प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२५ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२६
[[लेखकः :|]]
अध्यायः १२७ →

अथ षड्विंशत्यधिकशततमोऽध्यायः
नारायण उवाच
गणेशपूजनं कृत्वा माधवो यादवैः सह ।
देवैर्मुनिभिरन्यैश्च देवीभिः सह नारद ।। १ ।।

अंशेन देवो देवीभी रुक्मिण्याद्याभिरेव च ।
प्रययौ द्वारकां रम्यां तस्थौ सिद्धाश्रमे स्वयम् ।। २ ।।

कृत्वा सुप्रीतिसंभाषां सार्धगोलोकवासिभिः ।
गोपैः सुहृद्भिर्नन्देन मात्रा गोप्या यशोदया ।। ३ ।।

उवाच मातरं तातं सुनीतं च चथोचितम् ।
गोपांश्च गोकुलस्थांश्च बन्धुवर्गाश्च सांप्रतम् ।। ४ ।।

श्रीभगवानुवाच
गच्छ नन्दव्रजं नन्द हे तात प्राणवल्ल्भ ।
मातर्यशोदे त्वमपि परमार्थे यशस्विनि ।। ५ ।।

भुक्त्वा कालावशेषं च गच्छ गोलोकमुत्तमम् ।
सालोक्यमुक्तिं दास्यामि सार्थ गोकुलवासिभिः ।। ६ ।।

इत्युक्त्वा भगवान्कृष्णः पित्रोरनुमतेन च ।
जगाम राधिकास्थानं नन्दश्च गोकुलं तथा ।। ७ ।।

ददर्श राधा रुचिरां मुक्ताहारां च सस्मिताम् ।
यथा द्वादशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।। ८ ।।

रत्नोच्चैरासनस्था च गोपीत्रिशतकोटिभिः ।
आवृता वेत्रहस्ताभिः सस्मिताभिश्च सांप्रतम् ।। ९ ।।

दृष्ट्वा च दूरतो राधा श्रीकृष्णं प्राणवल्लभम् ।
शिशुवेषं सुवेषं च सुन्दरेशं च सस्मितम् ।। १० ।।

नवींनजलदश्यामं पींतकौशेयवाससम् ।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।। ११ ।।

मयूरपिच्छचूडं च मालतीमाल्यशोभितम् ।
ईषद्धास्यप्रसन्नास्यं भक्तानुप्रहविग्रहम् ।। १२ ।।

क्रीडाकमलमम्लानं धृतवन्तं मनोहरम् ।
मुरलीहस्तविन्यस्तं सुप्रशस्तं च दर्पणम् ।। १३ ।।

जवेन च समुत्थाय गोपीभिः सह सादरम् ।
प्रणम्य परया भक्त्या तुष्टाव परमेश्वरम् ।। १४ ।।

राधिकोवाच
अद्य मे सफलं जन्मजीवितं च सुजीवितम् ।
यद्दृष्ट्वा मुखचन्द्रं ते सुस्निग्धं लोचनं मनः ।। १५ ।।

पञ्च प्राणाश्च स्निग्धाश्च परमात्मा च सुप्रियः ।
उभयोर्हर्षबीजं च दुर्लभं बन्धुदर्शनम् ।। १६ ।।

शोकार्णवे निमग्नाऽहं प्रदग्धा विरहानलैः ।
त्वद्दृष्ट्याऽमृतवृष्ट्या च सुसिक्ताऽद्य सुशीतला ।। १७ ।।

शिवा शिवप्रदाऽहं च शिवबीजा त्वया सह ।
शि (श) व स्वरूपा निश्चेष्टाऽप्यदृश्या च त्वया विना ।। १८ ।।

त्वयि तिष्ठति देहे च देही श्रीमाञ्छुचिः स्वयम् ।
सर्वशक्तिस्वरूपा च शिवरूपा गते त्वयि ।। १९ ।।

स्त्रीपुंसो विंरहो नाथसामान्यश्च सुदारुणः ।
यान्त्येव शक्तिभिः प्राणा विच्छेदात्परमात्मनः ।। २० ।।

