ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ११६

← अध्यायः ११५ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ११६
[[लेखकः :|]]
अध्यायः ११७ →

अथ षोडशाधिकशततमोऽध्यायः
बाण उवाच
अनिरुद्ध बुधोऽसि त्वं त्वयोक्तं सत्यमेव च ।
शंभुना चैवमुक्तं च सर्वं बुद्धं स्वचेतसा ।। १ ।।

त्वयोक्तं शंकरवरात्पञ्चानां स्वामिनां प्रिया ।
द्रौपदी च महाभागा तन्मे व्याख्यातुमर्हसि ।। २ ।।

शम्बरेण हृता पूर्व तव माता कथं रतिः ।
देवैरपि कथं दत्ता देवास्तेन जिता कथम् ।। ३ ।।

अनिरुद्ध उवाच
एकदा रघुनाथश्च सीतया लक्ष्मणो च ।
स्नातः सरसि तत्रस्थो रम्ये पञ्चवटीतटे ।। ४ ।।

उवाच सीता हेमन्ते जलं सुस्वादु निर्मलम् ।
तथाऽन्नं व्यञ्जनं रम्यं सर्वं वस्तु सुशीतलम् ।। ५ ।।

फलावबचयनं चक्रे सीतायै प्रददौ मुदा ।
ततो ददौ लक्ष्मणाय पश्चाद्भङ्क्ते स्वयं प्रभुः ।। ६ ।।

लक्ष्मणस्तद्गृहीत्वा च नैव भुङ्क्ते फलं जलम् ।
मेघनादवधार्थं च सीतोद्धारणकारणात् ।। ७ ।।

निद्रां न याति नो भुङ्क्ते वर्षाणां च चतुर्दश ।
य एवं पुरुषो योगी तद्वध्यो रावणत्मजः ।। ८ ।।

एतस्मिन्नन्तरे रामं द्रष्टुं कमललोचनम् ।
वहनिस्तत्र समायातो द्विजरूपी कृपानिधिः
भविष्यत्कथयामाम श्रुतिकौटपरं वचः ।। ९ ।।

वह्निरुवाच
शृणु राम महाभाग सीतासंगोपनं कुरु ।
सप्ताहाभ्यन्तरे चैव रावणो दुष्टराक्षसः ।। १० ।।

दुर्निवार्यः प्राक्तनेन जानकीं च हरिष्यति ।
विधात्रा लिखितं कर्म प्राक्तंनं केन वार्यते ।। ११ ।।

वेदैश्चतुर्भिः कथितं न च दैवात्परं वरम् ।। १२ ।।

राम उवाच
सीतां गृहीत्वा त्वं गच्छ च्छायाऽत्रैव तु तिष्ठतु ।
कलत्रवर्जनं कर्म सर्वेषां च जुगुप्सितम् ।। १३ ।।

सीतां गृहीत्वा प्रययौ रुदतीं च हुताशनः ।
सीतया सदृशी छाया तस्थौ श्रीरामसंनिधौ ।। १४ ।।

सा च च्छाया हृता पूर्व रावणेनावलीलया ।
समुद्दधार तां रामो निहत्य तं सबान्धवम् ।। १५ ।।

वह्नौ परीक्षाकाले च च्छाया वह्नौ विवेश सा ।
अग्निश्छायां च संरक्ष्य ददौ रामाय जानकीम् ।। १६ ।।

रामस्तां च गृहीत्वा च प्रययौ स्वाश्रमं मुदा ।
छाया तस्थौ वह्निपार्श्वे हृदयेन विदूयता ।। १७ ।।

सा च च्छाया तपश्चक्रे नारायणसरोवरे ।
तपश्चकार दिव्यं च शातवर्षं च शूलिनः ।। १८ ।।

वरं वृणुष्व भद्रे त्वमुवाच शंकरश्च ताम् ।
उवाच शिवं व्यग्रा भर्तुर्दुःखेन दुःखिता ।। १९ ।।

पतिं देहि पञ्चधा सा वरं वव्रे त्रिलोचनम् ।
सर्वसंपत्प्रदस्तुष्टस्तस्यै शर्वो वरं ददौ ।। २० ।।

महादेव उवाच
साध्वि त्वं पञ्चधा ब्रूहि पतिं देहीति व्याकुला ।
पञ्चेन्द्राश्च हरेरंशा भविष्यन्ति प्रियास्तव ।। २१ ।।

ते च सर्वे च पञ्चेन्द्राश्चाधुना पञ्च पाण्डवाः ।
सा च च्छाया द्रौपदी च यज्ञकुण्डसमुद्भवा ।। २२ ।।

कृतयुगे वेदवती त्रेतायां जनकात्मजा ।
द्वापरे द्रौपदी छाया तेन कृष्णा त्रिहायणी ।। २३ ।।

वैष्णपी कृष्णभक्ता च तेन कृष्णा प्रकीर्तिता ।
स्वर्गलक्ष्मीर्महेन्द्राणां सा च पश्चाद्भविष्यति ।। २४ ।।

राजा ददौ फाल्गुनाय कन्यायाश्च स्वयंवरे ।
पप्रच्छ मातरं वीरो वस्तु प्राप्तं मयाऽधुना ।। २५ ।।

तमुवाच स्वयं माता गृहाण भ्रातृभिः सह ।
शंभोर्वरेण पूर्व च परत्र मातुराज्ञया ।। २६ ।।

द्रौपद्याः स्वामिनस्तेन हेतुना पञ्च पाण्डवाः ।
चतुर्दशानामिन्द्राणां पञ्चेन्द्राः पञ्च पाण्डवाः ।। २७ ।।

