भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५५
← अध्यायः ०५४ | भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व) अध्यायः ०५५ अज्ञातलेखकः |
अध्यायः ०५६ → |
सूर्यरथयात्रावर्णनम्
रुद्र उवाच
रथयात्रा कथं कार्या भास्करस्येह मानवैः ।
फलं च किं भवेत्तेषां यात्रां कुर्वन्ति ये रवेः १। । १
विधिना केन कर्तव्या कस्मिन्काले सुरोत्तम ।
कथं च भ्रामयेद्देवं रथारूढं२ दिवाकरम् । । २
देवस्य ये रथं भक्त्या भ्रामयन्ति वहन्ति च ।
तेषां च किं फलं प्रोक्तं ये च नृत्यकरा नराः । । ३
भ्रमन्ति ये न च देवेन नृत्यगीतपरायणाः ।
प्रजागरं च कुर्वन्ति भक्त्या श्रद्धासमन्विताः । । ४
तेषां च किं फलं प्रोक्तं. रथं यच्छन्ति ३ ये रवेः ।
बलिं भक्तं च ये भक्त्या दिशन्त्याहि(?)कभोजनम् । । ५
एतन्मे ब्रूहि निखिलं सुरज्येष्ठ सविस्तरम् ।
लोकानां श्रेयसे देव परं कौतूहलं हि मे । । ६
ब्रह्मोवाच
साधु पृष्टोऽस्मि भूतेश गणेशोऽसि त्रिलोचन ।
शृणुष्वैकमना वच्मि यथाप्रश्नं सविस्तरम् । । ७
देवस्य रथयात्रेयं भास्करस्य महात्मनः ।
इन्द्रोत्सवस्तथा रुद्र मया ह्येतौ प्रकीर्तितौ । । ८
मर्त्यलोके शान्तिहेतोर्लोकानां लोकपूजित ।
प्रवर्तितावुभौ यस्मिन्देशे देवमहोत्सवौ । । ९
न तत्रोपद्रवाः सन्ति राजतस्करसम्भवाः ।
तस्मात्कार्याविमौ भक्त्या दुर्भिक्षस्येह शान्तये । । 1.55.१०
शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदे हर ।
घृतेनाभ्यङ्गयेद्देवं पञ्चपूताङ्गजेन वै । । ११
अभ्यङ्गयेद्महेशं यः सर्षपैः श्रद्धयान्वितः ।
दिने दिने जगन्नाथं प्रविष्टं वर्णके रविम् । । १२
स गच्छेद्यानमारूढो गैरिकं किङ्किणीकृतम् ।
वैश्वानरपुरं दिव्यं गन्धर्वाप्सरशोभितम् । । १३
शाल्योदनं खण्डमिश्रं वज्रं वज्रसमन्वितम् ।
वर्णभक्तं प्रयच्छेद्यो भास्कराय दिने दिने । । १४
आरूढः स विमानं तु ज्वालामालाकुलं शुभम् ।
गच्छेन्मम पुरं देव स्तूयमानो महर्षिभिः । । १५
तस्मात्सर्वप्रयत्नेन भास्कराय नरः शिव ।
वर्णभक्तं प्रदातव्यं प्रविष्टस्येह वर्णकम् । । १६
घृतपूर्णं खण्डवेष्टं कासारं मोदकं पयः ।
दध्योदनं पायसं च संयावं गुडपूपकान् । । १७
ये प्रयच्छन्ति देवस्य भास्करस्येह वर्णकम् ।
ते गच्छन्ति न सन्देहो नरा वै मन्दिरं मम । । १८
अहन्यहनि यो भक्त्या भास्कराय प्रयच्छति ।
अभ्यङ्गाय घृतं देयं स याति परमां गतिम् । । १९
तथा यो वर्णभक्तं च अहन्यहनि भक्तितः ।
स प्राप्येह शुभान्कामान्गच्छेत्स भवसालयम् । । 1.55.२०
चूर्णमुद्वर्तनायेह यः प्रयच्छेच्छुभं रवेः ।
स याति परमं स्थानं यत्र देवो दिवाकरः । । २१
ततस्तं स्नापयेद्देवं पौषे मासि विधानतः ।
सप्तम्यां शुक्लपक्षस्य शृणुष्वैकमनास्तथा । । २२
तीर्थोदकमुपानीय अन्यद्वाथ जलं शुभम् ।
वेदोक्तेन विधानेन प्रतिमां स्थापयेद्बुधः । । २३
यजेद्धि तीर्थनामानि मनसा संस्मरन्बुधः ।
