प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२१ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२२
[[लेखकः :|]]
अध्यायः १२३ →

अथ द्वाविंशत्यधिकशततमोऽध्यायः
नारद उवाच
सर्वासां रमणीनां च कृष्णेन परमात्मना ।
समुद्वाहश्च कथितस्त्वया भगवता मुदा ।। १ ।।

स्यमन्तकस्य च मणेरुपाख्यानमभीप्सितम् ।
तन्न श्रुतं महाभाग तन्मां व्याख्यातुमर्हसि ।। २ ।।

नारायण उवाच
भाद्रशुक्लचतुर्थ्यां च तारकां हृत्वाञ्छशी ।
तां तत्याज स कृष्णायां गुरुस्तां च गृहीतवान् ।। ३ ।।

गुरुणा भर्त्सिता तारा मगर्भा लज्जिता सती ।
शशाप लज्जया कोपाच्चन्द्रं कामातुरं पुरा ।। ४ ।।

तारोवाच
भव शापकलंकी त्वं यस्त्वां पश्यति देहभृत् ।
पापं दृष्ट्वा स पापी च कलंकी च भविष्यति ।। ५ ।।

इति श्रुत्वा स चन्द्रश्च नारायणसरोवरे ।
नारायणतपस्तप्त्वा मुमोच कृतपातकात् ।। ६ ।।

तपःक्लिष्टं च तं दृष्ट्वा भगवान्पुरुषोत्तमः ।
तमुवाच महाभीतं कृपया च कृपानिधिः ।। ७ ।।

श्रीभगवानुवाच
मुक्तो भव कलंकी त्वं सर्वकालं कलानिधे ।
शापस्थानं तारकाया भाद्रे मासि सितासिते ।। ८ ।।

चतुर्थ्यामुदितं चन्द्रं यस्तु पश्यति कामतः ।
तं याति तत्कलङ्कश्च स कलंकी भविष्यति ।। ९ ।।

हरिणा दीयते ताले भाद्रे मासि सितासिते ।
चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन ।। १० ।।

स्वयं दृष्ट्वा स्ववाक्यं च पालनं कर्तुमर्हति ।
भाद्रे चन्द्रं चतुर्थ्यां तु स कलंकी बभूव ह ।। ११ ।।

कलंकी येन रूपेण तद्वक्ष्यामि निशामय ।
स मुमोच कलंकाच्च लोकशिक्षार्थमीश्वरः ।। १२ ।।

सत्राजितः सूर्यभक्तस्तपस्तब्त्वा च पुष्करे ।
स्यमन्तकं मणिश्रेष्ठं संप्राप भास्करादपि ।। १३ ।।

अष्टौ भारान्सुवर्णानां प्रसूते नित्यमेव च ।
विष्गोर्मणावधिष्ठानं महापूते च पुण्यदे ।। १४ ।।

सत्राजितः सत्यभामां दत्त्वा कृष्णाय भक्तितः ।
यौतुकार्थे मणिं दातुमुद्यतो महते महान् ।। १५ ।।

तं निषिध्य प्रसेनश्च दुर्मतिः कालपीडितः ।
मणिं गृहीत्वा प्रययौ पुण्यां वाराणसीं पुरीम् ।। १६ ।।

निहत्य तं पथि बलात्सिंहः सबल एव च ।
मणिं जग्राह रुचिरं सूत्रबद्धं गले दधौ ।। १७ ।।

कलिङ्गराजपुत्रश्च ब्रह्मशापात्सुदारुणात् ।
विप्रेणाम्युदितस्तेन पशुयोनिं जगाम् सः ।। १८ ।।

निहत्य सिंहं गहने भल्लूको जाम्बवान्बली ।
मणिं गृहीत्वा प्रययौ स्वपुरं रत्ननिर्मितम् ।। १९ ।।

ऊचुः सर्वे द्वारकायां मणिं जगाह माधवः ।
तस्य बुद्धिं न जानीमः केनोपायेन वेति च ।। २० ।।

इति श्रुत्वा तु भगवान्कलंककृन्तनाय च ।
प्रययौ काननं घोरं चौरचिह्नेन वर्त्मना ।। २१ ।।

मृतं प्रसेनं दृष्ट्वा च दुःखी सिहं ददर्श सः ।
मणिशून्यं च तं दृष्ट्वा विषसाद च माधवः ।। २२ ।।

सर्वंज्ञात्वा च सर्वज्ञो भल्लूकभवनं ययौ ।
रुदन्तं बालकं तत्र धात्रीक्रोडे ददर्श सः ।। २३ ।।

बालकं बोधयामास सा धात्री करुणान्विता ।
मणिं गृहाण बालेति तव ह्येष स्यमन्तकः ।। २४ ।।

सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ।। २५ ।।

इति धात्र्युक्तसुश्लोकं यश्च स्मृत्वा जलं पिबेत् ।
दैवदृष्टनष्टचन्द्रद्रोषादेव प्रमृच्यते ।। २६ ।।

कामतो यदि पश्यन्ति दाम्भिका वेदनिन्दकाः ।
कलङ्किनो भवन्त्येवमित्याह कमलोद्भवः ।। २७ ।।

कृष्णो धात्रीवचः श्रुत्वा मणिं जग्राह बालकात् ।
धात्री गत्वा च भल्लूकं कथयामास कोपतः ।। २८ ।।

जाम्बवांश्च समागत्य तुष्टाव प्रणिपत्य सः ।
कन्यां जाम्बवतीं तस्मै यौतुकार्थं मणिं ददौ ।। २९ ।।

द्वारकां मणिमानीय दर्शयामास यादवान् ।
प्रभुश्च सर्वतः शुद्धो निष्कलङ्को बभूव सः ।। ३० ।।

एतत्ते कथितं वत्स मणेराख्यानमुत्तमम् ।
अध्यायश्रवणादेव निष्कलंको भवेन्नरः ।। ३१ ।।

यच्छ्रु तं धर्मवक्त्रेण तदुक्तं च यथागमम् ।
सुदुर्लभमुपाख्यानं किं भूयः श्रोतुमिच्छसि ।। ३२ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदानाo स्यमन्तकमणिः
हरणं नाम द्वाविंशत्यधिकशततमोऽध्यायः ।। १२२ ।।