इत्युक्त्वा राधिका वेवी परमात्मानमीश्वरम् ।
स्वासने वासयासास कृत्वा पादार्चनं मुदा ।। २१ ।।

रत्नसिंहासने श्रीमानुवास राधया सह ।
गोपीभिः सप्तभिः शश्वत्सेवितः श्वेतचामरैः ।। २२ ।।

चन्दना सा ददौ गात्रे सुगन्धि चन्दनं हरेः ।
सस्मिता रत्नमाला सा रत्नमालां गले ददौ ।। २३ ।।

पद्मैः पद्मार्चिते पादपद्मे पद्मावती सती ।
अर्ध्या ददौ सा सजलं दूर्वा पुष्पं च चन्दनम् ।। २४ ।।

मालतो मालतीमाल्यं चूडायां च हरेर्ददौ ।
चम्पापुष्पस्य पुटकं ददौ चम्पावती सती ।। २५ ।।

पारिजाता च हरये पारिजातं ददौ मुदा ।
सकर्पूरं च ताम्बूलं वासितं शीतलं जलम् ।। २६ ।।

ददौ कदम्बमाला सा कदम्बमालिकां शुभाम् ।
क्रीडाकमलमम्लानममूल्यं र्तनदर्पणम् ।। २७ ।।

ददौ हस्ते हरेरेव कमला सा सुकोमला ।
वरुणेन पुरा दत्तं वस्त्रयुग्मं च सुन्दरम् ।। २८ ।।

साक्षाद्गोरोचनाभं च सुन्दरी हरये ददौ ।
मधुपात्रं मधुस्तस्मै मधुरं मधुपूर्णकम् ।। २९ ।।

सुधापूर्गं सुधापात्रं ददौ भक्त्या सुधामुखी ।
चकार पुष्पशय्यां च गोपी चन्दनचर्चिताम् ।। ३० ।।

अम्लानमालतीपुष्पमालाजालविभूषिताम् ।
रत्नेन्द्रसारनिर्माणमन्दिरे सुमनोहरे ।। ३१ ।।

मणीन्द्रमुक्तामाणिक्यहीरहारविभूषिते ।
कस्तूरीकुङ्कुमाक्तेन वायुना सुरभीकृते ।। ३२ ।।

रत्नप्रदीपशतकैर्ज्वलद्भिश्च सुदीपिते ।
धूपिते सततं धूपैर्नानावस्तुसमन्वितैः ।। ३३ ।।

कृत्वा शय्यां रतिकरीं ययुर्गोप्यश्च सस्मिताः ।
दृष्ट्वा रहसि तल्पं च सुरम्यं सुमनोहरम् ।। ३४ ।।

माधवो राघया सार्ध विवेश रतिमन्दिरम् ।
नानाप्रकारहास्यं च परिहासं स्मरोचितम् ।। ३५ ।।

द्वयोर्बभूव तल्पे च मदनातुरयोस्तथा ।
माल्यं ददौ च कृष्णाय ताम्बूलं च सुवासितम् ।। ३६ ।।

कस्तूरीकुङ्कुमाक्तं च चन्दनं श्यामवक्षसि ।
चारुचम्पकपुष्पं च चूडायां प्रददौ सती ।। ३७ ।।

सहस्रदलससंक्तक्रीडापद्मं करे ददौ ।
प्रक्षिप्य मुरलीं हस्तात्प्रददौ रत्नदर्पणम् ।। ३८ ।।

पारिजातस्य कुसुममम्लानं पुरतो ददौ ।
उवाच मधुरं राधा रहस्ये मधुरं वचः
सस्मिता सस्मितं शान्तं कान्तं कान्ता मनोहरम् ।। ३९ ।।

राधिकोवाच
निष्फलं मङ्गलप्रश्तं मङ्गले मङ्गलालये ।
सर्वमङ्गलबीजे च माङ्गल्ये मङ्गलप्रदे ।। ४० ।।

तथाऽपि कुशलप्रश्ने सांप्रतं समयोचितम् ।
लौकिको व्यवहारोऽपि वेदेभ्यो बलवांस्तथा ।। ४१ ।।

