं ददौ ।। ३ ।।

मधुपर्कं कामधेनुं वह्निशुद्धांशुकं तथा ।
दत्त्वा गन्धं पुष्पमाल्यं पूजयामास भक्तितः ।। ४ ।।

मिष्टान्नं परमान्नं च पिण्टकं मधुरं मधु ।
भोजयामास यत्नेन ताम्बूलं वासितं ददौ ।। ५ ।।

प्रणम्य कृष्णं मनसा सबलं तं विलोक्य च ।
उवाच वसुदेवं च देवकीं च पतिव्रताम् ।। ६ ।।

गर्ग उवाच
वसुदेव निबोधेनं सवलं पश्य पुत्रकम् ।
उवनीतोचितं शुद्धं वयमा सांप्रतं वरम् ।। ७ ।।

वसुदेव उवाच
शुभक्षणं कुरु गृरो यदूनां पूज्यदैवत ।
उपनीतोचितं शुद्धं प्रशंस्यं च सतामपि ।। ८ ।।

गर्ग उवाच
सर्वेम्यो बान्धवेम्योऽपि देह्यामन्त्रणपत्रिकाम् ।
संभारं कुरु यत्नेन वसुदेव वसुपम ।। ९ ।।

परश्वः सुभमेवास्ति चोपेनतुमिहार्हसि ।
दिनं सतामपि मतं विशुद्धं चन्द्रतारयोः ।। १० ।।
गर्गस्य वचनं श्रुत्वा वसुदेवो वसूपमः ।
प्रस्थापयामास सर्वान्बन्धून्मङ्गलपत्रिकाम् ।। ११ ।।

घृतकुल्यां दुग्धकुल्यां दधिकुल्यां मनोहराम् ।
मधुकुल्यां गुडकुल्यां प्रचकार समन्वितः ।। १२ ।।

राशिं नानोपहाराणां मणिरत्नं सुवर्णकम् ।
नानालंकारवस्त्रं च मुक्तामाणिक्यहीरकम् ।। १३ ।।

श्रीकृष्णो देववर्गाश्च मुनीन्द्रसिद्धपुंगवान् ।
सस्मार मनसा भक्त्या भक्ताश्च भक्तवत्सलः ।। १४ ।।

शुभे दिने च संप्राप्ते ते च सर्वे समाययुः ।
मुनीन्द्रा बान्धवा देवा राजानो बहुशस्तथा ।। १५ ।।

देवकन्या नागकन्या राजकन्याश्च सर्वशः ।
विद्याधर्यश्च गन्धर्वाश्चाऽऽययुर्वाद्यभाण्डकाः ।। १६ ।।

ब्राह्मणा भिक्षुका भट्टा यतयो ब्रह्मचारिणः ।
संन्यासिनश्चावधूता योगिनश्च समाययुः ।। १७ ।।

स्त्रीबान्धवाः स्वबन्धूनां वर्गा मातामहस्य च ।
बन्धूनां बान्धवाः सर्वे स्वाययुः शुभकर्मणि ।। १८ ।।

भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा कृपो द्विजः ।
सुपुत्रो धृतराष्ट्रश्च सभार्यश्च समाययौ ।। १९ ।।

कुन्ती सपुत्रा विधवा हर्षशोकसमाप्लुता ।
नानादेशोद्भवा योग्या राजानो राजपुत्रकाः ।। २० ।।
अत्रिर्वसिष्ठश्च्यवनो भरद्वाजो महातपाः ।
याज्ञवल्क्यश्च भीमश्च गार्ग्यो गर्गो महातपाः ।। २१ ।।

वत्सः सपुत्रश्च धर्मो जैगीषव्यः पराशरः ।
पुलहश्च पुलस्त्यश्चाप्यगस्त्यश्वापि सौभरिः ।। २२ ।।

सनकश्च सनन्दश्च तृतीयश्च मनातनः ।
सनत्कुमारो भगवान्वोढुः पञ्चशिखस्तथा ।। २३ ।।

तुर्वासाश्चाङ्गिरा व्यासो व्यासपुत्रः शुकस्तथा ।
कुशिकः कौशिको राम ऋष्यशृङ्गो विभाण्डकः ।। २४ ।।

शृङ्गी च वामदेवश्च गौतमश्च गुणार्णवः ।
क्रतुर्यतिश्चाऽऽरुणिश्च शुक्राचार्यो बृहस्पतिः ।। २५ ।।

अष्टावक्रो वामनश्च वाल्मीकिः पारिभद्रकः ।
पैलो वैशंपायनश्च प्रचेताः पुरुजित्तथा ।। २६ ।।

भृगुर्मरीचिर्मधुजित्कश्यपश्च प्रजापतिः ।
अदितिर्देवमाता च दितिर्दैत्यप्रसूस्तथा ।। २७ ।।

सुमन्तुश्च सुभानुश्च कण्वः कात्यायनस्तथा ।
मार्कण्डेयो लोमशश्च कपिलश्च पराशरः ।। २८ ।।

पाणिनिः पारियात्रश्च पारिभद्रश्च पुंगवः ।
संवर्तश्चाप्युतथ्यश्च नरोऽहं चापि नारद ।। २९ ।।

विश्वामित्रः शतानन्दो जाबालिस्तैतिलस्तथा ।
सांदीपनिश्च ब्रह्मांशो योगिनां ज्ञानिनां गुरुः ।। ३० ।।
उपमन्युर्गौरमुखो मैत्रेयश्च श्रुतश्रवाः ।
कठः कचश्च करखो भरद्वाजश्च धर्मवित् ।। ३१ ।।

