भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००५

← अध्यायः ००४ भविष्यपुराणम्
अध्यायः ००५
वेदव्यासः
अध्यायः ००६ →


पापभेदाख्यानवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अधोधः पतनं पुंसामधःकर्म प्रकीर्तितम् ।।
नरकार्णवघोरेषु यातना पापमुच्यते ।। १ ।।
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः ।।
स्थूलाः सूक्ष्माः सुसूक्ष्माश्च कोटि भेदैरनेकधा ।। २ ।।
तत्र ये पापनिचयाः स्थूला नरकहेतवः ।।
ते समासेन कथ्यंते मनोवाक्कायसाधनाः ।। ३ ।।
परस्त्रीष्वथ संकल्पश्चेतसानिष्टचिंतनम् ।।
अकार्याभिनिवेशश्च चतुर्धा कर्म मानसम्।। ४ ।।
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् ।।
परापवादपैशुन्यं चतुर्धा कर्म वाचिकम् ।। ५ ।।
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम् ।।
परस्वानामुपादानं चतुर्द्धा कर्म कायिकम् ।। ६ ।।
इत्येतद्द्वादशविधं कर्म प्रोक्तं ससाधनम् ।।
तेषां भेदं पुनर्वच्मि येषां फलमनंतकम् )। ७ '
ये द्विषंति महादेवं संसारार्णवतारणम् ।।
समस्तपातकोपेतास्ते यान्ति नरकाग्निषु ।।।८।।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।।
महापातकिनश्चैते तत्संसर्गी च पंचमः ।। ९ ।।
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणं विशसंति ये ।।
प्राणांतिको महादोषो ब्रह्मघ्नास्ते प्रकीर्तिताः।।। 4.5.१०।।
ब्राह्मणं च समाहूय याचमानमकिञ्चनम् ।।
पश्चान्नास्तीति तं ब्रूयात्स चैवं ब्रह्महा स्मृतः ।। ११ ।।
यस्तु विद्याभिमानेन नित्यं जयति वै द्विजान् ।।
समासीनः सभामध्ये ब्रह्महा सोऽपि कीर्तितः।।१२।।
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षणं बलात्।।
गुरूणां च विरुद्धो यः स चैव ब्रह्महा स्मृतः।।
क्षुत्तृट्संतप्तदेहानां द्विजानां भोक्तुमिच्छताम्।।
समाचरति यो विघ्नं तमाहुर्ब्रह्मघातकम्।।१४।।
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः ।।
उद्वेगजननः क्रूरः स चैव ब्रह्महा स्मृतः ।। १५ ।।
गवां तृष्णाभिभूतानां जलार्थमुपसर्पताम् ।।
समाचरति यो विघ्नं स चैव ब्रह्महा स्मृतः ।। १६ ।।
परदोषमभिज्ञाय नृपकर्णे करोति यः ।।
पापीयान्पिशुनः क्षुद्रः स चैव ब्रह्महा स्मृतः ।। १७ ।।।
देवद्विजगवां भूमिं पूर्वभुक्ता हरेत्तु यः ।।
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ।। १८ ।।
द्विजवित्तापहरणे न्यायतः समुपार्जिते ।।
ब्रह्महत्या समं ज्ञेयं पातकं नात्र संशयः ।। १९ ।।
अग्निहोत्रपरित्यागो यस्तु याज्ञिककर्मणाम् ।।
मातापितृपरित्यागः कूटसाक्ष्यं सुहृद्वधः ।। 4.5.२० ।।
गवां मार्गे वने चाग्निं पुरे ग्रामे च दीपयेत् ।।
इति पापानि घोराणि सुरापानसमानि तु ।। २१ ।।
हीनस्वहरणे चापि नरस्त्रीगजवाजिनाम् ।।
गोभूरजतरत्नानामौषधीनां रजस्य च ।। २२ ।।
चंदनागरुकर्पूरकस्तूरीखण्डवाससाम् ।।
हस्ते न्यस्यापहरणं रुक्मस्तेयसमं स्मृतम् ।। २३ ।।
कन्यानां वरयोग्यानामदानं सदृशे वरे ।।
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ।। २४ ।।
कुमारीसाहसं घोरमन्त्यजस्त्रीनिषेवणम् ।।
अवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ।। २५ ।।
महापातकतुल्यानि पापान्युक्तानि यानि तु ।।
तानि पातकसंज्ञानि तद्वदाम्युपपातकम् ।। २६ ।।
द्विजार्थं च प्रतिज्ञाय न प्रयच्छति यः पुनः ।।
तस्मान्नरपते विघ्नतुल्यं तदुपपातकम् ।। २७ ।।
द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमः ।।
