भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०२

← अध्यायः ०१ भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३
अध्यायः ०२
अज्ञातलेखकः
अध्यायः ०३ →

गोप्रचारवैशिष्ट्यवर्णनम्

।। सूत उवाच ।। ।।
गोप्रचारं पुनर्वक्ष्ये विशेषं तत्र मे शृणु ।।
यजेद्विष्णुं सल क्ष्मीकमुपचारैः पृथग्विधैः ।। १ ।।
उपचारैश्च ब्रह्माणं रुद्रं चैव करालिकाम् ।।
वराहं सोमसूर्ये च महादेवं यथाक्रमम् ।। २ ।।
होमं चैव यथा विष्णोः कमलायास्त्रयंत्रयम् ।।
आज्येन क्षेत्रपालानामन्येषां मधुमिश्रितैः ।। ३ ।।
एकैकामाहुतिं दद्याल्लाजादिषु पृथक्पृथक् ।।
समुत्सृज्य विधानेन यूपं संस्थाप्य पूजयेत् ।। ४ ।।
त्रिहस्तमात्त्रं रचितं कुर्यान्नागफणान्वितम् ।।
रोपयेदेकहस्तेन गर्भे होमं प्रयोजयेत् ।।५।।
लाजासंयुक्तविधिना विश्वेषामिति सञ्जपन् ।।
नागाधिपतये तद्वदच्युताय तृतीयकम् ।। ६ ।।
भौमायेति चतुर्थं च ततो यूपं निवेदयेत् ।।
मयि गृभ्णामीति सम्पूज्य यूपं च रुद्रदैवतम ।। ७ ।।
संपूज्य रुद्रं पञ्चांगं धान्यं वस्त्रं च दक्षिणाम् ।।
आचार्याय तथा होत्रे अन्येषामिष्टदक्षिणाम् ।। ८ ।।
गोप्रचारे च शैलेयं यूपं हस्तद्वयान्वितम् ।।
पञ्चशीर्षान्वितं कुर्याद्धस्तमात्रं प्ररोपयेत् ।। ९ ।।
यूपं च चैत्रवृक्षं च कुण्डलीमठपीठिकाम् ।।
संस्पृश्याचम्य वै विप्राः प्राणायामेन शुध्यति ।। 2.3.2.१० ।।
चतुर्हस्तप्रमाणेन शतकुण्डेन संमितम् ।।
तदर्धं च कनिष्ठेन अष्टकाष्टाधिकं भवेत् ।। ११ ।।
भूमौ रत्नं च संस्थाप्य इमं मन्त्रमुदाहरेत् ।।
शिवलोकस्तथा गावः सर्वदेवसुपूजिताः ।। १२ ।।
गोभ्य एषा मया भूमिः सम्प्रदत्ता शुभार्थिना ।।
एवं निवेदयेद्यस्तु गोप्रचारं समाहितः ।। १३ ।।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ।।
यावंति तृणगुल्मानि संति भूमौ शुभानि च ।। १४ ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
पूर्वे सीमां निबध्नीयात्कृत्वा वृक्षस्य रोपणम् ।। १५ ।।
सेतुं कृत्वा दक्षिणतः पश्चिमेंगाररोपणम् ।।
उत्तरे खानयेत्कूपं तस्य सीमां न लंघयेत।।१६।।
ततः सहस्रधारां च शस्येन परिपूरिताम् ।।
प्रदद्याद्वा ततो विप्राः सर्वपापैः प्रमुच्यते ।।१७।।
नगरग्रामपूर्वे वा उत्तरे पश्चिमेपि वा ।।
न कुर्यादग्निदिग्भागे दक्षिणां वा ततः शुभाम् ।। १८ ।।
गोप्रचारं खनेद्यस्तु वाहयेद्वा कथंचन ।।
कुलानि पातयत्याशु ब्रह्महत्याश्च विंदति ।। १९ ।।
स्वर्गं नयति गोचर्म सम्यग्दत्तं सदक्षिणम् ।।
यावत्तृणानि तद्भूमौ सप्तसंख्यानि संख्यया ।। 2.3.2.२० ।।
तावत्कालं वसेत्स्वर्गे विष्णुलोकान्न तच्च्युतिः ।। २१ ।।
महायागावसाने च यो न तर्पयति द्विजान् ।।
निरर्थकं तस्य कर्म प्रयासफलमात्रकम् ।। २२ ।।
वृषोत्सर्गा वसाने तु प्रदद्याद्यो महीं द्विजाः ।।
न याति विप्राः प्रेतत्वं तस्माद्विप्रादमत्सराः ।। २३ ।।
तत्र मानं पृथक्चैव शृणुतात्र समागताः ।।
अमानेन ददेद्यस्तु नरकं याति रौरवम ।। २४ ।।
गवां शतं वृषश्चैको यत्र तिष्ठत्ययंत्रितः ।।
