प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०३ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १०४
[[लेखकः :|]]
अध्यायः १०५ →

अथ चतुरधिकशततमोऽध्यायः
नारायण उवाच
एतस्मिन्नन्तरे ब्रह्मा भवान्या च भवः स्वयम् ।
अनन्तश्चापि धर्मश्च भास्करश्च हुताशनः ।। १ ।।

कुबेरो वरुणश्चैव पवनश्च यमस्तथा ।
महेन्द्रश्चपि चन्द्रश्च रुद्राश्चैकादशैव ते ।। २ ।।

अन्ये देवाश्च मुनयो वसवः सप्त एव च ।
आदित्याश्चापि दैत्याश्च गन्धर्वाः किन्नरास्तथा ।। ३ ।।

आययुर्द्वारकां द्रष्टुं श्रीकृष्णं च बलं तथा ।
आगच्छन्तं च सहसा वटमूलं मनोहरम् ।। ४ ।।

दृष्ट्वा च देवताः सर्वास्तुष्टुवुः पुरुषोत्तमम् ।
आकाशाच्च विमानैश्च संप्राप्य वटमूलकम् ।। ५ ।।

ददृशुर्द्वारकां रम्यामतीव सुमनोहरम् ।
मुक्तामाणिक्यहीरेणा रत्नराजिविराजिताम् ।। ६ ।।

परितश्चतुरस्रां च शतयोजनसंमिताम् ।
सप्तभिः परिखाभिश्च गम्भीराभिश्च वेष्टिताम् ।। ७ ।।

प्राकारैर्नवभिर्युक्तां लक्षैः क्रीडासरोवरैः ।
मनोहरैः सपद्मैश्च सहितैश्च मधुव्रतैः ।। ८ ।।

शोभितां सर्वतोभद्रैः पुष्पोद्यानत्रिलक्षकैः ।
प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृताम् ।। ९ ।।

आमोदितां च शीतेन मन्दचन्दनवायुना ।
तरुभिर्नारिकेलाणां शोभितां शतकोटिभिः ।। १० ।।

गुवाकानां च वृक्षैश्च भूषितां तच्चतुर्गुणैः ।
चतुर्गुणैर्गुवाकानां युक्तामाम्रमहीरुहैः ।। ११ ।।

परीतां पनसानां च वृक्षैराम्रसमैर्मुने ।
सुशोभितां च तालानां द्रुमैराम्रसमैर्मुने ।। १२ ।।

अश्वत्थैर्बदरीभिश्च बिल्वैराम्रातकैर्वटैः ।
शाल्मलीभिश्च जम्बूभिः कदम्बैश्चापि शोभिताम् ।। १३ ।।

वंशैश्च तिन्तिडीभिश्च चम्पकैर्बकुलैस्तथा ।
नागेश्वरैर्नागरङ्गैर्जम्बीरैर्दाडिमैर्युताम् ।। १४ ।।

खर्जुरैरर्जुनैः पिष्टैरिक्षुभिः काञ्चनैरपि ।
हरीतकीभिर्धात्रीभिरिन्दुभिः परितः प्लुताम् ।। १५ ।।

शालैः प्रियालैर्हिन्तालैः शिरीषैः सप्तपर्णकैः ।
अन्यैर्नानाद्रुमैरिष्टैरिष्टां युक्तां परिप्लुताम् ।। १६ ।।

असंख्यैर्मन्दिरै रम्यैरत्युच्चैरपि संस्कृताम् ।
रत्नेन्द्रसारनिर्माणैर्मुक्तामाणिक्यभूषितैः ।। १७ ।।

माणिक्यहीरकैश्चित्रैः सद्रत्नकलशान्वितैः ।
मणिभिर्निर्मितैरिष्टैः सोपाननिकरैर्वरैः ।। १८ ।।

कपाटैः कठिनैर्दव्यैरर्गलाकीलकैर्युताम् ।
हरिन्मणीनां स्तम्भानां कदम्बैरपि संयुतैः ।। १९ ।।

