प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२३
[[लेखकः :|]]
अध्यायः १२४ →

अथ त्रयोविंशत्यधिकशततमोऽध्यायः
नारद उवाच
गणेशपूजनाख्यानं पुराणेषु च दुर्लभम् ।
श्रुतं तद्ब्रह्मणो वक्त्रात्सामान्यं च समासतः ।। १ ।।

महिमानं गणपतेः सर्वबूज्येश्वरस्य च ।
व्यासेन श्रोतुमिच्छामि योगीन्द्राणां गुरोर्गुरोः ।। २ ।।

सिद्धाश्रमे महापूज त्रैलोक्यस्थैः कृता पुरा ।
राधामाधवयोस्तत्र पुनः संमीलरं पुरा ।। ३ ।।

अतीते वर्षशतके श्रीदाम्नः शापमोक्षणे ।
आदौ चकार पूजां च सा च राधा कथं मुने ।। ४ ।।

स्थितेषु च सुरेन्द्रेषु ब्रह्मविष्णुशिवादिषु ।
नागेन्द्रे च स्थिते शेषे नागेषु च महत्सु च ।। ५ ।।

राजेन्द्रेषु च भूमौ च बलिष्ठेष्वसुरेषु च ।
गन्धर्वेषु च रक्षःसु चान्येषु बलवत्सु च ।। ६ ।।

विस्तरेण महाभाग तन्मे व्याख्यातुमर्हसि ।। ७ ।।

नारायण उवाच
त्रेलोक्ये पृथिवी धन्या मान्या पुण्यवती सती ।
तत्र भारतवर्षं च कर्मणां फलदं शुभम् ।। ८ ।।

धन्यं यशस्यं पूज्यं च पुण्यक्षेत्रे च भारते ।
सिद्धाश्रमं महापुण्यक्षेत्रं मोक्षप्रदं शुभम् ।। ९ ।।

सनत्कुमारो भगवांस्तत्र सिद्धो बभूव ह ।
स्वयं विधाता तत्रैव तप्त्वा सिद्धो बभूव ह ।। १० ।।

योगीन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्राः कपिलादयः ।
शतक्रन्तून्महेन्द्रश्च तत्र कृत्वा बभूव ह ।। ११ ।।

तेन सिद्धाश्रमं नाम सर्वेषामपि दुर्लभम् ।
अधिष्ठानं गणेशस्य तत्रेव सततं मुने ।। १२ ।।

अमूल्यरत्ननिर्माणगणेशप्रतिमां शुभाम् ।
वैशाख्यां पूर्णिमायां च पूजां कुर्वन्ति देवताः ।। १३ ।।

नागाश्च मानवाश्चैव दैत्या गन्धर्वराक्षसाः ।
सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयाः ।। १४ ।।

तत्राऽऽजगाम शंभुश्च पार्वत्वा सह शंकरः ।
सगणः कार्तिकेयश्च स्वयं ब्रह्मा प्रजापतिः ।। १५ ।।

तत्राऽऽजगाम शेषश्च नागेन्द्रैः सह सत्वरम् ।
तज्ञाऽऽजग्मुः सुराः सर्वे मनवो मृनयस्तथा ।। १६ ।।

आजग्मुस्ते नृपाः सर्वे पूजार्थं हृष्टमानसाः ।
आययौ भगवान्कृष्णो द्वारकावासिभिः सह ।। १७ ।।

आजगाम तथा नन्दः सार्धं गोकुलवासिभिः ।
गोपीत्रिशतकोटीभिर्गोलोकवासिभिः सह ।। १८ ।।

गचेन्द्रकोटितुल्याभिर्बलिष्ठाभिः सहाऽऽलिभिः ।
आययौ सुन्दरी राधा कृष्णप्राणाधिदेवता ।। १९ ।।

रासेश्वरी सुरसिका शतवर्षे गते सति ।
सुस्नाता मुदती शुद्धा धृत्वा धौते च वाससी ।। २० ।।