तद्गोचर्मेति विख्यातं दत्तं सर्वाघनाशनम् ।। २५ ।।
गोप्रचारस्य देवस्य ब्राह्मणस्य च भो द्विजाः ।।
यावत्कालावधे सीमा अतीते नास्ति पातकम् ।। २६ ।।
मण्डपं पूजयेत्सूर्यं वासुदेवसमन्वितम्।।
होमस्तिल गुडाभ्यां च अष्टावष्टौ पृथक्पृथक् ।। २७ ।।
देहि मेति च मन्त्रेण विन्यसेन्मंडपोपरि ।।
यत्नसिद्धं ततः कृत्वा शुल्कघटचतुष्टयम्।। २८ ।।
समुत्सृजेज्जपेत्पश्चात्सौरं सूक्तं च वैष्णवम् ।।
वटपत्रे तु संलिख्य चित्रं निर्माय वा पुनः ।। २९ ।।
दिक्पालान्संन्यसेत्स्वासु स्वासु दिक्षु विचक्षणः ।।
बद्धाञ्जलिः पठेन्मंत्रानिंद्रादीनां यथाक्रमम् ।। 2.3.2.३० ।।
धर्मसंस्थापनार्थाय आत्मनो विभवाय च ।।
वज्रहस्तो महेन्द्र त्वं धर्मतस्त्रातुमर्हसि ।।३१।।
भो वह्ने मेषवाहस्त्वं चतुःशृंगविराजित ।।
अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३२ ।।
यम त्वं दक्षिणाशेश महामहिषवाहन ।।
अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३३ ।।
मञ्चस्थो राक्षसेन्द्रस्त्वं खड्गपाणिर्महाबलः ।।
अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३४ ।।
वारिराट् ध्वजहस्तोऽसि पवनो मृगवाहनः ।।
अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३५ ।।
धनाध्यक्षो गदाहस्तः पिंगाक्षो नरवाहनः ।।
अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३६ ।।
आदिदेवोसि देवानां कर्ता हर्ता महेश्वरः ।।
अनाथं मण्डपं त्वं हि धर्मतस्त्रातुमर्हसि ।। ३७ ।।
अनंतो नागराजो यो धरामुद्धृत्य तिष्ठति ।।
अनाथं मण्डपं त्वं हि धर्मतस्रातुमर्हसि ।। ३८ ।।
चतुर्णामेव वर्णानां स्थित्यर्थं मृगपक्षिणाम् ।।
प्रीतये वासुदेवस्य एवं मण्डपमुत्सृजेत् ।। ३९ ।।
भग्ने स्तम्भे तृणे जीर्णे पुनस्तृणप्रदापने ।।
स्थापने च तथैवास्य प्रतिष्ठा स्याद्यथाक्षया ।। 2.3.2.४० ।।
घातापायादिदोषेण म्रियंते यदि जन्तवः ।।
प्रतिष्ठायां कृतायां तु धर्मो मे स्यान्न पातकम् ।। ४१ ।।
मानुषाः पशवो ये च निवसन्तीह मण्डपे ।।
स्वस्ति चास्तु सदा तेषां त्वत्प्रसादात्किल प्रभो ।। ४२ ।।
ततस्त्रिगुणसूत्रेण सुत्रामाणेति वै ऋचा ।।
सप्तधा वेष्टयित्वा तु दक्षिणां संप्रकाश्य च ।। ४३ ।।
उपानहौ तथा छत्रमाचार्याय निवेदयेत् ।।
मण्डपे भोजयेद्विप्रांस्तेषां दद्याद्यथेप्सितान् ।। ।। ४४ ।।
दीनेभ्यश्च पृथग्दद्याद्गृहं विप्रपुरःसरम् ।।
प्रविशेत्तूर्यघोषेण प्रकुर्याच्च गृहार्चनम् ।। ४५ ।।
एवं प्रपायां विज्ञेयो विशेषो वरुणं व्रजेत् ।।
वासुदेवेन सहितं सांगोपांगं सदक्षिणम् ।। ४६ ।।
स्थालीपाकविधानेन प्रकुर्याद्देशिकोत्तमः ।।
आचार्याय गृहं दद्यात्परिच्छेदसमन्वितम् ।। ४७ ।।
ऋत्विजे ताम्रपात्रं च जलपूर्णं च धान्यकम् ।।
दिक्पालान्द्वारदेशे तु कूपयागे विशेषतः ।। ४८ ।।
ब्रह्माणं नागराजानं द्वारपालौ च पश्चिमे ।।
यजेन्मन्त्रैः पृथग्देवान्मन्त्रैरेभिर्यथाक्रमम् ।। ४९ ।।
बलिदानं विधानेन कृत्वा दद्याद्यथाविधि ।।
पताकानामतस्तत्त्वं प्रवक्ष्यामि यथाक्रमम् ।। 2.3.2.५० ।।
वज्री च धूमली कृष्णा पीता चैवाथ वारुणी ।।
