प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११३ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ११४
[[लेखकः :|]]
अध्यायः ११५ →

अथ चतुर्दशाधिकशततमोऽध्यायः
नारायण उवाच
कृष्णपुत्रश्च प्रद्युम्नो महाबलपराक्रमः ।
तत्पुत्रोऽप्यनिरुद्धश्च विधातुरंश एव च ।। १ ।।

एकदाऽसावनिरुद्धो नवयौवनसंयुतः ।
सुप्तो रहसि पर्यङ्के पुष्पचन्दनचर्चिते ।। २ ।।

स्वप्ने ददर्श युवतीं पुष्णोद्याने सुपुष्पिते ।
सुगन्धिपुष्पतल्पे च स्निग्धचन्दनचर्चिते ।। ३ ।।

शयानां सुस्मितां रम्यां नवयौवनसंयुताम् ।
अमूल्यरत्ननिर्माणभूषणेन विभूषिताम् ।। ४ ।।

चारुकेयूरवलयशङ्खकङ्कणशोभिताम् ।
मणिकुण्डलयुग्मेन गण्डस्थलविराजिताम् ।। ५ ।।

अतीव सूक्ष्मवसनां क्वणन्मञजीररञ्जिताम् ।
पक्वबिम्बाधरोष्ठीं च शरत्कमललोचनाम् ।। ६ ।।

शरत्पद्मप्रभामुष्टकोटीन्दुनिन्दिताननाम् ।
मुक्तापङ्क्तिसमासाद्यदन्तपङ्क्तिमनोहराम् ।। ७ ।।

त्रिवक्रकबरीभारां मालतीमाल्यभूषिताम् ।
कस्तूरीकुङ्कुमालक्तस्निग्धचन्दनकज्जलैः ।। ८ ।।

पत्रावलीविरचितसुकपोलस्थलोज्ज्वलाम् ।
दाडिमीकुसुमाकारसिन्दूरबिन्दुभूषिताम् ।। ९ ।।

श्रीरामकदलीस्तम्भनिन्दितोरुस्थलोज्ज्वलाम् ।
अत्युच्चैर्वर्तुलाकारस्तनयुग्मविभूषिताम् ।। १० ।।

नितम्बभारन म्रां च कामबाणप्रपीडिताम् ।
कामुकीं कमनीयां च पश्यन्तीं वक्रचक्षुषा ।। ११ ।।

कुङ्कुमालक्तरक्ताक्तपादपद्मविराजिताम् ।
वायुप्रेरणवस्त्रेण व्यक्तगुव्तस्थलोज्ज्वलाम् ।। १२ ।।

तां दृष्ट्वा कामपुत्रश्च कामोन्मथितमानसः ।
उवाच मधुरं रम्यं काममत्तां सुकोमलाम् ।। १३ ।।

चारुचम्पकवर्णाभां कामेन पुलकान्विताम् ।
अतिप्रौढां नवोढां च शृङ्गानेच्छासुचञ्चलाम् ।। १४ ।।

अनिरुद्ध उवाच
किं देवी किं च गान्धर्वोका त्वं कामिनिकानने ।
कस्य सत्री कस्य कन्या वा कं वा वाञ्छसि सुन्दरि ।। १५ ।।

त्रैलोक्यातुलसौन्दर्या मुनिमानसमोहिनी ।
न बिभेषि कथं ब्रूहि स्वयमेकाकिनी च माम् ।। १६ ।।

अहं त्रैलोक्यनाथस्य पौत्रः कामात्मजोऽधुना ।
कान्तेऽहमनिरुद्धश्च नवीनयौवनाहतः ।। १७ ।।

कमनीयश्च कामी च कामशास्त्रविशारदः ।
कामुकीकामनां पूर्णां कर्तुमेवेश्वरः स्वयम् ।। १८ ।।

मां भजस्व सुशीरे त्वं सुवेषं च सुशीलकम् ।
रतिशूरं रतिरसप्राज्ञं रतिरसप्रियम् ।। १९ ।।

रतिपुत्रं रतिरसं प्रमत्तं रसिकं प्रिये ।
युवानं व्याधिहीनं च कामुकं कामुकीच्छति ।। २० ।।

विदग्धामु विदग्धं च कान्तमायाति कामतः ।
विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ।। २१ ।।

प्रच्छाद्य लोजनास्यं च नवसंगमलज्जिता ।
विलोकयन्ती वक्राक्षिकोणेन तमुवाच सा ।। २२ ।।

कामिन्युवाच
कामुकः कामपुत्रोऽसि कामेन व्याकुलोऽधुना ।
भवांश्चेत्कामुकीयोग्यो न कामश्चिन्तितः कथम् ।। २३ ।।