कुशलं रुक्मिणीकान्त सत्यभामेश सांप्रतम् ।
महन्द्रेण समं युद्धं लीलया च यदाज्ञया ।। ४२ ।।

पारिजाततरुं स्वर्गादुत्पाट्य चामरावतीम् ।
गत्वा विजित्य देवांश्च तस्यै दसमिति श्रुतम् ।। ४३ ।।

पुण्यकं च कृतं तेन पारिजातेन सुव्रतम् ।
त्वामेव साध्यं कान्तं च संपूर्णे दक्षिणां ददौ ।। ४४ ।।

ब्रह्मेशशेषासाध्यस्त्वं तया साध्यः कृतः कथम् ।
सर्वभ्यः कामिनीभ्यश्च सत्यभामां बिभेषि च ।। ४५ ।।

रुक्मिण्यां प्रेमसौभाग्यमतिरिक्तं च गौरवम् ।
भयं माल्यं च धन्यायां सत्यायां सततं श्रुतम् ।। ४६ ।।

सत्यं जाम्बवतीकान्त वद मां च सुनिश्चितम् ।
तासु सर्वासु कान्तासु कस्यास्ते प्रेम चाधिकम् ।। ४७ ।।

शृङ्गारे सर्वभावे वा तासु का रसिका परा ।
त्वयि स्निग्धा विदग्धा का तामु धन्याऽतिसुव्रता ।। ४८ ।।

सा स्त्री भावानुरक्ता या भार्यां पाति पतिश्च सः ।
प्रेमातिरिक्तं स्त्रीपुंसोस्त्रैलोक्येषु सुदुर्लभम् ।। ४९ ।।

रसिका स्त्री विजानाति सती गुणवती पतिम् ।
गुणज्ञं रसिकं शूरं सुशीलं सुरतौ सदा ।। ५० ।।

दूराद्धावति पद्मार्थ मधुलोभान्मध्रुव्रतः ।
भेकस्तन्न हि जानाति तन्मूर्ध्नि पादमुत्सृजेत् ।। ५१ ।।

यन्त्री जानाति संगीतरसं यन्त्रं च नैव च ।
दुग्धास्वादं विदग्धश्च न दर्वी नैव भाजनम् ।। ५२ ।।

परिपक्वफलास्वादं जानन्ति भोगिनः सुखम् ।
एकत्रावस्थिताः शश्वन्नकिंचित्फलिनो यथा ।। ५३ ।।

सुशीलजलास्वादं विजानन्ति तृषाल्वः ।
न च वापी न घटश्चैकत्रावस्थितो यथा ।। ५४ ।।

भोकिनो हि विजानन्ति शालिस्वादुरसं परम् ।
एकत्रावस्थितं चेतु न क्षेत्रं भाजनं यथा ।। ५५ ।।

बुबुधे चन्दनाघ्रणं चन्दनार्थी च भोगवित् ।
न गर्दभो भारवाही न तस्य पात्रिका यथा ।। ५६ ।।

यं न यानन्ति वेदाश्च ब्रह्मेशानादयस्तथा ।
योगिनो मुनयः सिद्धास्तं किं जानन्ति योषितः ।। ५७ ।।

सौभाग्यं गौरवं प्रेम दुर्लभं नित्यनूतम् ।
यौषितां च परं नैव चूर्णीभूतं क्षणेन च ।। ५८ ।।

अत्युच्छ्रितो निपतनं प्राप्नोत्येव ध्रुवं प्रभो ।
आराद्विपत्तिबीजं च वैष्णवानां विहिंसनम् ।। ५९ ।।

श्रीदामा च मया शप्तस्त्वद्भक्तो भक्तवत्सलः ।
एतादृशी विपत्तिर्मे पुत्रश्रीदामशापतः ।। ६० ।।

ईश्वरः कस्य वा बन्धुः प्रियो वा विप्रियस्तथा ।
सततं भक्तिसाध्यश्च यो भक्तश्च तदीश्वरः ।। ६१ ।।

वेदाश्च वैदिकाः सन्तः पुराणानि वदन्ति च ।
राधाया माधवः साध्यो भगवानिति निष्फलम् ।। ६२ ।।

