कालचक्रवर्णनम्

सुमन्तुरुवाच
अध साम्बो महातेजा दृष्ट्वा चक्रं पितुः करे ।
ज्वालामालाकरालं तु महता तेजसान्वितम् । । १
पप्रच्छ पितरं साम्बो भक्त्या श्रद्धासमन्वितः ।
कुतस्तात त्वया प्राप्तं चक्रमादित्यसन्निभम् । । २
किमर्थं वहते देव दिव्यमायुधमुत्तमम् ।
एतदाख्याहि मे सर्वं श्रोतुकामस्य१ कौतुकात् । । ३
वासुदेव उवाच
साधुसाधु२ महाबाहो साधु पृष्टोस्म्यऽहं त्वया ।
शृणुष्वैकमनाः पुत्र चक्रस्य विधिनिर्णयम् । ।४
दिव्यं वर्षसहस्रं तु भानुमाराध्य श्रद्धया ।
प्राप्तं चक्रं मया तस्माद्भास्कराल्लोकपूजितात् । ।५
नभोगः पञ्चकारूढः स्थितः साक्षाद्दिवाकरः ।
ग्रहाः सोमादयो यस्य संस्थिता नाभिमण्डले । । ६
आदित्या द्वादश समा अरेषु क्रमशस्तथा ।
प्रोक्तं पथिषु तत्त्वानि पृथिव्यादीनि यानि वै । ।७
एतैस्तत्त्वैः परिव्याप्तं चक्रं कालात्मकं परम् ।
संक्षेपात्ते मयाख्यातं दत्तं चक्रमिवापरम् । । ८
साम्ब उवाच
कथं कालमयं देव चक्रं कमलमुच्यते ।
इदं तावन्ममाचक्ष्व ज्ञातुमिच्छामि तत्त्वतः । । ९
वासुदेव उवाच
कमलं ह्यृतुभिः षड्भिः षट्दलं चाक्षयाश्रितम् ।
पुरुषाधिष्ठितं तद्धि तत्र साङ्गो रविः स्थितः । । 1.148.१०
यच्च कालत्रयं लोके तन्नाभित्रयमुच्यते ।
मासा अरा महाबाहो पक्षाश्च प्रधयः स्मृताः । । ११
नेमी चैव परे प्रोक्ते अयने दक्षिणोत्तरे ।
पथिनाभिषु योगे च योगाख्यास्तपनादिभिः । । १२
नक्षत्राणि ग्रहाश्चैव सदा चात्र स्थिताः स्मृताः ।
एतैर्व्याप्तमिदं चक्रं स्थूलसूक्ष्मप्रभेदतः । । १३
अत्रोद्दिष्टेषु कालेषु ये नोद्दिष्टा मया तव ।
युगादिकल्पपर्यन्तास्तेऽपि चात्र स्थिताः क्रमात् । । १४
यत्ते कालात्मकं चक्रमिदं संक्षेपतो मया ।
कथितं तद्विनिष्क्रान्तं प्रदीप्तात्सूर्यमण्डलात् । । १५
असुराणां वधायेदं मया लब्धं दिवाकरात् ।
आराध्य तपसा सूर्यं पुरा कल्पे जगद्गुरुम् । ।
अतः सम्पूज्ययाम्येनं ग्रहैस्तत्त्वैर्वृतं सदा । । १६
अर्कं भक्तो हि चक्रस्थं यः पूजयति भक्तिमान् ।
तेजसा रविसंकाशः पुष्पोत्तरपुरं व्रजेत् । । १७
तस्मात्तं मत्कुलानन्दं मित्रं सम्पूजयाम्यहम् ।
ग्रहैस्तत्त्वैर्वृतं भक्त्या स्वमन्त्रैः सततं विभुम् । । १८
सप्तम्यां चक्रमालिख्य ये यजन्ति दिवाकरम् ।
रक्तचन्दनपूर्णेन कुंकुमेन सुगंधिना । । १९
पिष्टगन्धादिभिर्वापि रक्तवर्णकमिश्रकैः ।
रक्तैश्च कमलैः शुद्धैः करवीरैः सुगन्धिभिः । । 1.148.२०
अन्यैर्वा कुसुमैर्वन्यैः प्रत्यग्रैर्जन्तुवर्जितैः ।
अपर्युषितनिश्छिद्रैः शुभधन्यैर्दलैरपि । । २१
फलैः पक्वैरोषधिभिस्तथा दूर्वाङ्कुरैः कुशैः ।
धूपैश्च विविधैर्गन्धैस्तथा वस्त्रैश्च भूषणैः । । २२
भक्ष्यैर्भोज्यैश्च पेयैश्च चोष्यैर्लेह्यैश्च शक्तितः ।
वितानशोभासिकतैः पलाशैरुपशोभितैः । । २३
छत्रचामरघण्टाभिर्भूषणैर्दर्पणादिभिः ।
नृत्यवादित्रगीतैश्च वेदैः पुण्यकथास्वनैः । । २४
सर्वत्र जयघोषैश्च सम्पूर्णे पूजयन्ति ये ।
सम्पूर्णान्विविधान्कामान्निर्विघ्नान्प्राप्नुवन्ति ते । । २५
स्वचक्रं चापि निर्विघ्नं वृद्धिमायाति सुव्रत ।
हन्यते परचक्रं च यत्रेदं पूज्यते सकृत् । । २६
सङ्क्रान्तौ ग्रहणे चापि लिखित्वा यो जपेदिदम् ।
भवन्ति नियताः साम्ब तस्य सानुग्रहा ग्रहाः । । २७
सर्वरोगविहीनस्तु सर्वदुःखविवर्जितः ।
चिरं जीवति धर्मात्मा सर्वैश्वर्यसमन्वितः । । २८
एष वै कथितो वत्स चक्रयोगो मया तव ।
अर्कस्य सर्वयज्ञानां श्रेष्ठं सिद्धिप्रदो भृशम् । । २९
पुण्यो धर्मस्तथा पुष्ट्यः शत्रुघ्नश्च विशेषतः ।
श्वेतो रक्तोऽथ पीतश्च कृष्णश्चापि विभागशः । । 1.148.३०

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने कालचक्रवर्णनं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः । १४८ ।