ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १०२

← अध्यायः १०१ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १०२
[[लेखकः :|]]
अध्यायः १०३ →

द्व्यधिकशततमोऽध्यायः
नारायण उवाच
कृण्णः सांदीपनेर्गेहं गत्वा च सबलो मुदा ।
नमश्चकार स्वगुरुं गुरुपत्नीं पतिव्रताम् ।। १ ।।

शुभाशिषं गृहीत्वा च दत्त्वा रत्नमणिं हरिः ।
गुरवे तस्य भार्यायै तमुवाच यथोचितम् ।। २ ।।

श्रीकृष्ण उवाच
त्वत्तो विद्यां लभिष्यामि वाञ्छितां वाञ्छितं मम ।
कृत्वा शुभक्षणं विप्र मां पाठय यथोचितम् ।। ३ ।।

ओमित्युक्त्वा मुनिश्रेष्ठः पूजयामास तं मुदा ।
मधुपर्कप्राशनेन गवा वस्त्रेण चन्दनैः ।। ४ ।।

मिष्टान्नं भोजयामास ताम्बूलं च सुवासितं ।
सुप्रियं कथयामास तुष्टाव परमेश्वरम् ।। ५ ।।

सांदीपनिरुवाच
परं ब्रह्म परं धाम परमीश परात्पर ।
स्वेच्छामयं स्वयंज्योतिर्निलिप्तैको निरङ्कुशः ।। ६ ।।

भक्तैकनाथ भक्तेष्ट भक्तानुग्रहविग्रह ।
भक्तवाञ्छाकल्पतरो भक्तानां प्राणवल्लभ ।। ७ ।।

मायया बालरूपोऽसि ब्रह्मेशशेषवन्दितः ।
मायया भुवि भूपाल भुवो भारक्षयाय च ।। ८ ।।

योगिनो यं विदन्त्येवं ब्रह्मज्योतिः सनातनम् ।
ध्यायन्ते भक्तनिवहा ज्योतिरभ्यन्तरे मुदा ।। ९ ।।

द्विभुजं मुरलीहस्तं सुन्दरं श्यामहुपकम् ।
चन्दनोक्षितसर्वाङ्गं सस्मितं भक्तवत्सलम् ।। १० ।।

पीताम्बरधरं देवं वनमालविभूषितम् ।
लीलापाङ्गतरङ्गैश्च निन्दितानङ्गमूर्च्छितम् ।। ११ ।।

अलक्तभवनं तद्वत्पादपद्मं सुशोभनम् ।
कौस्तुभोद्भासिताङ्गं च दिव्यमूर्तिं मनोहरम् ।। १२ ।।

ईषद्धास्यप्रसन्नं च सुवेषं प्रस्तुतं सुरैः ।
देवदेवं जगन्नाथं त्रेलोक्यमोहनं परम् ।। १३ ।।

कोटिकन्दर्पलीलाभं कमनीयमनीश्वरम् ।
अमूल्यरत्ननिर्माणभूषणौघेन भूषितम् ।। १४ ।।

वरं वरण्यं वरदं वरदानामभीप्सितम् ।
चतुर्णामपि वेदानां कारणानां च कारणम् ।। १५ ।।

पाठार्थ मत्प्रियस्थानमागतोऽसि च मायया ।
पाठं ते लोकशिक्षार्थं रमणं गमनं रणम् ।।
स्वात्मारामस्य च विभोः परिपूर्णतमस्य च ।। १६ ।।

गुरुपत्न्युवाच
अद्य मे सफलं जन्म सफलं जीवनं मम ।
पातिव्रत्यं च सफलं सफलं च तपोवनम् ।। १७ ।।

मद्दक्षहस्तः सफलो दत्तं येनान्नमीप्सितम् ।
तदाश्रमं तीर्थपरं तीर्थपादपदाङ्कितम् ।। १८ ।।

त्वत्पादरजसा पूता गृहाः प्राङ्गणमुत्तमम् ।
त्वत्पादपद्मं दृष्ट्वा चैवाऽऽवयोर्जन्मखण्डनम् ।। १९ ।।

तावद्दुःखं च शोकश्च तावद्भोगश्च रोगकः ।
तावज्जन्मानि कर्माणि क्षुत्पिपासादिकानि च ।। २० ।।

यावत्त्वत्पादपद्मस्य भजनं नास्ति दर्शनम् ।
हे कालकाल भगवन्स्रष्टुः संहर्तुरीश्वर ।। २१ ।।

कृपां कुरु कृपानाथ मायामोहनिकृन्तन ।
इत्युक्त्वा साश्रुनेत्रा सा क्रोडे कृत्वा हरिं पुनः
स्वस्तनं पाययामास प्रेम्णा च देवकी यथा ।। २२ ।।

श्रीकृष्ण उवाच
मातस्त्वं मां कथं स्तौषि बालं दुग्धमुखं सुतम् ।
गच्छ गोलोकमिष्टं च स्वामिना सहसाप्रतम् ।। २३ ।।

त्यक्त्वा प्राकृतिकं मिथ्या नश्वरं च कलेवरम् ।
विधाय निर्मलं देहं जन्ममृत्युजराहरम् ।। २४ ।।

इत्युक्तवा चतुरो वेदान्पठित्वा मुनिपुंगवात् ।
मासेन परया भक्त्या दत्त्वा पुत्रं मृतं पुरा ।। २५ ।।

रत्नानां च त्रिलक्षं च मणीनां पञ्चलक्षणम् ।
हीरकाणां चतुर्लक्षं मुक्तानां पञ्चलक्षकम् ।। २६ ।।

माणिक्यानां द्विलक्षं च वस्त्रं त्रैलोक्यदुर्लभम् ।
हारं च दुर्गया दतं हस्तरत्नाङ्गुलीयकम् ।। २७ ।।

दशकोटिं सुवर्णानां गुरवे दक्षिणां ददौ ।
अमूल्यरत्ननिर्माणं नारीसर्वाङ्गभूषणमा ।। २८ ।।

गुरुप्रियायै प्रददौ वह्निशुद्धांशुकं वरम् ।
मुनिर्दत्त्वा च पुत्राय तःसर्वं प्रियया सह ।। २९ ।।

सद्रत्नरथमारुह्य ययौ गोलोकमुत्तमम् ।
तमद्भूतं हरिं दृष्ट्वा प्रययौ स्वालयं मुदा ।। ३० ।।

एवं ब्रह्मण्यदेवस्य चरित्रं शृणु नारद ।
इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिपूर्वकम् ।। ३१ ।।

श्रीकृष्णे निश्चलां भक्तिं लभते नात्र संशयः ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण़्डितः ।। ३२ ।।

इह लोके सुखं प्राप्य यात्यन्ते श्रीहरेः पदम् ।
तत्र नित्यं हरेर्दास्यं लभते नात्र संशयः ।। ३३ ।।

इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo मुनिपत्नीस्तोत्रं नाम
द्व्यधिकशततमोऽध्यायः ।। १०२ ।।