← अध्यायः ०६६ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०६७
अज्ञातलेखकः
अध्यायः ०६८ →

ब्रह्मयाज्ञवल्क्यसम्वादवर्णनम्

ब्रह्मोवाच
प्रभाते संस्तुतो देवो मूर्तिहेतोर्मया पुरा ।
यजन्तं चापरं देवं भक्तिनम्रं महामतिः । । १
प्रत्यक्षत्वमथो गत्वा रहस्यं प्रोक्तवान्मम ।
अहं च कृतवान्प्रश्नं दृष्ट्वा प्रत्यक्षतो रविम् । । २
वेदेषु१ च पुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वमजः शाश्वतो धाता महाभूतमनुत्तमम्२ । । ३
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ।
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः । । ४
यजन्ते त्वामहरहर्नानामूर्तिसमाश्रिताः ।
पिता माता हि सर्वस्य दैवतं त्वं हिं शाश्वतम् । । ५
यजसे चैव कं देवमेव चापि न विद्महे ।
कथ्यतां मम देवेश परं कौतूहलं हि मे । । ६
इत्थं मयोक्तो भगवानिदं वचनमब्रवीत् ।
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् । । ७
तव भक्तिमतो ब्रह्मन्वक्ष्यामीह यथातथम् ।
यतः सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् । । ८
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ।
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते । । ९
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कथ्यते ।
हिरण्यगर्भो भगवान्सैव४ बुद्धिरिति स्मृतः । । 1.67.१०
महानिति च योगेषु प्रधानश्चेति कथ्यते ।
सांख्ये५ च पठ्यते शास्त्रे नामभिर्बहुभिः सदा । । ११
विश्वगो विश्वभूतश्च विश्वात्मा विश्वसम्भवः१ ।
धृतं चैवात्मकं येन इदं त्रैलोक्यमात्मना । । १२
अशरीरः शरीरेषु लिप्यते न च कर्मभिः ।
ममान्तरात्मा तव च ये चान्ये देहसंज्ञकाः । । १३
सर्वेषां साक्षिभूतोऽसौ२ न करोति न लिप्यते ।
सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्मृतः । । १४
सर्वतः पाणिपादोऽसौ सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतियुक्तोऽसौ सर्वमावृत्य तिष्ठति । । १५
विश्वमूर्धा४ विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् । । १६
क्षेत्राण्यस्य शरीराणि बीजं चापि शुभाशुभम् ।
तानि वेत्ति स योगात्मा अतः क्षेत्रज्ञ उच्यते । ।
अव्यक्तके पुरे शेते तेनाऽसौ पुरुषः स्मृतः । । १७
विश्वं बहुविधं ज्ञेयं स च सर्वत्र विद्यते ।
तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः । । १८
महापुरुषशब्दं हि बिभर्त्येष सनातनः ।
स तु वै विक्रियापन्नः सृजत्यात्मानमात्मना । । १९
आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा ।
भूमे रसविशेषेण तथा गुणवशात्तु सः । । 1.67.२०
एक एव यथा वायुर्देहे तिष्ठति पञ्चधा ।
एकत्वं च पृथक्त्वं च तथा तस्य न संशयः । । २१
स्थानान्तरविशेषेण यथाग्निर्लभते पराम् ।
संज्ञां दावाग्रिकाद्येषु तथा देवो ह्यसौ स्मृतः । । २२
यथा दीपसहस्राणि दीप एकः प्रसूयते ।
तथा रूपसहस्राणि स एवैकः प्रसूयते । । २३
स यदा बुध्यतेत्मानं तदा भवति केवलः ।
एकत्वं प्रलये चास्य बहुत्वं स्यात्प्रवर्तने । । २४
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते१ तमेकमीशानं पुरुषं बीजसंज्ञितम् । । २५
अक्षयश्चाप्रमेयध्र सवर्गभ्र स उच्यते ।
तस्मादव्यक्तमुत्पन्नं त्रिगुणं सर्वकारणम् । । २६
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते ।
तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः । । २७
नास्ति तस्मात्परो ह्यन्यः स पिता स प्रजापतिः ।
आत्मा मम स विज्ञेयस्ततस्तं पूजयाम्यहम् । । २८
स्वर्गताश्चापि ये केचित्तं नमस्यन्ति देहिनः ।
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टाः परां गतिम् । । २९
तं देवाश्चासुराश्चैव नानामतसमाश्रिताः३ ।
भक्त्या सम्पूजयन्त्याद्यं गतिं चैषां ददाति सः । । 1.67.३०
स हि सर्वगतश्चैव निर्गुणश्चापि कथ्यते ।
एवं ज्ञात्वा तमात्मानं पूजयामि सनातनम् । ।
भास्करं देवदेवेशं सर्वभूतेशमच्युतम् । । ३१
ब्रह्मोवाच
इत्युक्तवान्पुरा पृष्टो मया देवो दिवाकरः ।
पूजय त्वं महात्मानं तपन्तं विपुलं तपः । । ३२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मयाज्ञवल्क्यसंवादे सप्तमीकल्पे सूर्यमहिमवर्णनं नाम सप्तषष्टितमोऽध्यायः । ६७