संयता सा निराहारा गत्वा च मणिमण्डपम् ।
सुप्रक्षालितपादाब्जा कान्ता भुवनपावनी ।। २१ ।।

श्रीकृष्णप्रीतिकामाऽथ सुसंकल्पं विधाय च ।
गङ्गोदकेन हेरम्बं स्नापयामास भक्तितः ।। २२ ।।

ध्यार्न च सामवेदोक्तं चकार शुक्लपुष्पतः ।
माता चतुर्णां वेदानां वसोश्च जगतामपि ।। २३ ।।

बुद्धिरूपा भगवती ज्ञानिनां जननी परा ।
ध्यानात्मकं स्वपुस्रं तं परं ध्यानं चकार सा ।। २४ ।।

शर्वं लम्बोदरं स्थूलं ज्वलन्तं ब्रह्मतेजसा ।
गजवक्त्रं वह्निवर्णमेकदन्तमनन्तकम् ।। २५ ।।

सिद्धानां योगिनामेव ज्ञानिनां च गुरोर्गुरुम् ।
ध्यातं मुनीन्द्रैर्देवेन्द्रैर्ब्रह्मेशशेषसंज्ञकैः ।। २६ ।।

सिद्धेन्द्रैर्मुनिभिः सद्भिर्भगवन्तं सनातनम् ।
ब्रह्मस्वरूपं परमं मङ्गलं मङ्गलालयम् ।। २७ ।।

सर्वविघ्नहरं शान्तं दातारं सर्वसंपदाम् ।
भवाब्धिमायापोतेन कर्णधारं च कर्मिणाम् ।। २८ ।।

शरणागतदीनार्तपरित्राणपरायणम् ।
ध्यायेद्ध्यानात्मकं साध्यं भक्तेशं भक्तवत्सलम् ।। २९ ।।

इति ध्यात्वा स्वशिरसि दत्त्वा पुष्पं पुनः सती ।
सर्वाङ्गशोधनं न्यासं वेदोक्तं च चकार सा ।। ३० ।।

पुनश्च ध्यात्वा ध्यानेन तेनैव शुभदायिना ।
ददौ पुष्पं पादपद्मे राधा लम्बोदरस्य च ।। ३१ ।।

सप्ततीर्थोदकेनैव शीतेन वासितेन च ।
ददौ पाद्यं पादपद्मे तैः पद्मादिभिरर्चिते ।। ३२ ।।

दूर्वाक्षतैः शुक्लपुष्पैः सुगन्धिचन्दनोदकैः ।
अर्घ्यं ददौ तच्छिरसि स्वयं गोलोकवासिनी ।। ३३ ।।

सचन्दनं स्ग्धिमाल्यं पारिजातस्य सुन्दरम् ।
ददौ गले गणेशस्य स्वयं रासंश्वरी मुदा ।। ३४ ।।

कस्तूरीकुङ्कुमाक्तं च सुगन्धि स्निग्धचन्दनम् ।
सर्वाङ्गे प्रददौ तस्य वृन्दावनविनोदिनी ।। ३५ ।।

सुगन्धि शुक्लं पुष्पं च सुगन्ध चन्दनार्चितम् ।
ददौ तस्य पदाम्भोजे महापद्मलया सती ।। ३६ ।।

सुगन्धियुक्तं धूपं च पूतैर्वस्तुभिरन्वितम् ।
ददौ कृष्णप्रिया तस्मै जगतामीश्वराय च ।। ३७ ।।

दीपं घृतप्रदीप्तं च ध्वान्तविध्वंसकारणम् ।
ददौ तस्मै सुरेशाय परमाद्या सनातनी ।। ३८ ।।

नैवेद्य विविधं रम्यं सुस्वादु सुमनोहरम् ।
चोष्यं चर्व्यं लेह्यपेये सुधातुल्यं चतुर्विधम् ।। ३९ ।।

फलानि च सुपक्वानि त्रैलोक्ये दुर्लभानि च ।
मधुराणि च मूलानि ग्राम्यारण्यानि नारद ।। ४० ।।

