प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ११३
[[लेखकः :|]]
अध्यायः ११४ →

अथ त्रयोदशाधिकशततमोऽध्यायः
नारायण उवाच
सशिष्यश्चापि दुर्वासास्त्यक्त्वा च द्वारकां पुरीम् ।
कैलासं प्रययौ भक्त्या शंकरं द्रष्टुमीश्वरम् ।। १ ।।

गत्वा मुनिश्च कैलासं प्रणनाम शिवं शिवाम् ।
तुष्टाव परया भक्त्या सशिष्यः प्रणतः शुचिः ।। २ ।।

तत्सर्वं कथयामास वृत्तान्तं श्रीहरेरपि ।
आत्मनस्तपसस्तत्त्वं स्ववैराग्यं च चेतमः ।। ३ ।।

मुनेश्च वचनं श्रुत्वा प्रहस्य पार्वती सती।
तमुवाच हितं सत्यं साक्षाच्छंकरमंनिधौ ।। ४ ।।

पार्वत्युवाच
धर्मतत्त्वं न जानासि धर्मिष्ठं मन्यसे स्वयम् ।
अनपत्यां परित्यज्य वव यासि तपसे मुने ।। ५ ।।

अनपत्यां च युवतीं कुलजां च पतिव्रताम् ।
त्यक्त्वा भवेयुः संन्यासी ब्रह्मचारी यतीति वा ।। ६ ।।

वाणिज्ये वा प्रवासे वा चिरं दूरं प्रयाति यः ।
तीर्थे वा तपसे वाऽपि मोक्षार्थं जन्म खण्डितुम् ।। ७ ।।

न मोक्षस्तस्य भवति धर्मस्य स्खलनं ध्रुवम् ।
अभिशापेन भार्याया नरकं च परत्र य ।। ८ ।।

इहैव च यशोनाश इत्याह कमलोद्भवः ।
द्वारकां गच्छ हे विप्र स्वधर्म रक्ष सांप्रतम् ।। ९ ।।

एकानंशां मदंशां च धर्मतः परिपालय ।
पादपद्मार्जितं पादपद्मं सर्वसुदुर्लभम् ।। १० ।।

संततं शंभुना गीतं मुनीन्द्रैः सनकादिभिः ।
परित्यज सुरतरोः कृष्णस्य परमात्मनः ।। ११ ।।

क्व यासि तपसे वत्स सुधां त्यक्त्वा मनोहराम् ।
श्रीकृष्णपादपद्मं च स्वप्ने जपति यो मुने ।। १२ ।।

शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ।
यद्बाल्ये यच्च कौमारे वार्धके यच्च यौवने ।। १३ ।।

कामतोऽकामतो वाऽपि भस्मीभूतं च पातकम् ।
साक्षाद्यो भारते वर्षे श्रीकृष्णचरणाम्बुजम् ।। १४ ।।

दृष्ट्वा सद्यो भवेत्पूज्यो जीवन्मुक्तो भवेद्ध्रुवम् ।
कोटिजन्मार्जितात्सद्यः कृतपापाद्विमुच्यते ।। १५ ।।

सर्वाण्येव हि तीर्थानि यतःपूतानि नित्यशः ।
तद्व्रतं तत्तपः सत्यं तत्पुण्यं तच्च पूजनम् ।। १६ ।।

सफलं कृष्णसंबन्धि स्वजन्मखण्डनं यतः ।
कृष्णभक्तिविहीनश्च ब्राह्मणो वेदपारगः ।। १७ ।।

तत्सङ्गाच्च तदालापा द्भक्तभक्तिः प्रणश्यति ।
कृष्णस्योच्छिष्टभोजी यः कुष्णभक्तश्च ब्राह्मणः ।। १८ ।।

आवह्निपवनात्पूतः पूतं कर्तुं जगत्क्षमः ।
श्रीकृष्णं च परित्यज्य क्वयासि तपसे द्विज ।। १९ ।।

तपसां फलमाप्नोति श्रीकृष्णस्मरणेन च ।
यतो भक्तिर्न च भवेच्छ्रीकृष्णे परमात्मनि ।। २० ।।