जित्वा च सगणं शंभुं बाणस्य भुजकृन्तनम् ।
कृत्वा च रुक्मिणीपौत्रः समानीतः सभार्यकः ।। ६३ ।।

अहो त्वयि समायाते रुक्मिणी किमुवाच ह ।
प्रेम स्थितं समानं ते किं विवृद्धं च गौरवम् ।। ६४ ।।

कुरुपाण्डवयुद्धेन कुरवो निहतास्त्वया ।
पाण्डवार्थे तथा भूपाः क्व साम्यं परमात्मनः ।। ६५ ।।

साक्षान्महेन्द्रजातस्य कौन्तेयस्यार्जुनस्य च ।
राजमण्डलम्ध्यस्थो भवानेव हि सारथिः ।। ६६ ।।

तेन भक्तेन शुद्धेन भीष्मेण च महात्मना ।
लज्जितेन किमुक्तं ते महतीषु मभासु च ।। ६७ ।।

देवैरपि कथं दृष्टो ब्रह्मेशशेसंषज्ञकैः ।
भक्तसिहैर्भृत्तैः सर्वैर्न चोक्तं किंचिदेव सः ।। ६८ ।।

यश्चानिर्वचनीयश्च वेदेषु च चतुर्षु च ।
पुराणेष्वितिहासेषु प्रकृतेः पर ईश्वरः ।। ६९ ।।

निर्गुणच नीरीहश्च निर्लिप्तः सर्वकर्मणाम् ।
कर्मणां साक्षिरूपश्च भक्तानुग्रहविग्रहः ।। ७० ।।

परं ब्रह्म परं ज्योतिः परमेशः परात्परः ।
परमात्मा च सर्वेषां सूतो नररथस्थितः ।। ७१ ।।

त्वया कुब्जा च संभुक्ता वृद्धा क्षत्रियकामिनी ।
अपुत्रिणी चाधिकाङ्गी यूनाऽस्पृश्या च ।।
प्रक्तनात् ।। ७२ ।।

त्वया च निहतः कंसो मातुलः केन हेतुना ।
आयास्यतीति कृत्वा च गत्तं न पुनरागतम् ।। ७३ ।।

निहत्य यादवान्सर्वान्विभज्य द्वारकां पुरीम् ।
त्वां निबध्य समानेतुमीश्वरी वारिता जनैः ।। ७४ ।।

इत्युक्त्वा राधिका देवी भृशमुच्चै रुरोद सा ।
मूर्च्छां संप्राप सहसा निनिःश्वासा बभूव ह ।। ७५ ।।

गोप्यो गवाक्षजालस्थाः शुश्रुवुर्ददृशुस्तथा ।
दृष्ट्वा तमाययुः सर्वा ऊचू राधा मृतेति च ।। ७६ ।।

उच्चैस्ता रुरुदुः सर्वाः क्रोडे कृत्वा च राधिकाम् ।
ऊचुस्ता रक्षरक्षेति हरे नरहरे प्रभो ।। ७७ ।।

गोप्य ऊचुः
किं कृतं किं कृतं कृष्ण त्वया राधा मृता च नः ।
राधां जीवय भद्रं ते यास्यामः काननं वयम् ।। ७८ ।।

अन्यथा स्त्रीवधं तुभ्यं दास्यामः सर्वयोषितः ।
गोपीनां वचनं श्रुत्वा राधिकायाश्च माधवः ।। ७९ ।।

उवाच जीवयामास मुधादृष्ट्या च नारद ।
उत्तस्थौ राधिका देवी रुदती मानिनी सती ।। ८० ।।

गोप्यस्तां बोधयामासुःक्रोडे कृत्वा पुनः पुनः ।। ८१ ।।

श्रीकृष्ण उवाच
श्रृणु राधे प्रवक्ष्यामि ज्ञानमाध्यात्मिकं परम् ।
यच्छ्रुत्वा हालिको मूर्खः सद्यो भवति पण्डितः ।। ८२ ।।

जात्याऽहं चगतां स्वामी किं रुक्मिण्यादियोषिताम् ।
कार्यकारणरूपोऽहं व्यक्तो राधे पृथक् पृथक् ।। ८३ ।।