पौत्रस्त्रैलोक्यनाथस्य स्वतः संभावितस्य च ।
स्वयं योग्यो योग्यपुत्रो विवाहं न कथं (व्यधाः) चन ।। २४ ।।

विवाहीता यज्ञपत्नी सा च पुण्यव्रता सती ।
निश्चला सततं साध्या वर्धिनी सङ्गिनी सदा ।। २५ ।।

भयप्रीतिदानसाध्या गुप्तपत्नी त्वनिश्चला ।
नैमित्तिका न नीत्या सा सा च वेदविवर्जिता ।। २६ ।।

परं नरकसोपाना परत्रेहायशस्करा ।
साधुस्तत्र न हि रतो वंशजो वैष्णवो यदि ।। २७ ।।

यदि पूर्व भवेद्भ्रान्तो निवृत्तः साधुसङ्गतः ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ।। २८ ।।

प्रायश्चित्ती पुनर्लिप्तो निवृत्तः पातकी यदि ।
उवहास्यो भुवि भवेत्सर्वं कुञ्जरशौचवत् ।। २९ ।।

सुशीला सुन्दरी शान्ता धर्मपत्नी प्रशंसिता ।
पतिव्रता सुसाध्या सा शश्वत्सुप्रियवादिनी ।। ३० ।।

कोमलाङ्गी विदग्धा च श्यामा रतिसुखप्रदा ।
एवंभूतां परित्यज्य वैष्णवस्तपसे व्रजेत् ।। ३१ ।।

सा जेत्परिणता साध्वी शान्ता पुत्रवती यदा ।
अन्यथा च वृथा सर्वं तपसः स्खलनं भवेत् ।। ३२ ।।

असाधुश्च कुवंशश्चेत्परनारीं प्रयाति चेत् ।
स याति नरकं घोरं पितुशिः सप्तभिःसह ।। ३३ ।।

अहमूषा बाणकन्या बाणः शंकरकिंकरः ।
बाणस्त्रैलोक्यविजयी शंकरो जगतां पतिः ।। ३४ ।।

न स्वतन्त्रा पराधीना त्रिषु कालेषु कामिनी ।
पुंश्चली या स्वतन्त्रा साऽप्यसद्वंशप्रसूतिका ।। ३५ ।।

पिता ददाति कन्यां तां सुयोग्याय वराय च ।
कन्या वरं न याचेत धर्म एष सनातनः ।। ३६ ।।

त्वं च योग्योऽसि योग्याऽहं मामिच्छसि यदि प्रभो ।
बाणं प्रार्थय शंभुं वाऽऽप्यथवा पार्वतीं सतीम् ।। ३७ ।।

इत्युक्त्वा सुन्दरी साध्वी सान्तर्धाना बभूव ह ।
निद्रां तत्याज सहसा कामी कामात्मजो मुने ।। ३८ ।।

बुद्धवा स्वप्नं स विज्ञाय कामेन व्यथितान्तरः ।
बभूव व्याकुलोऽशान्तो न दृष्ट्वा प्राणवल्लभाम् ।। ३९ ।।

त्यक्त्वाऽऽहारमनिद्रश्च प्रमत्तश्च कृशोदरः ।
क्षणं तिष्ठति शेते च क्षणं रहसि रोदिति ।। ४० ।।

पुत्रं दृष्ट्वा तु क्रन्दन्तं देवकी रुक्मिणी रतिः ।
अन्याश्च योषितः सर्वाः कथयामासुरीश्वरम् ।। ४१ ।।

तासां च वचनं श्रुत्वा प्रहस्य मवुसूदनः ।
उवाच सर्वतत्त्वज्ञः कृष्णश्च पूर्णमानसः ।। ४२ ।।

श्रीभगवानुवाच
कामातुरा बाणकन्या रतिं दृष्ट्वा शिवेशयोः ।
वरं संप्राप दुर्गाया व्याकुला मदनास्त्रतः ।। ४३ ।।

स्वप्नं च दर्शयामास साऽनिरुद्धं च पार्वती ।
मम पौत्रं प्रमत्तं च चकार कौतुकेन च ।। ४४ ।।

तत्पुत्रीं च प्रमतां ता करोमि स्वप्नताऽधुना ।
स्वच्छन्दं तिष्ठ न चिरं नास्ति चिन्ता मनोव्यथा ।। ४५ ।।

इति कृष्णः समाश्वास्यसर्वातमासर्वसिद्धिवित् ।
स्वप्नं च दर्शयामास बाणपुत्रीं च कामुकीम् ।। ४६ ।।

सुप्ता सुतल्पे बाला सा पुष्पचन्दनचर्चिते ।
नवयौवनसंयुक्ता रत्नभूषणभूषिता ।। ४७ ।।

