ऋग्वेदः सूक्तं ८.११
← सूक्तं ८.१० | ऋग्वेदः - मण्डल ८ सूक्तं ८.११ वत्सः काण्वः। |
सूक्तं ८.१२ → |
दे. अग्निः । गायत्री, १ प्रतिष्ठा, २ वर्धमाना, १० त्रिष्टुप् । |
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
त्वं यज्ञेष्वीड्यः ॥१॥
त्वमसि प्रशस्यो विदथेषु सहन्त्य ।
अग्ने रथीरध्वराणाम् ॥२॥
स त्वमस्मदप द्विषो युयोधि जातवेदः ।
अदेवीरग्ने अरातीः ॥३॥
अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः ।
नोप वेषि जातवेदः ॥४॥
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
विप्रासो जातवेदसः ॥५॥
विप्रं विप्रासोऽवसे देवं मर्तास ऊतये ।
अग्निं गीर्भिर्हवामहे ॥६॥
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
अग्ने त्वांकामया गिरा ॥७॥
पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥८॥
समत्स्वग्निमवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसम् ॥९॥
प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥१०॥
सायणभाष्यम्
‘ त्वमग्ने ' इति दशर्चं षष्ठं सूक्तं कण्वगोत्रस्य वत्सस्यार्षमाग्नेयम् । आद्या प्रतिष्ठागायत्री अष्टकसप्तकषट्कोपेतत्वात् । द्वितीया वर्धमाना षट्कसप्तकाष्टकोपेतत्वात् । तथा चोक्तं-’ षट्कसप्तकाष्टकैर्वर्धमाना विपरीता प्रतिष्ठा ' (पि. सू. ३. १४-१५) इति। दशमी त्रिष्टुप् शिष्टा गायत्र्यः। तथा चानुक्रान्तं-- त्वमग्ने दश वत्स आग्नेये गायत्रेऽन्त्या त्रिष्टुबाद्या प्रतिष्ठोपाद्या वर्धमाना ' इति । प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चोत्तमावर्जमेतत्सूक्तम् । सूत्र्यते हि- त्वमग्ने व्रतपा इत्युत्तमामुद्धरेत् ' ( आश्व. श्रौ. ४. १३ ) इति । व्रातपत्यामाद्यानुवाक्या। सूत्रितं च--- ‘ त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि ' ( आश्व. श्रौ. ३. १३ ) इति ।
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।
त्वं य॒ज्ञेष्वीड्यः॑ ॥१
त्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ ।
त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥१
त्वम् । अग्ने । व्रतऽपाः । असि । देवः । आ । मर्त्येषु । आ ।
त्वम् । यज्ञेषु । ईड्यः ॥१
हे “अग्ने “देवः द्योतमानः “त्वं “मर्त्येष्वा मनुष्येषु च देवेषु च मध्ये "व्रतपाः “असि । व्रतानां कर्मणां रक्षिता भवसि । अतः कारणात् "यज्ञेषु “त्वम् "ईड्यः स्तुत्योऽसि ॥
त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहंत्य ।
अग्ने॑ र॒थीर॑ध्व॒राणां॑ ॥२
त्वम् । अ॒सि॒ । प्र॒ऽशस्यः॑ । वि॒दथे॑षु । स॒ह॒न्त्य॒ ।
अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ॥२
त्वम् । असि । प्रऽशस्यः । विदथेषु । सहन्त्य ।
अग्ने । रथीः । अध्वराणाम् ॥२
हे “सहन्त्य शत्रूणामभिभवितः “अग्ने “विदथेषु यज्ञेषु “त्वं प्रशस्यः स्तुत्यः “असि । “अध्वराणां यागानां “रथीः नेता च भवसि ॥
स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।
अदे॑वीरग्ने॒ अरा॑तीः ॥३
सः । त्वम् । अ॒स्मत् । अप॑ । द्विषः॑ । यु॒यो॒धि । जा॒त॒ऽवे॒दः॒ ।
अदे॑वीः । अ॒ग्ने॒ । अरा॑तीः ॥३
सः । त्वम् । अस्मत् । अप । द्विषः । युयोधि । जातऽवेदः ।
अदेवीः । अग्ने । अरातीः ॥३
हे “जातवेदः जातानां वेदितः “अग्ने “सः पूर्वोक्तगुणः “त्वम् “अस्मत् अस्मत्तः “द्विषः द्वेष्टॄञ्छत्रून् “अप “युयोधि पृथक्कुरु । “अदेवीः आसुरीः "अरातीः शत्रुसेनाश्च पृथक्कुरु ॥
अंति॑ चि॒त्संत॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।
नोप॑ वेषि जातवेदः ॥४
अन्ति॑ । चि॒त् । सन्त॑म् । अह॑ । य॒ज्ञम् । मर्त॑स्य । रि॒पोः ।
न । उप॑ । वे॒षि॒ । जा॒त॒ऽवे॒दः॒ ॥४
अन्ति । चित् । सन्तम् । अह । यज्ञम् । मर्तस्य । रिपोः ।
न । उप । वेषि । जातऽवेदः ॥४
हे "जातवेदः “अन्ति “चित् अन्तिकेऽपि “सन्तं भवन्तं समीपे विद्यमानमपि “रिपोः अस्मच्छत्रोः “मर्तस्य मनुष्यस्य “यज्ञं “नोप "वेषि । अहशब्दोऽवधारणे । नैव कामयसे ।
मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।
