प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११९ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२०
[[लेखकः :|]]
अध्यायः १२१ →

विंशत्यधिकशततमोऽध्यायः
नारायण उवाच
अथ कृष्णश्च भगवानुद्धवेत बलेन च ।
दूतं प्रश्थापयामास विधाय मन्त्रणं शुभम् ।। १ ।।

शिवो गणपतिर्यत्र दुर्गां दुर्गतिनाशिनी ।
कार्तिकेयो भद्रकाली चोग्रचण्डा च कोटरी ।। २ ।।

आगत्य नत्वा दूतश्च गणेशं च शिवं शिवाम् ।
मानवांश्चापि पूच्यांश्च समुवाच यथोचितम् ।। ३ ।।

दूत उवाच
बाणमाह्वयते कृष्णः संग्रामार्थ महेश्वर ।
किं वाऽनिरुद्धमूषां च गृहीत्वा शरणं व्रज ।। ४ ।।

रणे निमन्त्रितो यो हि न याति भयकातरः ।
परत्र नरकं याति सप्तभिः पितृभिः सह ।। ५ ।।

दूतस्य वचनं श्रुत्वा सभामध्ये यथोचितम् ।
उवाच पार्वती देवी स्वयं शंकरसंनिधौ ।। ६ ।।

पार्वत्युवाच
गच्छ बाण महाभाग गृहीत्वा तव कन्यकाम् ।
सर्वस्वं यौतकं दत्त्वा श्रीकृष्णं शरणं व्रज ।। ७ ।।

सर्वेषामीश्वरं बीजं दातारं सर्वसंपदम् ।
वरं वरेप्यं शरणं कृपालुं भक्तवत्सलम् ।। ८ ।।

पार्वतीवचनं श्रुत्वा तमूचुस्ते सुरेश्वराः ।
प्रशसंसुःसभामध्ये धन्यधन्येति सर्वदा ।। ९ ।।

कोपाविष्टश्च बाणोऽयमुत्तस्थौ सहसाऽसुरः ।
सांनाहिको धनुष्पाणिः प्रणम्य शंकरं ययौ ।। १० ।।

सर्वैर्निषिध्यमानश्च कम्पितो रक्तलोचनः ।
सांनाहिकश्च दैत्यानां त्रिकोट्या च महाबलः ।। ११ ।।

कुम्भाण्डः कूपकर्णश्च निकुम्भः कुम्भ एव च ।
सेनापतीश्वरश्चैते ययुः सांनाहिकास्तथा ।। १२ ।।

उन्मत्तभैरवश्चैव संहारभैरवस्तथा ।
असिताङ्गो भैरवश्च रुरुभैरव एव च ।। १३ ।।

महाभैरवसंज्ञश्च कालभैरव एव च ।
प्रचण्डभैरवश्चैव क्रोधभैरव एव च ।। १४ ।।

प्रययुः शक्तिभिः सार्ध सर्वे सांनाहिकाश्च ते ।
कालाग्गिरुद्रो भगवान्रुद्रैः सांनाहिको ययौ ।। १५ ।।

उग्रचण्डा प्रचण्डा च चण्डिका चण्डिनायिका ।
चण्डेश्वरी च चामुण्डा चण्डी चण्डकपालिका ।। १६ ।।

अष्टौ च नायिकाः सर्वाः प्रययुः खर्पराविन्ताः ।
कोटरी रत्नयानस्था शोणितग्रामदेवता ।। १७ ।।

प्रययौ सा प्रफुल्लास्या खड्गखर्परधारिणी ।
इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी ।। १८ ।।

कौमारी नारसिंही च वाराही विकटाकृतिः ।
माहेश्वरी महामाया भैरवी भीमरूपिणी ।। १९ ।।

अष्टौ च शक्तयः सर्वा रथस्थाः प्रययुर्मुदा ।
रत्नेन्द्रसारयानस्था प्रययौ भद्रकालिका ।। २० ।।

