प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३० ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १३१
[[लेखकः :|]]
अध्यायः १३२ →

अधै कत्रिंशदधिकशततमोऽध्यायः
शौनक उवाच
अत्यपूर्वमुपाख्यानं श्रुतं परममाद्भुतम् ।
सुगोप्यं च सुगोप्यं रम्यं रम्यं नवं नवम् ।। १ ।।

किमनिर्वचनीयं च कमनीयं मनोहरम् ।
सुदुर्लभा कथा प्रोक्ता पुराणेषु पुरातनी ।। २ ।।

एवंभूतं च सुदिनं कदाऽस्माकं फविष्यति ।
तज्जन्म सफलं धन्यं यत्र वैष्णवसंगमः ।। ३ ।।

गर्भवासोच्छेदनं च कर्ममूलनिकृन्तनम् ।
हरिदास्यप्रदं शुद्धं भक्तानां भक्तिवर्धनम् ।। ४ ।।

असाधुसङ्गदुर्बुद्धिपापोन्मूलनकारणम् ।
गणेशजन्मोपख्यानं पुराणेषु सुदुर्लभम् ।। ५ ।।

तुलसीराधिकाख्यानं किमपूर्व श्रुतं परम् ।
अन्यद्यद्यद्गोपनीयं व्यक्तमव्यक्तमीप्सितम् ।। ६ ।।

सर्वं श्रुतं महाभाग परिबूर्णं मनोहरम् ।
अधुना श्रोतुमिच्छामि वह्नेरुत्पत्तिमीप्सिताम्
स्वर्णस्य च महाभाग तन्मे व्याख्यातुमर्हसि ।। ७ ।।

सूत उवाच
सामग्रीकरणं सृष्टेर्जलमेव हुताशनः ।
तथैव प्रकृतिर्नित्या महानेव तथैव च ।। ८ ।।

यथा दिशो महाकाशो ययैव सृष्टिगोलकम् ।
प्रकृतेर्महतश्च स्याद्य थाऽहंकार एव च ।। ९ ।।

यथैव शब्दस्तन्मात्रं तथैव च हुताशनः ।
तथाऽपि तत्समुत्पत्तिं कथयामि निशामय ।। १० ।।

एकदा सृष्टिकाले च ब्रह्मानन्तमहेश्वराः ।
श्वेतद्वीपं ययुः सर्वे द्रष्टुं विष्णुं जगत्पतिम् ।। ११ ।।

परस्परं च संभाषां कृत्वा सिंहासनेषु च ।
ऊचुः सर्वे सभामध्ये सुरम्ये पुरतो विभोः ।। १२ ।।

विष्णुगात्रोद्भवास्तत्र कामिन्यः कमलाकलाः ।
तत्र नृत्यन्ति गायन्ति विष्णुगाथाश्च ।।
सुस्वरम् ।। १३ ।।

तासां च कठिनां श्रोणिं कठिनं स्तनमण्डलम् ।
सस्मितं मुखपद्मं च दृष्ट्वा ब्रह्मा सुकामुकः ।। १४ ।।

मनोनिवारणं कर्तुं न शशाक पितामहः ।
वीर्यं पपात चच्छाद लज्जया वाससा विभुः ।। १५ ।।

तद्वीर्यं वस्त्रसहितं प्रतप्तं कामतापतः ।
क्षीरोदे प्रेरयामास संगीते विरते द्विज ।। १६ ।।

जलादुत्थाय पुरुषः प्रज्वलन्ब्रह्मतेजसा ।
उवास ब्रह्मणः क्रोडे लज्जितस्य च संसदि ।। १७ ।।

एतस्मिन्नन्तरे रुष्टो जलादुत्थाय सत्वरः ।
प्रणम्य वरुणो देवान्बालं नेतुं समुद्यतः ।। १८ ।।

बालो दधार ब्रह्माणं बाहुम्यां च भयाद्रुदन् ।
किं चिन्नोवाच जगतां विधाता लज्जया द्विज ।। १९ ।।

बालकस्य करे धृत्वा चकारऽऽकर्षणं रुषा ।
वरुणश्च सभामध्ये तं चिक्षेप प्रजापतिः ।। २० ।।

पपात दूरतो देवो वरुणो दुर्बलस्ततः ।
मूर्छां संप्राप मृतवत्कोपदृष्ट्या विधेरहो ।। २१ ।।

चेतनं कारयामासामृतदृष्ट्या च शंकरः ।
संप्राप्य चेतनं तत्र तमुवाच जलेश्वरः ।। २२ ।।

वरुण उवाच
बालो जले समुद्भूतो मम पुत्रोऽयमीप्सितः ।
अहं गृहीत्वा यास्यामि ब्रह्मा मां ताडयेत्कथम् ।। २३ ।।

ब्रह्मोवाच
वालकः शरणापन्नो मयि विष्णो महेश्वर ।
कथं दास्यामि भीतं च रुदन्तं शरणागतम् ।। २४ ।।

शरणागतदीनार्तं यो न रक्षेदपण्डितः ।
पच्यते निरये तावद्यावच्चन्द्रदिवाकरौ ।। २५ ।।

उभयोर्वचनं श्रुत्वा प्रहस्य मधुसूधनः ।
उवाच तत्र सर्वज्ञः सर्वेशश्च यथोचितम् ।। २६ ।।

श्रीभगवानुवाच
दृष्ट्वा तु कामिनीश्रोणिं वीर्यं धातुः पपात तत् ।
लज्जया प्रेरयामास क्षीरोदे निर्मले जले ।। २७ ।।

ततौ बभूव बालश्च धर्मतो विधिपुत्रकः ।
क्षेत्रज्ञश्च सुतः शास्त्रे वरुणस्यापि गौणतः ।। २८ ।।

महादेव उवाच
यो विद्यायोनिसंबन्धो वेदेषु च निरूपितः ।
शिष्ये पुत्रे च समता चेति वेदविदो विदुः ।। २९ ।।

मन्त्रं ददातु वरुणो विद्यांच बारकाय च ।
पुत्रो विधातुर्वङ्निश्च शिष्यश्य वरुणस्य च ।। ३० ।।

विष्णुर्ददातु बालाय दाहिकां सक्तिमुज्ज्वलाम् ।
सर्वदग्धो हुताशश्च निर्वाणो वरुणेन च ।। ३१ ।।

विष्णुश्च दाहिकां शक्तिं ददौ तस्मै शिवाज्ञया ।
मन्त्रं विद्यां च वरुणो रत्नमालां मनोहराम् ।। ३२ ।।

क्रोडे कृत्वा च तं बालं चुचुम्ब मायया सुरः ।
ब्रह्मणे च ददौ साक्षाद्विष्णुशंकरयोरपि ।। ३३ ।।

प्रणम्य विष्णुं ब्रह्मा च ययौ शंभुः स्वमन्दिरम् ।
अग्न्युत्पत्तिश्च कथिता स्वर्णोत्पत्तिं निशामय ।। ३४ ।।

विलोक्य रम्भां सुश्रोणिं सकामो वह्निरेव च ।
पपात वीर्यं चच्छाद लज्जया वाससा तथा ।। ३५ ।।

विलोक्य रम्भां सुश्रोणिं सकामो वह्निरेव च ।
पपात वीर्य चच्छाद लज्जया वाससा तथा ।। ३६ ।।

उत्तस्थौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः ।
क्षणेन वर्धयामास स सुमेरुर्बभूव ह ।। ३७ ।।

हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः ।
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।। ३८ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo
वह्निसुवर्णोत्पत्तिर्नामैकत्रिंशदधिकशततमोऽध्यायः ।। १३१ ।।