प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२६ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२७
[[लेखकः :|]]
अध्यायः १२८ →

अथ सप्तविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
श्रीकृष्णवचनं श्रुत्वा प्रहृष्टा गोपिका मुदा ।
मन्दिरं प्रययुः सर्वाः प्रणम्य राधिकां प्रभुम् ।। १ ।।

राधाशृङ्गारभावं च कलाषोडशपूर्वकम् ।
चकार सस्मिता साध्वी वक्रचञ्चललोचना ।। २ ।।

दत्त्वा च चन्दनं माल्यं स्वामिने पुनरेव च ।
रहस्यं च परीहास्यं पुनरेव चकार सः ।। ३ ।।

आकृष्य राधिकां कृष्णः समानीय स्ववक्षसि ।
ओष्ठाधरं कपोलं च गण्डयुग्मं चुचुम्ब च ।। ४ ।।

राधा चुचुम्ब कृष्णस्य मुखचन्द्रं मनोहरम् ।
चकार कृष्णं प्राणेशं बाहुभ्यां च स्ववक्षसि ।। ५ ।।

शृङ्गारं षोडशविर्धं कामशास्त्रोक्तमीप्सितम् ।
स्त्रीपुंसोस्तोषजनकं चकार भगवान्प्रभुः ।। ६ ।।

नखविक्षतसर्वाङ्गा दशनेनाधरक्षता ।
पुलकाञ्चितदेहा स तन्द्रिता वामनस्तनी ।। ७ ।।

मीर्च्छिता सुखसंभोगाद्विलग्ना हतचेतना ।
श्वासमात्रावशेषा च निद्रामुद्रितलोचना ।। ८ ।।

रतिशूरा कोमलाङ्गी कान्तावक्षः स्यलस्थिता ।
शीते सुखोष्णसर्वाङ्गी ग्रीष्मे सा सुखशीतला ।। ९ ।।

शृङ्गारकाले सुखदा सान्द्रश्रोणिपयोधरा ।
नितम्बभारानम्रा च प्रसङ्गे सुखदायिका ।। १० ।।

विदग्धा रसिका श्रेष्ठा कामुकी च वराङ्गना ।
सहसा चेतनं प्राप्य शुश्राव कोकिलध्वनिम् ।। ११ ।।

श्रुत्वा परमभीता सा दीना दीनविशङ्कया ।
उवाच परमा सा च परमेशं परात्परम्
बाहुश्रोणियुगाम्यां च निबध्य च पुनः पुनः ।। १२ ।।

राधिकोवाच
रासं गच्छ महाभाग पुण्यं वृन्दावनं वनम् ।
तत्र क्रीडां करिष्यामि जलेन च स्थलेन च ।। १३ ।।

पुनर्यास्यामि मलयं सुन्दरं मणिमन्दिरम् ।
अपरं यद्रहस्यं वा जन्मला न श्रुतं मया ।। १४ ।।

तत्र यामि त्वया सार्धमिति मे लालसा परा ।
परस्परैकालापेन प्रययौ रजनी शुभा ।। १५ ।।

अरुणोदयकालेऽपि न त्यजेन्माधवं सती ।
माधवः प्रीतिवचसा बोधयामास साघनात् ।। १६ ।।

प्रातः कृत्यं ततः कृत्वा स्वारुरोह रथं हरिः ।
गोपीभी राधया सार्धं शरत्कमललोचनः ।। १७ ।।

योजनायतविस्तीर्ण गृहेस्त्रिशतकोटिभिः ।
मणीन्द्रसारनिर्माणैर्ज्वलद्भिरुपशोभितम् ।। १८ ।।

गोलोकादागतं तत्र मनोयायि मनोहरम् ।
सहस्रचक्रसंयुक्तं महस्राश्वैः प्रचालितम् ।। १९ ।।

मणिस्तम्भैश्त्रिकोटीभी रत्नराजिविराजितम् ।
मुक्तामाणिक्यपरमैर्हीरहारैः सुशोभितम् ।। २० ।।

नानाचित्रैर्विचित्रैश्च श्वेतचामरदर्पणैः ।
वह्निशुद्धांशुकैर्दीप्तैर्मालाजालैर्विभूषितम् ।। २१ ।।

रत्निर्माणतल्पैश्च पुष्पचन्दनचर्चितम् ।
समानरूपवेषैश्च गोपीलक्षैः समावृतम् ।। २२ ।।

