दीपदानविधिवर्णनम्


।। युधिष्ठिर उवाच ।। ।।
भगवन्केन तपसा व्रतेन नियमेन वा ।।
दानेन केन वा लोके प्रोज्ज्वल्त्वं प्रजायते ।। १ ।।
अतितेजो महद्दीप्तं दीप्तांशुकिरणोज्ज्वलम् ।।
शरीरं जायते येन तन्मे वक्तुमथार्हसि ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
मथुरायां पुरा पार्थ पिङ्गलो नाम तापसः ।।
आगतः स च मे पत्न्या जाम्बवत्या प्रपूजितः ।। ३ ।।
प्रष्टश्च प्रश्रमेवैतं स चावोचद्यथातथम् ।।
तयापि मे समाख्यातं तत्सर्वं ते वदाम्यहम् ।। ४ ।।
यदायदा नृपश्रेष्ठ पुण्यकालः प्रपद्यते ।।
संक्रातौ सूर्यग्रहणे चन्द्रपर्वणि वैधृतौ ।। ५ ।।
उत्तरे त्वयने प्राप्ते दक्षिणे विषुवे तथा ।।
एकादश्यां शुक्लपक्षे चतुर्दश्यां दिनक्षये ।। ६ ।।
सप्तम्यामथ वाष्टम्यां स्नात्वा व्रतपरो नरः ।।
नारी वा भूमिदेवेभ्यः प्रयच्छेत्प्रयतांगणे ।।
घृतकुंभेन दीपेन प्रज्वलंतं प्रदीपकम् ।। ७ ।।
।। युधिष्टिर् उवाच ।। ।।
भूमिदेवा इति प्रोक्तं यत्त्वया मधुसूदन ।।
किमेतत्कौतुकं मेऽस्ति संशयं छेत्तुमर्हसि ।। ८ ।।
।। श्रीकृष्ण उवाच ।। ।।
पुरा कृतयुगस्यादौ त्रिशंकुर्नाम पार्थिवः ।।
स स्वर्गं गन्तुकामोऽभूच्छरीरेण नरोत्तम ।।
ततश्चण्डालतां नीतो वशिष्ठेन महात्मना ।। ९ ।।
त्रिशंकुः सर्वमाचख्यौ विश्वामित्राय धीमते ।।
सोऽपि मन्युवशाद्यज्ञं चकाराहूय देवताः ।। 4.130.१० ।।
न ता हविः प्रत्यगृह्णंस्ततः क्रुद्धः कुशात्मजः ।।
विश्वामित्रस्तु कोपेन चकारान्यान्सुरोत्तमान् ।। ११ ।।
शृंगाटका न्नालिकेरान्पचनानानजौडकान् ।।
मेधारथदवार्ताकतारिकूष्मण्डकोद्रवान्।। १२ ।।
उष्ट्रान्मनुजदेवांश्च क्रोधान्मुनिरवासृजत् ।।
चकारान्यान्सप्त ऋषीन्प्रतिमासं सुरोत्तमान् ।। १३ ।।
ततः शक्रः समागम्य विश्वामित्रं प्रसाद्य वै ।।
सृष्टिं निवारयामास ये सृष्टास्ते तथापि च ।। १४ ।।
मर्त्य लोके च ते सर्वे देवा देवकुलेष्वथ ।।
मंत्रैर्निबद्धाः पिण्डीषु स्थिता मूर्तिभृतो यथा ।।१५।।
ब्रह्मा विष्णुस्तथा रुद्रो ये चान्ये देवतागणाः ।।
लोकानामुपकाराय मर्त्यलोकमुपागताः ।। १६ ।।
प्रतिमासु स्थिताः शश्वद्भोगान्भुञ्जति शाश्वतान् ।।
वरप्रदाश्च भक्तानामिति ते गुह्यमीरितम् ।। १७ ।।।
तेभ्यः पुरस्ताद्दातव्यो दीप्यमानः प्रदीपकः ।।
सूर्याय रक्तवस्त्रेण पूर्णवर्तिं घृतैर्युताम् ।।
चतुःप्रस्थैः प्रज्वलन्तीं मंत्रेणानेन दापयेत् ।। १८ ।।
तद्वि ष्णोः परमं पदं सदा पश्यंति सूरयः ।।
दिवीव चक्षुराततम् ।। १९ ।।
पीतवस्त्रेण कृष्णाय श्वेतवस्त्रेण शूलिने ।।
कौसुंभवस्त्रेणाढ्येन गौरीमुद्दिश्य दापयेत् ।।4.130.२० ।। वर्ति
लाक्षारक्तेन दुर्गायै पूर्णवर्ति प्रबोधयेत् ।।
नीलवस्त्रेण कामाय गणनाथाय खादिरैः ।।२१।।
नागेभ्यः कृष्णवस्त्रेण ग्रहेभ्य इषिका युधाम् ।।
देवांगना पितृभ्यस्तु पितृवर्तिं प्रबोधयेत् ।।२२।।
