ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ११७

← अध्यायः ११६ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ११७
[[लेखकः :|]]
अध्यायः ११८ →

अथ सप्तदशाधिकशततमोऽध्यायः
नारायण उवाच
गणेशस्तु शिवस्थानं गत्वा नत्वा महेश्वरम् ।
सर्व विज्ञापयामास क्रमेण च पृथक्पृथक् ।। १ ।।

बाणानिरुद्धयोर्युद्धं सुभद्रनिधनं तथा ।
स्कन्दानिरुद्धयोर्युद्धमनिरुद्धस्य विक्रमम् ।। २ ।।

गणेशवचनं श्रुत्वा प्रहस्य भगवान्भवः ।
उवाच श्लक्ष्णया वाचा सुगुप्तं वेदसंमतम् ।। ३ ।।

महादेव उवाच
गणेश्वर महाभाग श्रूयतां वचनं मम ।
हितं तथ्यं नीतिसारं परिणामसुखावहम् ।। ४ ।।

असंख्यविश्वसंघं च सर्व कृष्णात्मजं सुतम् ।
कृष्णं जानीहि यत्कार्यं कारणानां च कारणम् ।। ५ ।।

ब्रह्मादितृणपर्यन्तं जगत्मर्व गणेश्वर ।
निबोध सत्यं कृष्णं च भगवन्तं सनातनम् ।। ६ ।।

गोलोके द्विभुजं शान्तं राधाकान्तं मनोहरम् ।
शिशुरूपं गोपवेषं गोपवेषं परिपूर्णतमं प्रभुम् ।। ७ ।।

गोपीभिर्गोपनिकरैः सहितं कामधेनुभिः ।
पुण्ये वृन्दावने रम्ये सुन्दरे रासमण्डले ।। ८ ।।

चरन्तं मुरलीहस्तं ब्रह्मेशशेषवन्दितम् ।
शतशृङ्गै च शैलेशे वटमूले निराकुले ।। ९ ।।

गोष्ठे भाण्डीरनिकटे निर्मले विरजातटे ।
नवीननीरदश्यामं शोभितं पीतवाससा ।। १० ।।

यथा नवं घनौघं च सौदामिन्था विराजितम् ।
आविर्भावश्च तेषां वै गोलोके रासमण्डले ।। ११ ।।

तावन्तो गोकुले रम्ये पुण्ये वृन्दावने वने ।
सर्वे चांशकलाः पुंसःकृष्णस्तु भगवान्स्वयम् ।। १२ ।।

परिपूर्णतमः कामो ब्रह्मशापात्स्वविस्मृतः ।
तस्य पुत्रोऽनिरुद्धश्च महाबलपराक्रमः ।। १३ ।।

मया प्रस्थापितः स्कन्दो महायुद्धे सुदारुणे ।
मृतो बाणश्च संग्रामे तेन स्कन्देन रक्षितः ।। १४ ।।

स्कन्दानिरुद्धयोर्युद्धे समत्वं तु गणेश्वर ।
अष्टौ च भैरवाः सर्वे रुद्राश्चैकादशैव ते ।। १५ ।।

अष्टौ च वसवश्चैते देवाः शक्रादयस्तथा ।
तथैव द्वादशादित्याः सर्वे दैत्येश्वरास्तथा ।। १६ ।।

देवानामग्रणीः स्कन्दो बाणश्च सगणस्तथा ।
सर्वे ते चानिरुद्धं च संग्रामे जेतुमक्षमाः ।। १७ ।।

अनिरुद्धः स्वयं ब्रह्मा प्रद्युम्नः काम एव च ।
बलदेवः स्वयं शेषः कृष्णश्च प्रकृतेः परः ।। १८ ।।

एतत्ते कथितं सर्वं बाणं रक्ष गणेश्वर ।
भवाञ्शुभस्वरूपश्च विघ्नखण्डनकारकः ।। १९ ।।

आरादायास्यति हरिर्गृहीत्वा च सुदर्शनम् ।
अव्यर्थमस्त्रप्रवरं सूर्यकोटिसमप्रभम् ।। २० ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे
शिवलम्बोदरसंo सप्तदशाधिकशाततमोऽध्यायः ।। ११७ ।।