ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ११२

← अध्यायः १११ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ११२
[[लेखकः :|]]
अध्यायः ११३ →

अथ द्वादशाधिकशततमोऽध्यायः
नारायण उवाच
वासुदेवो द्वारकायां वसुदेवाज्ञया मुने ।
प्रययौ रत्नरुचिरं रुक्मिणीमन्दिरं वरम् ।। १ ।।

शुद्धस्फटिकसंकाशममूल्यरत्ननिर्मितम् ।
पुरतः परितो रम्यं नानाचित्रेण चित्रितम् ।। २ ।।

अमूल्यरत्नकलशं श्वेतचामरदर्पणैः ।
वहनिशुद्धाशुकैः शुद्धैः परितः परिशोभितम् ।। ३ ।।

ददर्श रुक्मिणीं देवीमतीव नवयौवनाम् ।
रत्नपर्यङ्कमारुह्य शयानां सस्मितां मुदा ।। ४ ।।

अप्रौढां च नवोढां तां नवसंगमलज्जिताम् ।
अमूल्यरत्ननिर्माणभूषणेन विभूषिताम् ।। ५ ।।

सुचारुकबरीभारां मालतीमल्यभूषिताम् ।
दृष्टवा कृष्णां भीष्मकन्या सहसा प्रणनाम सा ।। ६ ।।

तां संप्राप्य जगन्नाथो रत्नतल्पे उवास सः ।
शुभक्षणे च शुभया स रेमे रामया सह ।। ७ ।।

सुखसंभोगमात्रेण मूर्च्छामाप मुदा सती ।
तस्यां जज्ञे कामदेवो भस्मीभूतदश्च शंभुना ।। ८ ।।

स शम्बरं निहत्यैव तत्र प्राप रतिं सतीम् ।
रतिर्मायावतीनाम्ना संकेतेन सुरस्य च ।।
छायां दत्त्वा च शयने गृहिणी शम्बरालये ।। ९ ।।

नरद उवाच
जहार शम्बरं कामो दैत्यं केन प्रकारतः ।
कथयस्व माहाभाग विस्तरेण शुभां कथाम् ।। १० ।।

नारायण उवाच
समतीते च सप्ताहे रुक्मिणीसूतिकागृहात् ।
गृहीत्वा बालकं दैत्यो जगाम् स्वालयं जवात् ।। ११ ।।

अपुत्रकश्च दैत्येशः पुत्रं प्राप्य प्रहर्षितः ।
मायावत्यै ददौ हृष्टो हृष्टा मायावती सती ।। १२ ।।

अतीव पालनेनैव वर्धयामास बारकम् ।
सरस्वती तां रहसि कथयामास निर्जने ।। १३ ।।

सरस्वत्युवाच
शिवकोपानले पूर्व भस्मीभूतः पतिस्तव ।
स चायं रुक्मिणीपुत्रो दैत्येनैव समाहृतः ।। १४ ।।

माययाऽपि च मायेशो रुक्मिणीसूतिकागृहात् ।
समानीय ददौ तुभ्यं पतिस्तेऽयं न चाऽऽत्मजः ।। १५ ।।

कामं च कथयामास जगन्माता च सा सती ।
तव पत्नी रतिश्चेयं रमस्व रामया सह ।। १६ ।।

त्वमेव रुक्मिणीपुत्रो नान्यदैत्यस्य मन्मथः ।
कुररीव सती नित्यं रोदिति स्म त्वया विना ।। १७ ।।

इत्युक्त्वा च ययौ वाणी ब्रह्माणी ब्रह्मणः पदम् ।स रेमे निर्जने नित्यं रामया सह सुन्दरः ।। १८ ।।

एकदा मन्मथं दैत्यौ ददर्श रहसि श्थितम् ।
शृङ्गारं रामया सार्धं कुर्वन्तं कौतुकेन च ।। १९ ।।

सस्मितं सस्मितायाश्च मध्यवक्षःस्थलस्थितम् ।
रतिं ददर्श कामेन मूर्च्छितां सुरतोत्सुकाम् ।। २० ।।

दृष्ट्वा चुकोप दैत्यश्च जग्राह खड्गमुत्तमम् ।
उवाच खड्गहस्तश्च कामदेवं रतिं सतीम् ।। २१ ।।

