प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १०३
[[लेखकः :|]]
अध्यायः १०४ →

अथ त्र्यधिकशततमोऽध्यायः
नारायण उवाच
अथाऽऽगत्य मधुपुरीं प्रणम्य पितरं विभुः ।
सबलो वटमूले च सस्मार गरुडं हरिः ।। १ ।।

सादरं लवणोदं च विश्वकर्मणमीप्सितम् ।
तत्याज गोपवेषं च नृपवेषं दधार सः ।। २ ।।

एतस्मिन्नन्तरे चक्रमाजगाम् हरिं स्वयम् ।
परं सुदर्शनं नाम सूर्यकोटिसमप्रभम् ।। ३ ।।

तेजसा हरिणा तुल्यं परं वैरिविमर्दनम् ।
अव्यर्थमस्त्रमस्त्राणां प्रवरं परमं परम् ।। ४ ।।

रत्नयानं पुरः कृत्वा गरुडो हरिसंनिधिम् ।विश्वकर्मा सशिष्यश्च जलधिः कम्पितस्तथा ।। ५ ।।

हरिं प्रणेमुस्ते सर्वे मुर्ध्ना च भक्तिपूर्वकम् ।
सस्मितः सादरं यत्नात्तानुवाच क्रमाद्विभुः ।। ६ ।।

श्रीकृष्ण उवाच
हे समुद्र महाभाग स्थलं च शातयोजनम् ।
देहि मे नगरार्थ च पश्चाद्दास्यामि निश्चितम् ।। ७ ।।

नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् ।
रमणीयं च सर्वेषां कमनीयं च योषिताम् ।। ८ ।।

वाञ्चितं चापि भक्तानां वैकुण्ठसदृशं परम् ।
सर्वेषामपि स्वर्गाणां परं पारमभीप्सितम् ।। ९ ।।

दिवानिशं खगश्रेष्ठ संनिधौ विश्वकर्मणः ।
स्थितिं कुरु महाभाग यावन्निर्माति द्वारकाम् ।। १० ।।

दिवानिशं च मत्पार्श्वे चक्रश्रेष्ठ स्थितिं कुरु ।
ओमित्युकत्वा तु प्रययुः सर्वे चकं विना मुने ।। ११ ।।

कंसस्य पितरं भद्रमुग्रसेनं महाबलम् ।
नृपं चकार नगरे क्षत्रियाणां सतामपि ।। १२ ।।

विजित्य च जरासंधं निहत्य यवनं तथा ।
उपायेन महाभाग निर्माणक्रममीश्वरः ।। १३ ।।

श्रीभगवानुवाच
शतयोजनपर्यन्तं नगरं सुमनोहरम् ।
पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः ।। १४ ।।

रुचकैः पारिभद्रैश्च पलङ्कैश्च स्यमन्तकैः ।
गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा ।। १५ ।।

सूर्यकान्तादिभिश्चैव पुत्रैश्च स्फटिकाकृतैः ।
हरिद्वर्णैश्च मणिभिः श्यामैर्गोरमुखैश्चषैः ।। १६ ।।

गोरोचनाभिः पीतैश्च दाडिमीबीजरूपकैः ।
पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः ।। १७ ।।

मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः ।
श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसंनिभैः ।। १८ ।।

स्वर्णमूल्यशतगुणैरीषद्रक्तैः सुशोभनैः ।
गरिष्ठैश्च वरिष्ठैश्चम णिश्रेष्ठैश्च पूजितैः ।। १९ ।।

यथाविधानं यद्योगं यत्र यन्मुक्तमीप्सितम् ।
मणीनां हरणं चैव यक्षसंघा हिमालयात् ।। २० ।।

दिवानिशं करिष्यन्ति यावन्निर्माणपूर्वकम् ।
यक्षैश्च सप्तभिर्लक्षैः कुबेरप्रेरितैरपि ।। २१ ।।

वेताललक्षैः कूष्माण्डलक्षैः शंकरयोजितैः ।
दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः ।। २२ ।।

कुरु दिव्यं च पत्नीनां सहस्राणां च षोडश ।
अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च ।। २३ ।।

शिबिरं परिखयुक्तमुच्चै प्राकारवेष्टितम् ।
युक्तद्वादशशालं च सिंहद्वारपरिष्कृतम् ।। २४ ।।

युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः ।
निषिद्धवृक्षरहितं प्रसिद्धैश्च परिष्कृतम् ।। २५ ।।

