भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३९

← अध्यायः १३८ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः १३९
अज्ञातलेखकः
अध्यायः १४० →

भोजकानयनवर्णनम्

साम्ब उवाच
त्वत्प्रसादान्मया प्राप्तं रूपमेतत्पुरातनम् ।
प्रत्यक्षदर्शनं चापि भास्करस्य महात्मनः । । १
सर्वमेतत्तु सम्प्राप्य पुनश्चिन्ताकुलं मनः ।
देवस्य परिचर्यायाः पालनं कः करिष्यति । । २
गुणयुक्तं द्विजं किञ्चित्समर्थं परिपालने ।
ममैवानुग्रहाद्ब्रह्मन्द्विजं व्याख्यातुमर्हसि । । ३
एवमुक्तस्तु साम्बेन नारदः प्रत्युवाच तम् ।
न द्विजाः परिगृह्णन्ति देवस्य स्वीकृतं धनम् । । ४
विद्यते हि धनं ह्यत्र गुणश्चायं प्रतिग्रहः ।
देवचर्यागतैर्द्रव्यैः क्रिया ब्राह्मी न विद्यते । । ५
अवज्ञया च कुर्वन्ति ये क्रियां लोभमोहिताः ।
अपाङ्क्तेया भवन्तीह ते वै देवलका द्विजाः । । ६
देवस्वं ब्राह्मणत्वं च यो लोभादुपजीवति ।
स पापात्मा नरो लोके गृध्रोच्छिष्टेन जीवति । ।
ततो न ब्राह्मणः कश्चिद्देवचर्यां करिष्यति । । ७
विधिज्ञं ज्ञानवन्तं च परिचर्याक्षमं तथा ।
देव एव तमाख्यातुं तस्मात्तं शरणं व्रज । । ८
अथवा यदुशार्दूल उग्रसेनपुरोहितम् ।
गत्वा१ गौरमुखं पृच्छ स ते कामं विधास्यति । । ९
नारदेनैवमुक्तस्तु साम्बो जाम्बवतीसुतः ।
सुखासीनं गृहे वीर उग्रसेनपुरोहितम् । । 1.139.१०
कृतपूर्वाह्णिकं वीर विप्रं गौरमुखं नृप ।
विनयेनोपसङ्गम्य साम्बो वाक्यमथाब्रवीत् । । ११
मया भानोः प्रसादेन कारितं विपुलं गृहम् ।
सपत्नीकं ससैन्यं च पृथिव्यां सारवत्स्थितम् । । १२
सर्वं तस्मिन्मया दत्तं कृतं मूर्तेश्च मण्डलम् ।
तस्मादिष्ट्वा विशिष्टेभ्यो देयं दानं मनोगतम् । । १३
तत्सर्वं मम सम्प्रीत्या गृहाण त्वं महामुने ।
साम्बवाक्यमिदं श्रुत्वा प्रत्युवाच महामुनिः । । १४
गौरमुख उवाच
ब्रवीम्यहमशेषेण यथावदनुपूर्वशः ।
अहं विप्रो भवान्राजा स च देवपरिग्रहः । ।
अपरस्परमेवं तु ग्रहणं मे विरुध्यते । । १५
ब्रह्मविद्याप्रणीतानि स्वकर्माणि द्विजातयः ।
कुर्वाणा न प्रहीयन्ते अन्यथा भिन्नवृत्तयः । । १६
क्षान्तिरध्यापनं२ जापः सत्यं च यदुनन्दन ।
एतानि विप्रकर्माणि न देवार्थपरिग्रहः३ । । १७
यदि देवार्थदानं१ स्यात्ततो देवलका द्विजाः ।
देवद्रव्याभिलाषश्च ब्राह्मण्यं तु विमुञ्चति । । १८
देवद्वारे च यद्दानं ब्राह्मणाय प्रयच्छति ।
द्वावेतौ पापकर्तारावात्मदोषेण मानवौ । । १९
देवार्थदानं२ वार्ष्णेय यद्गृहीत्वा च यो द्विजः ।
श्राद्धे वा यदि वा सत्रे तज्जुहोति ददाति वा । ।
भिन्न वृत्तो द्विजः पापो राक्षसः सोऽभिजायते । । 1.139.२०
द्विजो देवलको यत्र पङ्क्त्यां भुङ्क्ते महीपते ।
अन्नान्युपस्पृशेन्नीचा सा पङ्क्तिः पापमाचरेत् । । २१
द्विजो देवलको यस्य संस्कारं सम्प्रयच्छति ।
