ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १०१

← अध्यायः १०० ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १०१
[[लेखकः :|]]
अध्यायः १०२ →

अथैकाधिकशततमोध्यायः
नारायण उवाच
संस्तूय देवा मुनयो विरेमुर्नहि मानसे ।
ददृशुः प्राङ्गणे कृष्णं शोभितं पीतवाससा ।। १ ।।

यथा सौदामिनीयुक्तं नवीनजलदं मुने ।
बकपङ् क्तियुतं चैव मालतीमालया तथा ।। २ ।।

कपाले मण्डलाकारकस्तूरीयुक्तचन्दनम् ।
सकलङ्कं मृगाङ्कं च शोभितं जलदे तथा ।। ३ ।।

द्विभुजं श्यामलंकान्तं राधाकान्तं मनोहरम् ।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहविग्रहम् ।। ४ ।।

रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् ।
रुदन्तं पितुरुत्सङ्गे बलेन सहितं परम् ।। ५ ।।

अथ मङ्गलकाले च शुभलग्ने मनोरमे ।
संपीक्षिते ग्रहैः सौम्यैर्जांग्रल्लग्नाधिपे स्थिते ।। ६ ।।

असद्ग्रहैरदृष्टे च सद्ग्रहेक्षित एव च ।
शुभकर्मसमारम्भं स्वस्तिवाचनपूर्वकम् ।। ७ ।।

चकार वसुदेवश्चाप्याज्ञया सुरविप्रयोः ।
दत्त्वा सुवर्णशतकं ब्राह्मणाय च सादरम् ।। ८ ।।

देवेन्द्रांश्च मुनीन्द्राश्च नमस्कृत्य पुरोहितम् ।
गणेशं च दिनेशं च वह्निं च शंकरं शिवाम् ।। ९ ।।

संपूज्य देवषट्कं च साक्षतैर्देवसंसदि ।
उपचारैः षोडशभिः संयतो भक्तिपूर्वकम् ।। १० ।।

पुत्राधिवासनं चक्रै वेदमन्त्रेण संसदि ।
संपूज्य नानादेवांश्च दिक्पालांश्च नवग्रहान् ।। ११ ।।

दत्त्वा पञ्चोपचारांश्च भक्त्या षोडशमातृकाः ।
दत्त्वा च वसुधारां च सप्तवारान्घृतेन च ।। १२ ।।

चेदिराजं वसुं नत्वा संपूज्य प्रययौ पुनः ।
वृद्धिश्राद्धं सुनिर्वाप्य यत्किंचिद्दैविकं तथा ।। १३ ।।

यज्ञं कृत्वा तु वेदोक्तं यज्ञसूत्रं ददौ मुदा ।
वलदेवाग्रचायैव कृष्णाय परमात्मने ।। १४ ।।

गायत्री च ददौ ताभ्यां मुनिः सांदीपनिस्तथा ।
भिक्षां ददौ च प्रथमं पार्वती परमादरात् ।। १५ ।।

अमूल्यरत्नपात्रस्थं मुक्तामाणिक्यहीरकम् ।
हीरसारविनिर्माणं पित्रा दत्तं च हारकम् ।। १६ ।।

शुभाशिषं च प्रददौ शुक्लपुष्पेणा दूर्वया ।
ततोऽदितिर्दितिश्चैव मुनिपत्न्यश्च देवकी ।। १७ ।।

यशोदा रोहिणी हृष्टा सावित्री च सरस्वती ।
प्रत्येकं प्रददौ भिक्षां मणिकाञ्चनभूषिताम् ।। १८ ।।

देवकन्या नागकन्या राजकन्याः पतिव्रताः ।
कामिन्यो बान्धवानां च सस्मिताः स्निग्धलोचनाः ।। १९ ।।

इन्द्राणी वरुणानी च पवनानी च रोहिणी ।
कुबेरपत्नीं स्वाहा च रतिः कामस्य कामिनी ।। २० ।।

प्रत्येकं प्रददौ भिक्षां रत्नभूषणभूषिताम् ।
भिक्षां गृहीत्वा भगवान्सबलो भक्तिपूर्वकम् ।। २१ ।।