रक्तवर्णा त्रिनयना जिह्वाललनभीषणा ।
शूलशक्तिगदाहस्ता खड्गखर्परधारिणी ।। २१ ।।

प्रययौ शूलहस्तश्च वृषभस्थो महेश्वरः ।
स्कन्दश्च शिखियानस्थः शस्त्रपाणिर्धनुर्धरः ।। २२ ।।

एवं च प्रययुः सर्वे गणेशं पार्वतीं विना ।
एभिर्युक्तं महादेवं दृष्ट्वा च भद्रकालिकाम् ।। २३ ।।

प्रचक्रे चक्रपाणिश्च संभाषां च यथोचिताम् ।
बाणः शङ्कध्वनिं कृत्वा प्रणम्य पार्वतीश्वरम् ।। २४ ।।

धनुर्दथार सगुणं दिव्यास्त्रेण नियोजितम् ।
बाणं समुद्यतं दृष्ट्वा सात्यकिः परवीरहा ।। २५ ।।

निषिध्यमानस्तैः सर्वैः संनाही प्रययौ मुदा ।
बाणश्चिक्षेप दिव्यास्त्रमञ्जनं नाम नारद ।। २६ ।।

अव्यर्थं ग्रीष्ममध्याहनमार्तण्डाभं सुतीक्ष्णकम् ।
दृष्टावाऽस्त्रं सात्यकिः साक्षात्किंचिन्नम्रो बभूव सः ।। २७ ।।

किं वा न दग्धः प्रययौ नभोमध्यं सुदारुणम् ।
वह्निं चिक्षेप बाणश्च सात्यकिर्वारुणेन च ।। २८ ।।

प्रज्वलन्तं तालमानं निर्वाणं च चकार सः ।
चिच्छेद वारुणं घोरं प्रजण्डं भीममुल्बणम् ।। २९ ।।

चिच्छेद सात्यकिश्चैव पार्जन्येनावलीलया ।
चिक्षेप पवनं बाणः प्रचण्डं भीममुल्बणम् ।। ३० ।।

चिच्छेद सात्यकिश्चैव पर्वताश्त्रेण लीलया ।
नारायणस्त्रं चिक्षेप बाणश्च रणमूर्धनि ।। ३१ ।।

सात्यकिर्दण्डवद्भूमौ पपातार्जुनशिक्षया ।
माहेश्वरं प्रचिक्षेप बाणः शस्त्रविदां वरः ।। ३२ ।।

सात्यकिर्वैष्णवास्त्रेण प्रविच्छेदावलीलया ।
ब्रह्मास्त्रं चापि चिक्षेप बाणश्च रणमूर्धनि ।। ३३ ।।

क्षणं चकार निर्वाणं ब्रह्मास्त्रेण च सात्यकिः ।
नागास्त्रं चापि चिक्षेप बाणो रणविशारदः ।। ३४ ।।

सात्यकिर्गारुडेनैव संजहार क्षणेन च ।
जग्राह शूलमव्यर्थं शंकरस्य सुदारुणम् ।। ३५ ।।

तुष्टाव सात्यकिर्दुर्गा गले माल्यं बभूव ह ।
जग्राह धनुषा बाणो बाणं पाशुपतं तथा ।। ३६ ।।

बाणं सबाणं जृम्भं च सात्यकिश्च चकार ह ।
बाणं तं जृम्भितं दृष्ट्वा कार्तिकेयो महाबलः ।। ३७ ।।

अर्धचन्द्रं च चिक्षेप कामश्चिच्छेद लीलया ।
गदां चक्षेप च स्कन्दः प्रातः सूर्यसमप्रभाम् ।। ३८ ।।

वैष्णवास्त्रेण कामश्च निर्वाणं च चकार सः ।
नारायणस्त्रं स्कन्दश्च प्राक्षिपच्च त्वरान्वितः ।। ३९ ।।

पपात दण्डवद्भूमौ प्रद्युम्नः कृष्णशिक्षया ।
स्कन्दः शक्तिं च चिक्षेप प्रलयग्निसमप्रभाम् ।। ४० ।।