शयाना रत्नपर्यङ्के ददर्श स्वप्नमीप्सितम् ।
अतीव निर्जने देशे रत्ननिर्माणमन्दिरे ।। ४८ ।।

नवीननीरदश्याममतीव नवयौवनम् ।
कोटिकन्दर्पलीलाभं सस्मितं सुमनोहरम् ।। ४९ ।।

रत्नकेयुरवलयरत्नमञ्जीररञ्जितम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।। ५० ।।

चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससा ।
सुचारुमालतीमाल्यवक्षः स्थलसमुज्ज्वलम् ।। ५१ ।।

शयानं रत्नपर्यङ्के पुष्पचन्दनचर्चिते ।
तं दृष्ट्वा सहसा साध्वी तन्मूलं प्रययौ मुदा ।। ५२ ।।

उवाच मधुरं साध्वी हृदयेन विदूयता ।
कामात्मजप्रिया कान्ता कामबाणप्रपीडिता ।। ५३ ।।

ऊषोवाच
कस्त्वं कामुक भद्रं ते मां भजस्व स्मरातुराम् ।
अतिप्रौढां नवोढां च नवसंगमलालसाम् ।। ५४ ।।

तवानुरक्तां भक्तां च गान्धर्वेण समुद्वह ।
विवाहाष्टप्रकारेषु गान्धर्वः सुलभो नृणाम् ।। ५५ ।।

अनुरक्तां प्रियां प्राप्य त्यजेद्यः कपटी पुमान् ।
तस्माद्याति महालक्ष्मीः शापं दत्त्वा सुदारुणम् ।। ५६ ।।

पुमानुवाच
अहं कृष्णस्य पौत्रश्च कामदेवात्मजः स्वयम् ।
कथं गृह्णामि त्वां कान्ते तयोरनुमतिं विना ।। ५७ ।।

इत्येवमुक्त्वा स पुमानन्तर्धानं चकार सः ।
कामेन व्याकुला कान्ता न दृष्ट्वा कान्तमीप्सितम् ।। ५८ ।।

निद्रां त्यक्त्वा समुत्थाय तल्पादेव मनोहरात् ।
विषसाद सखीमध्ये प्रमत्ता रुदती भृशम् ।। ५९ ।।

पप्रच्छ तां वराऽऽलीनां किं किमित्येव निश्चितम् ।
उवाच बौधयामास चित्रलेखा सुयोगिनी ।। ६० ।।

चेतनं कुरु कल्याणि कस्माते भीतिरुल्बणा ।स्वयं शंभुः शिवा साक्षाद्दुर्लङ्ध्ये नगरे सति ।। ६१ ।।

शिवस्मरणमात्रेण सर्वारिष्टं पलायते ।
शिवं भवति सर्वत्र शिव एव शिवालयः ।। ६२ ।।

ध्यानाद्दुर्गतिनाशिन्याः सर्वं दुर्गं विनश्यति ।
ददाति मङ्गलं तस्मै सर्वमङ्गलमह्गला ।। ६३ ।।

चित्रलेखावचः श्रुत्वा किंचिन्नोवाच सुन्दरी ।
त्यक्त्वाऽऽहारं च निद्रां च पुरुषं चिन्तयेत्सदा ।। ६४ ।।

चित्रलेखा सखी गत्वा बाणमाह च तत्प्रियाम् ।
दुर्गां च शंकरं स्कन्दं गणेशं योगिनां गुरुम् ।। ६५ ।।

चित्रलेखावचः श्रुत्वा रुरोदोच्चैर्भृशं सती ।
बाणश्य शंकराभ्याशे विषसाद प्रमूर्च्छितः
जहास शंकरो दुर्गा कार्तिकेयो गणेश्वरः ।। ६६ ।।

गणेश्वर उवाच
यो ददाति ध्रुवं दुःखमन्यस्मै दमभमोहितः ।
सक्ष्मधर्मविचारेण स विन्दति चतुर्गुणम् ।। ६७ ।।

शिवेशयोश्च क्रीडां च दृष्ट्वा या काममोहिता ।
वरं तस्यै ददौ दुर्गा वरमेव सुदुर्लभम् ।। ६८ ।।

स्वप्ने गत्वा स्वयं देवी मत्तं कृत्वा समरात्मजम् ।
अधुना वामपार्श्चे च शंभोस्तिष्ठति मूक्वत् ।। ६९ ।।

सर्वं ज्ञात्वा च सर्वज्ञो भगवान्हरिरीश्वरः ।
स्वप्ने सुवेषं पुरुषं दर्शयामास कन्याकाम् ।। ७० ।।

सुवेषं पुरुषं दृष्ट्वा युवानं युवाती सती ।
परमेच्छा भवेत्तस्या धर्मभीत्या निवर्तते ।। ७१ ।।

