प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२९ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १३०
[[लेखकः :|]]
अध्यायः १३१ →

अथ त्रिंशदधिकशततमोऽध्यायः
नारद उवाच
सर्वं श्रुतं महाभाग नारशेषमभीप्सितम् ।
किमपूर्व पुराणं च ब्रह्मवैवर्तमिष्टदम् ।। १ ।।

अधुना किं करिष्यामि तन्मां ब्रूहि जगद्गुरो ।
आज्ञां कुरु तपस्यां च कर्तु यामि हिमालयम् ।। २ ।।

नारायण उवाच
उवबर्हणगन्धर्दः पञ्चशत्कामिनीपतिः ।
जन्मान्तरे भवानासीदधुना ब्रह्मपुत्रकः ।। ३ ।।

तास्वेका च सती रम्या तपसा शंकरं परम् ।
आराध्य च वरं लेभे वाञ्छितं नारदं पतिम् ।। ४ ।।

सा च सृञ्जयकन्या च स्वर्णष्ठीवीसहोदरा ।
तां विवाहं कुरुष्वेति शंकराज्ञा कथं वृथा ।। ५ ।।

सुन्दरी सुन्दरीष्वेवं कोमलां कमलाकलाम् ।
पतिव्रतां महाभगां रम्यां सुप्रियवादिनीम् ।। ६ ।।

कामुकीं कमनीयां च शश्वत्सुस्थिरयौवनाम् ।
विधात्रा लिखितं कर्म प्राक्तनं केन वार्यते ।। ७ ।।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं शुभाशुभम् ।। ८ ।।

सूत उवाच
नारायणवचः श्रुत्वा हृदयेन विदूयता ।
प्रणम्य प्रययौ शीघ्रं नारदः सृञ्जयालयम् ।। ९ ।।

शौनक उवाच
अहो सूत महाभाग श्रुतं किं परमाद्भुतम् ।
किमपूर्वं रहस्यं च सरसं च पुरातनम् ।। १० ।।

अधुना श्रोतुमिच्छामि विवाहं नारदस्य च ।
अतीन्द्रियस्य च मुनेर्ब्रह्मपुत्रस्य सांप्रतम् ।। ११ ।।

सूत उवाच
नारदो मू(गु)ढरुपश्च दृष्टावा सृञ्जयकन्यकाम् ।
तपस्विनीं महाभागां विष्णुव्रतपरायणाम् ।। १२ ।।

ययौ ब्रह्मसभां रम्यां सर्वदेवैः समावृताम् ।
प्रणम्य पितरं शान्तः सर्वं तत्त्वमुवाच तम् ।। १३ ।।

ब्रह्मा प्रहृष्टवदनः श्रुत्वा वार्तां शुभावहाम् ।
तपस्विनं च पुत्रं च संप्राप्य जगतां पतिः ।। १४ ।।

रत्ननिर्माणयानेन सार्धं देवैः शुभे क्षणे ।
पुत्रं कृत्वा च पुरतो ययौ सृञ्जयमन्दिरम् ।। १५ ।।

तच्छ्रुत्वा सृञ्जयो राजा रत्नभूषणभूषिताम् ।
गृहीत्वा कन्यकां रम्यां नारदाय ददौ मुदा ।। १६ ।।

सर्वस्वं दक्षिणां दत्त्वा मणिमुक्तादिकं तथा ।
पुटाञ्जलियुतो भूत्वा परिहारे चकार सः ।। १७ ।।

कन्यां समर्प्य ब्रह्माणं राजा च योगिनां वरः ।
रुरोद भृशमुच्चैश्च वत्से वत्स इतीरितम् ।। १८ ।।

क्व यासि त्यक्त्वा मद्गेहं शून्यं क मललोचने ।
अहं यामि वनं घोरं त्वां त्यक्त्वा जीवितो मृतः ।। १९ ।।

प्रणम्य पितरं कन्या रुदन्तं मातरं तथा ।
रुदतीं तां रुदन्ती साऽप्यारुरोह रथं विधेः ।। २० ।।