कामो नारायणास्त्रेण निर्वाणं च चकार ताम् ।
ब्रह्मास्त्रं च प्रचिक्षेप कार्तिको रणमूर्धनि ।। ४१ ।।

ब्रह्मास्त्रेणापि कामश्च निर्वाणं च चकार सः ।
जग्राह कार्तिकं कोपाद्दिव्यं पाशुपतं तदा ।। ४२ ।।

निद्रास्त्रेणापि मदनो निद्रितं च चकार तम् ।
कार्तिकं निद्रितं दृष्ट्वा बाणं च जृम्भितं तथा ।। ४३ ।।

कोपात्कामं च सरथं जग्राह भद्रकालिका ।
क्रोडे कृत्वा च बाणं च स्कन्दं च जगतां प्रसूः ।। ४४ ।।

रणस्थलाच्च प्रययौ यत्रैव पार्वती सती ।
कार्तिकं बोधयामास बाणं सुस्थं चकार सा ।। ४५ ।।

सहसासरथः कामो नासारन्ध्रेण वर्त्मना ।
बहिर्बभूव संत्रस्तः प्रययौ च रणस्थलम् ।। ४६ ।।

दृष्ट्का कामं च सरथं जहसुर्यादवास्तदा ।
सर्वे शैवाश्च तत्रस्थाः शुष्ककण्ठा भयकुलाः ।। ४७ ।।

अथ बाणः पुनः क्रुद्धो रथमारुह्य कोपतः ।
कार्तिकेयश्च भगवान्युद्धाय पुनरागतः ।। ४८ ।।

बाणः पञ्च शरांश्चैव चिक्षेप रणमूर्धनि ।
अर्धचन्द्रेण चिच्छेद बलदेवो महाबलः ।। ४९ ।।

रथं बभञ्ज बाणस्य लाङ्गलेन च लाङ्गली ।
जघन सूतमश्वांश्च मुसलेनावलीलया ।। ५० ।।

कुर्वन्तमुद्यमं छेत्तुं हलिनं च महाबलः ।
कालाग्निरुद्रो भगवान्वारयामास लीलया ।। ५१ ।।

रथं कालाग्निरुद्रस्य बभञ्ज लाङ्गली रुषा ।
हलेन सूतमश्वाश्च जधान रणमूर्धनि ।। ५२ ।।

कालाग्निरुद्रः कोपेन चिक्षेप जवरमुल्वणम् ।
बभूवुर्यादवाः सर्वे ज्वराक्रान्ता हरिं विना ।। ५३ ।।

तं दृष्ट्वा भगवान्कृष्णः ससर्ज वैष्णवं ज्वरम् ।
तं चिक्षेप ज्वरं हन्तुं माहेशं रणमूर्धनि ।। ५४ ।।

बभूव ज्वरयोर्युद्धं मुहूर्तमतिदारुणम् ।
वैष्णवज्वरनिष्कान्तो रणमीर्ध्नि पपात सः ।।
परं बभूव निश्चेष्टस्तुष्टाव माधवं पुनः ।। ५५ ।।

ज्वर उवाच
प्रणान्रक्ष जगन्नाथ भक्तानुग्रहविग्रह ।
त्वमात्मा पुरुषः पुर्णः सर्वत्र समता तव ।। ५६ ।।

ज्वरस्य वचनं श्रुत्वा संजहार स्वकं ज्वरम् ।
माहेश्वरो ज्वरो भीतो रणादेव हि निर्ययौ ।। ५७ ।।

बाणश्च पुनरागत्य बाणानां च सहस्रकम् ।
चिक्षेप मन्त्रपूतं च प्रलयाग्निशिखोपमम् ।। ५८ ।।

फाल्गुनः शरजालेन वारयामास लीलया ।
चिक्षेप शक्तिं बाणश्च ग्रीष्मसूर्यसमप्रभाम् ।। ५९ ।।

