भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५८

← अध्यायः ०५७ भविष्यपुराणम्
अध्यायः ०५८
वेदव्यासः
अध्यायः ०५९ →

अनघाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
ब्रह्मपुत्रो महातेजा अत्रिर्नाम महानृषिः ।।
तस्य पत्नी महाभाग अनसूया पतिव्रता ।। १ ।।
तयोः कालेन महता जातः पुत्रो महा तपाः ।।
दत्तो नाम महायोगी विष्णोरंशो महीतले ।। २ ।।
द्वितीयो नाम लोकेस्मिन्ननघश्चेति विश्रुतः ।।
तस्य भार्या नदी नाम बभूव सहचारिणी ।। ३ ।।
अष्टपुत्रा जीववत्सा सर्वब्राह्मगुणैर्वृता ।।
अनयोर्विष्णुरूपेण लक्ष्मीश्चैव नदी स्मृता ।। ४ ।।
एवं तस्य सभार्यस्य योगाभ्यासरतस्य वा ।।
आजग्मुः शरणं देवाः शुंभदैत्येन पीडिताः ।। ५ ।।
ब्रह्मलब्धप्रसादेन द्रुतं गत्वामरावतीम् ।।
संरुद्धां जंभदैत्येन दिव्यवर्षशतं नृप ।। ६ ।।
दैत्यदानवसंयोगे पातालादेत्य भारत ।।
तस्य सैन्यमसंख्येयं दैत्यदानवराक्षसैः ।। ७ ।।
तेन निर्णाशिता देवाः सेंद्रचंद्रमरुद्गणाः ।।
त्याजिताः स्वानि धिष्ण्यानि त्यक्त्वा जग्मुर्दिशो दश ।। ८ ।।
अग्रतः प्रलयं यांतः सेन्द्रा देवा भयार्दिताः ।।
पृष्ठतोनु व्रजंति स्म दैत्या जंभपुरःसराः ।। ९ ।।
युध्यंतः शरसंघातैर्गदामुसलमुद्गरैः ।।
नर्दन्तो वृषभारूढाः केचिन्महिषवाहनाः ।। 4.58.१० ।।
शरभैर्गंडकैर्व्याघ्रैर्वानरै रभसैर्द्रुताः ।।
मुञ्चन्तो यांति पाषाणाच्छतघ्नीस्तोमराञ्छरान् ।। ११ ।।
यावद्विन्ध्यगिरिं प्राप्तास्तत्तस्याश्रममण्डलम् ।।
अनघश्चानदी चैव दांपत्यं यत्र तिष्ठति ।। १२ ।।
तयोः समीपं संप्राप्तास्ते नराः शरणार्थिनः ।।
अनघोऽपि च तान्देवाँल्लीलयैव सवासवान् ।। १३ ।।
अभ्यंतरे प्रविश्याथ तिष्ठध्वं विगतज्वराः ।।
तथेति नाम ते कृत्वा सर्वे तुष्टिं समास्थिताः ।। १४ ।।
दैत्या अपि द्रुतं प्राप्ता घ्नंतः प्रहरणैररीन् ।।
इत्यूचुरुल्बणा घोरा गृह्णीध्वं ब्राह्मणीं मुनेः ।। १५ ।।
द्रुतं द्रुमानाक्षिपध्वं पुष्पोपगफलोपगान् ।।
अथारोप्यानघं मूर्ध्नि दैत्या जग्मुस्तदाश्रमान् ।। १६ ।।
तत्क्षणाच्चापि दैत्यानां श्रीर्बभूव शिरोगता ।।
दत्तकेनापि ते दृष्टा नष्टा ध्यानाग्निना क्षणात् ।।
निस्तेजसो बभूवुर्हिः निःश्रीका मदपंडिताः ।।१७।।
देवैरपि गृहीतास्ते दैत्याश्च हरणे रणे ।।
रुदंती निस्तनंतश्च निश्चेष्टा ब्रह्मकंटकाः ।।१८।।
ऋष्टिभिः करणैः शूलैस्त्रिशूलैः परिघैर्घनैः ।।
एवं ते प्रलयं जग्मुस्तत्प्रभावान्मुनेस्तदा ।। १९ ।।
असुरा देवशस्त्रौघैर्जिता इन्द्रेण घातिताः ।।
देवा अपि स्वराष्ट्रेषु तस्थुः सर्वे यथा पुरा ।।
सुरैरपि मुनेस्तस्य देवर्षेर्महिमाऽभवत् ।। 4.58.२० ।।
ततः स सर्वलोकानां भवाय सततोत्थितः ।।
कर्मणा मनसा वाचा शुभान्येव समाचरत् ।। २१ ।।
काष्ठकुडयशिलाभूत ऊर्ध्वबाहुर्महातपाः ।।
ब्रह्मोत्तरं नाम तपस्तेपे सुनियतवतः ।। २२ ।।
