भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३८

← अध्यायः १३७ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः १३८
अज्ञातलेखकः
अध्यायः १३९ →

ध्वजारोपणविधिवर्णनम्

नारद उवाच
हन्त ते कथयिष्यामि ध्वजारोपणमुत्तमम् ।
यदुक्तं ब्रह्मणा पूर्वमृषभाधिपते पुरः । । १
पुरा देवासुरे युद्धे यानि देवैर्जयेप्सुभिः ।
कृतान्युपरि चिह्नानि वाहनानि ध्वजानि तु । । २
लक्ष्मचिह्नध्वजं केतुरिति पर्यायनामभिः ।
कीर्तितः स च तस्येह प्रमाणं गदतः शृणु । । ३
ध्वजो वंशस्य कर्तव्यस्त्वविद्ध ऋजुरव्रणः ।
प्रासादव्यास तुल्यस्य ध्वजवंशप्रमाणतः । । ४
देवागारस्य ये प्रोक्ता मञ्जरीकलशादयः ।
अथ वा तत्प्रमाणस्तु ध्वजदण्डः प्रकीर्तितः । । ५
अन्तर्गृहस्य या वेदी सूत्रतः परिकल्पिता ।
तस्या व्यासो भवेद्वंशः प्रसादस्य यदूत्तम । । ६
अथ वा मूलसूत्रेण यो व्यासोऽन्तर्गृहस्य तु ।
प्रासादव्यास इति ते प्रोक्तश्चेह न संशयः । । ७
केतुर्भवेद्वरो वंशो न निम्नो न ऋजुस्तथा ।
पत्रं ध्वजे युगं चैव नलिकापुरुषस्तथा । । ८
चतुर्हस्ता भवन्त्येते प्रशस्ताः कृष्णनन्दन ।
अष्टहस्तप्रमाणस्तु विंशार्धस्य१ प्रमाणतः । । ९
सामान्यो ध्वजदण्डस्तु सर्वसाधारणो मतः ।
दण्डपाणिध्वजो यस्तु स्मृतः षोडशहस्तवान् । । 1.138.१०
विंशद्धस्तात्परो दण्डो न कार्यः सर्वथा रवेः ।
युग्महस्तस्तु कर्तव्यो ध्वजदण्डो मनीषिभिः । । ११
चतुरङ्गुलविस्तीर्णः सुवृत्तो द्व्यङ्गुलोपरि ।
नातिसूक्ष्मो न च स्थूलो न कार्यो नतपर्वकः । । १२
समपर्वातु कर्तव्यः सुदृढः सूक्ष्म एव हि ।
वक्रः पुत्रविनाशाय सव्रणोऽर्थविनाशनः । । १३
रोगदो युग्महस्तस्तु भिन्नो दुःखमनन्तकम् ।
करोति हानि धर्मस्य हीनो यस्तु प्रमाणतः । । १४
वैषम्यमसमपर्वा दद्यात्कृच्छ्रमधोन्नतः ।
जयो जयन्तो जैत्रेयः४ शत्रुहन्ता जयावहः । । १५
नन्दोपनन्दनौ चैवेन्द्रोपेन्द्रौ गदितौ तथा ।
दशैते कीर्तिता भेदा ध्वजस्यानन्दसम्मिताः । । १६
द्विजहस्तस्तु जयो दण्डो जयन्तो द्विगुणो मतः ।
द्वादशहस्तस्तु जैत्रेयः शत्रुहन्ता कलान्वितः । । १७
जयावहस्तु विंशार्धो नन्द आदित्यसन्निभः ।
चतुर्दशोपनन्दस्तु इन्द्रः षोडश उच्यते । । १८
उपेन्द्रोऽष्टादशः५ प्रोक्तस्तथेन्द्रो विंशतिः स्मृतः ।
भिन्नो वक्रोऽसाधितश्च न कार्यो दण्ड एव हि । । १९
मूलमन्त्रेण कर्तव्यो व्यासतोऽन्तर्गृहस्य तु ।