प्रयागं पुष्करं देवं कुरुक्षेत्रं च नैमिषम् । । २४
पृथूदकं चन्द्रभागां शौरं गोकर्णमेव च ।
ब्रह्मावर्तं कुशावर्तं बिल्वकं नीलपर्वतम् । । २५
गङ्गाद्वारं तथा पुण्यं गङ्गासागरमेव च।
कालप्रियं मित्रवनं शुण्डीरस्वामिनं तथा । । २६
चक्रतीर्थं तथा पुण्यं रामतीर्थं तथा शिवम् ।
वितस्ता हर्षपंथा वै तथा वै देविका स्मृता । । २७
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा सनर्मदा ।
विपाशा यमुना तापी शिवा वेत्रवती तथा । । २८
गोदावरी पयोष्णी च कृष्णा वेण्या तथा नदी ।
शतरुद्रा पुष्करिणी कौशिकी सरयूस्तथा । । २९
तथान्ये सागराश्चैव सान्निध्यं कल्पयन्तु वै ।
तथाश्रमाः पुण्यतमा दिव्यान्यायतनानि च । । 1.55.३०
एवं स्नानविधिं कृत्वा अर्चयित्वा प्रणम्य च ।
धूपमर्घ्यं प्रदत्त्वा तु प्रतिमामधिवासयेत् । । ३१
त्रिरात्रं सप्तरात्रं वा मासं मासार्धमेव च ।
स्थितं स्नानगृहे देवं पूजयेद्भक्तितो नरः । । ३२
चत्वरे लेपयेद्वेदिं चतुरस्रां शुभे कृताम् ।
चतुर्दिशं श्वेतकुम्भैर्वितानवरशोभिताम् । । ३३
कृष्णपक्षे तु माघस्य सप्तम्यां त्रिपुरांतक ।
कृत्वाग्निकार्यं विधिवत्कृत्वा ब्राह्मणभोजनम् । । ३४
शङ्खभेरीनिनादैस्तु ब्रह्मघोषैश्च पुष्कलैः ।
पुण्याहघोषविविधैर्ब्राह्मणान्स्वस्ति वाच्य च । । ३५
ततोऽस्य परया भक्त्या सूर्यस्य परमात्मनः ।
रथेन दर्शनीयेन किङ्किणीजालमालिना । ।
सूर्यश्च भ्रामयेद्देवं महोत्सवपुरःसरम् । । ३६
शुक्लपक्षे तु माघस्य रथमारोपयेद्रविम् ।
कृत्वाग्निहोमं विधिवत्तथा ब्राह्मणभोजनम् । । ३७
प्रीणयित्वा जनं सर्वं दक्षिणाभोजनादिना ।
प्रपूज्य ब्राह्मणान्दिव्यान्भौमांश्चापि सुवाचकान् । । ३८
इतिहासपुराणाभ्यां वाचको ब्राह्मणोत्तमः ।
ततो देवश्च इष्टश्च सम्पूज्यो यत्नतस्तदा । । ३९
माघस्य शुक्लपक्षस्य पञ्चम्यामेकभक्तकम् ।
अयाचितं चतुर्थ्यां तु षष्ठ्यां नक्तं प्रकीर्तितम् । । 1.55.४०
सप्तम्यामुपवासं तु आश्रमाद्रोपयेद्रथम् ।
अग्निकार्यं तु वै कृत्वा रथस्य पुरतः शिव । । ४१
षष्ठ्यां च रात्रौ भूतेश रथस्येहाधिवासनम् ।
ब्राह्मणान्भोजयित्वा तु दिव्यान्भौमांश्च वाचकान् । । ४२
रथमारोपयेद्देवं सप्तम्यां भूतभावनम् ।
सितायां माघमासे तु तस्य देवालयाग्रतः । । ४३
तत्रस्थस्यैव देवस्य कुर्याद्रात्रौ प्रजागरम् ।
नानाविधैः प्रेक्षणकैर्दीपवृक्षोपशोभितैः । ।४४
शंखतूर्यनिनादैश्च ब्रह्मघोषैश्च पुष्कलैः ।
कुर्यात्प्रजागरं भक्त्या देवस्य पुरतो निशि । ।४५
ततोऽष्टम्यां च यत्नेन देवं रथगतं नयेत् ।
नगरस्योत्तरं द्वारं शङ्खभेरी निनादितम् । । ४६
ततः पूर्वं दक्षिणं च द्वारं चापि तथा परम् ।
एवं हि क्रियमाणायां यात्रायां वत्सरावधौ । । ४७
मानवाः सुखमेधन्ते राजा जयति चाहितान् ।
नीरुजश्च जनाः सर्वे गवां शान्तिर्भवेत्तथा । ।४८
कर्तारभ्रापि यात्रायाः स्यर्गभागो भवन्ति हि ।
वोढारश्च तथा वत्स सूर्यलोकं यजन्ति वै । । ४९
