रथ-यात्रावर्णनम्

ब्रह्मोवाच
अनेन विधिना यस्तु कुर्याद्वा कारयेत वा ।
यात्रां भगवतो भक्त्या भास्करस्यामितौजसः । । १
स परार्धं तु वर्षाणां सूर्यलोके महीयते ।
कुले न जायते तस्य दरिद्रो व्याधितोऽपि वा । । २
अभ्यङ्गाय घृतं यस्तु भास्कराय प्रयच्छति ।
कृते तु वर्णतिलके स गच्छेत्सुरभी १ पुरम् । । ३
तीर्थोदकं तु यो भक्त्या गंगायाश्च तथोदकम् ।
स्नानार्थमानयेद्यस्तु भास्करस्य त्रिलोचन । ।४
भक्त्या वर्णत्रयं दद्याद्भास्करस्य त्रिलोचन ।
समाप्येहाखिलान्कामान्प्राप्नुयाद्वरुणालयम् । । ५
रक्तवर्णं तु यो दद्याद्धविष्यान्नं गुडौदनम् ।
स गच्छेद्दीप्तिमान्रुद्र सूर्यलोकं पुरं वरम् । । ६
गच्छेत्पुरवरे रुद्र यत्र देवः प्रजापतिः ।
स्नापयेद्यस्तु वा भक्त्या भास्करं पूजयेत्तथा । । ७
स गच्छेद्दीप्तिमान्रुद्र सूर्यलोकं न संशयः ।
२रथमारोपयेद्यस्तु रथमार्गं प्रमार्जति । । ८
स याति वातसालोक्यं वाततुल्यपराक्रमः ।
रथस्य गच्छतो यस्तु मार्गे कुर्यात्सुमण्डलम् । । ९
स लोकं प्राप्नुयात्पुण्यं मारुतं नात्र संशयः ।
सूर्यस्य गच्छतो यस्तु मार्गं कुर्यात्सुमण्डलम् । । 1.58.१०
स लोकं प्राप्नुयात्पुण्यं यः कुर्यान्मार्गमादरात् ।
पुष्पप्रकरशोभाढ्यं ३शुभतोरणमण्डितम् । । ११
शंखतूर्यनिनादाढ्यं तथा४ प्रेक्षणकान्वितम् ।
स याति परमं स्थानं यत्र देवो विभावसुः । । १२
देवेन सहितो यस्तु नृत्यन्गायंस्तथार्चयन् ।
कुर्यान्महोत्सवं भक्त्या स याति परमं पदम् । । १३
प्रजागरं यस्तु कुर्याद्देवे रथगते रवौ ।
स सुखी पुण्यवान्नित्यं मोदते शाश्वतीः समाः । । १४
भक्तदासादिकं १ सर्वं यो ददाति रवेर्नरः ।
सम्प्राप्येहाखिलान्कामान्सूर्यलोकमवाप्नुयात् । । १५
रथारूढस्य सूर्यस्य भ्रमतो दर्शनं हर ।
दुर्लभं देवशार्दूल विशेषात्पुरतो व्रजन् । । १६
उत्तराभिमुखं यान्तं तथा वै दक्षिणामुखम् ।
धन्यः पश्यति देवेशं भास्करं भक्तवत्सलम् । । १७
अथ संवत्सरे प्राप्ये भानोर्यात्रादिने यदि ।
रथप्रकमणं तत्र न कथञ्चित्कृतं भवेत् । । १८
ततो वै द्वादशे वर्षे कर्तव्यं भूतिमिच्छता ।
इन्द्रध्वजस्य चाप्येवं यदि नोत्थापनं कृतम् । । १९
ततो वै द्वादशे वर्षे कर्तव्यं नान्तरा पुनः ।
यात्रायाश्चापि ये भङ्गं कुर्वन्ति वृषभध्वज । । 1.58.२०
मन्देहा नाम ते ज्ञेया राक्षसा नात्र संशयः ।
ये कुर्वन्ति तथा यात्रां नरा धर्मध्वजस्य तु । । २१
इन्द्रादिदेवास्ते ज्ञेया गताश्च परमं पदम् ।
पुनर्यात्राविधिं चेमं समासात्कथयामि ते । । २२
यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
वर्तमाने तु वै माघे रथे २देवगणाश्रिते । । २३
स तस्मिन्नेव मनसा स्थापनीयो रथोपरि ।
द्यौर्मही च द्विमूर्तिस्थे यथापूर्वं प्रतिष्ठिते । । २४