ध्वजदण्डो महाबाहो अथ वा वास्तुमानतः । । 1.138.२०
मञ्जरीमानतो वापि तदर्धेनाथवा विभो ।
पताका वै शुभा कार्या ध्वजवंशावलम्बिनी । । २१
देवागारस्य शिखरात्त्रिभागपरिमार्जनी ।
सा प्रोक्ता दशधा वीर मानतोमानतस्तथा । । २२
अङ्कुरः पल्लवश्चैव स्कन्धः शाखा तथैव च ।
पताका कदली वीर केतुर्लक्ष्म जयस्तथा । । २३
ध्वजश्च दशमः प्रोक्तः सर्वदेवमयोव्ययः ।
अङ्कुरो द्वयंगुलः प्रोक्तः पल्लवश्चतुरङ्गुलः । । २४
स्कन्धः षडङ्गुलः प्रोक्तः शाखा चाष्टाङ्गुलो मता ।
एकादशपताका तु कदली च चतुर्दश । । २५
केतुस्तु षोडशः प्रोक्तो लक्ष्माष्टादशमुच्यते ।
जया विंशति वै प्रोक्ता एतावत्त्वङ्गुलानि तु । । २६
देवागारस्य कुम्भस्य प्रसन्ना सा प्रमार्जनी ।
अङ्कुरेति पताका सा विज्ञेया यदुनन्दन । । २७
पल्लवेति द्वितीयस्य मार्जनी परिकीर्तिता ।
त्रिभागमार्जनीस्कन्धः शाखा वै पञ्चमस्य तु । । २८
षष्ठस्योक्ता पताका तु कदली सप्तमस्य तु ।
अष्टमस्य तथा केतुर्लक्ष्म च नवमस्य तु । । २९
ततस्तु दशमः प्रोक्तो जयन्तो यदुनन्दन ।
वृषस्थानावमार्गी तु ध्वजस्तु परिकीर्तितः । । 1.138.३०
गजो मेषोऽथ महिषः कबन्धस्तु वृषस्तथा ।
हरिणोऽथ नरश्चैव नरश्च नरसत्तम । । ३१
स्थानान्येतानि भूयोऽथ१ प्रयुक्तस्य ध्वजस्य तु ।
दिशभागे तु पूर्वात्तु क्रमेण परिकल्पयेत् । । ३२
एवं दशविधा प्रोक्ता पताका तत्त्वदर्शिभिः ।
कर्तव्या सा यथापूर्वं तच्छृणु त्वं नराधिप । । ३३
शुक्लवस्त्रमयी चित्रा सघण्टा सुमनोहरा ।
नानाचामरसम्पन्ना किङ्किणीजालमण्डिता । । ३४
ध्वजाग्रे चैव कर्तव्यो देवतालिङ्गसूचकः ।
काञ्चनो वाथ रौप्यो वा मणिरत्नमयोऽपि वा । । ३५
रङ्गकैर्लिख्यते वापि तद्वाहनसमाकृतिः ।
ध्वजदण्डोऽत्र विन्यस्तः कर्तव्यो यदुनन्दन । । ३६
गरुत्मात्मांस्तु ध्वजो विष्णोरीश्वरस्य ध्वजो वृषः ।
ब्रह्मणः पङ्कजं कार्यं रवेर्धर्मः स्मृतो ध्वजः । । ३७
हंसो१ जलाधिपस्योक्तः सोमस्य तु नरो ध्वजः ।
बलदेवस्य कालस्तु कामस्य मकरध्वजः । । ३८
सिंहो ध्वजस्तु दुर्गायाः कीर्तितो यदुनन्दन ।
गोधा चापि उमादेव्या रैवतस्य हयः स्मृतः । । ३९
कच्छपो वरुणस्योक्तो वातस्य हरिणो मतः ।
पावकस्य तथा मेष आखुर्गणपतेर्मतः । । 1.138.४०
ब्रह्मर्षीणां कुशः प्रोक्त इत्येषा ध्वज कल्पना ।
यस्य यद्वाहनं प्रोक्तं तत्तस्य ध्वज उच्यते । । ४१
विष्णोर्ध्वजे तु सौवर्णं दण्डं कुर्याद्विचक्षणः ।
पताका चापि पीता स्याद्गरुडस्य समीपगा । । ४२
