भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २००

← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९९ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २००
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०१ →

सौरधर्मवर्णनम्

।। भीष्म उवाच ।। ।।
कथितस्ते स्नानविधिर्ब्रह्मन्वै पापहारकः ।।
सम्यग्ब्रह्मर्चनविधिं पूजयिष्यामि येन वै ।। १ ।।
।। व्यास उवाच ।। ।।
हंत ते संप्रवक्ष्यामि विधिमादित्यपूजने ।।
विविक्ते विजय स्थाने सुप्रसन्ने सुशोभने ।। २ ।।
पूजयेद्भास्करं मन्त्री सरलीकृतविग्रहः ।।
भद्रासनसमारूढः प्राङ्मुखः साधकोत्तमः ।। ३ ।।
अस्त्रबीजेन मंत्रेण नरः स्वांगानि विन्यसेत् ।।
अंगुष्ठमादितः कृत्वा कनिष्ठान्तं सुविन्यसेत् ।।४।।
हृदयादीन्फडन्तांस्तान्विन्यसेत्क्रमतः सदा ।।
नेत्रपाणितले वीर न्यस्य अर्घ्यादि मंत्रवित् ।। ५ ।।
यवर्गे यचतुर्थं तु कर्णबिंदुसमन्वितम् ।।
नेत्रबीजमिति प्रोक्तं ज्योतीरूपं न संशयः ।।६।।
पश्चात्तु त्र्यक्षरं सूर्यं कवचं विन्यसेद्बुधः ।।
कथितं तन्मया वीर मंत्रराजेति पृच्छतः ।। ७ ।।
प्राणायामं ततः कुर्यात्प्रथमं बीजमुद्गिरन् ।।
शेषक्रमेण हुत्वायं विरजे भीष्मशक्तितः ।। ८ ।।
त्रिभिरेव ततो घोरैरात्मशुद्धिः कृता भवेत् ।।
इति संशोध्य चात्मानं सूर्यं सर्वांतिकं न्यसेत् ।। ९ ।।
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।।
एकविंशतिमातृकाया अक्षरं यत्प्रकीर्तितम् ।। १० ।।
हृद्बीजमिति विख्यातं ब्रह्मस्थानमनौपमम्।।
शिरसार्कस्य पूजा तु लोकेर्कः प्रतिकथ्यते ।। ११ ।।
शिखायां तु शिखां न्यस्येच्छरीरे कवचं न्यसेत् ।।
नेत्रयोर्विन्यसेन्नेत्रं करयोरस्त्रमेव च ।। १२ ।।
महाव्याहृतयो राजंस्तथारज्वालिनी शिखा ।।
हकारश्च रकारश्च कुकारो बिंदुना सह ।।१३ ।।
एतेषां समयाश्चैव कवचं परिकथ्यते ।।
नेत्रयोर्विन्यसेन्नेत्रं करयोर स्त्रमेव च ।। १४ ।।
एवमंगानि विन्यस्य नासौ केनापि बाद्ध्यते ।।
शत्रवो मित्रतां यांति अलाभे लाभमाप्नुयात् ।।१५।।
आत्मानं भास्करं ज्ञात्वा यथोक्तं तत्त्वदर्शिभिः ।।
ततस्तु पूजयेद्भानुं स्थंडिले विधिवत्पुनः ।। १६ ।।
कृत्वा तु दक्षिणे पार्श्वे दिव्यपुष्पकरंडकम् ।।
कृत्वा सुशोभिते वामे ताम्रपूर्णेन वारिणा ।। १७ ।।
अस्त्रेण क्षालितां पूर्णां शेषं मंत्रैर्जलैस्तथा ।।
अभिमंत्र्य ततः स्थाप्य कवचेनावगुंठिताम् ।। १८ ।।
स्थंडिले चैव द्रव्याणि पूजार्थं कल्पितानि तु ।।
सर्वाणि प्रोक्षयेद्विद्वानर्घ्यपात्रं जलेन तु ।।
ततो मंत्रं जपेत्पश्चादेकचित्तेन मंत्रवित् ।।१९।।
।। भीष्म उवाच ।। ।।
पुराणसहितैर्मंत्रैर्यो विधिः कथितो बुधैः ।।२०।।
स मया विदितः कृत्स्नः कथितो नैकशो द्विजैः ।।
वेदोक्तैर्विविधैर्मंत्रैर्यथा संपूज्यते रविः ।।२१ ।।
तथा मे ब्रूहि सकलं वैदिकं विधिसत्तमम् ।। २२ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे सौरधर्मे द्विशततमोऽध्यायः ।।२००।।