रुद्र उवाच
कथं सञ्चाल्यते ब्रह्मन्स्थापिता प्रतिभा सकृत् ।
एतन्मे वद देवेश सुमहान्संशयो हि मे । । 1.55.५०
ब्रह्मोवाच
पूर्वमेव सहस्रांशोर्यानहेतोर्महात्मनः ।
संवत्सरस्यावयवैः १कल्पितोऽस्य रथो मया । । ५१
सर्वेषां तु रथानां वै स रथः प्रथमः स्मृतः ।
तं दृष्ट्वा तु ततस्त्वन्ये स्यन्दना विश्वकर्मणा । । ५२
कल्पिताः सर्वदेवानां सोमादीनामनेकशः ।
विश्वकर्मकृतं प्राप्य रथं देवेन पुत्रक । । ५३
पूजार्थमात्मनो दत्तं मनवे सत्कुलोद्वह ।
मनुनेक्ष्वाकवे दत्तं मर्त्यैः सम्पूज्यतां रविः । । ५४
अतस्तु रथयानेन १चालनं विहितं रवेः ।
तस्मान्न चालने दोषः सवितुश्चल एव सः । । ५५
यस्माद्रथेन पर्येति भास्करः पृथिवीमिमाम् ।
गच्छन्न दृश्यते चैतन्मण्डलं सवितुस्तथा । । ५६
अदृष्टं चलते यस्मात्तस्माद्वै पार्वतीप्रिय ।
तदेवं रथयात्रासु दृष्टं भानोर्मनीषिभिः । । ५७
अन्येषां चालनं नेष्टं देवानां पार्वतीप्रिय ।
ब्रह्मविष्णुशिवादीनां स्थापितानां विधानतः । । ५८
तस्माद्रथेन देवस्य यात्रा कार्या विधानतः ।
प्रजानामिह शान्त्यर्थं प्रतिसंवत्सरं सदा । । ५९
काञ्चनो वाथ रौप्यो वा दृढदारुमयोऽपि वा ।
दृढाक्षयुगचक्रश्च रथः कार्यः सुयन्त्रितः । । 1.55.६०
तस्मिन् रथवरे श्रेष्ठे कल्पिते सुमनोरमे ।
आरोप्य प्रतिमां यत्नाद्योजयेद्वाजिनः शुभान् । । ६१
हरिल्लक्षणसम्पन्नान्सुमुखान्वशवर्तिनः ।
कुङ्कुमेन समालब्धांश्चामरस्रग्विभूषितान् । । ६२
सदश्वान्योजयित्वा तु रथस्यार्घ्यं प्रदाय च ।
विबुधाम्पूजयित्या तु धूपमाल्यानुलेपनैः । । ६३
आहारैर्विविधैश्चापि भोजयित्वा द्विजोत्तमान् ।
दीनान्धकृपणादींश्च सर्वान्संतर्प्य शक्तितः२ । । ६४
न कञ्चिद्विमुखं कुर्यादुत्तमाधममध्यमम् ।
सूर्यक्रतौ तु वितते एवमाहुर्मनीषिणः । । ६५
यश्चिन्तयति भग्नाशः क्षुधावातप्रपीडितः ।
अदातुर्हि पितॄंस्तेन स्वर्गस्थानपि पातयेत् । । ६६
यज्ञश्च दक्षिणाहीनः सवितुर्न प्रशस्यते १ ।
तस्मान्नानाविधैः कामैर्भक्ष्यलेह्यसमन्वितैः । । ६७
पूजयित्वा जनं सर्वमिममुच्चारयेन्मनुम् ।
बलिं गृह्णन्तु मे देवा आदित्या वसवस्तथा । । ६८
मरुतोथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।
असुरा यातुधानाश्च२ रथस्था यास्तु देवताः । । ६९
दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ।
जगतः स्वस्ति कुर्वंतु ये च दिव्या महर्षयः । । 1.55.७०
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः ।
सौम्या भवन्तु तृप्ताश्च देवा भूतगणास्तथा । । ७१
वामदेव्यैः पवित्रैश्च मानस्तोकरथन्तरैः ।
आकृष्णेन रजसा ऋचमेकामुदाहरेत् । । ७२
ततः पुण्याहशब्देन कृतवादित्रनिःस्वनैः ।
रथक्रमणकं कुर्याद्वर्त्मना सुसमेन तु । ।
पुरुषैश्चापि वोढव्यः सूर्यभक्तिसमन्वितैः । । ७३
सुकृतैः च ३प्रग्रहैर्दान्तैर्बलीवर्द्दैरथापि वा ।
यथा पर्यटनं च स्याद्विषमे पथि गच्छतः । । ७४