किंचिद्ददौ च गर्गाय किचित्स्वगुरवे तथा ।
वैदिकं कर्म निर्वाप्य गर्गाय दक्षिणां ददौ ।। २२ ।।

देवांश्च भोजयामास ब्राह्मणांश्चापि सादरम् ।
ये ये समाययुर्यज्ञे तेच दत्त्वा शुभाशिषम् ।। २३ ।।

कृण्णाय बलदेवाय प्रहृष्टाः प्रययृर्गुहम् ।
नन्दः सभार्यो निर्वाप्य शुभकर्म सुतस्य वै ।। २४ ।।

क्रोडे कृत्वा बलं कृष्णं चुचुम्ब वदनं तयोः ।
उचचै रुरोद नन्दश्च यशोदा च पतिव्रता
श्रीकृष्णस्तं समाश्वास्य बोधयामास यत्नतः ।। २५ ।।

श्रीकृष्ण उवाच
सानन्दं गच्छ हे मातर्यशोदे तातमत्वरम् ।
त्वमेव माता पोष्ट्री त्वं पिता च परमार्थतः ।। २६ ।।

अवन्तिनगरं तात यास्यामि सबलोऽधुना ।
मुनेः सांदीपनेः स्थानं वेदपाठार्थमीप्सितम् ।। २७ ।।

तत आगत्य सुचिरं काले भवति दर्शनम् ।
कामः करोति कलनं स च भेदं करोति च ।। २८ ।।

सर्वं कालकृतं मातर्भेदं संमीलनं नृणाम् ।
सुखं दुःखं च हर्षं च शोकं च मङ्गलालयम् ।। २९ ।।

मया दत्तं च तत्त्वं च योगिनामपि दुर्लभम् ।
सर्वं नन्दश्च सानन्दं त्वामेव कथयिष्यति ।। ३० ।।

इत्युक्त्वा जगतां नाथो वसुदेवसभां ययौ ।
तदाज्ञया क्षणं प्राप्य ययौ संदीपनेर्गूहम् ।। ३१ ।।

वसुदेवं देवकीं च संभाष्य विनयेन च ।
नन्दः सभार्यः प्रययौ हृदयेन विदूयता ।। ३२ ।।

मुक्तामणिं सुवर्ण च माणिक्यं हीरकं तथा ।
वह्निशुद्धांशुकं रत्नं नन्दाय देवकी ददौ ।। ३३ ।।

श्वेताश्वं च गजेन्द्रं च सुवर्णरथमुत्तमम् ।
नन्दाय कृष्णः प्रददौ वसुदेवश्च सादरम् ।। ३४ ।।

तयोरनुव्रजन्विप्रा देवकीप्रमुखाः स्त्रियः ।
वसुदेवस्तथाऽक्रूरोऽप्युद्धवश्च ययौ मुदा ।। ३५ ।।

कालिन्दीनिकटं गत्वा ते सर्वे रुरुदुः शुचा ।
परस्परं च संभाष्य ते सर्वे स्वालयं ययुः ।। ३६ ।।

कुन्ती सपुत्रा विधवा वसुदेवाज्ञया मुने ।
नानारत्नमणिं प्राप्य प्रययौ स्वरलयं मुदा ।। ३७ ।।

वसुतेवो देवकी च पुत्रकल्याणहेतवे ।
नानारत्नमणिं वस्त्रं मुवर्णं रजतं तथा ।। ३८ ।।

मुक्तामाणिक्यचहारं च मिष्टान्नं च सुधोपमम् ।
भट्टेम्यो ब्राह्मणेभ्यश्च प्रददौ सादरं मुदा ।। ३९ ।।

महोत्सवं वेदपाठं हरेर्नामैकमङ्गलम् ।
विप्राणां भोजनं चैव कारयामास यत्नतः ।। ४० ।।

ज्ञातीनां बान्धवानां च पुरस्कारं यथोचितम् ।
चकार मणिमाणिक्यमुक्तावस्त्रैर्मनोहरैः ।। ४१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo नारादनाo उत्तo भगवदुपनयनं
नामैकाधिकशततमोऽध्यायः ।। १०१ ।।