भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५३
← अध्यायः ०५२ | भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व) अध्यायः ०५३ अज्ञातलेखकः |
अध्यायः ०५४ → |
सूर्यवर्णनम्
ब्रह्मोवाच
तत्रारुणो मया पूर्वं सारथ्ये सन्नियोजितः ।
इन्द्रेण माठरो नाम वायुना कल्मषेण तु । । १
वैनतेयेन तार्क्ष्योपरि विमलो नखतुण्डप्रहरणः पुरोगामी नियुक्त इति । ।
कालेन दण्डो महादण्डायुधो भवता शेषा महागणाधिपः । । २
वैशाखेन राज्ञा वसुभिदायुधाङ्गारिकौ द्वौ अग्निना पिङ्गलः ।
संयन्ता महादण्डायुधो भवता शेषो महागणाधिपः । । ३
हस्तो यमेन पाशहस्तोम्बुपतिना समिन्धनः ।
अलकाधिपतिना विष्णुः । । ४
अश्विभ्यां कालोपकालौ वाक्षप्रधानकौ ।
नरनारायणाभ्यां क्षारौ धारौ धिषणकृष्णौ।। ५
वैराजशङ्खपालपर्जन्यरजसां दिशासु विदिशासु दिशां पालनं विश्वेदेवा ददुः । । ६
सप्तैता लोकमातरः सर्वमरुतोऽददन् ।
ओंकारो वषट्कारो वेदनिस्वनः पिनाकी विनायकः शेषोऽनन्तो वासुकिश्च नागसहस्रेणात्मतुल्येनादित्यस्य रथमनुयान्ति १ । । ७
गायत्री सावित्री रथे स्थिते उभे सन्ध्ये सदा सा देवता या रविमण्डलं नापैति२ ।
भगवन्तं सहस्रकिरणमवलम्बितुम् । । ८
एतद्वै सर्वदैवत्यं मण्डलं ब्रह्मवादिनं ब्रह्मयज्ञवादिनीं यज्ञः ।
भगवद्भक्तानां परमादित्योयं विष्णुर्माहेश्वराणाम् । । ९
स्थानाभिमानिनो ह्येते सदा वै वृषभध्वज ।
सूर्यमाप्याययन्त्येते तेजसां तेज उत्तमम् । । 1.53.१०
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ते ऋषयो रविम् ।
गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते । । ११
वियद्भ्रमणतो रक्षां कुर्वंति स्म इषुग्रहम् ।
सर्पा वहन्ति वै सूर्यं यातुधानास्तु यान्ति च । । १२
वालखिल्या १नमन्त्येतं परिचार्योदयाद्रविम् ।
दिवस्पतिः स्वभूश्चोभौ अग्रगौ योजनस्य तु । । १३
भर्गोऽथ दक्षिणे पार्श्वे कञ्जजो वामतः स्थितः ।
सर्वे ते पृष्ठगा ज्ञेया ग्रहा लोकेषु पूजिताः. । । १४
उपरागशिखी चोभावग्रतो नात्र संशयः ।
मनुष्यधर्मा दक्षिणत उत्तरेण प्रचेतसः । । १५
सम्भवन्ति तथा कृष्ण उभावेतौ सदाग्रगौ ।
वामेन वीतिहोत्रस्तु पृष्ठतस्तु हरिः सदा । । १६
रथपीठे क्षमा ज्ञेया अन्तराले नभस्तथा ।
आश्रित्य रथजां कान्तिं खं दिवः समयः स्थितः । । १७
ध्वजो दण्डश्च विज्ञेयो ध्वजाग्रे वृष एव च ।
ऋद्धिर्वृद्धिस्तथा श्रीश्च पताका पार्वतीप्रिय । । १८
ध्वजदण्डाग्रे गरुडस्तदग्रे वरुणालयः ।
मैनाकश्छत्रदण्डस्तु हिमवांश्छत्रमुच्यते । । १९
केचिदेवं वदन्तीह लोके चान्ये महामते ।
छत्रदण्डस्तथा क्लेशः क्लेशं छत्रं विदुर्बुधाः । । 1.53.२०
एतेषामेव देवानां यथा वीर्यं तथा तपः ।
यथायोगं तथा सत्त्वं यथा सत्त्वं तथा बलम् । । २१
तथा तपत्यसौ सूर्यस्तेषां सिद्धः स्वतेजसा ।
एते तपन्ति वर्षन्ति यान्ति विश्वं सृजन्ति च । । २२
भूतानामशुभं कर्म व्यपोहन्ति च कीर्तिताः ।
एते सहैव सूर्येण भ्रमन्ते सानुगा दिवि । । २३
तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै द्विजाः ।
गोपायन्ति स्म भूतानि इह ते ह्यनुकम्पया । । २४
प्रीणाति देवानमृतेन सूर्यः सोमेन सूक्तेन विवर्धयित्वा ।
शुक्लेन पूर्णा दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति । । २५