शम्वर उवाच
धिक्त्वां महाकामुकं च मूर्खं पण्डितमानिनम् ।
महापातकिनां श्रेष्ठं प्रमत्तं मातृगामिनम् ।। २२ ।।

धिक्त्वां च पुंश्चलीं मत्तां कामुकीं हतचेतनाम् ।
पुत्रं गृहीत्वा रहसि कलोषि सुरतिं सति ।। २३ ।।

इत्येवमुक्त्वा खड्गं च तामेव हन्तुमृद्यतः ।
जिघांसन्तं रतिं देत्यं प्रेरयामास मन्मथः ।। २४ ।।

पपात दूरतो ब्रह्मन्मूर्च्छितः स्वाङ्गपीडितः ।
पुनश्च चेतनां प्राप्य कोपेन प्रज्वलन्निव ।। २५ ।।

शिवदत्तं च शूलं च जग्राह निर्भरेण च ।
शतसूर्यप्रभं शूलं प्रलयाग्निसमं मुने ।। २६ ।।

दृष्ट्वाऽऽजग्मुश्च देवाश्च ब्रह्मेशशेषसंज्ञकाः ।
पवनः कथयामास कर्णे कामस्य यत्नतः ।। २७ ।।

स्मर स्मर महामायां दुर्गां तुर्गतिनाशिनीम् ।
पवनस्य वचः श्रुत्वा दुर्गां सस्मार मन्मथः ।। २८ ।।

शूलं बभूव तस्याङ्गे रम्यं माल्यं मनोहरम् ।
ब्रह्मास्त्रेण च तं दैत्यं जघान मन्मथो मुदा ।। २९ ।।

रतिं गृहीत्वा यानेन जगाम द्वारकां पुरीम् ।
प्रययुर्देवताः सर्वा स्तुत्वा च पार्वतीं स्वयम् ।। ३० ।।

रुक्मिणी मङ्गलं कृत्वा प्रजग्राह रतिं सुतम् ।
उत्सवं कारयामास परं स्वस्त्ययनं हरिः ।। ३१ ।।

ब्राह्मणान्भोजयामास पूजयामास पार्वतीम्र ।
अथ कृष्णः क्रमेणैव वेदोक्ते मङ्गले दिने ।। ३२ ।।

सप्तानां रमणीनां च पाणिग्राहं चकार ह ।
कालिन्दीं सत्यभामां च सत्या राग्निजितीं सतीम् ।। ३३ ।।

जाम्बवतीं लक्ष्मणां च समुद्वाहं चकार सः ।
ताभिः सार्ध क्रमेणैव पुत्रत्पत्तिं चकार ह ।। ३४ ।।

एकस्यां दशपुत्राश्च कन्यकैका क्रमेण च ।
निहत्य नरकं दैत्यं सपुत्रं च नृपेश्वरम् ।। ३५ ।।

बलवन्तं मुरं दैत्यं जघान रणमूर्धनि ।
ददर्श कन्यास्तत्रस्थाः सहस्राणां च षोडश ।। ३६ ।।

शताधिका वयस्याश्च शश्वत्सुस्थिरयौवनाः ।
प्रफुल्लवदनाः सर्वा रत्नभूषणभूषिताः ।। ३७ ।।

शुभक्षणे च तासां च पाणिं जग्राह माधवः ।
ताभिः सार्धं स रेमे च क्रमेण च शुभक्षणे ।। ३८ ।।

एकस्यां दशपुत्राश्च कन्यकैका क्रमेणा च ।
हरेरेतान्यपत्यानि बभूवुश्च पृथक्पृथक् ।। ३९ ।।

एकदा द्वारकां रम्यां दुर्वासा मुनिपुंगवः ।
शिष्यैस्त्रिकोटिभिः सार्धमाजगामावलीलया ।। ४० ।।

राजा महोग्रसेनश्च सपुत्रः सपुरोहितः ।
वसुदेवो वासुदेवोऽप्यक्रूरश्चोद्धवस्तथा ।। ४१ ।।

नीत्वा षोडशोपचारं प्रणेमुर्मुनिपुंगवम् ।
शुभार्शिषं च प्रददौ तेभ्यो ब्रह्मन्पृथक्पृथक् ।। ४२ ।।

