भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६६

← अध्यायः ०६५ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०६६
अज्ञातलेखकः
अध्यायः ०६७ →

याज्ञवल्क्यवर्णनम्

सुमन्तुरुवाच
इत्युक्त्वा भगवान्ब्रह्मा जगामादर्शनं विभोः ३ ।
सूर्यमाराधयद्दिण्डी४ सूर्यस्यानुचरोऽभवत् । । १
शतानीक उवाच
भूयः कथय विप्रेन्द्र माहात्म्यं भास्करस्य मे ।
शृण्वतो नास्ति मे तृप्तिरमृतस्येव सुव्रत । । २
सुमन्तुरुवाच
शृणुष्वावहितो राजन्सम्वादं द्विजशङ्खयोः ।
यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो१ नृप । । ३
आसीनमाश्रमे शंखं द्विजो द्रष्टुं जगाम ह ।
फलभारानतच्छाये वृक्षवृन्दसमाकुले । । ४
परस्परमृगशृङ्गकण्डूयितमृगावृते ।
बर्हिर्वनाम्बरानीततीर्थकन्दोपभोगिनि । । ५
प्रभूतकुसुमामोदषट्पदोद्गीतशालिनी ।
सिद्धदेवर्षिगन्धर्वतीर्थसेवितवारिणि । । ६
मुण्डैश्च जटिलैश्चैव तापसैरुपशोभिते ।
आश्रमे तं मुनिश्रेष्ठं शंखाह्वं सुखमास्थितम् । । ७
स्तोत्रैः स्तोतुं सहस्रांशुं तद्भक्तं तत्परायणम् ।
ततः संहत्य सहसा तं भोजककुमारकाः । । ८
विनीता उपसंगम्य यथावदभिवाद्य च ।
आसनेषूपविष्टास्त उपविष्टमथाब्रुवन् । । ९
भगवन्त्सर्ववेदेषु२ च्छिंधि नः संशयो महान् ।
विनयेनोपपन्नानां कुमाराणां ततो मुनिः । । 1.66.१०
अनादींश्चतुरो वेदानुवाच प्रीतमानसः ।
तेषां तु पठतामेव आश्रमं तु यदृच्छया । । ११
मुनिश्रेष्ठोऽथ तं देशमाजगाम द्विजो नृप ।
यथावदर्चितस्तेन शङ्खेनामिततेजसा । । १२
वन्दितश्च कुमारैस्तैरभवत्प्रीतमानसः ।
अथैतानब्रवीच्छंखस्तान्भोजककुमारकान् । । १३
शिष्टागमादनध्यायः स च जातो विरम्यताम् ।
यथाज्ञापयसीत्याहुः कुमारास्ते ऋषिं ततः । । १४
प्रपच्छ सिद्धिदश्चैतान्के ह्येते किं पठन्ति च ।
शङ्खोवाच महाराज कुमारा भोजकात्मजाः । । १५
ससूत्रकल्पांश्चतुरो विप्र वेदानधीयते ।
तथैव सप्तमीकल्पे परिचर्यां च भास्वतः । । १६
अग्निकार्यविधानं च प्रतिष्ठाकल्पमादितः ।
अध्यङ्गलक्षणं १ ब्रह्मन् रथयात्राविधिं तथा । । १७
द्विज उवाच
कथं क्रियेत सप्तम्यां कभ्रार्चनविधिक्रमः ।
गन्धपुष्पप्रदीपानां किं फलं रविमन्दिरे । । १८
केन तुष्यति दानेन व्रतेन नियमेन च ।
धूपपुष्पोपहारादि किं च देयं विवस्वते । । १९
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ।
विशेषतस्तु माहात्म्यं ब्रूहि मां भास्करस्य हि । । 1.66.२०
शङ्ख उवाच
इममर्थं वशिष्ठेन पृष्टः साम्बो यथा पुरा ।
स चोवाच वशिष्ठाय तदहं कथयामि ते । । २१
अत्राश्रमे पुण्यतमे तीर्थानामुत्तमे प्रभुः ।
ववन्दे नियतात्मानं वशिष्ठं मुनिसत्तमम् । । २२
विनयेनोपसंगम्य ववन्दे चरणौ मुनेः ।
कृतप्रणामं साम्बं तु भक्तिप्रह्वीकृताननम् । । २३
विलोक्य परमप्रीतो मुनिः पप्रच्छ तं तदा ।
सर्वतः स्फुटितं गात्रं कुष्ठेन महता तव । । २४
घोररूपेण तीव्रेण कथं तद्विगतं तव१ ।
कथं च लक्ष्मीरधिका रूपं चातिमनोहरम् । । २५
तेजस्वितातिमहती तथैव२ सुकुमारता । । २६
साम्ब उवाच
स्तुतो नामसहस्रेण लोकनाथो दिवाकरः ।
दर्शनं च गतः साक्षाद्दत्तवांश्च वरान्मम । । २७
वशिष्ठ उवाच
कथमाराधितः सूर्यस्त्वया यादवनंदन ।
कैश्च व्रततपोदानैर्दर्शनं भगवान्गतः । । २८
साम्ब उवाच
शृणुष्वावहितो ब्रह्मन्सर्वमेव मया यथा ।