स गुरुः परमो वैरी करोति जन्म निष्फलम् ।
पार्वतीवचनं श्रुत्वा शंकरः प्रेमविह्वलः ।। २१ ।।

पुलकाञ्चितसर्वाङ्गस्तुष्टाव परमेश्वरीम् ।
दुर्वासाः प्रणतिं कृत्वा शिवदुर्गापदाम्बुजे ।। २२ ।।

स्मारं स्मारं कृष्णपदं पुनष्च द्वारकां ययौ ।
तत्र गत्वा हरिं दृष्ट्वा तुष्टाव परमेश्वरम् ।। २३ ।।

एकानंशालयं गत्वा स च रेमे तया सह ।
कृष्णो युधिष्ठिरध्यानात्प्रययौ हस्तिनापुरम् ।। २४ ।।

कुन्तीं सभाष्य भूपं च भ्रातॄं श्चप्रमुदाऽन्वितः ।
उपायेन जरासंधं निहत्य शाल्वमेव च ।। २५ ।।

कालयामास यज्ञं च विधिबोधितदक्षिणम् ।
मुनीन्द्रैश्च नृपेन्द्रैश्च राजसूयमभीप्सितम् ।। २६ ।।

शिशुपालं दन्तवक्त्रं तत्र यज्ञे जघान सः ।
अतीव निन्दां कुर्वन्तं सभायां सुरभूपयोः ।। २७ ।।

पपात तच्छरीरं च जीवो गत्वा हरेः पद्म् ।
न दृष्ट्वा तत्र मर्वेशं तुष्टावाऽऽगात्य माधवम् ।। २८ ।।

शिशुपाल उवाच
वेदानां जनकोऽसि त्वं वेदाङ्गानां च माधव ।
सुराणामसुराणां च प्राकृतानां च देहिनाम् ।। २९ ।।

सूक्ष्मां विधाय सृष्टिं च कल्पभेदं करोपि च ।
मायया च स्वयं ब्रह्मा शंकरः शषे एव च ।। ३० ।।

मनवो मुनयश्चैव देवाश्च मृष्टिपालकाः ।
कलांशेनापि कलया दिक्पालाश्च ग्रहादयः ।। ३१ ।।

स्वयं पुमान्स्वयं स्त्री च स्वयमेव नपुंसकः ।
कारणं च स्वयं कार्यं जन्यश्च जरकः स्वयम् ।। ३२ ।।

यन्त्रस्य च गुणो देषो यन्त्रिणश्च श्रुतौश्रुतम् ।
सर्वे यन्त्रा भवान्यन्त्री त्वयि सर्वं प्रतिष्ठितम् ।। ३३ ।।

मम क्षमस्वापराधं मूढस्य द्वारिणस्तव ।
ब्रह्मशापात्कुबुद्धेश्च रक्ष रक्ष जगद्गुरो ।। ३४ ।।

इत्येवमुक्त्वा क्रमतो जयो विजय एव च ।
मुदा तौ ययतुः शीघ्रं वैकुण्ठद्वारमीप्सितम् ।। ३५ ।।

शिशुपालस्य स्तोत्रेण सर्वे ते विस्मयं ययुः ।
परिबूर्णतमं कृत्वा मेनिरे कृष्णमीश्वरम् ।। ३६ ।।

कारयित्वा राजसूयं भोजयामास ब्राह्मणान् ।
कुरुपाण्डवयुद्धं च कारयामास भेदतः ।। ३७ ।।

भुवो भारावतरणं चकार स कृपानिधिः ।
पुनर्ययौ द्वारकां च चिरं स्थित्वा नृपाज्ञया ।। ३८ ।।

विप्राया मृतवत्साया जीवयामास पुत्रकान् ।
मृतस्थानात्समानीय तन्मात्रे प्रददौ सुतान् ।। ३९ ।।

तद्दृष्ट्वा देवकी तुष्टा ययाचे मृतपुत्रकान् ।
मृतस्थानात्समानीय ददौ मात्रे सहोदरान् ।। ४० ।।