नेत्रे ह्यनिमिषे कृत्वा भ्रुवोर्मध्ये विलोकयन् ।।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ।। २३ ।।
तथोर्द्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य हि ।।
योगाभ्यासप्रयत्नस्य माहिष्मत्याः पतिः प्रभुः ।। २४ ।।
एकाहाद्द्रुतमभ्येत्य कार्तवीर्योर्जुनो नृपः ।।
शुश्रूषां विनयं चक्रे दिवारात्रमतंद्रितः ।। २५ ।।
गात्रसंवाहनं पूजां मनसा चिंतितं तथा ।।
सम्पूर्णे नियमे वृत्ते दृढतुष्ट्या समन्वितः ।। २६ ।।
तस्यै ददौ वरान्पुष्टांश्चतुरो भूरितेजसः ।।
पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ।। २७ ।।
अधर्माद्धीयमानस्य सद्भिस्तस्मान्निवारणम् ।।
धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ।। २८ ।।
संग्रामान्सुबहूञ्जित्वा हत्वा वीरान्सहस्रशः ।।
संग्रामे युध्यमानस्य वधो मे स्याद्धरेः करात् ।। २९ ।।
तेन दत्तेन लोकेऽस्मिन्दत्तं राज्यं महीतले ।।
कार्तवीर्याय कौंतेय योगाभ्यासः सविस्तरः १।।
चक्रवर्तिपदं चैव अष्टसिद्धिसमन्वितम् ।। 4.58.३० ।।
तेनापि पृथिवी कृत्स्ना सप्तद्वीपा सपर्वता ।।
ससमुद्राकरवती धर्मेण विधिना जिता ।। ३१ ।।
तस्य बाहुसहस्रं तु प्रभावात्किल धीमतः ।।
यागाद्रथो ध्वजश्चैव प्रादुर्भवति मायया ।। ३२ ।।
दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु ।।
निरर्गलानि वृत्तानि स्वयं वै तस्य पांडव ।। ३३ ।।
सर्वे यज्ञा महाबाहो प्रसन्ना भूरिदक्षिणाः ।।
सर्वे काञ्चनवेदिक्याः सर्वे यूपैश्च काञ्चनैः ।। ३४ ।।।
सर्वदेवैर्महाभागैर्विमानस्थैरलंकृताः ।।
गंधर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ।। ३५ ।।
तस्य यज्ञे जगुर्गाथां गंधर्वा नारदस्तथा ।।
चरितं राजसिंहस्य महिमानं निरीक्ष्य ते ।। ३६ ।।
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।।
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च ।। ३७ ।।
द्वीपेषु सप्तसु स वै खड्गचर्मशरासनी ।।
व्यचरच्छ्येनवद्यो वै दूरादारादवैक्षत ।। ३८ ।।
अनष्टद्रव्यता चास्य न शोको न च वै क्लमः ।।
प्रभावेण महीराजोरक्षद्धर्मेण च प्रजाः ।। ३९ ।।
पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिप ।।
समुद्रवसनायां स चक्रवर्ती बभूव ह ।। 4.58.४० ।।
स एव पशुपालोभूत्क्षेत्रपालः स एव च ।।
स एव वृष्ट्यां पर्जन्यो योगित्वादर्जुनोऽभवत् ।। ४१ ।।
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ।।
वाति रश्मिसहस्रेण क्षोभ्यमाणे महोदधौ ।। ४२ ।।
न हि नागमनुष्यैस्तु माहिप्मत्यां महाद्युतिः ।।
कर्कोटाहेः सुताञ्जित्वा पुरि तत्र न्यवेशयत् ।। ४३ ।।
स वै पत्नीं समुद्रस्य प्रावृट्कालेंबुजेक्षणाम् ।।
क्रीडते च मदोन्मत्तः प्रतिस्रोतश्चकार ह ।। ।। ४४ ।।
ललितं क्रीडता तेन फलनिष्पन्दमालिनी ।।
ऊर्मीभ्रुकुटिमत्येव शंकितास्येति नर्मदा ।। ४५ ।।
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ ।।