सशिष्या मुनयः सर्वे वसुदेवाश्रमं ययुः ।
वसुदेवश्च तान्दृष्ट्वा ववन्दे दण्डवद्भुवि ।। ३२ ।।

अथास्मिन्नन्तरे ब्रह्मा सस्मितो हंसवाहनः ।
रत्ननिर्माणयानेन पार्वत्या सह शंकरः ।। ३३ ।।

नन्दी स्वयं महाकालो वीरभद्रः सुभद्रकः ।
मणिभद्रः पारिभद्रः कार्तिकेयो गणेश्वरः ।। ३४ ।।

गजेन्द्रेण महेन्द्रश्च धर्मश्चन्द्रो रविस्तथा ।
कुबेरो वरुणश्चैव पवनो वह्निरेव च ।। ३५ ।।

यमः संयमिनीनाथो जयन्तो नलकूबरः ।
सर्वे ग्रहाश्च वसवो रुद्राश्च सगणस्तथा ।। ३६ ।।

आदित्याश्च तथा शेणो नानादेवाः समाययुः ।
वसुदेवश्च भक्त्या च ववन्दे शिरसा भुवि ।। ३७ ।।

तुष्टाव परया भक्त्या देवेन्द्रांश्च तथा सुरान् ।
भक्तिन म्रात्ममूर्धा च पुलकाञ्चितविग्रहः ।। ३८ ।।

वसुदेव उवाच
परं ब्रह्म परं धाम परमेशः परात्परः ।
स्वयं विधाता मद्गेहे जगतां परिपालकः ।। ३९ ।।

वेदानां जनकः स्रष्टा सृष्टिहेतुः सनातनः ।
सुराणां च मुनीन्द्राणां सिद्धेन्द्राणां गुरोर्गुरुः ।। ४० ।।
स्वप्ने यत्पादपद्मं च क्षणं द्रष्टुं सुदुर्लभम् ।
शिवस्मरणमोत्रेण सर्वानिष्टाः पलायिताः ।। ४१ ।।

सर्वसंकटमुत्तीर्य कल्याणं लभते नरः ।
सर्वाग्रे पूजनं यस्य देवानामग्रणीः परः ।। ४२ ।।

घटेषु मङ्गलं मन्त्रैर्भक्त्या चाऽऽवाहनेन च ।
स्वयं गणेशो भगवान् साक्षाद्विघ्नविनाशकः ।। ४३ ।।

कार्तिकेयश्च भगवान्देवादीनां च पूजितः ।
देवानां प्रवरा पूज्या महालक्ष्मीः परात्परा ।। ४४ ।।

मद्गेहे पार्वती माता जगतामादिरूपिणी ।
सर्वशक्तिस्वरूपा च मूलप्रकृतिरीश्वरी ।। ४५ ।।

परापराणां परमा परब्रह्मस्वरूपिणी ।
यस्याः पादौ समाराध्य वाञ्छितं लभते नरः ।। ४६ ।।

शरत्कारे च भक्त्या च सा साक्षान्मम मन्दिरे ।
सर्वदेवैश्च सहिता सगणा भक्तवात्सला ।। ४७ ।।

कृपामयी च कृपया चाऽऽविर्भूता च भारते ।
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ।। ४८ ।।

आगताऽसि यतो दुर्गे परमाद्या च मद्गृहे ।
एवं सर्वांश्च तुष्टाव क्रमेण च परस्परम् ।। ४९ ।।

सर्वान्मुनीन्द्रान्विप्रांश्च गले बद्ध्वांऽशुकं मुदा ।
प्रत्येकं वासयामास रत्नसिहासने वरे ।। ५० ।।
पूजयामास विधिवत्क्रमेण च पृथक्पृथक् ।
प्रत्येकं वरयामास ब्रह्मादींश्च सुरानपि ।। ५१ ।।

मुनिवर्गान्ब्राह्मणांश्च भक्त्या गर्गं पुरोहितम् ।
रत्नैः प्रवालैर्मणिभिर्मुवतामाणिक्यहीरकैः ।। ५२ ।।

भूषणैर्वसनैश्चैव माल्यैश्च गन्धचन्दनैः ।
लत्नसिहासने रम्ये सर्वेषां मध्यदेशतः ।। ५३ ।।

गणेशं वासयामास पूजार्थं शुभकर्मणि ।
सप्ततीर्थोदकेनैव सुवर्णकलशेन च ।। ५४ ।।

पुष्पजन्द्रनयुक्तेन शीतेन वासितेन च ।
स्वर्गगङ्गाजलेनैव पुष्करोदकुण्यतः ।। ५५ ।।

पञ्चामृतेन शुद्धेन पञ्चगव्येन भक्तितः ।
हेरम्बं स्नापयामास समुद्रोदेन मन्त्रतः ।। ५६ ।।

वरयामास माल्येन पारिजातस्य नारद ।
रत्नेन्द्रभूषणेनैव वह्निशुद्धेन वाससा ।। ५७ ।।

गन्धयन्दनपुष्पैश्च रत्नमाल्याङ्गुलीयकम् ।
तुष्टाव पार्वतीपुत्रं सर्वदेवाधिपं शुभम्
विघ्ननिघ्नकरं शान्तं भगवन्तं सनातनम् ।। ५८ ।।

इति श्रीब्रह्मo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवदुपनयने
गणेशाभिषेको नाम नवनवतितमोऽध्यायः ।। ९९ ।।