अतिकोपश्च मानश्च दांभिकत्वं कृतघ्नता ।। २८ ।।
अत्यंतविषयासक्तिः कार्पण्यं श्रेष्ठमत्सरः ।।
परदारापहरणं साधुकन्याविदूषणम् ।। २९ ।।
परिवित्तिः परीवेत्ता यया च परिविद्यते ।।
तयोर्द्दानं च कन्यायास्तयोरेव च याजनम् ।। 4.5.३० ।।
पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा ।।
शिष्टानां चैव संन्यासः सहजानां तपस्विनाम् ।। ३१ ।।
भंगश्च धर्मकृत्यानां सहायानां विनाशनम् ।।
पीडामाश्रमसंस्थानान्नाचरेत्त्वल्पिकामपि ।। ३२ ।।
स्वभृत्यपरिवर्गस्य पशुधान्यधनस्य च ।।
कुप्यधान्यपशुस्तेयमयाच्यानां च याचनम् ।। ३३ ।।
गवां क्षत्रियवेश्यानां स्त्रीशूद्राणां विशेषतः ।।
यज्ञारामतडागानां दारापत्यस्य विक्रयः ।।
तीर्थयात्रोपवासानां व्रतायतनकर्मणाम् ।। ३४ ।।
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः ।।
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम् ।। ३५ ।।
ऋणानामप्रदानं च धान्यवृद्ध्युपजीविनाम् ।।
निंदिताच्च धनादानमपण्यानां च विक्रयः ।। ३६ ।।
विषमारणमंत्राणां प्रयोगो मूलकर्मणाम् ।।
उच्चाटनाविचारश्च गरविद्वेषणक्रिया ।। ३७ ।।
जिह्वासमुपभोगार्थं यस्यारम्भः स्वकर्मसु ।।
मूल्येनाध्यापयेद्यश्च मूल्येनाधीयते च ये ।। ३८ ।।
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम् ।।
असद्दाराभिगमनं शुष्कतर्कावलंबनम् ।। ३९ ।।
देवाग्निसाधुसाध्वीनां निंदा गोब्राह्मणस्य च।
प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिकामपि ।।
दुःशीला नास्तिकाः पापाः सर्वशून्यस्य वादिनः ।। 4.5.४० ।।
पर्वकाले दिवा चैव वियोनौ पशुयोनिषु ।।
रजस्वलानां योनौ च मैथुनं च समाचरेत् ।।४१।।
स्त्रीपुत्रमित्रसंप्रीते ग्रासान्नच्छेदकाश्च ये ।।
जनस्या प्रियवक्तारो धूर्ताः समयभेदिनः ।।४२।।
भेत्ता तडागचक्राणां संक्रमाणां रथस्य च ।।
एकपंक्तिस्थितानां च पाकभेदं करोति यः ।।४३।।
इत्येतैस्ते नराः पापैरुपपातकिनः स्मृताः ।।
युक्तास्तदूनकैः क्षुद्रैः पापैः पापतराः स्मृताः ।। ४४ ।।
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ।।
अंतरं यांति कार्येषु ते नरा नारकाः स्मृताः ।। ४५ ।।
परश्रिया ये तप्यंते ये परद्रव्यसूचकाः ।।
परव्यापारनिरताः परस्त्रीनरदूषकाः ।। ४६ ।।
द्विजाय दुःखं यः कुर्यात्प्रकारैर्बहुभिः सदा ।।
सेवते यो द्विजः शूद्रां सुरां जिघ्रति कामतः ।। ४७ ।।
ये पानाभिरताः क्रूरा ये च हिंसाप्रिया नराः ।।
वित्तार्थं ये च कुर्वंति दानयज्ञादिकां क्रियाम् ।। ४८ ।।
गोष्ठाग्निजलरथ्यासु तरुच्छायामठेषु च ।।
त्यजंत्यमेध्यं पुरुषा आरामायतनेषु च ।। ।। ४९ ।।
मद्यपानरता नित्यं गानवाद्यरता नराः ।।
केलीकलाभुजंगाश्च रंध्रान्वेषणतत्पराः ।। 4.5.५० ।।
वंशेषु काशकाष्ठैश्च शुभैः शंकुभिरेव वा ।।
ये मार्गान्समुपघ्नंति परस्त्रीराहरंति च ।। ५१ ।।
कूटशासनहर्तारः कूटकर्मक्रियारताः ।।
कूटयुद्धाश्च शस्त्रेण कूटसंव्यवहारिणः ।। ५२ ।।
धनुषां शल्यशस्त्राणां यः कर्ता यश्च विक्रयी ।।
निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः ।। ५३ ।।
मिथ्या प्रवदतो वाक्यमाकर्णयति यः शनैः ।।
स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ।। ५४ ।।
ये भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ।।
भृत्यानतिथिबन्धूंश्च प्रबाधन्ते बुभुक्षया ।। ५५ ।।
यः स्वयं मिष्टमश्नाति विप्रायान्यत्प्रयच्छति ।।
वृथापाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः ।। ५६ ।।
