प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ११९
[[लेखकः :|]]
अध्यायः १२० →

अथैकोनविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
पार्वतीवचनं श्रुत्वा गमेशश्च शिवः स्वयम् ।
कार्तिकेयश्च काली च तां प्रशंसां चकार ह ।। १ ।।

उवाच भगवाञ्शंभुर्जगतां मातरं पराम् ।
ज्योतिः स्वरूपां परमां मूलप्रकृतिमीश्वरीम् ।। २ ।।

महादेव उवाच
त्वया यधक्तं देवेशि सर्व वेदोक्तमीप्सितम् ।
अयुक्तमुपहास्यं व समरं परमात्मना ।। ३ ।।

बाणो ददातु कन्यां दां स्वर्णभूषणभूषिताम् ।
सामञ्जस्यं यशस्यं च शुभदं सर्वकर्मसु ।। ४ ।।

न ददाति यदा बाणो हिरण्यकशिपोः प्रजा ।
युद्धे पराङ्मुखो भीतो भगवत्ययशस्करः ।। ५ ।।

बाणो गच्छतु संनाही रणशास्रविशारदः ।
पश्चाच्चा ऽऽगमनं कुर्मो वयं सांनाहिकाः शिवे ।। ६ ।।

उवाच बाणं तां दातुं स च न स्वीचकार ह ।
दुर्गा तं बोधयामास न बुबोध च सद्वचः ।। ७ ।।

एतस्मिन्नन्तरे तां च सभामेव महोरमाम् ।
आजगाम महाधर्मो बलिश्च वैष्णवाग्रणीः ।। ८ ।।

रथं लत्नेन्द्रनिर्माणं समारुह्य महाबलः ।
प्रतप्तैः सप्तभिर्दैत्यैः सेवितः श्वेतचामरैः ।। ९ ।।

दैत्येन्द्राणां सप्तलक्षैरावृतः परमास्त्रवित् ।
अवरुह्य रथात्तूर्णं गणेशं च शिवां शिवाम् ।। १० ।।

प्रणम्य कार्तिकेयं च स उवास च संसदि ।
उत्तस्थुरारात्तं दृष्ट्वा ते सर्वे शंकरं विना ।। ११ ।।

तमुवाच महादेवः संभाष्य प्रियभाषणम् ।। ११ ।।

महादेव उवाच
भगवंश्चतुरस्त्वं च प्रदाता सर्वसंपदाम् ।
अयं हि परमो लाभो वैष्णवानां समागमः ।। १२ ।।

तीर्थान्यपि च पूतानि वैष्णवस्पर्शमात्रतः ।
सर्वेषामाश्रमाणां च पूजितो ब्राह्मणः शुचिः ।। १३ ।।
ततोऽधिकः पूजितोऽपि ब्राह्मणो यदि वैष्णवः ।
न हि पूतं च पश्यमि वैष्णवब्राह्मणात्परम् ।। १४ ।।

स पूतः पवनादेव स पूतश्च हुताशानात् ।
तीर्थेम्योऽपि च सर्वेभ्यो बिभेति च ततः सुरः ।। १५ ।।

न हि पापानि तद्देहे वह्नौ शुष्कतृणादिवत् ।। १६ ।।

बलिरुवाच
कथं स्तौषि जगन्नाथ भृत्यमस्तव्यमीश्वरः ।
प्रदत्तं परमेश्वर्य त्वया नाथ सुदुल्रभम् ।। १७ ।।

अधुना स्थापितो दैवात्सर्वाधः सुतलेऽपि च ।
इन्द्राय दत्तमैश्वर्य मत्तो भक्तात्सुरेश्वर ।। १८ ।।

त्वया वामनरूपेण सर्वरूपोऽसि सर्वतः ।
बाणं बोधय भद्रं च मम प्राणात्मजं परम् ।। १९ ।।

आत्मना सह युद्धं च देवेष्वपि विगर्हितम् ।
इत्युक्त्वा च शिवं नत्वा शिरसा प्रणनाम तम् ।। २० ।।

सामवेदोक्तस्तोत्रेण तुष्टाव परमेश्वरम् ।
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रोऽतिविह्वलः ।। २१ ।।

ध्यायमानश्च नित्यं यो हृत्पद्मे सुमनोहरे ।
शुक्रेण दत्तं मन्त्रं च जप्त्वा चैकादशाक्षरम् ।। २२ ।।

बलिरुवाच
अदित्याः प्रार्थनेनैव मातुर्देव्या व्रतेन च ।
पुरा वामनरूपेण त्वयाऽहं वञ्चितः प्रभो ।। २३ ।।

संपद्रूपा महालक्ष्मीर्दत्ता भक्ताय भक्तितः ।
शक्राय मत्तो भक्ताय भ्रात्रे पुण्यवते ध्रुवम् ।। २४ ।।

अधुना मम पुत्रोऽयं बाणः शंकरकिंकरः ।
आराच्च रक्षितः सोऽपि तेनैव भक्तबन्धुना ।। २५ ।।

