भोजकवर्णनम्

शतानीक उवाच
य एते भोजकाः प्रोक्ता देवदेवस्य पूजकाः ।
नान्यं भोज्यमथैतेषां ब्राह्मणैश्च कदाचन । । १
भास्करस्य प्रिया ह्येते पूज्यत्वं च तथा गताः ।
दिव्याश्चैते स्मृता विप्रा आदित्याम्भः समुद्भवाः । । २
अभोज्यत्वं कथं याता भोजकास्तद्वदस्व मे ।
किं कुर्वाणास्तथा कर्म भोज्यतां यान्ति मे वद । । ३
सुमन्तुरुवाच
इममर्थं पुरा पृष्टो वासुदेवो महीपते ।
कृतवर्मणा पुरा राजंस्तथा साम्बो महाबलः । । ४
गतौ साम्बपुरीं वीर तथा नारदपर्वतौ ।
भुक्तवन्तो गृहे सर्वे भोजकस्य महात्मनः । । ५
आदित्यकर्मणो लोके देवान्नख्यातिमागताः ।
तेन ते पूजिताः सर्वे भक्त्या भोज्यैरनेकशः । । ६
आगतास्ते पुरीं वीर पुण्यां द्वारवतीं विभोः ।
तावृषी दिवमारुढौ राजन्नारदपर्वतौ । ७
वासुदेवं महातेजा हार्दिक्यो वाक्यमब्रवीत् ।
य एते भोजका विप्र पूजका भास्करस्य तु । । ८
अन्नमेषां कथं विप्रौ भुक्तवन्तौ जनार्दन ।
तावृषी दिव्यमाख्यातौ यौ तौ नारदपर्वतौ । ।
अभोज्याः किल एते वै ब्राह्मणानां जनार्दन । । ९
वासुदेव उवाच
न ते भोज्या महाबाहो भोज्या भोजाश्च सर्वदा ।
अभिवाद्यां प्रयत्नेन यथादित्यो महामते । । 1.146.१०
आचरन्तश्र तत्कर्म भोज्यत्वं प्रवजन्ति ते ।
तच्छ्रूयतां यदुश्रेष्ठ यत्कार्यं चापि तैर्विभो । ।
यतमानैर्महाबाहो तदिहैकमनाः शृणु । । ११
वृषली यस्य वै भार्या यश्चाव्यङ्गं न धारयेत् ।
अभोज्यः स तु विज्ञेयो भोजको नात्र संशयः । । १२
अस्नातः पूजयेद्यस्तु तथाभ्यङ्गविवर्जितः ।
आदित्यं यदुशार्दूल तथा च विधिना विभो । । १३
सेवको भोजको यस्तु शूद्रान्नं येन भुज्यते ।
कृषिं च कुरुते यस्तु देवार्चामपि वर्जयेत् । । १४
जातकर्मादयो यस्य न संस्काराः कृता विभो ।
आरुणेयैश्च मन्त्रैश्च सावित्रीं न च वै पठेत् । ।
तस्य गेहे द्विजो भुक्त्वा कृच्छ्रपादेन शुध्यति । । १५
पितृदेवमनुष्याणां भूतानां भास्करस्य तु ।
अकृत्वा विधिवत्पूजां यस्तु भुङ्क्ते स धर्महा । । १६
अभ्यङ्गेन विहीनो यः शंखहीनस्तथैव च ।
शिरसा धारयेत्केशान्स ज्ञेयो भोजकाधमः । । १७
देवार्चनं तथा होमं स्नानं तर्पणमेव च ।
दानं ब्राह्मणपूजां च कुर्वतो भोजकस्य तु । ।
अभ्यङ्गेन विहीनस्य सर्वं भवति निष्फलम् । । १८
सर्वदेवमयो ह्येष सर्ववेदमयस्तथा ।
अभ्यङ्गो यदुशार्दूल पवित्रः परमः स्मृतः । । १९
भोजकानां यदुश्रेष्ठ तस्य मूले स्थितो हरिः ।
मध्ये ब्रह्मा महातेजा अग्रे गोश्रुतिभूषणः । । 1.146.२०
ऋग्वेदो यस्य मूलस्थो मध्ये सामानि कृत्स्नशः ।
यजुर्वेदस्तथा श्रेष्ठश्चाथर्वसहितः स्थितः । । २१
त्रयोऽग्नयस्तथा राजंस्त्रयो लोकाः स्थिताः क्रमात् ।
एवमेव पवित्रस्तु अभ्यङ्गो भोजकस्य तु । । २२
यस्त्वनेन विहीनस्तु भोजको भोजकाधमः ।
अभोज्यः स तु विज्ञेयः सोऽशुचिर्नात्र संशयः । । २३
निर्माल्यमथ नैवेद्यं कुङ्कुमं देवहेलिनाम् ।
ये प्रयच्छन्ति शूद्राणां विक्रीणन्ति च भोजकाः । ।
तेऽधमा भोजका ज्ञेया ये च देवस्वहारिणः । । २४
न पूजयन्ति देवेशं देवस्वं क्षपयन्ति च ।
न ते देव प्रियास्तात विज्ञेया भोजकाधमाः । । २५
यस्मिन्न भुक्ते नैवेद्यं भोजकोऽश्नाति मानद ।
तदन्नं भुङ्जतस्तस्य नरकाय न शान्तये । । २६
नैवेद्यं भोजयेत्तस्माद्भास्करस्य नरः सदा ।
प्रथमं यदुशार्दूल तच्च देहविशोधनम् । । २७
ब्राह्मणानां पुरोडाशो यथा कायविशोधनः ।
भोजकानां तथा वीर नैवेद्यं कायशोधनम् । । २८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः । १४६ ।