तोषितो भगवान्सूर्यो विधिना येन सुव्रत । । २९
मोहान्मयोपहसितो३ दुर्वासाः कोपनो मुनिः ।
ततोऽहं तस्य शापेन महाकुष्ठमवाप्तवान् । । 1.66.३०
ततोऽहं पितरं गत्वा कुष्ठयोगाभिपीडितः ।
लज्जमानोऽतिगर्वेण इदं वाक्यमथाब्रवम् । । ३१
तात सीदति मे गात्रं स्वरश्च परिहीयते ।
घोररूपो महाव्याधिर्वपुरेष जिघांसति । । ३२
अशेषव्याधिराज्ञाहं पीडितः क्रूरकर्मणा ।
वैद्यैरोषधिभिश्चैव न शान्तिर्मम विद्यते । । ३३
सोऽहं त्वया ह्यनुज्ञातस्त्यक्तुमिच्छामि जीवितम् ।
यदि वाहमनुग्राह्यस्ततोऽनुज्ञातुमर्हसि । । ३४
इत्युक्तवाक्यः स पिता षुत्रशोकाभिपीडितः ।
पिता क्षणं ततो ध्यात्वा मामेवं वाक्यमुक्तवान् । । ३५
धैर्यमाश्रयतां१ पुत्र मा शोके च मनः कृथाः ।
हन्ति शोकार्दितं व्याधिः शुष्कं तृणमिवानलः । । ३६
देवताराधनपरो भव पुत्रक मा शुचः ।
इत्युक्ते च मया प्रोक्तो देवमाराधयामि कम् । । ३७
कमाराध्य विमुच्येऽहं तात रोगैः समन्ततः ।
इत्येवमुक्तो भगवान्मामुवाच पिता मम । । ३८
इममर्थं पुरा पृष्टः पद्मयोनिः सनातनः ।
याज्ञवल्क्येन ऋषिणा योगीशेन महात्मना२ । । ३९
यदुवाच महातेजास्तस्मै स यदुनन्दन ।
तच्छृणुष्व शुचिर्भूत्वा आत्मनः श्रेयसे सुत । । 1.66.४०
सुरज्येष्ठं सुखासीनं पद्मयोनिं प्रजापतिम् ।
याज्ञवल्क्यो महातेजाः पर्यपृच्छत्पितामहम् । । ४१
भगवञ्छ्रोतुमिच्छामि किंचिदात्ममनोगतम् ।
समाराध्य विभो देवं नरो मुच्येत वै भवात् । । ४२
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत सः । । ४३
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैः श्रेयसं सुखम् ।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते पुनः । । ४४
देवातानां तु को देवः पितॄणां चैव कः पिता ।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह । । ४५
केन सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलयो च कमभ्येति तन्मे त्वं वक्तुमर्हसि । । ४६
ब्रह्मोवाच
साधु पृष्टोऽस्मि भवता तुष्टश्चास्मि महामते ।
प्रणम्य शिरसा देवं पुण्योत्तरमनुत्तमम् । । ४७
कथयिष्ये द्विजश्रेष्ठ शृणुष्वैकमनाधुना ।
आत्मनः श्रेयसे विप्र शुचिर्भूत्वा समाहितः । ।४८
उद्यन्य एष कुरुते जगद्वितिमिरं करैः ।
नातः परतरो देवः किमन्यत्कथयामि ते । ।४ ९
अनादि निधनो ह्येषः पुरुषः शाश्वतोऽव्ययः ।
दीपयत्येव लोकांस्त्रीन्रवी रश्मिभिरुल्बणैः । । 1.66.५०
सर्वदेवात्मको ह्येष तपसा चांशुतापनः ।
सर्वस्य जगतो नाथः कर्मसाक्षी शुभाशुभे । । ५१
क्षपयत्येष भूतानि तथा विसृजते पुनः ।
एष भाति तपत्येष वर्धते च गभस्तिभिः । । ५२
एष धाता विधाता च पूषा१ प्रकृतिभावन ।
न ह्येष क्षयमायाति नित्यमक्षयमण्डलः । । ५३
पितॄणां हि पिता देवतानां च देवता ।
ध्रुवं स्थानं स्मृतं ह्येष आधारो जगतस्तथा । । ५४
सर्वकाले जगत्कृत्स्नमादित्यात्संप्रसूयते ।
प्रलये च तमभ्येति आदित्यं दीप्ततेजसम् । । ५५
योगिनश्चात्र संलीनास्त्यक्त्वा गृहकलेवरम् ।
वायुभूता विशन्त्यस्मिंस्तेजोराशौ दिवाकरे । । ५६
तस्य रश्मिसहस्राणि शाखा इव विहंगमाः ।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह । । ५७
जनकादयो गृहस्थास्तु राजानो योगधर्मिणः ।
वालखिल्यादयश्चैव मुनयो ब्रह्मचारिणः । । ५८