विशेषं शृणु सूर्याय पूर्णवर्तिर्निगद्यते ।।
शिवायेश्वरवर्तीति भोगवर्तिर्जनार्दने ।। २३ ।।
पद्मवर्तिर्विरिंचाय गौर्य्यै सौभाग्यवर्तिका ।।
नागेभ्यो नागवर्तीति ग्रहवर्तिर्युधिष्ठिर ।। २४ ।।
नेत्रपट्टेन मधुना घृतेन मधुकुंडके ।।
अर्चिते चर्चिते चैव ललितायै प्रबोधयेत् ।। २५ ।।
मंत्रेणानेन राजेन्द्र तन्निशामय वैदिकम् ।। २६ ।।
अग्रे त्वां काम्यया गिरा तुभ्यं ता गिरसस्तु विश्वाः ।।
सुक्षितयः पृथक्पृथक् ।। २७ ।।
अग्ने कामाय जेगिरे अग्निप्रियेषु धामसु ।।
कामो भूतस्य भव्यस्य सम्राडेको विराजति ताभ्यां नाम स्वाहा ।। ।। २८ ।।
एवमेतेन विधिना यः प्रयच्छति दीपकम् ।।
विस्तीर्णे विपुले पात्रे घृतकुम्भे नियोजितम् ।। २९ ।।
यांति ते ब्रह्मसदनं विमानेनार्कव र्चसा ।।
तिष्ठंति द्योतमानास्ते यावदाभूतसंप्लवम् ।। 4.130.३० ।।
सदीपे तु यथा देशे चक्षूंषि बलवन्ति हि ।।
तथा दीपस्य दातारो भवंति सफलेक्षणाः।। ।। ३१ ।।
यथैवोर्ध्वं गतिर्नित्यं राजन्दीपशिखासु वै ।।
दीपदातुस्तथैवोर्ध्वं गतिर्भवति शोभना ।। ३२ ।।
घृतेन दीपो दातव्यो राजंस्तैलेन वा पुनः ।।
वसामज्जादिभिर्देयो न तु दीपः कथञ्चन ।। ३३ ।।
दीपस्तैलेन कर्तव्यो न तु कर्म विजानता ।।
निर्वापणं च दीपस्य हिंसनं च विगर्हितम् ।। ३४ ।।
यः कुर्यात्कर्मणा तेन स्यादसौ पुष्पितेक्षणः ।।
दीपहर्ता भवत्यंधः काणो निर्वापको भवेत् ।। ३५ ।।
पद्मसूत्रोद्भवां वर्तिं गंधतैलेन दीपिताम् ।।
विरोगः सुभगश्चैव दत्त्वा भवति मानवः ।। ३६ ।।
प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् ।।
अश्वमेधमवाप्नोति कुलं चैव समुद्ध रेत्।। ३७ ।।
एतन्मयोक्तं तव दीपदानफलं समग्रं कुरुवंशचन्द्र ।।
श्रुत्वा यथावत्सततं हि देया दीपास्त्वया विप्रसुरालयेषु ।। ३८ ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।
दीपदानाल्ललितया यदवाप्तं पुराऽनघ ।। ३९ ।।
आसीच्चित्ररथोनाम विदर्भेषु महीपतिः ।।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ।। 4.130.४० ।।
एकैव कन्या तस्यासील्ललिता नाम नामतः ।।
सर्वलक्षणसम्पन्ना रूपेणाप्रतिमा भुवि ।। ४१ ।।
तां ददौ काशिराजाय चार्वंगीं चारुधर्मणे ।।
शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुधर्मणः ।। ४२ ।।
तासां मध्येऽग्रमहिषी ललिता साप्यथाभवत् ।। ४३ ।।
विष्णोरायतने सा तु सहस्रं परिदीपकान् ।।
प्रज्वालयन्त्यनुदिनं दिवारात्रमनिर्वृतम्।। ४४ ।।
तामिस्रमाश्वयुक्पक्षं शुक्लपक्षं च कार्त्तिकम् ।।
तस्याः प्रज्वलितो दीप उच्चस्थानकृतः शुभः ।। ४५ ।।
तस्मिन्काले तथा नित्यं ब्राह्मणावसथे च सा ।।
व्यग्रा भवति सायाह्ने दीपप्रेषणतत्परा ।। ४६ ।।
चतुष्पथेषु रथ्यासु देवतायतनेषु च ।।
चैत्यवृक्षेषु गोष्ठेषु पर्वतानां च मूर्द्धसु ।। ४७ ।।