सोऽधोमुखान्पितॄन्सर्वानाक्रम्य विनिपातयेत् । । २२
आत्मानं पातयेद्यस्तु सोन्यानुद्धरते कथम्
उद्धरिष्यति चात्मानमित्येषा कल्पनाधमा । । २३
यो हठाच्च भयाच्चैव कुरुते रविवेश्मनः ।
वृत्तिं विधत्ते विप्रत्वात्पतितस्स तु जायते । । २४
सप्रतिग्रहमन्त्रेण द्विजोऽश्नाति परिग्रहम् ।
देवप्रतिग्रहार्थेषु वेदवाक्यं न विद्यते । । २५
तस्माद्राजा न देवार्थं विप्रे दद्यात्कथञ्चन ।
ब्रह्मसूत्रमहं छित्त्वा गमिष्यामीति गम्यताम् । । २६
साम्ब उवाच
अग्राह्यं चेद्द्विजातिभ्यः कस्मै देयमिदं मया ।
श्रुतं वा दृष्टपूर्वं वा तन्मे व्याख्यातुमर्हसि । । २७
गौरमुख उवाच
मगाय सम्प्रयच्छ त्वं पुरमेतच्छुभं विभो ।
तस्याधिकारो देवान्ने देवतानां च पूजने । । २८
साम्ब उवाच
कोऽयं मगेति ते प्रोक्ताः क्व वासौ वसते विभो ।
कस्य पुत्रो द्विजश्रेष्ठ किमाचारः किमाकृतिः । । २९
गौरमुख उवाच
योऽयं मगेति वै प्रोक्तो मगो दिव्यो द्विजोत्तमः ।
निक्षुभायां १ सुतो वीर आदित्यात्मज उच्यते । । 1.139.३०
साम्ब उवाच
कथं स निक्षुभापुत्रः कथं वीरसुतस्तथा ।
कथं चादित्यतनयो मगोऽसावुच्यतेनऽघ । । ३१
गौरमुख उवाच
मानुषत्वं गता देवी निक्षुभा किल यादव ।
गता शापमवाप्येह भास्कराल्लोकपूजिता । । ३२
गोत्रं मिहिरमित्याहुस्तस्मै ब्राह्मण्यमुत्तमम् ।
सुजिह्वा नाम धर्मात्मा ऋषिपुत्रः पुरानघ । । ३३
तस्यात्मजा समुत्पन्ना निक्षुभा सा वराङ्गना ।
रूपेणाप्रतिमा लोके हारलीला मता तु सा । । ३४
पितुर्नियोगात्सा कन्या विहरेज्जातवेदसि । । ३५
विहरन्ती यथान्यायं समिद्धे पावके तथा ।
अथ तां देवदेवेशो ह्यंशुमाली ददर्श ह । । ३६
रूपयौवनसम्पन्नां ततः कामवशं गतः ।
चिन्तयामास देवेशः कथं तां वै भजाम्यहम् । । ३७
अनयावहृतो योऽयं पावको देवपूजितः ।
वनमाविश्य तन्वङ्गीं भजेयं लोकपूजिताम् । । ३८
इति सञ्चिन्त्य देवेशः सहस्रांशुर्दिवस्पति ।
विवेश पावकं वीर तत्पुत्रश्चाभवत्तदा । । ३९
ततो विलासलावण्यरूपयौवनशालिनी ।
समिद्धं लङ्घयित्वाग्निं जगामायतलोचना । । 1.139.४०
क्रुद्धः स्वरूपमास्थाय दृष्ट्वा कन्यां स पीडितः ।
करं करेण सङ्गृह्य ततस्तां हव्यवाहनः । । ४१
उवाच यदुशार्दूल नोदितो भास्करेण तु ।
वेदोक्तं विधिमुत्सृज्य यथाहं लंघितस्त्वया । ।४ २
तस्मान्मत्तः समुत्पन्नो न च पुत्रो भविष्यति ।
जरशब्द इति ख्यातो वंशकीर्तिविवर्धनः । । ४३
अग्निजात्या मगाः प्रोक्ताः सोमजात्या द्विजातयः ।
भोजकादित्यजात्या हि दिव्यास्ते परिकीर्तिताः । ।४४
तामेवमुक्त्वा भगवानादित्योऽन्तरतस्तदा ।
अथोत्पन्नां प्रजां ज्ञात्वा ध्यानयोगेन वै ऋषिः । । ४५
पतितः स्यान्महातेजा ऋग्जिह्वः सुमहामतिः ।
शापमुद्यम्य तेजस्वी ऋग्जिह्वो वाक्यमब्रवीत् । । ४६
आत्मापराधात्कामिन्या यथा गर्भो नलावृतः ।