व्यासादयो वनस्थाश्च भिक्षुः पञ्चशिखस्तथा ।
सर्वे३ ते योगमास्थाय प्रविष्टाः सूर्यमण्डलम् । । ५९
शुको व्यासात्मजः श्रीमान्योगधर्ममवाप्य तु ।
आदित्यकिरणान्पीत्वा न पुनर्भवमान्तवान् । । 1.66.६०
शब्दमात्राः श्रुतिसुखा ब्रह्मविष्णुशिवादयः ।
प्रत्यक्षोऽयं स्मृतो देवः सूर्यस्तिमिरनाशनः । । ६१
तस्मादन्यव्रते भक्तिर्न कार्या शुभमिच्छता ।
हृष्टेन साध्यते यस्माददृष्टं नित्यमेव हि । ।
त्वयातः सततं विप्र अर्चनीयो दिवाकरः । । ६२
याज्ञवल्क्य उवाच
अहो य एष कथितो भवता भास्करो मम ।
देवता सर्वदेवानां नैतन्मिथ्या प्रजायते । । ६३
तस्य देवस्य माहात्म्यं श्रुतं सुबहुशो मया ।
देवर्षिसिद्धमनुजैः स्तुतस्येह महात्मनः । । ६४
कः स्तौति दैवतमजं यस्यैतत्सचराचरम् ।
अक्षयस्याप्रमेयस्य किरणोद्गमनाद्भवेत् । । ६५
दक्षिणात्किरणाद्यस्य सम्भूतो भगवान्हरिः ।
वामाद्भवांस्तथा जातः किरणात्किल कञ्जज । । ६६
लालाटाद्यस्य रुद्रस्तु का तुल्या तेन देवता ।
तस्य देवस्य कः शक्तः प्रवक्तुं गुणविस्तरम् । । ६७
सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभो ।
श्रोतुमाराधनं येन निस्तरेयं भवार्णकम् । । ६८
केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया ।
दानैर्व्रतोपवासैर्वा होमैर्जप्यैरथापि वा । । ६९
आराधितः समस्तानां क्लेशानां हानिदो रविः ।
शक्यः समाराधयितुं कथं शंस प्रजापते । । 1.66.७०
धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टताम् १ ।
जन्मन्यवितथा सैका क्रिया यार्कं समाश्रिता । । ७१
दुर्गसंसारकांतारमपारमभिधावताम् ।
एकः सूर्यनमस्कारो मुक्तिमार्गस्य देशकः२ । । ७२
सोऽहमिच्छामि तं देवं सप्तलोकपरायणम् ।
कालायनमशेषस्य१ जगतो हद्यवस्थितम् । । ७३
आराधयितुं गोपालं ग्रहेशममितौजसम् ।
शङ्करं जगतो दीपं स्मृतमात्राघनाशनम् । । ७४
तमनाद्यं सुरश्रेष्ठं प्रसादयितुमिच्छतः ।
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि । । ७५
तस्यैतद्वचनं श्रुत्या भक्तिमुद्वहतो रवौ ।
जगाम परितोषं स पद्मयोनिर्महातपाः । ।७ ६
ब्रह्मोवाच
यत्पृच्छसि द्विजश्रेष्ठ सूर्यस्याराधनं प्रति ।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु । । ७७
अनादि यत्परं ब्रह्म सर्वहेयविवर्जितम् ।
व्याप्य यत्सर्वभूतेषु स्थितं सदसतः परम् । । ७८
प्रधानपुंसोरनयोर्यतः क्षोभः प्रवर्तते ।
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः । ।७९
तत्क्षोभकत्वाद् ब्रह्मांडं सृष्टेर्हेतुर्निरञ्जनः ।
अहेतुरपि सर्वात्मा जायते परमेश्वरः । । 1.66.८०
प्रधानपुरुषत्वं च तथैवेश्वरलीलया ।
समुपैति ततश्चैवं ब्रह्मत्वं छन्दतः प्रभुः । । ८१
ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये ।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुते रविः । । ८२
तमेकमक्षरं धाम सर्वदेवनमस्कृतम् ।
भेदाभेदस्वरूपं तं प्रणिपत्य दिवाकरम् । ।
३वर्णयिष्येऽखिलं विप्र तस्यैवाराधनं रवेः । । ८३
गुह्यं चापि तथा तस्य भास्करस्य शृणुष्व वै ।
तुष्टेन हि पुरा मह्यं कथितं भास्करेण तु । । ८४

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि याज्ञवल्क्यब्रह्मसंवादे सप्तमीकल्पे आदित्यमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः । ६६ ।