गृहीत्वा च सभार्यं च पुत्रं धाता मुदाऽन्वितः ।
प्रययौ ब्रह्मलोकं च देवन्द्रैर्मुनिभिः सह ।। २१ ।।

ब्राह्मणान्बोजयामास साङ्गे मङ्गलकर्मणि ।
देवानपि च सिद्धांश्च वादयामास दुंदुभिम् ।। २२ ।।

नारदस्तु मुनिश्रेष्ठो बाधितः पूर्वकर्मणा ।
यस्य यत्प्राक्तनं विप्र दुर्लङ्ध्य केन वार्यते ।। २३ ।।

सुरम्ये पुष्पतल्पे च सुगन्धिचन्दनार्चिते ।
स रेमे रामया सार्ध बुबुधे न दिवानिशम् ।। २४ ।।

एवं कृत्वा विवाहं च विरतो मुनिसत्तमः ।
उवास ब्रह्मलोकेषु वटमूले मनोहरे ।। २५ ।।

तत्राऽऽजगाम नग्नश्च प्रज्वलन्ब्रह्मतेजसा ।
सनत्कुमारो भगवान्साक्षाच्च बालको यथा ।। २६ ।।

सृष्टेः पूर्वश्च वयसा यथैव पञ्चहायनः ।
अयूडोऽनुपनीतश्च वेदसंध्याविहीनकः ।। २७ ।।

कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः ।
अनन्तकालकल्पं च भ्रातृभिश्च त्रिभिः सह ।। २८ ।।

वैष्णवानामग्रणीशो ज्ञानिनां च गुरोर्गुरुः ।
आराद्दृष्ट्वा नारादस्तं भ्रातरं च सतां वरम् ।। २९ ।।

सहसा शिरसा भूमौ दण्डवत्प्रणनाम तम् ।
उवाच नारदं बालः प्रहस्य परमार्थकम् ।। ३० ।।

सनत्कुमार उवाच
अये भ्रातः किं करोषि कुशलं युवतीपतेः ।
स्त्रीपुंसोर्वर्धते प्रेम नित्यं तन्नित्यनूतनम् ।। ३१ ।।

अर्गलं ज्ञानमार्गस्य भक्तिद्वारकपाटकम् ।
मोक्षमार्गव्यवहितं चिरं बन्धनकारणम् ।। ३२ ।।

गर्भवासस्य बीजं च परं नरककारणम् ।
पीयूषबुद्ध्या गरलं भुङ्क्ते पापी नराधमः ।। ३३ ।।

परं नारायणं त्यक्त्वा यस्याऽऽस्ते विषये मनः ।
स वञ्चितो मायया चामृतं त्यक्त्वा विषं भजेत् ।। ३४ ।।

सर्वेषां कर्मभोगेऽस्ति कर्मिणामीश्वरं विना ।
वयं विधातुः पुत्राश्च सा बुद्धिरिति देहिनाम् ।। ३५ ।।

यदि ते नास्ति भोगश्च कथं गन्धर्वजन्म च ।कथं दासीसुतस्त्वं च मुक्तश्च भक्तसङ्गतः ।। ३६ ।।

निर्गच्छ तपसे भ्रातस्त्यज मयामयीं प्रियाम् ।
सुपुण्ये भारते वर्षे तपसा भज माधवम् ।। ३७ ।।

स्थिते नारायणे स्वेशे परे स्वपददातरि ।
विषयी विषयान्धश्च वञ्चितो मायया ध्रुवम् ।। ३८ ।।

गृहाण मम मन्त्रं च कृष्ण इत्यक्षरद्वयम् ।
सर्वेषामेव सन्त्राणां सारात्सारं परात्परम् ।। ३९ ।।

सर्वेषु च पुराणेषु वेदेषु च चतुर्षु च ।
धर्मशास्त्रैषु तन्त्रैषु नास्त्येवास्मात्परो मनुः ।। ४० ।।

नारायणेन दत्तो मे पुष्करे सूर्यपर्वणि ।
असंख्यकल्प जप्त्वाऽहं भ्रमामि सर्वपूजितः ।। ४१ ।।

