भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९९

← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९८ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९९
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०० →

भीष्मव्याससंवादवर्णनम्

।। भीष्म उवाच ।। ।।
स आदित्यो भवेद्येन अचिरात्तु वरप्रदः ।।
तदहंश्रोतुमिच्छामि विप्र मां ब्रूहि तत्त्वतः ।। १ ।।
।। व्यास उवाच ।। ।।
पूजया जपहोमेन ध्यानधारणया सह ।।
सकलं मण्डलं कृत्वा तद्दीक्षा समयं तथा ।। २ ।।
लब्ध्वा राधयते यस्तु भक्त्या तद्गतमानसः ।।
तस्य भानुर्भवेद्वीर अचिरात्तु वरप्रदः ।। ३ ।।
बलसिद्धिं महद्वीर्यं प्रतापं च स्वकायनम् ।।
धनं धान्यं सुवर्णं च रूपं सौभाग्यसंपदम् ।। ४ ।।
आरोग्यमायुः कीर्तिं च यशः पुत्रांश्च मानद ।।
ददते नात्र संदेहो यस्य तुष्टो दिवाकरः ।। ५ ।।
धर्ममर्थं तथा कामं विद्यां मोक्षश्रियं तथा ।।
ददते भास्करस्तुष्टो नराणां नात्र संशयः ।। ६ ।।
सौरेण विधिना तात पूजयित्वा दिवाकरम् ।।
सर्वान्कामानवाप्नोति तथादित्यालयं नृप ।। ७ ।।
।। भीष्म उवाच ।। ।।
सौरस्नानविधिं ब्रूहि सरहस्यं महामते ।।
येन स्नातोऽमलो याति नरः पूज यितुं रविम् ।। ८ ।।
।। व्यास उवाच ।। ।।
हंत ते संप्रवक्ष्यामि स्नानं पापप्रणाशनम् ।।
शुचौ मनोरमे स्थाने संगृह्यास्त्रेण मृत्तिकाम् ।।९ ।।
संधिसंघो हकारस्तु टरेफोफसमन्विते ।।
अनेनास्त्रेण संगृह्य ततः स्नानं समाचरेत् ।। १०।।
मलस्नानं ततः पश्चाच्छेषार्धेन तु कारयेत् ।।
भागत्रयं तु सार्धं तु तृणपाषाणवर्जितम् ।। ११ ।।
एकमस्त्रेण चालभ्य तथान्यं भास्करेण तु ।।
अंगं चैव तृतीयेन अभिमंत्र्य सकृत्सकृत् ।। १२ ।।
जप्त्वास्त्रेण क्षिपेद्दिक्षु निर्विघ्नं तु जलं भवेत् ।।
सूर्यतीर्थे द्वितीयेन अभिमंत्र्य सकृत्सकृत् ।। १३ ।।
गु(मु)ण्डयित्वा ततः स्नायादिति तीर्थेषु मानवः ।।
तूर्यशंखनिनादेन ध्यात्वा देवं दिवाकरम् ।। १४ ।।
स्नात्वा राजोपचारेण पुनराचम्य यत्नतः ।।
स्नानं कृत्वा ततो भीष्म मंत्रराजेन संयुतम् ।। १५ ।।
हरेफौ बिंदुयुक्तश्च तथान्यो दीर्घया सह ।।
मात्रया रेफसंयुक्तो हकारो बिंदुना सह ।। १६ ।।
सकारः सविसर्गस्तु मंत्रराजोऽयमुच्यते ।।
ततस्तु तर्पयेन्मंत्रान्सर्वांस्तांस्तु कराग्रजैः ।। १७ ।।
पर्वणामूर्ध्वतो देवाः सव्येन मुनयस्तथा ।।
पितरश्चापसव्येन तद्बीजेन प्रतर्पयेत्।। ।। १८ ।।
यद्गीतं प्रवरं लोके अक्षराणां मनीषिभिः ।।
तद्बिंदुसहितं प्रोक्तं हृद्बीजं नात्र संशयः ।। १९ ।।
कृत्वा वामकरे हस्ताद्ध्यात्वा प्राज्ञो विधानवित् ।।
एवं स्नात्वा विधानेन संध्यां वन्देद्विधानतः ।। २० ।।
ततो विद्वान्क्षिपेत्पश्चाद्भास्करायोदकांजलिम् ।।
जपेच्च त्र्यक्षरं मंत्रं षण्मुखं वा यदिच्छया ।। २१ ।।
मंत्रराजेति यः पूर्वं तवाख्यातो मया नृप ।।
पश्चात्तीर्थे तु मंत्रांस्तु संहृत्य हृदयं न्यसेत् ।। २२ ।।
मंत्रैरात्मानमेकत्र कृत्वा ह्यर्घ्यं प्रदापयेत् ।।
रक्तचन्दनगंधैस्तु शुचिस्नातो महीतले ।। २३ ।।
कृत्वा मण्डलकं वित्तमेकचित्तो व्यवस्थितः ।।
गृहीत्वा करवीराणि संस्थाप्य ताम्रभाजने ।। २४ ।।
तिलतंडुलसयुक्तं कुशगन्धोदकेन तु ।।
रक्तचन्दनधूपेन युक्तमर्घ्यं प्रसाध्य तत् ।। २५ ।।
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः ।।
पूर्वमंत्रेण संयुक्तमर्घ्यं दद्यात्तु भानवे ।।२६।।
मुच्यते सर्वपापैस्तु यो ह्येवं विनिवेदयेत् ।।
यद्युगादिसहस्रेण व्यतीपातशतेन च ।। २७ ।।
अयनानां सहस्रेण चन्द्रस्य ग्रहणे तथा ।।
गवां शतसहस्रेण यत्फलं ज्येष्ठपुष्करे ।।
दत्ते कुरुकुलश्रेष्ठ तदर्घ्येण फलं लभेत् ।।२८।।
दीक्षामन्त्रविहीनोऽपि भक्त्या संवत्सरेण तु ।।
फलमर्घ्येण वै वीर लभते नात्र संशयः ।। २९ ।।
यः पुनर्दीक्षितो विद्वान्विधिनार्घ्यं निवेदयेत् ।।
नासावुत्पद्यते भूमौ स लयं याति भास्करे।। ३० ।।
इह जन्मनि सौभाग्यमायुरागेग्यसंपदाम् ।।
अचिराद्भवते वीर स भार्यासुखभाजनम्।।३१।।
एष स्नानविधिः प्रोक्तो मया संक्षेपतस्तव ।।
हिताय मानवेंद्राणां सर्वपापप्रणाशनः ।।३२।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु भीष्मव्याससंवाद एकोनद्विशततमोऽध्यायः ।। १९९ ।।