सम्भूतस्ते महाभागे अपूज्योऽयं भविष्यति । । ४७
पुत्रशोकाभिसन्तप्ता बाला पर्याकुलेक्षणा ।
चिन्तयामास दुःखार्ता तमेकं ज्वलनाकृतिम् । । ४८
ततो देववरिष्ठस्य मम योनिसमुद्भवः ।
अयं दत्तो महाशापः पूज्यतां कर्तुमर्हसि । ।४ ९
भवेत्पूज्यो हि मे पुत्रो देवेश्वर तथा कुरु ।
एवं चिंतयमानस्तु भगवानर्यमा किल । । 1.139.५०
आग्नेयं रूपमाश्रित्य चेदं वचनमब्रवीत् ।
स्निग्धो गम्भीरनिर्घोषः शान्तो ज्वरविवर्जितः । । ५१
ऋग्जिह्रः सुमहातेजा धर्मं चरति सुव्रत ।
तेनोत्सृष्टं महाशापं नान्यथा कर्तुमुत्सहे । । ५२
किं तु कार्यगरीयस्त्वादात्मनो योग्यमुत्तमम् ।
तव पुत्रं विधास्यामि चापूज्यं वेदपारगम् । । ५३
वंशश्च सुमहांस्तस्य निवसिष्यति भूतले ।
ममाङ्गानि महात्मानो वाशिष्ठा ब्रह्मवादिनः । । ५४
मद्गायना मद्यजना मद्भक्ता मत्परायणाः ।
मम शुश्रूषकाश्चैव मम च व्रतचारिणः । । ५५
त्वां च मां च यथान्यायं वेदं तत्त्वार्थदर्शिनः ।
पूजयिष्यन्ति निरताः सदा मद्भावभाविताः । । ५६
मत्कर्मणां मदङ्गानां मद्भावविनिवेशनात् ।
विरजा मत्प्रसादेन मामेवैष्यन्त्यसंशयम् । । ५७
जटाश्मश्रुधरा नित्यं सदा मयि परायणाः ।
पञ्चकालविधानज्ञा वीरकालस्य यज्विनः । । ५८
पूर्णेकदक्षिणे पाणौ वर्म वामेन धारयन् ।
पतिदानेन वदनं प्रच्छाद्य नियतः शुचिः । । ५९
प्राणं हि महतां कृत्वा ततो भुञ्जीत वाग्यतः ।
अयमाच्चाप्रसादाच्च व्याकुलेन्द्रियचेतसा । । 1.139.६०
विधिहीनं मंत्रहीन ये वै यक्ष्यन्ति मामतः ।
तेऽपि स्वर्गाच्च्युताः क्लान्ता रमन्ते सूर्यसन्निधौ । । ६१
एवंविधास्तव सुता भविष्यन्ति महीतले ।
मगवंशे महात्मानो वेदवेदाङ्गपारगाः । । ६२
एवमाश्वास्य तां देवीं भास्करो वारितस्करः ।
अन्तदर्धे महातेजाः सा च हर्षमवाप ह । । ६३
एवमेते समुत्पन्ना भोजकाः कृष्णनन्दन ।
विष्णुभास्ते तथादित्या उत्पन्ना लोकपूजिताः । । ६४
तेषामेतत्पुरं देहि पर्याप्तास्ते प्रतिग्रहे ।
त्वदीयस्यास्य मे वीर तथा भास्करपूजने । । ६५
तस्य गौरमुखस्येदं वाक्यं श्रुत्वा स यादवः ।
साम्बो जाम्बवतीपुत्रः प्रणम्य शिरसोक्तवान् । । ६६
क्व वसन्ते महात्मान एते भास्करपुत्रकाः ।
भोजका द्विजशार्दूल येन तानानयाम्यहम् । । ६७
गौरमुख उवाच
नाहं जाने महाबाहो वसन्ते यत्र वै मगाः ।
जानीते तान्रविर्वीर तस्मात्तं शरणं व्रज । । ६८
ब्राह्मणेनैवमुक्तस्तु प्रणम्य शिरसा रविम् ।
जगाद भास्करं साम्बः कस्ते पूजां करिष्यति । । ६ ९-
विज्ञप्तस्त्वेव साम्बेन प्रतिमा तमुवाच ह ।
न योग्याः परिचर्यायां जम्बूद्वीपे ममानघ । । 1.139.७०
मम पूजाकरं गत्वा शाकद्वीपादिहानय ।
लवणोदात्परे पारे क्षीरोदेन समावृतः । । ७१
जम्बूद्वीपात्परो यस्माच्छाकद्वीप इति स्मृतः ।
तत्र पुण्या जनपदाश्चतुर्वर्णसमन्विताः । । ७२
मगाश्च मगगाश्चैव गानगा१ मन्दगास्तथा ।