पीतं हि सोमं द्विकलावशेषं कृष्णे तु पक्षे रुचिभिर्ज्वलन्तम् ।
सुधामृतं तत्पितरः पिबन्ति ऊर्जाश्च सौम्याश्च तथैव कल्पाः । । २६
सूर्येण गोभिश्च समृद्धिताभिरद्भिः पुनश्चैव समुज्जिताभिः ।
तथौषधीभिः सततं पिबन्ति अत्यन्तपानेन क्षुधा जयन्ति । । २७
मासार्धतृप्तिस्तु मताभिरद्भिर्मासेन तृप्तिः स्वधया पितॄणाम् ।
अन्नेन शश्वद्विदधाति मर्त्यं त्वयं जगच्चैव बिभर्ति गोभिः । । २८
अहोरात्रं रथेनासावेकचक्रेण वै भ्रमन् ।
सप्तद्वीपसमुद्रान्तां सप्तभिश्च हयैः सह । । २९
छन्दोभिर्वाजिरूपैस्तैर्यतश्चक्रं ततः स्थितैः ।
कामरूपैः सकृद्युक्तैरन्तरस्थैर्मनोजवैः । । 1.53.३०
हरिभिरव्ययैर्वश्यै क्षुधाश्रमविवर्जितैः ।
द्व्यशीतिमण्डलशतमीहन्त्यब्देन वै हयाः । । ३१
बाह्यतोऽभ्यन्तरं चैव मण्डलं दिवसक्रमात् ।
कल्पादौ सम्प्रयुक्तास्ते वहन्त्याभूतसम्प्लवम् । । ३२
आवृता बालखिल्यैस्तैर्भ्रमन्ति तान्यहानि तु ।
ग्रथितैः स्वैर्वचोभिस्तु स्तूयमानो महर्षिभिः । । ३३
सेव्यते नृत्यगीतैश्च गन्धर्वैरप्सरोगणैः ।
पतङ्गः पतगैरश्वैर्वसते भ्रमयन्दिवि । । ३४
वीथ्याग्र्यया विचरते नक्षत्राणि यथा शशी ।
मध्यगाश्चामरावत्यां यदा भवति भास्करः । । ३५
वैवस्वते संयमने उत्तिष्ठन्दृश्यते तदा ।
सुखायामर्धरात्रं तु विभायामस्तमेति च । । ३६
वैवस्वते संयमने मध्यमस्तु रविर्यदा ।
सुखायामथ वारुण्यामुत्तिष्ठन्दृश्यते तदा । । ३७
रात्र्यर्धं चामरावत्यामस्तमेति यमस्य वै ।
सोमपुर्यां विभायां तु मध्यगश्चार्यमा यदा । । ३८
माहेन्द्रस्यामरावत्यामुत्तिष्ठति दिवाकरः ।
अर्धरात्रं संयमने वारुण्यामस्तमेति च । । ३९
एवं चतुर्षु पार्श्वेषु मेरोः कुर्वन्प्रदक्षिणम् ।
उदयास्तमने चासावुत्तिष्ठति पुनः पुनः । । 1.53.४०
पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ पुनः ।
तपत्येकं तु मध्याह्ने ताभिरेव गभस्तिभिः । । ४१
उदितो वर्धमानाभिरामध्याह्नात्तपेद्रविः ।
ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति । । ४२
यत्रोद्यन्दृश्यते सूर्यः स तेषामुदयः स्मृतः ।
प्रणाशं गच्छते यत्र स तेषामस्तमुच्यते । । ४३
एवं पुष्करमध्येन तदा सर्पति भास्करः ।
त्रिंशद्भागं तु मेदिन्या मुहूर्तेन स गच्छति । । ४४
योजनाग्रेण सङ्ख्यां १ तु मुहूर्तस्य निबोध मे ।
पूर्णं शतसहस्राशं सहस्रं तु त्रिलोचन । । ४५
पञ्चाशच्च तथाल्पानि सहस्राण्यधिकानि तु ।
मौहूर्तिको गतिर्ह्येषा सूर्यस्य तु विधीयते । । ४६
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।
निमेषान्तरमात्रेण दिवि सूर्यः प्रसर्पति । । ४७
स शीघ्रमेव पर्येति भास्करोऽलातचक्रवत् ।
भ्रमन्वै भ्रममाणेषु ऋक्षेषु विचरत्यसौ । । ४८
इन्द्रः पूजयते सूर्यमुत्तिष्ठन्तं दिने दिने ।
मध्याह्ने च यमः पश्चादस्तं यान्तमपां पतिः । । ४९
सोमस्तथार्धरात्रे तु सदा पूजयते रविम् ।
विष्णुर्भवानहं रुद्रः पूजयाम निशाक्षये । । 1.53.५०
एवमग्निर्निर्ऋतिश्च वायुरीशान एव च ।
पूजयन्ति क्रमेणैव भ्रममाणं दिवाकरम् । ।
श्रेयोऽर्थं देवशार्दूल सर्वे ब्रह्मादयः सुराः । । ५१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे सूर्यगतिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः । ५३ ।