एकात्माऽहं च विश्वेषां जात्या ज्योतिर्मयः स्वयम् ।
सर्वप्राणिषु व्यक्त्या चाप्याब्रह्मादितृणादिषु ।। ८४ ।।

एकस्मिंश्च भुक्तवति न तुष्टोऽन्यो जनस्तथा ।
मय्यात्मनि गतेऽप्येको मृतोऽप्यन्यः सुजीवति ।। ८५ ।।

जात्याऽहं कृष्णरूपश्च परिपूर्णतमः स्वयम् ।
गोलोके गोकुले पुण्ये क्षेत्रे वृन्दावने वने ।। ८६ ।।

द्विभुजो गोपवेषश्च स्वयं राधापतिः शिशुः ।
गोपालैर्गोपिकाभिश्च सहितः कामधेनुभिः ।। ८७ ।।

चतुर्भुजोऽहं वैकुण्ठे द्विधारूपः सनातनः ।
लक्ष्मीसरस्वतीकान्तः सततं शान्तविग्रहः ।। ८८ ।।

यन्मानसी सिन्धुकन्या मर्त्यलक्ष्मीपतिर्भुवि ।
श्वेतद्वीपे च श्रीरीदे तत्रापि च चतुर्भुजः ।। ८९ ।।

अहं नारायणर्षिश्च नरो धर्मः सनातनः ।
धर्मवक्ता च धर्मिष्ठो धर्मवर्त्मप्रवर्तकः ।। ९० ।।

शान्तिर्लक्ष्मीस्वरूपा च धर्मिष्ठा च पतिव्रता ।
अत्र तस्याः पतिरहं पुण्यक्षेत्रे च भारते ।। ९१ ।।

सिद्धेशः सिद्धिदः साक्षात्कपिलोऽहं सतीपतिः ।
नानारूपधरोऽहं च व्यक्तिभेदेन सुन्दरि ।। ९२ ।।

अहं चतुर्भुजः शश्वद्द्वार्वत्यां रुक्मिणीवतिः ।
अहं क्षीरोदशायी च सत्यभामागृहे शुभे ।। ९३ ।।

अन्यासां मन्दिरेऽहं च कायव्यूहात्पृथक्पृथक् ।
अहं नारायणर्षिश्च फाल्गुनस्यास्य सारथिः ।। ९४ ।।

स नरर्षिर्धर्मपुत्रो मदंशो बलवान्भुवि ।
तपसाऽऽराधितस्तेन सारथ्येऽहं च पुष्करे ।। ९५ ।।

यथा त्वं राधिका देवी गोलेके गोकुले तथा ।
वैकुण्ठे च महालक्ष्मीर्भवती च सरस्वती ।। ९६ ।।

भवती मर्त्यलक्ष्मीश्च क्षीरोदशायिनः प्रिया ।
धर्मपुत्रवधूस्त्वं च शान्तिर्लक्ष्मीस्वरूपिणी ।। ९७ ।।

कपिलस्य प्रिया कान्ताभारते भवती सती ।
त्वं सीता मिथिलायां च त्वच्छाया द्रौपदी सती ।। ९८ ।।

द्वारवत्यां महाल्क्ष्मीर्भवती रुक्मिणी सती ।
पञ्चानां पाण्डवानां च भवती कलया प्रिया ।। ९९ ।।

रावणेन हृता त्वं च स्वं च रामस्य कामिनी ।
नानारूपा यथा त्वं च च्छायया कलया सती ।। १०० ।।

नानारूपस्तथाऽहं च श्वांशेन कलया तथा ।
परिपूर्णतमोऽहं च परमात्मा परात्परः ।। १०१ ।।

इति ते कथितं सर्वमाध्यात्मिकमिदं सति ।
राधे कर्वापराधं मे क्षमस्व परमेश्वरी ।। १०२ ।।

श्रीकृष्णवचनं श्रुत्वा परितुष्टा च राधिका ।
परितुष्टाश्च गोप्यश्च प्रणेमुः परमेश्वरम् ।। १०३ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
षड्विंशत्यधिकशततमोध्यायः ।। १२६ ।।