पुलिनेषु नदीनां च कूपमूलेषु पांडव ।।
तां सपत्न्योऽथ संगम्य पप्रच्छुरिदमादृताः ।। ४८।।
ललिते वद भद्रं ते ललितं वचनं तथा ।।
न तथा बलिपुष्पेषु न तथा द्विजपूजने ।। ४९ ।।
भवत्याः सुमहान्यत्नो दीपप्रज्वालने यथा ।।
तदेतत्कथयास्माकं ललिते कौतुकं परम् ।। 4.130.५० ।।
मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम्।।
।। ललितोवाच ।। ।।
नाहं मत्सरिणी भद्रा न च रागादिदूषिता ।। ५१ ।।
एकपत्याश्रिताः साध्व्यो भवत्यो मम मानदाः ।।
अपृथग्धर्मचरणाः शृण्वन्तु गदितं मम ।। ५२ ।।
मयैतद्दीपदानस्य यथेष्टं भुज्यते फलम् ।।
हिरण्यदयिता भार्या शैलराजसुता वरा ।। ५३ ।।
उमादेवीति मद्रेषु देविका सा सरिद्वरा ।।
नराणामनुकम्पार्थं ब्रह्मणा ह्यवतारिता ।।
श्रुता किं भवतीभिः सा देविका पापनाशिनी ।। ५४ ।।
तस्यां स्नात्वा सकृन्नद्यां गाणपत्यमवाप्नुयात्।।
तस्यामथ नृसिंहाख्यं तीर्थं कल्मषनाशनम् ।।
हरिणा नृसिंहवपुषा यत्र स्नानं कृतं पुरा ।। ५५।।
सौवीरराजस्य पुरा मैत्रेयोभूत्पुरोहितः ।।
तेन चायतनं विष्णोः कारितं देविकातटे ।। ५६ ।।
अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः ।।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ।। ५७ ।।
कार्त्तिक्यां दीपकस्तत्र प्रदत्तस्तेन चैकदा ।।
आसीन्निर्वाणभूयिष्ठो देवार्चासु रतो निशि ।। ५८ ।।
देवतायतनेऽवात्सं तत्राहमपि मूषिका ।।
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः ।। ५९ ।।
गृहीताथ मया वर्तिर्वृकदंशो ररास च ।।
नष्टा चाहं ततस्तस्य मार्जारस्य भयातुरा ।। 4.130.६० ।।
वक्त्रप्रांतेन पश्यंत्या स दीपः प्रेरितो मया ।।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः ।। ६१ ।।
मृताहं च पुनर्जाता वैदर्भे राजकन्यका ।।
जातिस्मरा महीपस्य महिषी चारुधर्मणः ।। ६२ ।।
एष प्रभावो दीपस्य कार्त्तिके मासि शोभनः ।।
दत्तस्यायतने विष्णो र्यस्येयं व्युष्टिरुत्तमा ।। ६३ ।।
असंकल्पितमध्यस्य प्रेरणं यन्मया कृतम् ।।
केशवे बालदीपस्य तस्येदं भुज्यते फलम् ।। ६४ ।।
एतस्मात्कार णाद्दीपानहमेतानहर्निशम् ।।
प्रयच्छामि हरेर्गेहे जातमस्य महाफलम् ।। ६५।।
एवमुक्त्वा सपत्नीः सा दीपदानपरायणा ।।
बभूव देवदेवस्य केशव स्य गृहे सदा ।। ६६ ।।
ततः कालेन महता सह राज्ञा महात्मना ।।
विष्णुलोकमनुप्राप्ता पंचत्वं प्राय मानदा ।। ६७ ।।
तं लोकमासाद्य नृपेण सार्द्धं सा राजपत्नी कमलाभनेत्रा ।।
रेमे महीपालमुदा समेता दीपप्रदानात्सकलार्तिहीना ।। ६८ ।।
दीपप्रदानमपि पुण्यतरं वदंति विप्राग्निगोसुरकुलैकगृहांगणेषु ।।
तद्दानदीप्तवपुषाथ पथोंधकारे गच्छन्नरः पतति न स्खलते कदाचित् ।। ६९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दीपदानविधिवर्णनं नाम त्रिंशदुत्तरशततमोऽध्यायः ।। १३० ।।