भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः ०२

← अध्यायः ०१ भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १
अध्यायः ०२
अज्ञातलेखकः
अध्यायः ०३ →

सृष्टिवर्णनम्

।। सूत उवाच ।। ।।
इदानीं विस्तरं चैव विभागं रूपमैश्वरम् ।।
वक्ष्ये कल्पानुसारेण मन्वतरशतानुगम् ।। १ ।।
आसीत्तमोमयं सर्वमप्रज्ञातमलक्षणम् ।।
तत्र चैको महानासीद्रुद्रः परमकारणम् ।। २ ।।
आत्मना स्वयमात्मानं सञ्चित्य भगवान्विभुः ।।
मनः संसृजते पूर्वमहंकारं च पृष्ठतः ।। ३ ।।
अहंकारात्प्रजानाति महाभूतानि पञ्च च ।।
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चैव षोडश ।। ४ ।।
शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च ।।
प्राणोऽपानः समानश्चोदानव्यानौ तथैव च ।। ५ ।।
सत्त्वं रजस्तमश्चैव गुणाः प्रोक्तास्तु ते त्रयः ।।
तस्माद्भागवतो ब्रह्मा तस्माद्विष्णुरजायत ।।६।।
ब्रह्मविष्णुमोहनार्थं ततः शंभुस्तु तेजसा ।।
अशरीरो वासुदेवो ह्यनुत्पत्तिरयोनिजः ।।७।।
व्यामोहयित्वा तत्सर्वं तेजसाऽमोहयज्जगत् ।।
तस्मात्परतरं नास्ति तस्मात्परतरं न हि ।। ८ ।।
ब्रह्मा विष्णुश्च द्वावेतावुद्भूतौ भगवत्सुतौ ।।
कल्पेकल्पे तु तत्सर्वं सृजतेऽसौ जनं जगत् ।। ९ ।।
उपसंहरते चैव नानाभूतानि सर्वशः ।।
द्वासप्ततियुगान्येव मन्वन्तर इति स्मृतः ।। 2.1.2.१० ।।
चतुर्दश तु तान्येवं कल्प इत्यभिधीयते ।।
दिनैकं ब्रह्मणः प्रोक्तं निशि कल्पस्तथोच्यते ।। ११ ।।
एवं मासश्च वर्षश्च तथा चाष्टशतं द्विजाः ।।
एवं बुद्धीन्द्रियस्यास्य विष्णोश्च निमिषः स्मृतः ।। १२ ।।
ब्रह्मादिस्तंबपर्यंतं निमेषश्च ध्रुवस्य वै ।।
निमेषजीवनं सर्वं सर्वलोकचराचरम् ।। १३ ।।
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च प्रकीर्तितः ।।
जनस्तपश्च सत्यं च ब्रह्मलोकश्च सप्तमः ।। १४ ।।
पातालं वितलं तद्धि अतलं तलमेव च ।।
पञ्चमं विद्धि सुतलं सप्तमं च रसातलम् ।। १५ ।।
एतेषु सप्तविख्याता अधःपातालवासिनः ।।
तेषामादौ च मध्ये च अंते रुद्रः प्रकीर्तितः ।। १६ ।।
ग्रसते जायते लोकान्क्रीडार्थं तु महेश्वरः ।।
ब्रह्मलोकपरीप्सूनां गतिरूर्ध्वं प्रकीर्तिता ।। १७ ।।
पृथिवीं चांतरिक्षं च दिशश्च विदिशस्तथा ।।
समुद्राणां गिरीणां च अधस्तिर्यक्प्रसंख्यया ।। १८ ।।
समुद्राणां च विस्तारं प्रमाणं च ततः शृणु ।।
स्थावराणां च शैलानां देवानां च दिवौकसाम् ।। १९ ।।
चतुष्पदानां द्विपदां तथा धर्मैकभाषिणाम् ।।
सहस्रगुणमाख्यातं स्थावराणां प्रकीर्तितम् ।। 2.1.2.२० ।।
सहस्रगुणशीलाश्च इत्याह भगवान्मुनिः ।।
ऋषिस्तु प्रथमं कुर्वन्प्रकृतिं नाम नामतः ।। २१ ।।
तस्या ब्रह्मा प्रकृत्यास्तु उत्पन्नः सह विष्णुना ।।
तस्माद्बुद्ध्या प्रकुरुते सृष्टिं नैमित्तिकीं द्विजाः ।। २२ ।।
तस्मात्स्वयंभुवो ब्रह्मा ब्राह्मणान्समकल्पयत् ।।
पादहीनान्क्षत्रियांश्च तस्माद्धीनांस्तु वैश्यकान् ।। २३ ।।
चतुर्थ पादहीनांश्च आचारेषु बहिष्कृतान् ।।
पृथिवीं चांतरिक्षं च दिशश्चैवाप्यकल्पयत् ।। २४ ।।
लोकालोकस्य संस्था च द्वीपानामुदधेस्तथा ।।
सरितां सागराणां च तीर्थान्यायतनानि च ।। २५ ।।
मेघस्तनितनिर्घोषरोहितेंद्रधनूंषि च ।।
उल्कानिर्घातकेतूंश्च ज्योतींष्यायतनानि च ।। २६ ।।
उत्पन्नं तस्य देहेषु भूयः कालेन पीडयेत् ।। २७ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे द्वितीयोऽध्यायः ।। २ ।।