तथैव राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता ।
एताभ्यामपि देवीभ्यां यथैव सवितुस्तथा । । २५
दिण्डिनः पिंगलादीनां पृथुः कार्यो रथक्रमः ।
मनसा चिन्तयेदन्यां यथास्थानेषु देवताम् । । २६
दिक्पालांल्लोकपालांश्च कल्पयेत्मनसैव तु ।
देवो वेदमयश्चायं सर्वदेवमयस्तथा । । २७
मंडलमृङ्मयं चैव छन्दांस्यास्यं प्रकीर्तितम् ।
गायत्री चैव त्रिष्टुप्च जगत्यनुष्टुबेव च । । २८
पंक्तिश्च बृहती चैव उष्णिगेव च सप्तमी ।
ततो देवमयात्वाच्च च्छन्दसां चैव कल्पनात् । । २९
ततो वेदमयात्वाच्च तरणिर्लोकपूजितः ।
१रथप्रकमणात्सूर्यो वोढव्यो ब्रह्मवादिभिः । । 1.58.३०
उपवासपरैर्युक्तैर्वेदवेदांगपारगैः ।
रथं तु नारुहेच्छूद्रो भास्करस्य त्रिलोचन । । ३१
आरुह्य तरणेर्यानं व्रजेच्छूद्रो ह्यधोगतिम् ।
यथोक्तकरणाद्रुद्र सदा शान्तिर्भवेन्नृणाम् । । ३२
नायकश्चापि सर्वेषां देवानां तु२ दिवाकरः ।
विन्यसेत्तु रथानां तु देवतायतनेषु च । । ३३
ततो धूपोपहारैस्तु पूजयेत्प्रथमं रविम् ।
दिग्देवानुचरांश्चैव पूजयेत्पूज्यते श्रिया । । ३४
अपूज्य प्रथमं सूर्यमपरान्यस्तु पूजयेत् ।
३तत्तद्भूतकृतं पाद्यं न प्रगृह्णन्ति देवताः । । ३५
यात्राकाले तु सम्प्राप्ते ४सवितुर्दीक्षितां तनुम् ।
ये द्रक्ष्यंति नरा भक्त्या ते भविष्यन्त्यकल्मषाः । । ३६
पौर्णमास्याममायां च दर्शनं पुण्यदं स्मृतम् ।
सप्तम्यां च तथा षष्ठ्यां दिने तस्य रवेस्तथा । । ३७
आषाढी कार्त्तिकी माघी तिथ्यः पुण्यतमाः स्मृताः ।
महाभाग्यं तिथे पुण्यं यथा शास्त्रेषु गीयते । । ३८
कार्त्तिक्यां तु विशेषेण महाकार्तिक्युदाहृता ।
एवं कालसमायोगाद्यात्राकालो विशिष्यते । । ३९
दर्शनं च महापुण्यं सर्वपापहरं भवेत् ।
उपवासपरो यस्तु तस्मिन्काले यतव्रतः । ।1.58.४ ०
पूजयेत्तु१ रविं भक्त्या स गच्छेत्परमां गतिम् ।
देवोऽयं यज्ञपुरुषो लोकानुग्रहकांक्षया । । ४१
प्रतिमावस्थितो भूत्वा पूजां गृह्णात्यनुग्रहात् ।
स्नानाद्दानाज्जपाद्धोमात्संयोगाद्देवकर्मणः । । ४२
कूर्चानां वपनाच्चैव दीक्षितः पुरुषो भवेत् ।
कचानां वापनं कार्यं सूर्यभक्तैः सदा नरैः । । ४३
सूर्यक्रतौ शुचिस्त्वेवं दीक्षितः पुरुषो भवेत् ।
चतुर्णामपि वर्णानां भक्त्या सूर्यस्य नित्यदा । । ४४
एवं येऽत्र करिष्यन्ति ते नरा नित्यदीक्षिताः ।
चीर्णव्रता महात्मानस्ते यास्यन्ति परां गतिम् । । ४५
इत्येषा कथिता रुद्र रथयात्रा दिवस्पतेः ।
यां श्रुत्वा वाचयित्वा सर्वरोगैर्विमुच्यते । । ४६
कृत्वा च विधिवद्भक्त्या याति सूर्यसदो नरः ।
रथाह्वा कथिता रुद्र समासात्सप्तमी शुभा । । ४७
भूयोऽपि श्रूयतां रुद्र सप्तमी गदतो मम । ।४८

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे रथयात्रा वर्णनं नामाष्टपञ्चाशत्तमोऽध्याय । ५८ ।