परिपुष्टश्च पार्वत्या यथा मात्रा सुतस्तथा ।
गृहीतवांश्च तत्कन्यां बलेन युवतीं सतीम् ।। २६ ।।

समुद्यतश्च तं हन्तुं कार्तिकेनापि वारितः ।
आगतोऽसि पुनर्हन्तुं पौत्रस्य दमने क्षमः ।। २७ ।।

सर्वात्मनश्च सर्वत्र समभावः श्रुतौ श्रुतः ।
करोषि जगतां नाथ कथमेवं व्यतिक्रमः ।। २८ ।।

त्वया च निहतो यो हि तस्य को रक्षिता भुवि ।
सुदर्शनस्य तेजो हि सूर्यकोटिनिभं परम् ।। २९ ।।

केषां सुराणामस्त्रेण तदेव च निवारितम् ।
यथा सुदर्शनं चैवमस्त्राणां प्रवरं वरम् ।। ३० ।।

तथा भवांश्च देवानां सर्वेषामीश्वरः परः ।
यथा भवांस्तथा कृष्णो विधाता वेधसामपि ।। ३१ ।।

विष्णुः सत्त्वगुणाधारः शिवः सत्त्वाश्रयस्तथा ।
स्वयं विधाता रजसः सृष्टिकर्ता पितामहः ।। ३२ ।।

कालाग्निरुद्रो भगवान्विश्वचसंहारकारकः ।
तमसश्चाऽऽश्रयः सोऽपि रुद्राणां प्रवरो महान् ।। ३३ ।।

स एव शंकरांशश्चाप्यन्ये रुद्राश्च तत्कलाः ।
भवांश्च निर्गुणस्तेषां प्रकृतेश्च परस्तथा ।। ३४ ।।

सर्वेषां परमात्मा वै प्रणा विष्णुस्वरूपिणः ।
मानसं च स्वयं ब्रह्मा स्वयं ज्ञानात्मकः शिवः ।। ३५ ।।

प्रवरा सर्वशक्तीनां बुद्धिः प्रकृतिरीश्वरी ।
स्वात्मनः प्रतिबिभ्बस्ते जीवः सर्वेषु देहिषु ।। ३६ ।।

जीवः स्वकर्मणां भोगी स्वयं साक्षी भवांस्तथा ।
सर्वे यान्ति त्वयि गते नरदेवे यथाऽनुगाः ।। ३७ ।।

सद्यः पतति देहश्च शवोऽस्पृश्यस्त्वया विना ।
बुद्धाः सन्तो न जानन्ति वञ्चितास्तव मायया ।। ३८ ।।

त्वां भजन्त्येव ये सन्तो मायामेतां तरन्ति ते ।
त्रिगुणा प्रकृतिर्दुर्गा वैष्णवी च सनातनी ।। ३९ ।।

परा नारायणीशानी तव माया दुरत्यया ।
त्वदंशाः प्रतिविश्वेषु ब्रह्मविष्णुशिवात्मकाः ।। ४० ।।

सर्वेषामपि विश्वेषामाश्रयो यो महान्विराट् ।
स सेते च जले योगाद्विश्वेशो गोकुले यथा ।। ४१ ।।

स एव वासुर्भगवांस्तस्य देवो भवान्परः ।
वासुदेव इति ख्यातः पुराविद्भिः प्रकीर्तितः ।। ४२ ।।

त्वमेव कलया सूर्यस्त्वमेव कलया शशी ।
कलया च हुताशश्च कलया पवनः स्वयम् ।। ४३ ।।

कलया वरुणश्चैव कुबेरश्च यमस्तथा ।
कलया त्वं महेन्द्रश्च कलया धर्म एव च ।। ४४ ।।

त्वमेव कलया शेष ईशानो नैऋंतिस्तथा ।
मुनयो मनवश्चैव ग्रहाश्च फलदायकः ।। ४५ ।।

कलाकलायाश्चांशेन सर्वे जीवाश्चराचराः ।
त्वं ब्रह्म परमं ज्योतिर्ध्यायन्ते योगिनः सदा ।। ४६ ।।

तं त्चाऽऽद्रियन्ते भक्तास्ते ध्यायन्ते य तदन्तरे ।
नवीननीरदश्यामं पीतकौशेयवाससम् ।। ४७ ।।

ईषद्धास्यप्रसन्नास्यं भक्तेशं भक्तवत्सलम् ।
चन्दनोक्षितसर्वाङ्गं द्विभुजं मुरलीधरम् ।। ४८ ।।

मयूरपिच्छचूडं च मालतीमाल्यभूषितम् ।
अमूल्यरत्ननिर्माणकेयूरवलयाविन्तम् ।। ४९ ।।

मणिकुण्डलयुग्मेन गण्डस्थलविराजितम् ।
रत्नसाराङ्गलीयं च क्वणन्मञ्जीररञ्जितम् ।। ५० ।।