नानाचित्रैर्विचित्रैश्च सुचित्रैश्च परिष्कृतैः ।
दर्पणैः सूक्ष्मवस्त्रैश्च शोभितैः श्वेतचामरैः ।। २० ।।

प्राङ्गणैः पद्मरागाद्यरिन्द्रनीलपरिष्कृताम् ।
वीथीभी रत्नखचितैराजमार्गैः समन्विताम् ।। २१ ।।

ग्रीष्मध्याह्नसूर्याभां ज्वलितां रत्नतेजसा ।
गवाक्षलक्षैः संयुक्तां वाजिशालापरिष्कृताम् ।। २२ ।।

दृष्ट्वा च द्वारकां रम्यां ते देवा विस्मयं ययुः ।
प्रसन्नवदनो देवो लाङ्गली भगवानजः ।। २३ ।।

सस्मार यदुवंशानां समूहमुग्रसेनकम् ।
वसुदेवं देवकीं च पाण्डवांश्च समातृकान् ।। २४ ।।

नन्दं यशोदां गोपालान्राजेन्द्रमुनिपुंगवाम् ।
गन्धर्वान्किन्नरांश्चैव सहितो यदुपुंगवैः ।। २५ ।।

नन्दो यशोदा गोपाश्च जनन्या सह पाण्डवाः ।
गन्धर्वाः किन्नराश्चैव विद्याधर्यश्च नारद ।। २६ ।।

किन्नर्यश्चापि नर्तक्यो गायका वाद्यभाण्डकाः ।
भिक्षुका भाण्डकाश्चैव भट्टाश्चगणकास्तथा ।। २७ ।।

नानादेशो द्भवा भूपा वैद्याश्चान्ये च मानवाः ।
संन्यासिनश्च यतयोऽवधूता ब्रह्मचारिणः ।। २८ ।।

आययुर्मुनयः सर्वे सशिष्याः सिद्धपुंगवाः ।
सनकश्च सनन्दश्च त्तीयश्च सनातनः ।। २९ ।।

सनत्कुमारो भगवाञ्ज्ञानिनां च गुरोर्गुरुः ।
शिष्यैस्त्रिकोटिभिः सार्ध पञ्चवर्षा दिगम्बरः ।। ३० ।।

शिष्यैस्त्रिलक्षैः सहितो दुर्वासा भगवानजः ।
लक्षशिष्यैः कश्यपश्च वाल्मीकिश्च त्रिलक्षकैः ।। ३१ ।।

लक्षशिष्यैर्गौ तमश्च कौटिभिश्च बृहस्पतिः ।
शुक्रस्त्रिकोटिभिः सार्ध भरद्वाजश्च लक्षकैः ।। ३२ ।।

शिष्यैस्त्रिकोटिभिः सार्धमङ्गिरा भगवानजः ।
वसिष्ठः कोटिभिः शिष्यैः प्रचेताः कोटिभिस्तथा ।। ३३ ।।

त्रिलक्षैश्च पुलस्त्यश्चाप्यगस्त्यः कोटिभिः सह ।
पुलहो लक्षशिष्यैश्च क्रतुर्लक्षैस्थैव च ।। ३४ ।।

अत्रिस्त्रिकोटिभिः शिष्यैर्भृगुश्च पञ्चकोटिभिः ।
त्रिकोटिभिर्मरीचिश्च शतानन्दः सहस्रकैः ।। ३५ ।।

सार्ध त्रिकोटिभिः शिष्यैर्ऋष्यशृङ्गो विभाण्डकः ।
पापिनिः कोटिभिः शिष्यैर्लक्षैः कात्यायनस्तथा ।। ३६ ।।

याज्ञवल्क्यः सहस्रैश्च व्यासः शिष्यत्रिकोटिभिः ।
शिष्यैर्लक्षैश्च सहितो गर्गः कुलपुलोहितः ।। ३७ ।।

गालवश्च सहस्रैश्च सहसैः सौभरिस्तथा ।
त्रिकोटिभिर्लोमशश्च मार्कण्डेयस्त्रिकोटिभिः ।। ३८ ।।

