भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १४५

← अध्यायः १४४ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः १४५
अज्ञातलेखकः
अध्यायः १४६ →

भोजकज्ञानवर्णनम्

वासुदेव उवाच
ज्ञानोपलब्धिं विप्रेन्द्र भोजकानां महामुने ।
ब्रूहि तत्त्वं द्विजश्रेष्ठ कौतुकं परमं मम । । १
व्यास उवाच
इमां ज्ञानोपलब्धिं तु निबोध गदतो मम ।
अस्थिस्थूलं स्नायुयुतं मांसशोणितलेपनम् । ।
चर्मावनद्धं दुर्गंधिपूर्णं मूत्रपुरीषयोः । । २
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यजेत् । । ३
कपालं वृक्षमूलानि कुचैलमसहायता ।
समता सर्वभूतेषु एवं मुक्तस्य लक्षणम् । । ४
तिले तैलं गवि क्षीरं काष्ठे पावकसन्ततिः ।
उपायं चिन्तयेदस्य धिया धीरः समाहितः । । ५
प्रमाथि च प्रयत्नेन मनः संयम्य चञ्चलम् ।
बुद्धीन्द्रियाणि संयम्य शकुनानिव पञ्जरे । । ६
इन्द्रियैर्नियतैर्देही धाराभिरिव तृप्यते ।
सततममृतस्यैव जनार्दन महामते । । ७
प्राणायामैर्दहेद्दोषान्धारणाभिश्च१ किल्बिषम् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् । । ८
ध्यायमानस्य दह्यन्ते चान्ते दोषा यथाग्निना ।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ९
चित्तं चित्तेन संशोध्य भावं भावेन शोधयेत् ।
मनस्तु मनसा शोध्यं बुद्धिं बुद्ध्या तु शोधयेत् । । 1.145.१०
चित्तस्यातिप्रसादेन भाति कर्म शुभाशुभम् ।
शुभाशुभविनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः । ।
निर्ममो निरहङ्कारस्ततो याति परां गतिम् । । ११
पर्वाह्णे लोहितं रूपं प्रथममृङ्ममयं स्मृतम् ।
यजुर्मयं द्वितीयं तु श्वेतं माध्याह्निकं स्मृतम् । । १२
कृष्णं तृतीयं सायाह्ने साम्नो रूपं तु तत्कृतम् ।
प्रथमं राजसं देव द्वितीयं सात्त्विकं स्मृतम् । १३
तृतीयं तामसं रूपं त्रैगुण्यं तस्य कल्पितम् ।
त्रयाणां व्यतिरेकेण चतुर्थं सूर्यमण्डलम् । । १४
ज्योतिः प्रकाशकं सूक्ष्मं प्रोक्तं देवनिरञ्जनम् ।
चतुर्थं तु वेदविदः सूर्यसिद्धान्तवेदिनः । । १५
ॐकारप्रणवैर्युक्ता ध्याननिर्भूतकल्मषाः ।
स्थिताः पद्मासने वीरा नाभिसंन्यस्तपाणयः । । १६
सुषुम्नानाडिकामार्गं कुम्भरेचकपूरकैः ।
त्रिभिः संशोध्य तान्पञ्च मरुतो देहमध्यगान् ।। १७
पदाङ्गुष्ठान्वितः स्विन्नमूर्ध्वमुत्क्षेपयेत्क्रमात् ।
नाभिदेशे तु तं दृष्ट्वा देवमग्निमनामयम् ।। १८
सोमं च हदये दृष्ट्वा मूर्ध्नि वाग्निशिखां ततः ।
वातरश्मिभिरासाद्य तं भित्त्वा मण्डलं परम् ।। १९
ततः परं तु यो गच्छेद्योगस्थः सूर्यमण्डलम् ।
यत्र गत्वा न शोचन्ति तत्सौरं परमं पदम् ।।1.145.२ ०
देवार्चनं महाबाहो कीर्तितः केशिसूदन ।
प्रथमं हदयं स्थानं द्वितीयं चाग्निमाश्रितम् ।।२ १
तृतीयं नाभिसंस्थं च चतुर्थं सूर्यमण्डलम् ।।२२
स्थानं परं वै परमात्मसंस्थं भानोः सुरेशस्य वदन्ति तज्ज्ञाः ।
ज्ञेयः स मोक्षश्च नृणां स एव संसारविच्छित्तिकरं पदं ततः ।।२३
इदममृतसमं परस्य वेद्यं किरणसहस्रमृतो हितं जनानाम् ।
ऋषिचरितमवेत्य तत्त्वसारं व्यपगतमोहधियः प्रयान्ति मोक्षम् ।।२४
इदं मगानां चरितं मया ते प्रख्यापितं यानवरेण युक्तम् ।
ज्ञात्वात्विमं मोक्षविदो वदन्ति सिद्धाश्च तत्स्थानमवाप्नुवन्ति ।।२५
यन्मयोक्तमिदं ज्ञानं देयं श्रद्धावतां नृणाम् ।
नास्तिकानामबुद्धीनां न देयं भूतिमिच्छता ।।२६
सुमन्तुरुवाच
इत्युक्त्वा भगवान्व्यासो भोजकज्ञानमुत्तमम् ।
नारायणं महाबाहो जगामायतनं हरेः ।।२७
ख्यातो यस्त्रिषु लोकेषु गंगया परितोषितः ।
बदर्या मण्डितो वीर नरनारायणाश्रमः । । २८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भोजकज्ञानवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः । १४५ ।