कोटिकन्दर्पलीलाभं शरत्कमललोचनम् ।
शरत्पूर्णैन्दुनिन्दास्यं चन्द्रकोटिसमप्रभम् ।। ५१ ।।

वीक्षितं सस्मिताभिश्च गोपीनां कोटिकोटिभिः ।
वयस्यैः पार्षदैर्गोपैः सेवितं श्वेतचामरैः ।। ५२ ।।

गोपबालकवेषं च राधावक्षः स्थलस्थितम् ।
ध्यानासाध्यं दुराराध्यं ब्रह्मेशशेषवन्दितम् ।। ५३ ।।

सिन्द्धेन्द्रैश्च मुनीन्द्रैश्च योगीन्द्रैः प्रणतं स्तुतम् ।
वेदानिर्वचनीयं च परं स्वेच्छामयं विभुम् ।। ५४ ।।

स्थूलस्थूलतमं रूपं सूक्ष्मात्सूक्ष्मतमं परम् ।
सत्यं नित्यं प्रशस्तं च प्रकृतेः परमीश्वरम् ।। ५५ ।।

निर्लिप्तं च निरीहं च भगवन्तं सनातनम् ।
एवं ध्यात्वा च ते पूताः स्निग्धदूर्वाक्षता जलम् ।। ५६ ।।

पद्मापद्मार्चिते पादपद्मे च दातुमुत्सुकाः ।
वेदाःस्तोतुमशक्तास्त्वामशक्ता सा सरस्वती ।। ५७ ।।

शेषः स्तोतुमशक्तश्च स्वयंभूः शंभुरीश्वरः ।
गणेशश्च दिनेशश्च महेन्द्रश्चन्द्र एव च ।। ५८ ।।

स्तोतुं नालं धनेशश्च किमन्ये जड्बुद्धयः ।
गुणातीतमनीहं च किं स्तौमि निर्गुणं परम् ।। ५९ ।।

अपण्डितोऽयमसुरो न सुरः क्षन्तुमर्हसि ।
बलेस्तद्वचनं श्रुत्वा तमुवाच जगत्पतिः ।।
परिपूर्णतमः श्रीमान्भक्तं च भक्तवत्सलः ।। ६० ।।

श्रीभगवानुवाच
मा भैर्वत्स गृहं गच्छ सुतलं रक्षितं मया ।
मद्वरेण प्रसादेन त्वत्पुत्रोऽप्यजरामरः ।। ६१ ।।

दर्पहानिं करिष्यामि तस्य मूर्खस्य दर्पिणः ।
प्रह्लादाय वरो दत्तो भक्ताय च तपस्विने ।। ६२ ।।

ममावध्यश्च त्वद्वंशश्चेति प्रीतेन चेतसा ।
तव पुत्राय दास्यामि ज्ञानं मृत्युंजयं परम् ।। ६३ ।।

त्वया कृतिमिदं स्तोत्रं सामवेदोक्तमीप्सितम् ।
पुरा सनत्कुमाराराय प्रदत्तं ब्रह्मणा तथा ।। ६४ ।।

सिद्धाश्रमे पुण्यतमे प्रशस्ते सूर्यपर्वणि ।
गौतमाय प्रदत्तं च गौर्या मन्दाकिनीतटे ।। ६५ ।।

शंकरेण च शिष्याय भक्ताय च दयालुना ।
ब्रह्मणे च मया दत्तं शिवाय विरजातटे ।। ६६ ।।

भृगवे च पुरा दत्तं कुमारेण च धीमता ।
त्वं च दास्यसि बाणाय बाणः स्तोष्यत्यनेन माम् ।। ६७ ।।

इदं स्तोत्रं महापुण्यमुबदिश्य गुरोर्मुखात् ।
वृतस्य पूजितस्यापि वस्त्रभूषणचन्दनैः ।। ६८ ।।

सुस्नातो यः पठेन्नित्यं पूजाकाले च भक्तितः ।
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। ६९ ।।

विपदां खण्डनं स्तोत्रं कारणं सर्वसंपदाम् ।
वारणं दुःखशोकानां भवाब्धिधोरतारणम् ।। ७० ।।

खण्डनं गर्भवासानां जरामृत्युहरं परम् ।बन्धनानां च रोगाणां खण्डनं भक्तमण्डनम् ।। ७१ ।।

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
व्रती व्रतेषु सर्वेषु तपस्वी च तपःसु च ।। ७२ ।।

स स्तयं सर्वदानानां फलं च लभते ध्रुवम् ।
लक्षधा स्तोत्रपाठेन स्तोत्रसिद्धिर्भवेन्नृणाम् ।। ७३ ।।

सर्वसिद्धिं च लभते सिद्धिस्तोत्रो भवेद्यदि ।
इहलोके देवतुल्योऽप्यन्ते याति हरेः पदम् ।। ७४ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे
बलिकृतश्रीकृष्णम्तोत्रं नामैकोनविंशत्यधिकशततमोऽध्यायः ।। ११९ ।।