कोटिभिर्वामदेवश्च जैगीषव्यस्त्रिकोटिभिः ।
सांदीपनिर्देवलश्च सच्छिष्यैश्च त्रिकोटिभिः ।। ३९ ।।

वोढुः शिष्यैः कोटिभिश्च लक्षैः पञ्चशिखस्तथा ।
अहं नारायणश्चैव नरो मम सहोदरः ।। ४० ।।

शिष्यैस्त्रिकोटिभिः सार्धं विश्वामित्रश्च कोटिभिः ।
त्रिकोटिभिर्जरत्कारुरास्तीकश्च त्रिकोटिभिः ।। ४१ ।।

त्रिकोटिभिः पर्शुरामो वत्सो लक्षैश्च शिष्यकैः ।
दक्षस्त्रिलक्षैः शिष्यैश्च कपिलः पञ्चकोटिभिः ।। ४२ ।।

संवर्तश्च त्रिलक्षैश्चाप्युतथ्यश्च तथैव च ।
सहस्रैर्जैमिनिश्चैव पैलो लक्षैस्तथैव च ।। ४३ ।।

सुवणंश्च सहस्रैश्च वैशम्पायन एव च ।
शिष्यैर्लक्षैः समेतश्च व्यासशिष्यः पुरोगमः ।। ४४ ।।

लक्षैः शिष्यैस्तथा शृङ्गी चोपमन्युस्तथैव च ।
सहस्रैश्च गौरमुखः कचो लक्षैर्गुरोः सुतः ।। ४५ ।।

अश्वत्थामा तथा द्रोणः कृपाचार्यः सशिष्यकः ।
भीष्मः कर्णश्च शकुनी राजा दुर्योधनस्तथा ।।
नृपस्य भ्रातरः सर्वे चान्ये भूपा जगद्गुरुम् ।। ४६ ।।

श्रीभगवानुवाच
शुभकर्मणि निष्पन्ने यास्यन्ति ये समागताः ।
शिवब्रह्मादयो देवा मुनयश्च तथाऽपरे ।। ४७ ।।

भवाश्च यादवैः सार्धं प्रविश द्वारकां पुरीम् ।
मत्पित्रा मातृभिः सार्ध माहेन्द्रे च क्षणे नृप ।। ४८ ।।

अपरे यदवोऽन्ये च यास्यन्ति मथुरां पुरीम् ।
श्रुत्वेति विरसो राजा तमुवाच भयाकुलः ।। ४९ ।।

उग्रसेन उवाच
वासुदेव न यास्यामि भूमिं तां पैतृकीं पुनः ।
सर्वतीर्थपरां शुद्धां दैवे कर्मणि पैतृके ।। ५० ।।

पावके भूमिदेशे च पितॄणां निर्वपेत्तु यः ।
तद्भूमिः स्वामिपितृभिः श्राद्धकर्मणि हन्यते ।। ५१ ।।

पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम् ।
किंचित्फलप्रदं चैव संपूर्णे पैतृके स्थले ।। ५२ ।।

पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा ।
दुर्लभा पैदृकी भूमिः पितुर्मातुर्गरींयसी ।। ५३ ।।

तत्सत्यं च पवित्रं च दैवे कर्मणि पैतृके ।
क्रीडां च दत्ते दानं च परदत्तमशुद्धकम् ।। ५४ ।।

म्रियते पैतृकीभूम्यं तीर्थतुल्यफलं लभेत् ।
गङ्गाजलसमं पूतं पतृखातोदकं हरे ।। ५५ ।।

तत्र स्नात्वा जले पूते गङ्गास्नानफलं लभेत् ।
पितणां तर्पणां तत्र पवित्रं देवपूजनम् ।। ५६ ।।

पैतृकी जन्मभूमिश्चेद्द्विगुणं तत्फलं लभेत् ।
पैतृकीभूमितुल्याच दानभूमिः सतामपि ।। ५७ ।।

वासुदेव उवाच
भोगास्ते वचनं किं वा निषेकः केन वार्यंते ।
पैतृकी तीर्थतुल्या सा किं तीर्थं द्वारकापरम् ।। ५८ ।।