तानि त्वन्यान्यसंख्यानि तिलानां लड्डुकानि च ।
लड्डुकानि सुपक्वानि स्वादूनि सुरसानि च ।। ४१ ।।

यवगोधूमचूर्णानां पक्वानि पिष्टकानि च ।
घृताक्तानि च रम्याणि शर्करासहितानि च ।। ४२ ।।

स्वास्तिकानां लड्डुकानि स्थूलानि सुन्दराणि च ।
भृष्टद्रव्यं च विविधमक्षतं शर्करान्वितम् ।। ४३ ।।

घृतकुल्यां दुग्धकुलयां मधुकुल्यं मनोहराम् ।
गुडस्य दध्नः कुल्यां च पायसानां तथैव च ।। ४४ ।।

पिष्टकानां स्वस्तिकानां रम्भाणां राशिरेव च ।
मिष्टव्यञ्जनयुक्तानि शाल्यन्नानि शुभानि च ।। ४५ ।।

ददौ तस्मै सुरेशाय कृष्णप्राणाधिदेवता ।
अमूल्यरत्ननिर्माणं रम्यं सिंहासनं वरम् ।। ४६ ।।

ददौ विघ्नपिनाशाय विराजतटवासिनी ।
सूक्ष्मवस्त्रयुगं रम्यममूल्यं वह्निशुद्धकम् ।। ४७ ।।

ददौ शैलात्मजायैव शतशृङ्गनिवासिनी ।
विशुद्धसर्पिषा युक्तं निर्मलं मधुरं मधु ।। ४८ ।।

मधुपर्कं ददौ तस्मै वृन्दावननिवासिनी ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।। ४९ ।।

सर्वसंपत्प्रदात्रे च वृषभानसुता ददौ ।
सप्ततीर्थोदकं शुद्धं सुसितं सुवासितम् ।। ५० ।।

पानार्थ च जलं तस्मै ददौ गौपोश्वरी मुदा ।
अमूल्यं दुर्लभं चैव विशुद्धं श्वेतचामरम् ।। ५१ ।।

ददौ तस्मै परेशाय मूलप्रकृतिरीश्वरी ।
अमूल्यरत्ननिर्माणं मुक्तामाणिक्यहीरकैः ।। ५२ ।।

परिष्कृतं सुतल्पं च पुष्पचन्दनचर्चितम् ।
सितसूक्ष्माशुकेनैव परितश्च परिष्कृतम् ।। ५३ ।।

ददौ शिवात्मजायैव कृष्णवक्षःस्थलस्थिता ।
दत्त्वा च कामधेनुं च सवत्सां वाञ्छितप्रदाम् ।। ५४ ।।

कृत्वाऽतीव परीहारं वृन्दा पुष्पाञ्जलिं ददौ ।
दिव्येन मूल्मनुना सबीजेनोज्ज्वलेन च ।। ५५ ।।

ददौ षोडशोपचारं कालिन्दीकुलवासिनी ।
ॐ गं गौं गणपतये विघ्नविनाशिने स्वाहा ।। ५६ ।।

इत्येवमेव मन्त्रं च गाणेशं षोडशाक्षरम् ।
सा जजाप सहस्रं च परं सल्पतरुं वरम् ।। ५७ ।।

तुष्टाव परया भक्त्या भक्तिनम्रात्मकंधरा ।
साश्रुनेत्रा पुलकिता स्तोत्रेण कौथुमेन च ।। ५८ ।।

राधिकोवाच
परं धाम परं ब्रह्म परेशं परमेश्वरम् ।
विघ्ननिघ्नकरं शान्तं पुष्टं कान्तमनन्तकम् ।। ५९ ।।

सुरासुरेन्द्रैः सिद्धेन्द्रैः स्तुतं स्तौमि परात्परम् ।
सुरपद्मदिनेशं च गणेशं मङ्गलायनम् ।। ६० ।।

इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम् ।
यः पठेत्प्रातरुत्थाय सर्वविघ्नात्प्रमुच्यते ।। ६१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo त्रयोविंशत्य-
धिकशततमोऽध्योयः ।। १२३ ।।