ईश्वरस्य ध्वजे दण्डो राजतो यदुनन्दनः ।
पताका चापि शुक्ला स्याद्वृषभस्य समीपगा । । ४३
पितामहध्वजे दण्डः स्मृतस्ताम्रमयो बुधैः ।
पद्मवर्णा पताका स्यात्पङ्कजस्य समीपगा । । ४४
आदित्यस्य च सौवर्णो ध्वजे दण्डः प्रकीर्तितः ।
पञ्चवर्णा पताका स्याद्धर्मस्याधोगता नृप । । ४५
किङ्किणीजालसम्पन्ना नानबुद्बुदसन्निभा ।
पुष्पमालोपसम्पन्ना नानावादिभिरावृता । । ४६
दण्ड इन्द्रध्वजस्योक्तः काञ्चनो यदुनन्दन ।
पताका बहुवर्णा स्यात्कुञ्जरस्य समीपगा । । ४७
आयसश्चापि दण्डोक्तो यमचिह्नं विचक्षणैः ।
पताका वर्णतः कृष्णा महिषस्य समीपगा । । ४८
जलाधिपध्वजो दण्डो राजतः परिकीर्तितः ।
पताका सर्वतः श्वेता विचित्रा सा च कथ्यते । । ४९
ध्वजे चापि कुबेरस्य दण्डो मणिमयः स्मृतः ।
पताका चापि रक्ता स्यान्नरपादसमीपगा । । 1.138.५०
बलदेवध्वजे दण्डो राजतो यदुनन्दन ।
पताका वर्णतः शुक्ला तालस्याधोगता स्मृता । । ५१
कामध्वजे त्रिलोहः स्याद्दण्डो यदुकुलोद्वह ।
पताका रोहिणी तत्र मकरस्य समीपगा । । ५२
मायूरं कार्त्तिकेयस्य चिह्नं लोकेषु गीयते ।
त्रिलोहदण्डमारूढं बहुरत्नविभूषितम् । । ५३
बहुवर्णकचित्रा तु पताका कथिता बुधैः ।
हस्तिदन्तभवं दण्डं कुर्याद्गणपतेर्नृप । । ५४
ताम्रदण्डं समारुढं संशुद्धं सम्प्रतिष्ठितम् ।
शुक्ला पताका कर्तव्या सुप्रमाणा महीपते । । ५५
मातॄणां चापि कर्तव्यो नैकरूपो ध्वजो बुधैः ।
पताकाभिरनेकाभिबर्हुरत्नाभिरन्वितः । । ५६
रेवतस्यापि कर्तव्यो ध्वजो वाजी नराधिप ।
रक्ता पताका तत्रापि कर्तव्या यदुनन्दन । । ५७
चामुण्डामन्दिरे कार्यः शिरोमालाकुलो ध्वजः ।
नीला पताका कर्तव्या दण्डो लोहमयस्तथा । । ५८
रीतीमयश्च मातॄणां रेवतस्य च कारयेत् ।
गौर्या ध्वजस्ताम्रमयः पताका गोपसन्निभा । । ५९
स्वर्णदण्डस्तु वीरस्य ध्वजो मेषसमन्वितः ।
पताका बहुरत्नाढ्ये१ कर्तव्या यदुनन्दन । । 1.138.६०
अश्मसारमयो दण्डो ध्वजो वातस्य उच्यते ।
पताका कृष्णवर्णा तु हरिणस्य समीपगा । । ६१
भगवत्या ध्वजो दण्डः सर्वरत्नमयः स्मृतः ।
पताका तु त्रिवर्णा स्यात्सिंहस्याधोगता नृप । । ६२
एवंविधमिमं कृत्वा ध्वजं लक्षणलक्षितम् ।
अधिवास्य ततो राजंस्तत आरोपयेद्बुधः । । ६३
ततः सर्वौषधीभिश्च स्नापयित्वा प्रयत्नतः ।
समालभ्य च बध्नीयान्मध्ये प्रतिसरान्नृप । । ६४
कल्पयित्वा शुभां वेदिं कलशैरुपशोभिताम् ।
