भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९८

← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९७ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९८
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९९ →

व्यासभीष्मसंवादवर्णनम्

।। शतानीक उवाच ।। ।।
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।।
स्तुवन्तः कं कमर्चतः प्राप्नुयुर्मानवाः शुभम् ।। १ ।।
को धर्मः सर्वधर्माणां कश्च पूज्यो मतस्तव ।।
ब्रह्मादयः कमर्चंति कश्चादिस्त्रिदिवौकसाम्।। २ ।।
।। सुमन्तुरुवाच ।। ।।
अत्राहं ते प्रवक्ष्यामि संवादं पापनाशनम् ।।
भीष्मस्य नरशार्दूल व्यासस्य च महात्मनः ।।३।।
सुखासीनं महाव्यासं गंगाकूले द्विजोत्तम।।
तं दृष्ट्वा सुमहातेजा ज्वलंतमिव पावकम् ।।४।।
साक्षान्नारायणं देवं तेजसादित्यसन्निभम्।।
प्रणम्य शिरसा वीर सर्वशास्त्रालयं परम् ।।५।।
महाभारतकर्तारं वेदार्थनिकषं परम् ।।
आचार्यं परमर्षीणां राजर्षीणां च भारत ।।६।।
कर्तारं कुरुवंशस्य दैवतं परमं मम ।।
पप्रच्छ कुरुशार्दूलो द्विजभक्त्या समन्वितः ।।७।।
देवदेवस्य माहात्म्यं चित्तस्थं भास्करस्य तु ।।
स महात्मा महातेजा भीष्मः पूर्वं मुनिं तथा ।। ८ ।।
।। भीष्म उवाच ।। ।।
भगवन्द्विजशार्दूल पाराशर्य महामते ।।
ममाख्यातं त्वया सर्वं वाङ्मयं सचराचरम् ।। ९ ।।
भास्करस्य मुनिश्रेष्ठ संशयोद्यापि वर्तते ।।
आदौ तस्य नमस्कारमन्येषां तदनंतरम् ।। १० ।।
ब्रह्मादीनां तु रुद्राद्यैर्ब्रूहि तत्त्वेन हेतुना ।।
क एष भास्करो ब्रह्मन्कुतो जातः क उच्यते ।। ११ ।।
कीर्तयस्व यथान्यायं कौतुकं हि परं मम ।।
कुशलो हि भवांल्लोके तस्मात्त्वं वक्तुमर्हसि ।। १२ ।।
।। व्यास उवाच ।। ।।
अहो तव महत्कष्टं प्रमूढोसि न संशयः ।।
स्तुवंतश्च तमर्चाभिः सिद्धा ब्रह्मादयः सुराः ।। १३ ।।
सर्वेषामेव देवानामादिरादित्य उच्यते ।।
स हंति तिमिरं सर्वं दिग्विदिक्षु व्यवस्थितम् ।। १४ ।।
स धर्मः सर्वधर्माणां स च पूज्यतमो मतः ।।
ब्रह्मादयस्तमर्चंति स चादिस्त्रिदिवौकसाम् ।। १५ ।।
अदितिः कश्यपसती आदित्यस्तेन चोच्यते ।।
आदिकर्ताथ वा यस्मा त्तस्मादादित्य उच्यते ।। १६ ।।
तस्मादेतज्जगत्सर्वमादित्यात्संप्रवर्तते ।।
सदेवासुरगंधर्वं सयक्षोरगराक्षसम् ।। १७ ।।
रुद्रोपेंद्रौ तथेंद्रश्च ब्रह्मा दक्षोथ कश्यपः ।।
आदित्यदेवताः सर्वे तथान्ये देवदानवाः ।। १८ ।।
मुखाद्भूतो विरिंचिस्तु रुद्रो वक्षस्थलात्ततः ।।
उपेंद्रो दक्षिणाद्धस्ताद्धाता वामकरात्तथा ।। १९ ।।
वामपादतलाद्दक्षो दक्षिणात्कश्यपस्तथा ।।
इत्युत्पन्नास्तथा चान्ये देवासुरनराः खगाः ।।
तेनासौ देव आदित्यः सर्वदेवेषु पूजितः ।।२०।।
।। भीष्म उवाच ।। ।।
यदीत्थं गीयते वीर दिग्विदिक्षु स भास्करः ।।
यदि तस्य प्रभावोयं पाराशर्य जगत्पतेः ।।२१।।
स किमर्थं त्रिसंध्यं तु राक्षसैः परिभूयते ।।
द्विजैः संरक्ष्यते भूयश्चक्रवद्भ्रमते पुनः ।।
राहुणा गृह्यतेऽग्राह्यस्तत्किमर्थं द्विजोत्तम ।।२२।।
।।व्यास उवाच ।। ।।
पिशाचोरगरक्षांसि डाकिनीदानवांस्तथा ।।
दक्षिणाग्निर्दहेत्क्रोधात्तमाक्रामति भास्करः ।। २३ ।।
त्रिसंध्यं तु त्रयो देवाः सान्निध्यं रविमंडले ।।
मुहूर्तस्य प्रभावोयमसाध्ये दृष्टके तथा ।। २४ ।।
तमेकमेवमुद्दिश्य लोके धर्मः प्रवर्तते ।।
नमस्कृते स्तुते तस्मिन्सर्वे देवा नमस्कृताः ।। २५ ।।
त्रिसन्ध्यं वसुधादेवैर्भास्करस्त्रिः प्रणम्यते ।।
राहुरादित्यबिंबस्य स्थितोधस्तान्न संशयः ।। २६ ।।
अमृतार्थी विमानस्थो यावत्संस्रवतेऽमृतम् ।।
विमानांतरितं बिंबमादिशेद्ग्रहणं ततः ।। २७ ।।
न कश्चिद्धर्षितुं शक्त आदित्यो दहते ध्रुवम् ।।
दिवारात्रिमुहूर्तानां ज्ञानायाक्रमते रविः।।२८।।
नादित्येन विना रात्रिर्न दिनं न च तर्पणम् ।।
नाधर्म्मो नाथ वा धर्म्मस्तेन दृष्टं चराचरम् ।। २९ ।।
आदित्यः पाति वै सर्वमादित्यः सृजते सदा ।।
एतत्सर्वं समाख्यातं यत्पृष्टं भवता मम ।। ३० ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे व्यासभीष्मसंवादेऽष्टनवत्यधिकशततमोऽध्यायः ।। १९८ ।।