इत्युक्त्वा स्नापयित्वा तं ददौ दस्मै परं मनुम् ।
दिवानिशं स जपति पूतया मणिमालया ।। ४२ ।।

तस्मै शुभाशिषं दत्त्वा मन्त्रं च वैष्णवाग्रणीः ।
गोलोकं प्रययौ द्रष्टुं भगवन्तं सनातनम् ।। ४३ ।।

नारदस्तु मनु प्राप्य सर्वसिद्धिप्रदं वरम् ।
श्रीकृष्णे निश्चलां भक्तिं पूर्वकर्मनिकृन्तनीम् ।। ४४ ।।

त्यक्त्वा मायामयीं भार्यां भारतं तपसे ययौ ।
कृतमालानदीतीरे ददर्श शंकरं परम् ।। ४५ ।।

दृष्ट्वा च सहसा मूर्ध्ना प्रणनाम शिवं मुनिः ।
तमुवाच जगन्नाथो भक्तं च भक्तवत्सलः ।। ४६ ।।

महादेव उवाच
अहो नारद दृष्ट्वा त्वां प्रसन्नोऽहं स्वतेजसा ।
भक्तानां दर्शनं यत्र सुदिनं तच्छरीरिणाम् ।। ४७ ।।

अयं हि परमो लाभो देहिनां बक्तसंगमः ।
स स्नातः सर्वतीर्थेषु यो ददर्श च वैष्णवाम् ।। ४८ ।।

अपि प्राप्तो महामन्त्रः सर्वतन्त्रसुदुर्लभः ।
मया दत्तो गणेशाय स्कन्दाय स्वात्मजाय च ।। ४९ ।।

मह्यं दत्तश्च कृष्णेन गोलोके रासमण्डले ।
ब्रह्मणे चापि धर्माय धर्मो नारायणाय च ।। ५० ।।

ब्रह्मा सनत्कुमाराय तुम्यं दत्तश्च तेन वै ।
मन्त्रग्रहणमात्रेण जनो नारायणो भवेत् ।। ५१ ।।

विचारणं च नास्त्यत्र कालाकालं शुभाशुभम् ।
पञ्चलक्षजपेनैव पुरश्चरणमस्य च ।। ५२ ।।

ध्यानं च सामवेदोक्तं तेन ध्यायेच्च वैष्णवः ।
ध्यानं च पापदहनं कर्ममूलनिकृन्तनम् ।। ५३ ।।

कृष्णं नवघनश्यामं किशोरं पीतवाससम् ।
शतकोटीन्दुसौन्दर्यं दधानमतुलं परम् ।। ५४ ।।

भूषितं भूषणौघैस्तैरमूल्यरत्ननिर्मितैः ।
चन्दनोक्षितसर्वाङ्गं कौस्तुभेन विराजितम् ।। ५५ ।।

मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।
ईषद्धास्यप्रसन्नास्यं नित्योपास्यं शिवादिभिः ।। ५६ ।।

ध्यानासाध्यं दुराराध्यं निर्गुणं प्रकृतेः परम् ।
सर्वेषां परमात्मानं भक्तानुग्रहविग्रहम् ।। ५७ ।।

वेदानिर्वचनीयं त वरं सर्वेश्वरं भजे ।
ध्यानेनानेन तं ध्यात्वा भगवन्तं सनातनम् ।। ५८ ।।

भज तं परमानन्दं सत्यं नित्यं परात्परम् ।
इत्युक्त्वा स्वपदं शंभूर्जगाम् परमेश्वरः ।। ५९ ।।

तं प्रणम्य जगन्नाथं नारदस्तपसे ययौ ।
नारदः श्रीहरिं स्मृत्वा योगात्त्यक्त्वा कलेवरम्
निलीनः पादपद्मे च पाद (पद्मा) पद्मार्चिते हरेः ।। ६० ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo नारदविवाहादिप्रकरणं
नाम त्रिंशदधिकशततमोऽध्यायः ।। १३० ।।