विप्रा॑सो जा॒तवे॑दसः ॥५
मर्ताः॑ । अम॑र्त्यस्य । ते॒ । भूरि॑ । नाम॑ । म॒ना॒म॒हे॒ ।
विप्रा॑सः । जा॒तऽवे॑दसः ॥५
मर्ताः । अमर्त्यस्य । ते । भूरि । नाम । मनामहे ।
विप्रासः । जातऽवेदसः ॥५
“मर्ताः मनुष्याः “विप्रासः मेधाविनो वयं हे अग्ने “जातवेदसः जातानां वेदितुः “अमर्त्यस्य मरणरहितस्य देवस्य “भूरि विस्तृतं "नाम स्तोत्रं “मनामहे जानीमः । कुर्म इति यावत् ॥ ॥ ३५ ॥
विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।
अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥६
विप्र॑म् । विप्रा॑सः । अव॑से । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥६
विप्रम् । विप्रासः । अवसे । देवम् । मर्तासः । ऊतये ।
अग्निम् । गीःऽभिः । हवामहे ॥६
“विप्रासः मेधाविनः “मर्तासः मर्ता मनुष्या वयं “विप्रं मेधाविनं “देवं दानादिगुणयुक्तम् “अग्निम् “अवसे हविर्भिस्तर्पयितुम् “ऊतये अस्माकं रक्षणार्थं च “गीर्भिः स्तुतिभिः "हवामहे आह्वयामहे ।। ।
आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।
अग्ने॒ त्वांका॑मया गि॒रा ॥७
आ । ते॒ । व॒त्सः । मनः॑ । य॒म॒त् । प॒र॒मात् । चि॒त् । स॒धऽस्था॑त् ।
अग्ने॑ । त्वाम्ऽका॑मया । गि॒रा ॥७
आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधऽस्थात् ।
अग्ने । त्वाम्ऽकामया । गिरा ॥७
हे “अग्ने “वत्सः ऋषिः "ते तव "मनः “परमाच्चित् उत्कृष्टादपि “सधस्थात् सहस्थानात् द्युलोकात् "आ “यमत् आयमयति । केन साधनेन । “त्वांकामया त्वामभिलषन्त्या "गिरा स्तुत्या ॥
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥८
पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।
स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥८
पुरुऽत्रा । हि । सऽदृङ् । असि । विशः । विश्वाः । अनु । प्रऽभुः ।
समत्ऽसु । त्वा । हवामहे ॥८
हे अग्ने “पुरुत्रा “हि बहुषु देशेषु त्वं “सदृङ्ङसि समानं द्रष्टा भवसि । अत एव “विश्वाः सर्वाः "विशः प्रजा अनुलक्ष्य “प्रभुः ईश्वरो भवसि । ईदृशं त्वां “समत्सु संग्रामेषु रक्षणार्थं हवामहे आह्वयामहे ॥
स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।
वाजे॑षु चि॒त्ररा॑धसं ॥९
स॒मत्ऽसु॑ । अ॒ग्निम् । अव॑से । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ।
वाजे॑षु । चि॒त्रऽरा॑धसम् ॥९
समत्ऽसु । अग्निम् । अवसे । वाजऽयन्तः । हवामहे ।
वाजेषु । चित्रऽराधसम् ॥९
“समत्सु सहमदनेषु संग्रामेषु "वाजयन्तः बलमिच्छन्तो वयम् “अवसे रक्षणार्थम् “अग्नि हवामहे । कीदृशम् । “वाजेषु संग्रामेषु "चित्रराधसं चायनीयधनम् ॥
प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥१०
प्र॒त्नः । हि । क॒म् । ईड्यः॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्यः॑ । च॒ । सत्सि॑ ।
स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व॑म् । पि॒प्रय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥१०
प्रत्नः । हि । कम् । ईड्यः । अध्वरेषु । सनात् । च । होता । नव्यः । च । सत्सि ।
स्वाम् । च । अग्ने । तन्वम् । पिप्रयस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥१०
हे अग्ने “अध्वरेषु यज्ञेषु “ईड्यः स्तुत्यस्त्वं “प्रत्नो “हि चिरंतनः खलु भवसि। “कम् इति पूरकः । तथा “सनात् चिरकालादारभ्य “होता देवानामाह्वाता “च सन् “नव्यः स्तुत्यः “च सन् “सत्सि यज्ञेषु निषीदसि । हे “अग्ने देवानां हविर्वहंस्त्वं “स्वां “च “तन्वम् आत्मीयं च शरीर “पिप्रयस्व त्वदीयेन हविर्भागेन तर्पय । “अस्मभ्यं स्तोतृभ्यश्च “सौभगं सुभगत्वं “च “आ “यजस्व प्रदेहि । सुभगशब्दाद्भावार्थे ‘सुभगान्मन्त्रे' इति उद्गात्रादिषु पाठात् अञ्प्रत्ययः ॥ ॥ ३६ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टकेऽष्टमोऽध्यायः समाप्तः ॥
टिप्पणी
८.११.७ आ ते वत्सो मनो यमत् इति
आ ते वत्सो मनो यमदाग्निरगामीति स्तोत्रियानुरूपौ प्रथमे छन्दोमे शांश्रौसू १२.११.१६
मण्डल ८ | ||||||
---|---|---|---|---|---|---|