मगा ब्राह्मणभूयिष्ठा मगगाः क्षत्रियाः स्मृताः । । ७३
वैश्यास्तु गानगा ज्ञेयाः शूद्रास्तेषां तु मन्दगाः ।
न तेषां सङ्करः कश्चिद्धर्माश्रयकृते क्वचित् । । ७४
धर्मस्यास्य विचारो वा ह्येकतः सुखिनः प्रजाः ।
तेजसस्ते मदीयस्य निर्मिता विश्वकर्मणा । । । । ७५
तेभ्यो वेदास्तु चत्वारः सरहस्या मयोदिताः ।
वेदोक्तैर्विविधैः स्तोत्रैः परैर्गुह्यैर्मया कृतैः । । ७६
ते च ध्यायन्ति मामेव यजन्ते मां च नित्यशः ।
मन्मानसा मद्यजना मद्भक्ता मत्परायणाः । । ७७
मम शुश्रूषकाश्चैव मम च व्रतचारिणः ।
अव्यङ्गधारिणश्चैव विधिदृष्टेन कर्मणा । । ७८
कुर्वन्ति ते सदा भद्रां मम पूजां ममानुगाः ।
तथा देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । ।
विहरन्ते रमन्ते च दृश्यमानाश्च तैः सह । । ७९
जम्बूद्वीपे त्वहं विष्णुर्वेदवेदाङ्गपूजितः ।
शक्रोऽहं शाल्मलीद्वीपे क्रौञ्चद्वीपे ह्यहं भगः१ । । 1.139.८०
प्लक्षद्वीपे त्वहं भानुः शाकद्वीपे दिवाकरः ।
पुष्करे च स्मृतो ब्रह्मा ततश्चाहं महेश्वरः । । ८१
तान्मगान्मम पूजार्थं शाकद्वीपादिहानय ।
आरुह्य गरुडं साम्ब शीघ्रं गत्वाविचारयन् । । ८२
तथेति गृह्य तामाज्ञां रवेर्जाम्बवतीसुतः ।
पुनर्द्वारवतीं गत्वा कान्त्यातीव समन्वितः । । ८३
आख्यातवान्पितुः सर्वं स्वकीयं देवदर्शनम् ।
तस्माच्च गरुडं लब्ध्वा ययौ साम्बोऽधिरुह्य तम् । । ८४
शाकद्वीपमनुप्राप्य सम्प्रहृष्टतनूरुहः ।
तत्रापश्यद्यथोद्दिष्टान्साम्बस्तेजस्विनो मगान् । । ८५
विवस्वन्तं पूजयन्तो धूपदीपादिभिः शुभैः ।
सोऽभिवाद्य च तान्पूर्वं कृत्वाप्येषां प्रदक्षिणाम् । । ८६
पृष्ट्वा चानामयं तेषां प्रशंसासामपूर्वकम् ।
यूयं हि पुण्यकर्माणो द्रष्टव्यार्थे शुभार्थिनः । ।
रता येऽर्कस्य पूजायां येषां चैव वरप्रदः । । ८७
तनयं वित्त मां विष्णोः साम्बं नाम्ना च विश्रुतम् ।
चन्द्रभागातटे चापि मया सूर्यो निवेशितः । । ८८
तेनाहं प्रेषितश्चात्र उत्तिष्ठध्वं व्रजामहे ।
ते तमूचुस्ततः साम्बमेवमेतन्न संशयः । । ८९
अस्माकमपि देवेन व्याख्यातां पूर्वमेव हि ।
अष्टादश कुलानीह मगानां वेदवादिनाम् । ।
यास्यन्ति ये त्वया सार्धं यथा देवेन भाषितम् । । 1.139.९०
ततस्तानि दशाष्टौ च कुलानीह समन्ततः ।
आरोप्य गरुडे साम्बस्त्वरितः पुनरभ्यगात् । । ९१
सोऽल्पेनैव तु कालेन प्राप्तो मित्रवनं ततः ।
कृत्वाज्ञां तु रवेः साम्बः कृत्स्नं त्वेवं न्यवेदयत् । । ९२
रविः शोभनमित्युक्त्वा प्रसन्नः साम्बमब्रवीत् ।
मम पूजाकरा ह्येते प्रजानां शान्तिकारकाः । । ९३
मम पूजां करिष्यन्ति विधानोक्तां यदूत्तम ।
तत्कृते न पुनश्चिन्ता तव काचिद्भविष्यति । । ९४

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकानयनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः । १३९ ।