रथेन तेन भगवान्पुनर्वृन्दावनं ययौ ।
तत्र गत्वा निशाकाले विजहार जले स्थले ।। २३ ।।

शृङ्गारं सुचिरं कृत्वा वनेषूपवनेषु च ।
राधिकां दर्शयामास यथासर्व च नूतनम् ।। २४ ।।

विस्पन्दके सुरसने माहेन्द्रे नन्दने वने ।
सुमेरुशिखरे रम्ये पर्वते गन्धमादने ।। २५ ।।

शैले शैले सुन्दरे च कन्दरे कन्दरे वने ।
पुष्पोद्याने सुरहसि नद्यां नद्यां नदे नदे ।। २६ ।।

समुद्रपुलिने रम्ये पारिजातवने वने ।
सुभद्रे पुष्पभद्रे च नारायणसरोवरे ।। २७ ।।

पवनस्यैव निलये मलये च सुरालये ।
त्रिकूटे भद्रकूटे च पञ्चकूटे सुकूटके ।। २८ ।।

देवानां कमनीयायां काञ्चन्यां च तथैव च ।
समुद्रे च समुद्रे च द्वीपे द्वीपे मनोहरे ।। २९ ।।

खर्वटे प्रवरे रम्ये पुण्यचन्द्रसरोवरे ।
सुपार्श्वे मुनिपार्श्वे च स रेमे राधया सह ।। ३० ।।

शीघ्रं च पुनरागत्य जम्बूद्वीपं च पुण्यदम् ।
द्वारकां दर्शयामास पर्वतं रैवतं तथा ।। ३१ ।।

गोकुलं पुनरागत्य गोपगोकुलसंकुलम् ।
तत्र दृष्ट्वा च भाण्डीरं पुण्यं वृन्दावनं ययौ ।। ३२ ।।

श्रीकृण्णागमनं श्रुत्वा यशोदा नन्द एव च ।
गोपा गोप्यश्च वृद्धाश्चाप्यश्रुनेत्रा निराकुलाः ।। ३३ ।।

वारणेन्द्रं पुरस्कृत्य वेश्यां च नटनर्तकाः ।
पतिपुत्रवतीं साध्वीं ब्राह्मणीं ब्राह्मणं तथा ।। ३४ ।।

यथा देवाश्च वह्निं च दृष्ट्वा नन्दं च मातरम् ।
आययुर्बालकृष्णश्च राधया सह माधवः ।। ३५ ।।

मातुः क्रोडमारुरोह प्रहस्य मधुसूदनः ।
नन्दो यशोदया सार्ध चुचुम्ब मुखपङ्कजम् ।। ३६ ।।

आश्लिश्य भृशमुच्चैश्च सिषेच नेत्रजैर्जलैः ।
स्वयं च भगवान्कृष्णो यशोदायाः स्तनं पपौ ।। ३७ ।।

तादृशं ददृशुः सर्वे यादृशो मथुरां ययौ ।
मुरलीहस्तविन्यस्तं रत्नभूषणभूषितम् ।। ३८ ।।

यथैकादशवर्षीयं शोभितं पीतवाससा ।
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।। ३९ ।।

मन्दिरं वेशयामास राधया सह माधवम् ।
यशोदा मङ्गलं कृत्वा भोजयामास ब्राह्मणान् ।। ४० ।।

पूजां चकार गोपीनां मुनीनां च यथा जनः ।
मणिरत्नं प्रवालं च सुवर्ण परमं तथा ।। ४१ ।।

भुक्तामाणिक्यहीरं च ब्राह्मणेभ्यो ददौ मुदा ।
गजरत्नं गवां रत्नमश्वरत्नं मनोहरम् ।। ४२ ।।

आसनानि च पात्राणि भूषणानि तथैव च ।
धान्यान्यपि च सस्यानि वस्त्राणि च तथा ददौ ।। ४३ ।।

अपूर्व दर्शयामास राधया सह माधवम् ।
गोपीगणं च मिष्टान्नं सादरेणापि नारद ।। ४४ ।।

दुन्दुभीन्वादयामास कारयामास मङ्गलम् ।
देवांश्च भोजयामास सानन्दं च मनोहरम् ।। ४५ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
सप्तविशत्यधिकशततमोऽध्यायः ।। १२७ ।।