सुवेषं पुरुषं दृष्ट्वा पुंश्चली पापवंशजा ।
त्येजेन्निद्रां च स्वाहारं पतिं पुत्रं धनं गृहम् ।। ७२ ।।

चेतनं गृहकार्य च कुललज्जां कुलद्वयम् ।
युवानं रतिशूरं चाप्यतिनीच न हि त्यजेत् ।। ७३ ।।

त्यजेज्जातिं च धर्मं च प्राणांश्च परिणामतः ।
तस्मात्प्राज्ञः प्रयत्नेन प्राणेभ्यो युवतीं सदा ।। ७४ ।।

परिरक्षेच्च सततं मायायुक्तां न विश्वसेत् ।
हृदयं क्षुरधाराभं नारीणां मधुरं वचः ।। ७५ ।।

तासां मनो न जानन्ति सन्तो वेदाश्च वैदिका ।
प्रयातु द्वारकां सद्याश्चित्रलेखा सुयोगिनीं ।। ७६ ।।

अनिरुद्धं समाहर्तुं प्रमात्तमवलीलया ।
इति श्रुत्वा महादेवो गणेशं तमुवाच ह ।। ७७ ।।

न श्रुणोति यथा बाणः शुभकार्यं तथा कुरु ।
चित्रलेखा ययौ तुर्णं द्वारकाभवनं हरेः ।। ७८ ।।

सर्वेषामपि दुर्लङ्ध्यं लीलया प्रविवेश सा ।
निद्रितं चानिरुद्धं च समाहृत्य च योगतः ।। ७९ ।।

रथमारोहयामास निद्वितं बालकं मुदा ।
सा मनोयायिनी भद्रा गृहीत्वा बालकं मुने ।। ८० ।।

मुहूर्ताच्छोणितपुरं कृत्वा शङ्खध्वनिं ययौ ।
अथाऽऽश्रमाभ्यन्तरे च रुरुदुः सर्वयोषितः ।। ८१ ।।

अहो बाणहरो वत्सः क्वगतः प्राणवल्लभः ।
कृष्णस्ताश्च समाश्वास्य सर्वज्ञः सर्वतत्त्ववित् ।। ८२ ।।

साम्बकामबलैः सार्ध कृष्णाः सात्यकिना तथा ।
गृहीत्वा गानुडं वीरं रथमारुह्य सत्वरः ।। ८३ ।।

सुदर्शनं पाञ्चजन्यं पद्मं कौमोदकीं गदाम् ।
पश्चाद्यास्यतिदेवेशो नगरं शोणितं तथा ।। ८४ ।।

सगणैःशंकेरणैव पार्वत्या परिरक्षितम् ।
अथ सा योगिनी धन्या पुण्या मान्या च योषिताम् ।। ८५ ।।

शिष्या दुर्वाससः शान्ता सिद्धयोगेन सिद्धिदा ।
बारकं बोधयामास रुदन्तं मातरं स्मरन् ।। ८६ ।।

स्नापयित्वा ददौ तस्मै माल्यचन्दनभूषणम् ।
कृत्वा सुवेषं बालस्य कन्यान्तः पुरमीप्सितम् ।। ८७ ।।

चक्रे प्रवेशं योगेन रक्षकैश्चापि रक्षितम् ।
तामूषां निद्रितां दृष्ट्वा निराहारां कृशोदरीम् ।। ८८ ।।

शीघ्रं च बोधयामास सखीभिः परिरक्षिताम् ।
ऊषां कृत्वा च सुस्नातां वस्त्रभूषणभूषिताम् ।। ८९ ।।

वस्त्रैर्माल्यैश्चन्दनैश्च सिन्दूरपत्रकैः शुभैः ।
द्वयोः संभाषणं तत्र माहेन्द्रे च शुभक्षणे ।। ९० ।।

कारयामास गुप्त्या च सखीनां संमतेन च ।
पतिव्रता पतिं दृष्ट्वा सा रेमे विगतज्वरा ।। ९१ ।।

गान्धर्वेण विवाहेन तामुवाह स्मरात्मजः ।
रतिर्बभूव सुचिरमुभयोः सुखकारणम् ।। ९२ ।।

दिवानिशं न बुबुधे स्मरपुत्रः स्मरातुरः ।
ऊषा कामातुरा प्रौढा नवोढा नवसंगमात् ।। ९३ ।।

मूर्च्छां संप्राप पुंसश्च स्पर्शमात्रेण कामुकी ।
एवं नित्यं च रहसि संगमः सुमनोहरः
बभूव सुचिरं विप्र राजा शुश्राव रक्षकात् ।। ९४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदानाo ऊषानिरुद्धयोः
संगमे चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।