सुलक्षणं चन्द्रवेधं प्राङ्गणं च तथैव च ।
यदूनामाश्रमं दिव्यं किंकराणां तथैव च ।। २६ ।।

सर्वत्र सिद्धं निलयमुग्रसेनस्य भूभृतः ।
आश्रमं सर्वतोभद्रं वसुदेवस्य मत्पितुः ।। २७ ।।

विश्वकर्मोवाच
के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन ।
भद्राभद्रप्रदाश्चापि तान्वदस्व जगद्गुरो ।। २८ ।।

केषामस्थिनियुक्तं च शिबिरं च शुभाशुभम् ।
दिशि कुत्र जलं भद्रमभद्रं च वद प्रभो ।। २९ ।।

भद्रप्रदश्च को वृक्षो दिशि कृत्र प्रवर्तते ।
किं प्रमाणं गृहाणां च प्राङ्गणानां सुरेश्वर ।। ३० ।।

मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा ।
प्राकाराणां किं प्रमाणं परिखाणां सुरेश्वर ।। ३१ ।।

द्वाराणां च गृहाणां च प्राकाराणां प्रमाणकम् ।
कस्य कस्य तरोः काष्ठं प्रशस्तं शिबिरे प्रभो ।। ३२ ।।

अमङ्गलं वा केषां च सर्व मां वक्तुमर्हसि ।। ३३ ।।

श्रीभगवानुवाच
आश्रमे लारिकेलश्च गृहिणां च धनप्रदः ।
शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः ।। ३४ ।।

सर्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।
रसालवृक्षः पूर्वस्मिन्नृणां संपत्प्रदस्तथा ।। ३५ ।।

शुभप्रदश्च सर्वत्र सुरकारो निशामय ।
बिल्वश्च पनसश्चैवजम्बीरो बदरी तथा ।। ३६ ।।

प्रजाप्रदश्च पूर्वस्मिन्दक्षिणे धनदस्तथा ।
संपत्प्रदश्च सर्वत्र यतो हि बर्धते गृही ।। ३७ ।।

जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।
बन्धुप्रदश्च पूर्वस्मिन्दक्षिणे मित्रदस्तथा ।। ३८ ।।

सर्वत्र शुभदश्चैव धनपुत्रशुभप्रदः ।
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ।। ३९ ।।

ईशाने सुखदश्चैव सर्वत्रैव निशामय ।
सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ।। ४० ।।

अलाबुश्चापि कूष्माण्डमायाम्बुश्च सकिंशुकः ।
खर्जूरी कर्कटी चापि शिबिरे मङ्गलप्रदा ।। ४१ ।।

वास्तूककारबिल्वश्च वार्ताकश्च शुभप्रदः ।
लताफलं च शुभदं सर्वं सर्वत्र निश्चितम् ।। ४२ ।।

प्रशस्तं कथितं कारो निषिद्धं च निशामय ।
वन्यवृक्षो निषिद्धश्च शिबिरे नगरेऽपि च ।। ४३ ।।

वटो निषिद्धः शिबिरे नित्यं चोरभयं यतः ।
नगरेषु प्रसिद्धश्च दर्शनात्पुण्यदस्तथा ।। ४४ ।।

निषिद्धः शाल्मरिश्चैव शिबिरे नगरे पुरे ।
दुःखप्रदश्च सततं भूमिपानां सदाऽपि च ।। ४५ ।।

न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
विद्यामतिनिषिद्धस्तु सततं दुःखदस्तदा ।। ४६ ।।

हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्जयेत् ।
शतेन धनहानिः स्यात्प्रजाहानिर्भवेद्ध्रुवम् ।। ४७ ।।

शिबिरेऽतिनिषिद्धश्च नगरे किंचिदेव च ।
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।। ४८ ।।

विद्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् ।
खर्जूरश्च गहश्चैव निषिद्धः शिबिरे तथा ।। ४९ ।।

न निषिद्धः प्रसिद्धश्च ग्रामेषु नगलेषु च ।
वृक्षश्च चणकादीनां धान्यं च मङ्गलप्रदम् ।। ५० ।।

ग्रामेषु नगरे चापि शिबिरे च तथैव च ।
इक्षुवृक्षश्च शुभदः संततं शुभदस्तथा ।। ५१ ।।

अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।
कच्चिद्धरिद्रा शुभदा शुभदश्चाऽऽर्द्रकस्तथा ।। ५२ ।।

हरीतकी च शुभदा ग्रामेषु नगरेषु च ।
न वाद्या भद्रदा नित्यं चाऽऽमलकी घ्रुवम् ।। ५३ ।।