सर्वतीर्थपरा श्रेष्ठा द्वारका बहपुण्यदा ।
यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम् ।। ५९ ।।

दानं च द्वारकायां च श्राद्धं च देवपूजनम् ।
चतुर्गुणं च तीर्थानां गङ्गादीनां च भूमिप ।। ६० ।।

गच्छ ब्रह्मदिभिः सार्ध मुनिभिर्यादवैः सह ।
राजेन्द्रभवनं तत्र गृहाणां सादरं पुनः ।। ६१ ।।

करोति शश्वन्न्यक्कारं महेन्द्रस्यामरावतीम् ।
निवस त्वं सुधर्मायां माहेन्द्रे च क्षणे नृप ।। ६२ ।।

जम्बुद्वीपस्थिता भूपा राजेन्द्रमण्डलेश्वराः ।
करं दास्यन्ति तुभयं च महेन्द्राय सुरा यथा ।। ६३ ।।

भूयाज्जितः कुबेरश्च धनेन धनसंपदा ।
तेजसा भास्करश्चापि महेन्द्रः संपदः तथा ।। ६४ ।।

देवा जिता रणेनैव पुण्येन मुनयो जिताः ।
तपस्विनश्य तपसा व्रतीनश्च व्रतेन च ।। ६५ ।।

उग्रसेनसमो राजा न भूतो न भविष्यति ।
सभायां यस्य भगवान्बलदेवो महाबलः ।। ६६ ।।

विश्वं च यस्य शिरसां सहस्राणं नरेश्वर ।
एकस्मिञ्शिरसि न्यस्तं शूर्पे च सर्षपो यथा ।। ६७ ।।

न ह्यनन्तसमो देवो बलेन बलवत्तरः ।
यद्गुणानां च नास्त्यन्तस्तेनानन्तं जगुर्बुधाः ।। ६८ ।।

वसवोऽष्टौ महाभागा रुद्राश्च शंकरं विना ।
बलिनो द्वादशादित्या महेन्द्रश्च सुरैः समः ।। ६९ ।।

न समर्था ध्रुवं जेतुमुग्रसेनं नृपेश्वरम् ।
कृष्णस्य वचनं श्रुत्वा प्रसन्नवदनो नृपः ।। ७० ।।

प्रययौ यादवैः सार्ध महेन्द्रभवनात्परम् ।
स्वालयं द्वारकामध्ये ज्वलन्तं मणितेजसा ।। ७१ ।।

सहस्रैद्वरिपालैश्च शूलिभिर्दण्डहस्तकैः ।
नियुक्तै रक्षितं द्वारं ददर्श मानवेश्वरः ।। ७२ ।।

अभ्यन्तरे च शिबिरं द्वारेभ्यः षड्भ्य एव च ।
मन्दिराणां च शतकै रत्नानां परिभूषणम् ।। ७३ ।।

कोटिं मत्तगजेन्द्राणां ददर्श गजमन्दिरे ।
चतुर्युगं गजौघं गजानां षड्गुणं तथा ।। ७४ ।।

महाबलांश्च तुरगान्सूर्याश्वं च हसन्ति ये ।
गजेन्द्रराजं सर्वेषां वाहनानामपीश्वरम् ।। ७५ ।।

हसत्यैरावतं शश्वन्महेन्द्रस्य च नारद ।
अत्युच्चैरुच्चैःश्रवमां ददर्श कोटिमीप्सितम् ।। ७६ ।।

खराणां दशकोटिं च पादातं षड्गुणं तथा ।
निर्माणं रत्नसाराणां तथानां पञ्चलक्षकम् ।। ७७ ।।

पञ्चलक्षं सारथीनां तत्राश्वं षड्गुणं तथा ।
अश्ववाटं तत्समं च सुधर्मां च सभामपि ।। ७८ ।।

ददर्शाम्यन्तरे रम्ये देवौघमुनिसंयुताम् ।
वह्निशुद्धाशुकै रम्यैर्भूषितां रक्तकम्बलैः ।। ७९ ।।

रत्नसिंहासनै रम्यैर्भूषितां रक्तपिङ्गलैः ।
अमूल्यरत्ननिर्माणवीथीनां तेजसोज्ज्वलाम् ।। ८० ।।