तस्यां वेद्यां समारोप्य तां रात्रिमधिवासयेत् । । ६५
नानाकुसुमचित्रां च स्रजं तस्यानुलम्बयेत् ।
समभ्यर्च्य प्रयत्नेन धूपमस्य निवेदयेत् । । ६६
बलिकर्म ततः कृत्वा कृशरापूपकादिभिः ।
पलालपूपिकाभिश्च दधिपायससूपकैः२ । । ६७
उद्दिश्य लोकपालेभ्यो बलिं दद्याच्च वायसैः ।
ब्राह्मणान्स्वस्ति वाच्याथ कृत्वा पुण्याहमङ्गलम् । । ६८
वादित्रकृतनिर्घोषं जलं संस्कारसंयुतम् ।
नानाबुद्बुदसपन्नं वेष्टितं नववाससा । । ६९
शुभे लग्ने दिने ऋक्षे ध्वजं चारोपयेद्बुधः ।
विन्यस्य स्वर्णकलशं श्वभ्रराजं ध्वजस्य तु । । 1.138.७०
एवमारोपयेद्यस्तु ध्वजं देवालयोपरि ।
स श्रिया वर्धते नित्यं प्राप्नोति परमां गतिम् । । ७१
असुरा वासमिच्छन्ति ध्वजहीने सुरालये ।
तस्माद्देवालयं प्राज्ञो ध्वजहीनं न कारयेत् । । ७२
मन्त्रश्च स्थापने प्रोक्तो विधानज्ञैर्ध्वजस्य तु ।
एह्येहि भगवन्देव देववाहन वै खग । । ७३
श्रीकरः श्रीनिवासश्च जय जैत्रोपशोभित ।
व्योमरूप महारूप धर्मात्मंस्त्वं च वै गतेः । । ७४
सान्निध्यं कुरु दण्डेऽस्मिन्साक्षी च ध्रुवतां व्रज ।
कुरु वृद्धिं सदा कर्तुः प्रासादस्यार्कवल्लभ । । ७५
ॐ एह्येहि भगवन्नीश्वरविनिर्मित उपरिचरवायुमार्गानुसारिञ्छ्रीनिवास रिपुध्वंस
यक्षनिलय सर्वदेवप्रियं कुरु सान्निध्यं शान्ति स्वस्त्ययनं च मेभयं सर्वविघ्ना व्यपसरन्तु । । ७६
मन्त्रेणानेन राजेन्द्र श्वभ्रे दण्डे निवेशयेत् ।
पताकां पूर्वमन्त्रेण स्थित्या पूर्वमुखो नृप । । ७७
क्षिपेदूर्ध्वमथाकाशं प्रासादशिखराद्विभोः ।
यजमानस्ततः पश्येत्पताकां यदुनन्दन । । ७८
प्रासादपुरतो वापि पताकां पातयेद्यदि ।
इन्द्रलोकं तदा कर्ता विशेद्वै यदुनन्दन । । ७९
आग्नेय्यामग्निलोकं तु याम्यां यमसदो भजेत् ।
नैऋत्यां नैऋतं लोकं वारुण्यः वारुणं व्रजेत् । । 1.138.८०
यस्य देवस्य यद्वेश्म कृतं यदुकुलोद्वह ।
तस्य लोकमवाप्नोति वृषस्थानगतो यदि । । ८१
वायव्ये वायुमाप्नोति सौम्यायां सोममाप्नुयात् ।
ऐशान्यामीशमाप्नोति कर्ता वै देववेश्मनः । । ८२
य एवं कारयेद्भक्त्या ध्वजस्यारोपणं रवेः ।
स हि भुक्त्वा परान्भोगान्सूर्यलोके महीयते । । ८३
तेजसाम्बुजसंकाशः कान्त्या चाम्बुजसन्निभः ।
द्विजातितुल्यः प्रभया विक्रमेण च गोपतेः । । ८४

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने ध्वजारोपणविधिवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः । १३८ ।