उपवासस्थितैर्विप्रैर्दिव्यैर्भौमैश्च सुव्रतैः ।
त्रिंशद्भिः षोडशैर्वापि प्रतिमां भास्करस्य तु । । ७५
स्थानात्प्रचाल्यं वै रुद्र रथमारोपयेच्छनैः ।
राज्ञी च निक्षुभा रुद्र भार्ये तस्य महात्मनः । । ७६
शनैरारोपयेद्रुद्र उभयोः पार्श्वयो रथे ।
निक्षुभां दक्षिणे पार्श्वे राज्ञीं चाप्युत्तरे तथा । ७७
द्वावेव ब्राह्मणौ तस्मिन्दिव्यो भौमश्च पार्श्वयोः ।
ब्रह्मकल्पस्तथा भौमः कूबरस्योपरि स्थितः । ७८
गरुडं पृष्ठतश्चास्य वल्गमानं प्रकल्पयेत् ।
आतपत्रं तथा श्वेतं स्वर्णदण्डमनौपमम् । । ७९
सुवर्णबिन्दुभिश्चित्रं मणिमुक्ताफलोज्ज्वलम् ।
ततस्त्विन्द्रधनुःप्रख्यं स्वर्णदण्डमथाव्रणम् । । 1.55.८०
ध्वजं प्रकल्पयेत्तस्य पताकाभिरलङ्कृतम् ।
भूतेशनानावर्णाभिस्सप्तभिः कामनाशनः । । ८१
ध्वजोपरिचरं१ व्योम अरुणाधिष्ठितं भवेत् ।
रथतुण्डगतान्विप्रान्नयेद्रथवरं रवेः । । ८२
सारथ्यं रुद्र कुर्याद्वै श्रेयोऽर्थमात्मनः सदा ।
नारुहेत रथेऽश्रद्धो यदीच्छेच्छ्रेय आत्मनः । । ८३
रथमारोहतस्तस्य क्षयं गच्छति सन्ततिः ।
स रथो देवदेवस्य वोढव्यो ब्राह्मणैः सदा । । ८४
क्षत्रियैश्चापि वैश्यैश्च न तु शूद्रैः कदाचन ।
ये त्वन्यदेवताभक्ता ये च मद्यप्रवर्तकाः । । ८५
नैतैः शूद्रैश्च वोढव्य इतरैस्तु सदोह्यते ।
उपवासव्रतोपेतैर्वोढव्यः पार्वतीप्रिय । । ८६
स्वस्थानाच्चलितो रुद्र पूर्वद्वारं व्रजेत३ वै ।
दिनमेकं वसेत्तत्र पूज्यमानो नृपेण वै । । ८७
नानाविधैः प्रेक्षणकैः पुराणश्रवणेन च ।
नानाविधैर्ब्रह्मघोषैर्ब्राह्मणानां च तर्पणैः । । ८८
स्थित्वा तु तत्राष्टम्यन्तं नवम्यां चलते पुनः ।
व्रजेत दक्षिणं द्वारं नगरस्य त्रिलोचन । । ८९
तत्रापि दिनमेकं तु तिष्ठन्तेन्धकसूदन ।
स्थितेऽत्र तैः पूज्यमानो यथा राज्ञा तथा नृपैः । । 1.55.९०
तस्मादपि चलेद्भद्र द्वारं पश्चात्ततोत्तरम् ।
तत्रापि पूज्यः शूद्रैस्तु विधिवत्प्रियदर्शन । । ९१
तस्माच्च चलते रुद्र व्रजेन्मध्यं पुरस्य तु ।
तत्रस्थं पूजयन्ति स्म ब्राह्मणाः श्रद्धयान्विताः । । ९२
शंखवादित्रनिर्घोषैस्तथा प्रेक्षणकैर्वरैः ।
ब्रह्मघोषैश्च विविधैः समन्ताद्दीपकैः शुभैः । । ९३
नानाविधैर्वित्तदानैर्ब्राह्मणानां च तर्पणैः ।
दीनान्धकृपणानां च तर्पणैस्त्रिपुरान्तक । । ९४
पुरमध्यात्तु चलितस्तिष्ठेत्प्राप्य स्वमंदिरम् ।
इत्थं प्राप्य स्थितो देवः पुरतो मंदिरस्य तु । । ९५
तत्र स्थितः पूजनीयो भवेत्पौरेण कृत्स्नशः ।
पूज्यमानस्त्वहोरात्रं रथारूढस्तु तिष्ठति । । ९६
अपरे दिने व्रजेत्स्थानं तच्चिरन्तनमादरात् ।
त्रयोदश्यां व्यतीतायां चतुर्दश्यां त्रिलोचन । । ९७
सदैवं भ्रामयेद्देवं ग्रहेशं दुरितापहम् ।
परिवारयुतं रुद्र सानुगं परमेश्वरम् । । ९८
इति श्रोभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे रथयात्रावर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः । ५५ ।