शंकरेणाभिसंशप्ता सा मात्रा भर्त्सितेन च ।
भर्ताते भस्मसाद्भूतो हरकोपानलेन च ।। २८ ।।

हे रति त्वं मया शप्ता दैत्यग्रस्ता भवाधुना ।
विजित्यदेवान्सेन्द्राश्च शम्बरस्त्वा हरिष्यति ।। २९ ।।

पुनरुवतं वरं प्रादात्सतीत्वां ते न यास्यति ।
छायां दत्त्वा तिष्ठ गेहे यावज्जीवति ते पतिः ।। ३० ।।

इति ते कथितं सर्वमितिहासं पुरातनम् ।
देवानां गुप्तचरितं श्रृणु दैत्येन्द्र सांप्रतम् ।। ३१ ।।

एतस्मिन्नन्तरे तत्र सुभद्रश्च महाबलः ।
कुम्भाण्डभ्राता बलवान्बाणसेनापतीश्वरः ।। ३२ ।।

निर्भत्सर्य बाणं समरे शस्त्रपाणिर्महारथः ।
श्रीकृष्णपौत्रं शूलं च चिक्षेप प्रलयाग्निवत् ।। ३३ ।।

अर्धयन्द्रेण तच्छूलं चिच्छेद कामपुत्रकः ।
शक्तिं चिक्षेप भद्रश्च शतसूर्यसमप्रभाम् ।। ३४ ।।

वैष्णवास्त्रेण चिच्छेद तां शक्तिं कामपुत्रकः ।
नारायणास्त्रं चिक्षेप सुभद्रो रणमूर्धनि ।। ३५ ।।

प्रणम्य शेते निर्भीतो मदनस्य सुतो बली ।
ऊर्ध्वमस्त्रं च बभ्राम शतसूर्यसमप्रभम् ।। ३६ ।।

प्रलीनमस्त्रमाकाशे विश्वसंहारकारणम् ।
अस्त्रे गते सोऽनिरुद्धो गृहीत्वा च महानसिम् ।। ३७ ।।

प्रबभञ्जभद्ररथं जघानाश्वांश्च सारथिम् ।
जघान तं सुभद्रं च लीलया रणमूर्धनि ।। ३८ ।।

हते सुभद्रे बाणश्च महाबलपराक्रमः ।
वाणानां शतकं चापि चक्षेप रणमूर्धनि ।। ३९ ।।

कामात्मजोऽग्निबाणेन बाणोधं प्रददाह सः ।
बाणश्चिक्षेप ब्रह्मास्त्रं सृष्टिसंहारकारणम् ।। ४० ।।

दृष्ट्वा कामात्मजः शीघ्रं सबीजं मन्त्रपूर्वकम् ।
ब्रह्मस्त्रेणैव सहसा संजहारावलीलया ।। ४१ ।।

बाणः पाशुपतं क्षेप्तुं समारेभे च कोपतः ।
निषिद्धश्च गणेशेन स्कन्देन शंभुना तथा ।। ४२ ।।

तद्दृष्ट्वा सोऽनिरुद्धस्तं धनुर्बाणौघ संयुतम् ।
मुमोच जृम्भणे युद्धे शीघ्रं तं च महारथम् ।। ४३ ।।

जडो बभूव बाणश्च निश्चेष्टो रणमूर्धनि ।
पुनश्चिक्षेप निद्रास्यं निद्रितं तं चकार सः ।। ४४ ।।

बाणं तं निद्रितं दृष्ट्वा गृहीत्वा खड्गमुत्तमम् ।
बाणं हन्तुं समुद्यन्तं वारयामास कार्तिकः ।। ४५ ।।

स्कन्दश्च शतबाणौश्च वारयामास लीलया ।
अनिरुद्धं महाभागं बलवान्तं धनुर्धरम् ।। ४६ ।।

अनिरुद्धश्च सहसा तथा शक्त्या दुरत्यया ।
बभञ्ज कार्तिकरथं रत्नेन्द्रसारनिर्मितम् ।। ४७ ।।

गदया कार्तिकः क्रुद्धोऽप्यनिरुद्धरयं मुदा ।
बभञ्ज लीलया तत्र क्षणेन रणमूर्धनि ।। ४८ ।।

अनिरुद्धोऽर्धचन्द्रेण क्षुरधारेण लीलया ।
चिच्छेद कार्तिकधनुर्भल्लास्त्रेण नियोजितम् ।। ४९ ।।

जधान कार्तिकस्तं च गदया च दुरन्तया ।
गदां जग्राह तद्धस्ताज्जवेन मदनात्मजः ।। ५० ।।

शूलं गृहीत्वा स्कन्दं च तमेव हन्तुमु द्यतम् ।
अनिरुद्धश्च कोपेन प्रेरयामास दूरतः ।। ५१ ।।

कार्तिकः पुनरागत्य गृहीत्वा कामपुत्रकम् ।
गृहीत्वा च करेणैव पातयामास भूतले ।। ५२ ।।

अनिरुद्धो गृहीत्वाऽसिं प्रभुस्तस्थौ महाबलः ।
तयोर्विरोधं दूरं च प्रचकार गणेश्वरः ।। ५३ ।।

कार्तिकः प्रययौ गेहमूषागेहं स्मरात्मजः ।
सर्व निवेदितुं शंभुं प्रययौ स गणेश्वरः ।। ५४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo बाणयुo
षोडशाधिकशततमोऽध्यायः ।। ११६ ।।