वेष्टितां च महाभीतैः किंकरैः शतकोटिभिः ।
प्रविवेश सभां रम्यां श्रुत्वा शङ्खध्वनिं शुभम् ।। ८१ ।।

वाद्यं च दुंदुभीनां च मुनीनां वेदमन्त्रकम् ।
दृष्ट्वा नृपं समुत्तस्थौ वेगेन सबलो हरिः ।। ८२ ।।

ब्रह्मा महेश्वरश्चैव शेषश्च देवपुंगवाः ।
समुत्तस्थुः सुराः सर्वे मुनयश्च महाव्रताः ।। ८३ ।।

राजेन्द्राश्चापि सिद्धेन्द्रा वसुदेवपुरोगमाः ।
रत्नसिंहासने रम्ये चोग्रसेनो महाबलः ।। ८४ ।।

समुवास महेन्द्रस्य मुनीनामाज्ञया हरेः ।
देवानां च गुरूणां च गर्गस्यापि तथैव च ।। ८५ ।।

सप्ततीर्थोदकेनैव पूर्णकुम्भेन नारद ।
जकार वेदमन्त्रैश्च नृपस्याप्यभिषेचनम् ।। ८६ ।।

तस्मै वस्त्रयुगं दत्तं वह्निशुद्धं मनोहरम् ।
वरुणेन पुरा दत्तं कृष्णाय परमात्मने ।। ८७ ।।

माल्यं च पारिजातानां चन्दनं रत्नभूषणम् ।
रत्नच्छत्रं ददौ तस्मै बलदेवो महाबलः ।। ८८ ।।

ब्रह्मा कमण्डलुं चैव शूलं चापि महेश्वरः ।
पार्वती रत्नमाल्यं च हारं च मालती सती ।। ८९ ।।

अन्ये देवाश्च मुनयो राजेन्द्राः सिद्धपुंगवाः ।
यौतकं च ददौ तस्मै क्रमेण च पृथक्पृथक् ।। ९० ।।

वसुदेवो ददौ तस्मै शुभदं श्वेतचामरम् ।
पवनेन पुरा दत्तं कृष्णाय परमात्मने ।। ९१ ।।

नन्दो ददौ च सुरभिं कामधेनुं च पूजिताम् ।
यशोदा देवकी तस्मै रत्नश्रेष्ठं ददौ मुदा ।। ९२ ।।

सप्तभिः किंकरैश्चापि सैवितः श्वेतचामरैः ।
दधार च्छत्रमक्रूरो भक्त्या चैवाऽऽज्ञया हरेः ।। ९३ ।।

रत्नसिहासने रम्ये ददर्श रत्नदर्पणम् ।
अतीव पुण्यावाप्यं च हरिणां च पुरस्कृतः ।। ९४ ।।

चक्रुः स्तुतिं च भट्टाश्च भिङुका ब्राह्मणास्तथा ।
ददुः शुभाशिषं तस्मै देवाश्च मुनयस्तथा ।। ९५ ।।

ब्रह्मणेम्यो ददौ राजा रत्नकोटिं च भक्ततः ।
भट्टभ्यो रत्नशतकं भिक्षुकेम्यस्तथैव च ।। ९६ ।।

अभिषिच्य नृपेन्द्रं च देवांश्च मुनिपुंगवान् ।
संपूज्य ब्राह्मणांश्चापि भट्टान्भिक्षुं द्विजं गुरुम् ।। ९७ ।।

स्वालयं च ययुः सर्वे यादवाश्च मुदाऽन्विताः ।
ये ये हरेः पार्षदाश्च ते सर्वे स्वालयं ययुः ।। ९८ ।।

प्रभाते चाऽऽययुः सर्वे सुधर्मा च सभां हरेः ।
नमस्कृत्य नृपेन्द्रं च चोषुः सर्वे च संसदि ।। ९९ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo द्वारकाप्रवेश
उग्रसेनाभिषेको नाम चतुरधिकशततमोऽध्यायः ।। १०४ ।।