शीघ्रा गौरी उमा चैव पीता शुक्ला प्रकीर्तिता ।।५१।।
कुंभेषु पूजयेद्देवान्महेशं प्रथमं बुधः ।।
ग्रहांश्च मध्यकलशे ब्रह्माणं च ततः परम् ।। ५२ ।।
वेदिकापूर्वभागे तु उत्तरे कलशे शिवम् ।।
दक्षिणे कलशे विष्णुं कर्णिकायां जलेश्वरम् ।। ५३ ।।
कलशे विधिवद्भक्त्या उपचारैः पृथग्विधैः ।।
संपूज्य वटपत्रे च नागान्संलिख्य नागजैः ।। ५४ ।।
यो नागास्तान्प्रवक्ष्यामि अनंतो वासुकिस्तथा ।।
तथा कर्कोटकश्चैव पद्मश्च कुलिकस्तथा ।।
पद्मश्चैव महापद्मो मन्त्रैरेभिः पृथक्पृथक् ।। ५५ ।।
पुंडरीकदलाभास शुभकर्णांतलोचन ।।
फणासहस्रसंयुक्त शंखाब्जकृतलोचन ।। ५६ ।।
अनंत नागराजेन्द्र इहागच्छ नमोऽस्तु ते ।।
सित कुंदेन्दुवर्णाभ विस्फुरद्भोगमंडल ।। ५७ ।।
सर्वनागस्य शूरस्य कृतस्वस्तिकलांछन ।।
नागेन्द्रतक्षक श्रीमन्निहागच्छ नमोस्तु ते ।। ५८ ।।
नवीनजलदश्याम श्रीमन्कमललोचन ।।
विषदर्पबलोन्मत्त ग्रीवायामेकशेखर ।। ५९ ।।
शंखपाल इति ख्यात जलाधारप्रतीक्षक ।।
अध्यक्षे नागलोकानामिहागच्छ नमोऽस्तु ते ।। 2.3.2.६० ।।
अतिपीत सुवर्णाभ चन्द्रार्धांकितमस्तक ।।
दीप्तभोगकृताटोप शुभलक्षणलक्षित ।। ६१ ।।
कुलीर नागराजेंद्र सर्वसत्त्वहिते रत ।।
तिष्ठेह यज्ञसिद्ध्यर्थं कामरूप नमोस्तु ते ।। ६२।।
यः सुवर्णेन वर्णेन पद्मपत्रायतेक्षणः ।।
पंचबिंदुकृताभोगो ग्रीवायामेकशेखरः ।।
तस्मै ते पद्मनागेन्द्र तीव्ररूप नमोऽस्तु ते ।। ६३ ।।
नागिन्यो नागकन्याश्च तथा नागकुमारकाः ।।
सर्वे ते प्रीतमनसः पूजां गृह्णंतु मे सदा ।। ६४ ।।
स्वगृह्योक्तेन विधिना कृत्वाग्निस्थापनं बुधः ।।
आज्यं संस्कृत्य जुहुयाद्दिगीशानां यथाक्रमम् ।। ६५ ।।
आदित्यादिग्रहांश्चैव ब्रह्माणं कृष्णमेव च ।।
मधुपिष्टेन च शिवं वरुणं जुहुयात्ततः ।। ६६ ।।
प्रादेशमात्रं संप्रोक्ष्य यूपं चास्य प्रमाणकम् ।।
चतुरस्रं शूलयुक्तं गणानानीय पूजयेत् ।। ६७ ।।
कूपे निक्षिप्य तान्नागान्पञ्चरत्नं क्षिपेत्ततः ।।
सुत्रामाणेति मंत्रेण त्रिधा संवेष्ट्य सूत्रकैः ।। ६८ ।।
रञ्जितः कदलीवृक्षं वरुणाय समुत्सृजेत् ।।
त्रातारमिति मंत्रेण वस्त्रमाल्येन भूषयेत् ।।
कर्णवेधं ततः कृत्वा उत्सृजेद्वाक्यमुच्चरन् ।। ६९ ।।
ॐ अद्येत्यादि सर्वभूतेभ्यः फलपुष्पपत्रच्छायावृतमुख्यनानातरुविरचितमारामं वनस्पतिदेवतं सुपूजितं वेदव्यासाद्युक्तफलावाप्तये अमुकऋषिसगोत्रः अमुकदेव शर्माहमुत्सृजे ।।)
महोत्सवं ततः कुर्यात्कृत्वा बद्धाञ्जलिः पठेत् ।।
वृक्षाग्रात्पतितस्यापि आरोहात्पतितस्य वा ।। 2.3.2.७० ।।
मरणे चास्थिभंगे वा कर्ता पापैर्न लिप्यते ।।
वज्राघातादिदोषेण म्रियंते तरवो यदा ।। ७१ ।।
तद्दोशमनार्थाय तस्याप्येतत्प्रतिष्ठितम् ।।
मध्ये यूपं समारोप्य चतुष्को णेपि यत्नतः ।। ७२ ।।
मधुलाजाक्षतं दद्यादञ्जनं माल्यमेव च ।।
निशासूत्रेण संवेष्ट्य कदलीविटपं न्यसेत् ।। ७३ ।।
वेष्टयेत्क्षीरधारां च पातयेद्घृतधारया ।।
तोयान्वितं गुच्छयुक्तं वेष्टयेत्स्वगृहं व्रजेत्।। ७४ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे द्वितीयोऽध्यायः। ।। २ ।।