एकानंशां च कन्यां तां ददौ तस्मै शुभक्षणे ।
मुक्तामाणिक्यङीरांश्च रत्नं च यौतकं ददौ ।। ४३ ।।

स रेमे रामया सार्ध माहेन्द्रे रत्नमन्दिरे ।
रत्नेन्द्रसारनिर्माणं ददौ तस्मै शुभाश्रमम् ।। ४४ ।।

एकदा स मुनिश्रेष्ठः समालोच्य स्वचेतसा ।
शयानं कृत्रचिद्रम्यपर्यङ्के रत्ननिर्मिते ।। ४५ ।।

श्रुतवन्तं पुराणं च श्रद्धया कुत्रचिद्धिभुम् ।
महोत्सवे नियुक्तं च कुत्रचित्प्राङ्गणे शुभे ।। ४६ ।।

तामबूलं भुक्तवन्तं च भक्त्या दत्तं च सत्यया ।
कुत्रचित्सेवितं तल्पे रुक्मिण्या श्चेतचामरैः ।। ४७ ।।

कालिन्दीसेपितपदं शयानं कुत्रचिन्मुदा ।
सर्वत्र समसंभाषां चकार भगवान्मुनिम् ।। ४८ ।।

विस्मयं प्रययौ विप्रौ दृष्ट्वा तत्परमाद्भुतम् ।
तुष्टाव जगतीनाथं रुक्मिणीमन्दिरे पुनः
वसन्तं च सुधर्मायां सतां संसदि सुन्दरम् ।। ४९ ।।

दुर्वासा उवाच
जय जय जगतां नाथ जितसर्व जनार्दन सर्वात्मक
सर्वेश सर्वबीज पुरातन निर्गुण निरीह ।। ५० ।।

निर्लिप्त निरञ्जन निराकार भक्तानुग्रहविग्रह सत्यम्वरूपसनातन निःस्वरूप नित्यनूतन ।। ५१ ।।

ब्रह्मेशशेषधनेशवन्दित पद्मया सेवितपादपद्म ब्रह्मज्योतिरनिर्वचनीय वेदाविदितगुणरूप महाकाशसंमाननीय परमात्मन्नमोऽस्तु ते ।। ५२ ।।

इत्येवमुक्त्वा मनसा हरेरनुमतेन च ।
प्रणम्य तस्थौ विप्रेन्द्रस्तत्रैव पुरतो हरेः ।। ५३ ।।

तमुवाच जगन्नाथो हितं सत्यं पुरातनम् ।
ज्ञानं च वेदविहितं सर्वेषां च सतां मतम् ।। ५४ ।।

श्रीभगवानुवाच
मा भेर्विप्र शिवांशस्त्वं किं न जानासि ज्ञानतः ।
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।। ५५ ।।

अहमात्मा च सर्वेषां शावाः सर्वे मया विना ।
प्राणिदेहान्मयि गते यान्त्येव सर्वशक्तयः ।। ५६ ।।

जातावप्येक एवाहं व्यक्तावेव पृथक्पृथक् ।
यो भुङ्क्ते तस्य तृप्तिः स्यान्नान्येषां च कदाचन ।। ५७ ।।

पृथग्जीवादिसर्वेषां प्रतिमानं च प्राणिनाम् ।
परिपूर्णतमोऽहं च गोलोके रासमण्डले ।। ५८ ।।

श्रीदामशापाद्राधा सा मां द्रष्टुमक्षमाऽधुना ।
सर्वे चैवांशरूपेणा कलया च तदंशतः ।। ५९ ।।

रुक्मिणीमन्दिरे चांशोऽप्यन्यासां मन्दिरे कलाः ।
ममापि कुत्रचिच्चांशं कुत्र चिच्च कलाकलाः ।। ६० ।।

कलाकलांशाः कुत्रापि प्रतिमासु च देहिषु ।
इत्युक्त्वा जगतां नाथो गृहस्याभ्यन्तरं ययौ
दुर्वासाश्च प्रियां त्यक्त्वा श्रीहरेस्तपसे गतः ।। ६१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo मुनिकृष्णसंo
द्वादशाधिकाशततमोऽध्यायः ।। ११२ ।।