चिच्छेद लीलया तां च सव्यसाची महाबलः ।
स जग्राह पाशुपतं शतसूर्यसमप्रभम् ।। ६० ।।

अत्यर्थमतिघोरं च विश्वसंहारकारकम् ।तद्दृष्टा चक्रपाणिश्च चक्रं चिक्षेप दारुणम् ।। ६१ ।।

हस्तानां च सहस्रं च सपाशुपतमुल्बणम् ।
चिच्छेद रणमध्ये च पपाताचलसिंहवत् ।। ६२ ।।

शस्त्रं पाशुपतं चैव ययौ पशुपतेः करम् ।
अव्यर्थ दारुणं लोके प्रलयाग्निशिखोपमम् ।। ६३ ।।

बाणरक्तसमूहेन बभूव च महानदः ।
बाणः पपात निश्चेष्टी व्यथितो हतचेतनः ।। ६४ ।।

तत्राऽऽजगाम भगवान्महदेवो जगद्गुरुः ।
रुरोदाऽऽगत्य मोहेन बाणं कृत्वा स्ववक्षसि ।। ६५ ।।

शिवाश्रुपतनेनैव संबभूव सरोवरम् ।
चेतनं कारयामास करुमासागरः प्रभुः ।। ६६ ।।

बाणां गृहीत्वा प्रययौ यत्र देवो जनार्दनः ।
चक्रे पद्मार्चिते पादपद्मे बाणसमर्पणम् ।। ६७ ।।

तुष्टाव जगतां नाथं भक्तेशं चन्द्रशेखलः ।
बलिना च स्ततं येन वेदोक्तेन च तेन च ।। ६८ ।।

हरिर्मृत्युंजयं ज्ञानं ददौ बाणाय धीमते ।
करपद्मं ददौ गात्रे तं चकाराजरामरम् ।। ६९ ।।

बाणः स्तोत्रेण तुष्टाव भक्त्या बलिकृतेन च ।
वरां कन्यां समानीय रत्नभूषणभूषिताम् ।। ७० ।।

ब्रददौ हरये भक्त्या तत्रैव देवसंसदि ।
गजेन्द्राणां पञ्चलक्ष्मश्वानां तच्चतुर्गुणम् ।। ७१ ।।

दासीनां च सहस्रं च रत्नभूषणभूषितम् ।
सहस्रं कामधेनूनां वत्सयुक्तं च सर्वदम् ।। ७२ ।।

माणिक्यानां च मुक्तानां रत्नानां शतलक्षकम् ।
मणीन्द्राणां हीरकाणां शतलक्षं मनोहरम् ।। ७३ ।।

जलभाजनपात्राणि सुवर्णनिर्मितानि च ।
महस्राणि ददौ तस्मै भक्तिनम्रात्मकंधरः ।। ७४ ।।

वराणि सूक्ष्मवस्त्राणि वह्निशुद्धांशुकानि च ।
ददौ बाणश्च मर्वाणि स्वभक्त्या शंकराज्ञया ।। ७५ ।।

ताम्बूलानां मधनां च पूर्णपात्राणि नारद ।
सहस्राणि ददौ भक्त्या वराणि विविधानि च ।। ७६ ।।

कन्यां समर्पयामास पादपद्मे हरेरपि ।
रुरोदोच्चैः स्वभक्त्या च परिहारं चकार सः ।। ७७ ।।

कृष्णस्तस्मै वरं दत्त्वा वेदोक्तं च शुभाशिष्म् ।
शंकरानुमतेनैव प्रययौ द्वारकां पुरीम् ।। ७८ ।।

गत्वा कन्यां नवोढां तां बाणस्यापि महात्मनः ।
रुक्मिण्यै प्रददौ शीघ्रं देवक्यै च हरिः स्वयम् ।। ७९ ।।

महोत्सवं मङ्गलं च कारयामास यत्नतः ।
ब्राह्मणान्भोजयामास ब्राह्मणेभ्यो धनं ददौ ।। ८० ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धं नाम
विंशत्यधिकशततमोऽध्यायः ।। १२० ।।