गजानामस्थि शुभदमश्वानां च तथैव च ।
कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् ।। ५४ ।।

न शुभप्रदमन्येषामुच्छिन्नकारणं परम् ।
वानराणां नराणां च गर्दभानां गवामपि ।। ५५ ।।

कुक्कुराणां शृगालानां मार्जाराणामभद्रकम् ।
भेटकानां सूकराणां कर्वेषां च शुभपदम् ।। ५६ ।।

ईशाने चापि पूर्वस्मिन्पश्चिमे च तथोत्तरे ।
शिबिरस्य जलं भद्रमन्यत्राशुभमेव च ।। ५७ ।।

दीर्घे प्रस्थे समानं च न कुर्यान्मन्दिरे बुधः ।
चतुरस्रे गृहे कारो गृहिणां धननाशनम् ।। ५८ ।।

दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।
शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ।। ५९ ।।

प्रस्थे हस्तद्वयात्पूर्वं दीर्घे हस्तत्रयं तथा ।
गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च ।। ६० ।।

न मध्यदेशे कर्तव्यं किंचिन्न्यूनाधिके शुभम् ।
चतुरस्रं चन्द्रवेधं शिबिरं मङ्गलप्रदम् ।। ६१ ।।

अभद्रदं सूर्यवेधं शिबिरं मङ्गलप्रदम् ।
अभद्रदं सूर्यवेधं प्राङ्गणं च तथैव च ।। ६२ ।।

शिबिराम्यन्तरे भद्रा स्थापिता तुलसी नृणाम् ।
धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा ।। ६३ ।।

प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ।
मालती यूथिका कुन्दं माधवी केतकी तथा ।। ६४ ।।

नागेश्वरं मल्लिकां च काञ्चनं बकुलं शुभम् ।
अपराजिता च शुभदा तेषामुद्यानमीप्सितम् ।। ६५ ।।

पूर्वे च दक्षिणे चैव शुभदं नात्र संशयः ।
ऊर्ध्वं षोडशहस्तेभ्यो नैव कुर्याद्गृहं गृही ।। ६६ ।।

उर्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ।
सूत्रधारं तैलकारं स्वर्णकारं च हीरकम् ।। ६७ ।।

वाटीमूले ग्राममध्ये न कुर्यात्स्थापनं बुध ।
ब्राह्मणं क्षभियं वैश्यं सच्छूद्रं गणकं शुभम् ।। ६८ ।।

भट्टं वैद्यं पुष्पकारं स्थापयेच्छिबिरान्तिके ।
प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ।। ६९ ।।

पारतः शिबिराणां च गम्भीरं दशहस्तकम् ।
सेकेतपूर्वकं चैव परिखाद्वारमीप्सितम् ।। ७० ।।

शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ।
शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च ।। ७१ ।।

निम्बाणां सिन्धुवाराणां बदरीणामभद्रकम् ।
धत्तूराणां वटानां चाप्येरण्डानामवाञ्छितम् ।। ७२ ।।

एतेषामतिरिक्तानां शिबिरे काष्ठमीप्सितम् ।
वृक्षं च वज्रहस्तं च भूधरो वर्जयेदधः ।। ७३ ।।

पुत्रदारधनं हन्यादित्याह कमलोद्भवः ।
कथितं लोकशिक्षार्थं कुरुकाष्ठं विना पुरीम् ।। ७४ ।।

शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् ।
विश्वकर्मा हरिं नत्वा जगाम् पक्षिणा सह ।। ७५ ।।

समुद्रस्य समीपं च वटमूलं मनोहरम् ।
सुष्वाप तत्र नक्तं च कारुश्च पक्षिणा सह ।। ७६ ।।

स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा ।
यत्किंचित्कथितं कारुं कृष्णेन परमात्मना ।। ७७ ।।

तदेव लक्षणं सर्वं ददर्श नगरे मुने ।
कारुं हमन्ति स्वप्ने च सर्वे ते शिल्पकारिणः ।। ७८ ।।

गरुडं गरुडाश्चान्ये बरवन्तश्च पक्षिणः ।
बुद्धो ददर्श गरुडो विश्वकर्मा च लज्जितः ।। ७९ ।।

अतीव द्वारकां रम्यां शतयोजनविस्तृताम् ।
ब्रह्मादीनां च नगरं विजित्य च विराजिताम् ।।
तेजसाऽऽच्छादितां सूर्यं रत्नानां च परिष्कृताम् ।। ८० ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo द्वारकानि-
र्माणारम्भे त्र्यधिकशततमोऽध्यायः ।। १०३ ।।