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ।।
प्रव्रज्यावासिनो ये च रहस्यानां च भेदकाः ।। ५७ ।।
ताडयंति च वेगाद्ये शपंति च मुहुर्मुहुः ।।
दुर्बलांश्च न पुष्णंति पुनस्तान्वाहयंति च ।। ५६ ।।
पीडयंत्यतिभारेण सक्षतान्वाहयंति च ।।
सार्द्धयामादुपरितः संयुक्तेषु च भुंजते ।। ५९ ।।
ये भग्नक्षतरोगार्तान्स्वगोरूपान्बुभुक्षया ।।
न पालयंति यत्नेन ते गोप्ता नारका नराः ।। 4.5.६० ।।
वृषाणां वृषणान्येव पापिष्ठा गालयंति ये ।।
वाहयंति च गां वध्यां ते महानारकाः स्मृताः ।। ६१ ।।
आश्रमं समनुप्राप्तं क्षुत्तृष्णाश्रमपीडितम् ।।
येऽतिथिं नाभिमन्यंते ते वै निरयगामिनः।।६२।।
अनाथं विकलं दीनं बालं वृद्धं कृशातुरम्।।
नानुकंपंति ये मूढास्ते यान्ति निरयार्णवम् ।। ६३ ।।
अजाविको माहिषिकः सामुद्रो वृषलीपतिः ।।
शूद्रविट्क्षत्रवृत्तिश्च नारकी स्याद्द्विजाधमः ।। ६४ ।।
शिल्पिनः कारुका वैद्या हेमकारा नटा द्विजाः ।।
कृतकौक्षेय सयुक्तास्तथान्ये नारकाः स्मृताः ।। ६५ ।।
यश्चोदितमतिक्रम्य स्वेच्छया वा हरेत्करम् ।।
नरके तु स पच्येत यश्च दंडरुचिर्भवेत् ।। ६६ ।।
उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते ।।
यस्य राज्ञः प्रजा रुष्टा पच्यते नरकेषु सः ।। ६७ ।।
ये द्विजाः प्रतिगृह्णंति नृपस्यान्यायवर्तिनः ।।
प्रयांति तेपि घोराणि नरकाणि न संशयः ।।६८।।
पारदारिकचौराणां यत्पापं पार्थिवस्य तत् ।।
भवेदरक्षतस्तस्माद्घोरस्तस्य प्रतिग्रहः ।। ६९ ।।
अचौरं चौरवत्पश्येच्चोरं वाऽचौररूपवत् ।।
अविचार्य नृपस्तस्माद्धातयन्नरकं व्रजेत् ।। 4.5.७० ।।
घृततैलान्नपानानि मधुमांससुरासवम् ।।
गुडेक्षुक्षारशाकानि दधिमूलफलानि च ।। ७१ ।।
तृणं काष्ठं पुष्पपत्रमौषधं कांस्यभाजनम् ।।
उपानच्छत्रशकटमासनं शयनांबरम् ।। ७२ ।।
ताम्रं सीसं त्रपुं काचं शंखाद्यं च जलोद्भवम् ।।
वार्क्षं वा वैणवाद्यं वा गृहेषूपस्कराणि च ।। ७३ ।।
ऊर्णाकार्पासकौशेयभंगपट्टोद्भवानि च ।।
स्थूलसूक्ष्माणि वस्त्राणि ये च लोभाद्धरंति च ।। ७४ ।।
एवमादीनि चान्यानि द्रव्याणि विविधानि च ।।
नरकाणि ध्रुवं यांति नरा वा नात्र संशयः ।। ७५ ।।
यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् ।।
अपहृत्य नरो याति नरकं नात्र संशयः ।। ७६ ।।
एवमाद्यै्र्नरः पापैरुत्क्रांतेः समनंतरम् ।।
शरीरं यातनार्थाय पूर्वाकारमवाप्नुयात् ।। ७७ ।।
यमलोकं व्रजेत्तेन शरीरेण यमाज्ञया ।।
यमदूतैर्महाघोरैर्नीयमानः सुदुःखितः ।। ७८ ।।
तिर्यङ्मानुषदेहानामधर्मनिरतात्मनाम् ।।
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ।। ७९ ।।
विनयाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ।।
प्रायश्चित्तेर्गुरुः शास्ता न च तैर्दृश्यते यमः ।। 4.5.८० ।।
पारदारिकचौराणामन्यायव्यवहारिणाम् ।।
नृपतिः शासकस्तेषां प्रच्छन्नानां च धर्मराट् ।। ८१ ।।
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।।
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ।। ८२ ।।
यः करोति स्वयं कर्म कारयेद्वापि मोद येत् ।।
कायेन मनसा वाचा तस्य चाधोगतिः फलम् ।। ८३ ।।
इति संक्षेपतः प्रोक्ताः पापभेदाः ससाधनाः ।।
कथ्यते गतयश्चित्रा नराणां पापकर्मणाम् ।। ८४ ।।
वाक्कायचित्तजनितैर्बहुभेदभिन्नैः कृत्यैः शुभाशुभफलोदयहेतुभूतैः ।। भास्वत्सुरेशभुवनं नरकाननेकान्संप्राप्नुवंति मनुजा मनुजेंद्रचन्द्र।।८५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि पापभेदाख्यानं नाम पञ्चमोध्यायः।।५।।