सद्यो जहार दारिद्र्यं सुदाम्नो ब्राह्मणस्य च ।
समागतस्य स्वगृहाद्द्वारकां शरणार्थिनः ।। ४१ ।।

तस्मै ददौ राजलक्ष्मीं निश्चलां साप्तपौरुषीम् ।
पृथुकानां कणं भुक्त्वा भक्तस्य फक्तवत्सलः ।। ४२ ।।

बभूव तस्य राज्यं च यथोन्द्रस्यामरावती ।
यथा धनेश्वरो देवो धनाढ्यः स बभुव ह ।। ४३ ।।

निश्चलां हरिभक्तिं च ददौ दास्यं सृदुर्लभम् ।
अविनाशिनि गोलोके यथेष्टं वदमुत्तमम् ।। ४४ ।।

जहार पारिजातं च शक्राहंकारमेव च ।
सत्यां च कारयामास पुण्यकं व्रतमीप्सितम् ।। १३३.४५ ।।

वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने ।
तत्र व्रते कुमाराय स्वात्मानं दक्षिणां ददौ ।। १३३.४६ ।।

ब्रह्माणान्भोजयामास तेभ्यो रत्नं ददौ मुदा ।
सत्यभामातिमानं च वर्धयामास सर्वतः ।। १३३.४७ ।।

रुक्मिण्या अतिसौभाग्यमन्यासां च नवं नवम् ।
वैष्णवानां सुराणां च विप्रणामपि पूजनम् ।। १३३.४८ ।।

वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने ।
परमाध्यात्मिकं ज्ञानमुद्धवाय ददौ प्रभुः ।। १३३.४९ ।।

अर्जुनं कथयामास गीतां च रणमूर्धनि ।
कृत्वा निष्कण्टकं चैव कृपया च कृपानिधिः ।। १३३.५० ।।

युधिष्ठिराय पृथिवीराज्यलक्ष्मीं ददौ प्रभुः ।
दुर्गां च पूजयामास वैष्मवीं ग्रामदेवताम् ।। ५१ ।।

यज्ञं च कारयामास कोटिहोमान्वितं शुफम् ।
नानाप्रकारनैवेद्यैर्द्यूपदीपैर्मनोहरैः ।। ५२ ।।

ब्राह्मणान्भोजयामास पार्वतीप्रीतये तथा ।
रैवते पर्वते रम्ये चामूल्यरत्नमन्दिरे ।। ५३ ।।

गणेशं पूजयामास देवानामीश्वरं परम् ।
लड्डुकानां तिलानां च सुस्वदुसुमनोहरम् ।। ५४ ।।

परिपूष्टं पञ्चलक्षं नैवेद्यं च ददौ मुदा ।
लड्डुकं स्वस्तिकानां च सप्तलक्षं सुधोपमम् ।। ५५ ।।

गणेश्वराय प्रददौ शर्कराशतराशिकम् ।
पक्वरम्भाफलानां च दशलक्षमपूपकम् ।। ५६ ।।

मिष्टान्नं पायसं रम्यं स्वादु स्वस्तिकपिष्टकम् ।
घृतं च नवनीतं च दधि दुग्धं सुधोपमम् ।। ५७ ।।

धूपं दीपं पारिजातपुष्पमाल्यमभीप्सितम् ।
सुगन्धि चन्दनं गन्धं वह्निशुद्धाशुके ददौ ।। ५८ ।।

यज्ञं च कारयामास कोटिहोमान्वितं शुभम् ।
ब्राह्मणान्भोजयामास तुष्टाव स गणेश्वरम् ।। ५९ ।।

वाद्यं दशविधं चैव वादयामास तत्र वै ।
सूर्यं च पूजयामास साम्बः कुष्ठक्षयाय च ।। ६० ।।

हविष्यं कारयामास तं च साम्बंसमातरम् ।
परिबूर्ण वत्सरं चाप्युपहारैरनुत्त्मैः
वरं ददौ च साम्बाय स्तोत्रं च भास्करः स्वयम् ।। ६१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तं नारदनाo गणेशपूजा
नाम त्रयोदशाधिकशततमोऽध्यायः ।। ११३ ।।