भवंत्यालीननिश्चेष्टाः पातालस्था महासुराः ।। ४६ ।।
तूष्णीकृतो महाभाग लीनाहीनमहामतिः ।।
चकारोत्तुङ्गक्षुब्धोर्मि दोःसहस्रेण सागरम् ।। ४७ ।।
क्रांता निश्चलमूर्द्धानो बभूवुश्च महोरगाः ।।
सायाह्ने कदलीखण्डान्निर्धा(र्घा)तनिहता इव ।।
जिता धनुर्धराः सर्वे सुत्यक्तैः पञ्चभिः शरैः ।। ४८ ।।
लङ्काधिपं मोहयित्वा सबलं रावणं बलात् ।।
निर्जित्य वशमानीय माहिष्मत्यां बबंध च ।। ४९ ।।
ततोभ्येत्य पुलस्त्यस्तु अर्जुनं संप्रसादयन् ।।
मुमोच रक्षः पौलस्त्यं पौलस्त्येनानुगामिना ।।
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।। 4.58.५० ।।
क्षुधितेन कदाचित्स प्रार्थितश्चित्रभानुना ।।
सप्तद्वीपां चित्रभानोः प्रादाद्भिक्षां महीमिमाम् ।। ५१ ।।
कुंडेशयस्ततोऽद्यापि दृश्यते भगवान्हरिः ।।
निंबादित्यश्च प्रत्यक्षो जाग्रत्संस्तस्य वेश्मनि ।।
बभूव दुहितुर्हेतोः शरदोऽद्यापि तिष्ठति ।। ५२ ।।
स एवं गुणसंयुक्तो राजाभूदर्जुनो भुवि ।।
अनघस्य प्रसादेन योगाचा र्यस्य पांडव ।। ५३ ।।
तेनेयं वरलब्धेन कार्तवीर्येण योगिना ।।
प्रवर्तिता मर्त्यलोके प्रसिद्धा ह्यनघाष्टमी ।। ५४ ।।
अघं पापं स्मृतं लोके तच्चापि त्रिविधं भवेत् ।।
यस्मादघं नाशयति तेनासावनघा स्मृता ।। ५५ ।।
तस्याष्टगुणमैश्वर्यं विनोदार्थं विभाव्यते ।।
अणिमा महिमा प्राप्तिः प्राकाम्ये लघिमा तथा ।। ५६ ।।
ईशित्वं च वशित्वं च सर्वकामावसायिता ।।
इत्यष्टौ योगसिद्धस्य सिद्धयो मोक्षलक्षणाः ।। ५७ ।।
समुत्पन्ना दत्तकस्य लोके प्रत्ययकारकाः ।।
यात्रासमाप्तौ संगृह्य यदघानि तथैव वा ।। ५८ ।।
जगत्समस्तमनघं कुर्यादस्मादतोऽनघा ।।
मदंशो मद्गतप्राणो लोके स्मिन्नृतको द्विजः ।। ५९ ।।
।। युधिष्ठिर उवाच ।। ।।
कीदृशं पुण्डरीकाक्ष स वै राजार्जुनो व्रतम् ।।
चक्रे वा त्रिषु लोकेषु कैर्मन्त्रैः समयैश्च कैः ।।
कस्मिन्काले तिथौ कस्यामेतन्मे वद केशव ।। 4.58.६० ।।
।। श्रीकृष्ण उवाच ।। ।।
कृष्णाष्टम्यां मार्गशीर्षे दंपती दर्भनिर्मितौ ।।
अनघं चानघां चैव बहुपुत्रैः समन्विताम् ।। ६१ ।।
पुरा कृतीकृतौ शांतौ भूमिभागे स्थितौ शुभौ ।।
स्नात्वैवमर्चयेत्पुष्पैः ससुगन्धैर्युधिष्ठिर ।। ६२ ।।
ऋग्वेदोक्तऋचा विप्रो विष्णुं ध्यात्वा ममांशजम् ।।
अनघं वासुदेवेनानघां लक्ष्मीं व्रजां तनुम् ।।
प्रद्युम्नादिपुत्रवर्गं हरिवंशे यथोदितम् ।। ६३
ॐ अतो देवा अवंतु नो यतो विष्णुर्विचक्रमे ।।
पृथिव्याः सप्तधामभिः ।।
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।।
समूळ्हमस्यपांसुरे ।।
त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ।।
अतो धर्माणि धारयन् ।।
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।।
इंद्रस्य युज्यः सखा ।।
तद्विष्णोः परमं पदं सदा पश्यंति सूरयः ।।
दिवीव चक्षुराततम्।।
तद्विप्रासो विपन्यवो जागृवांसः समिंधते ।।
विष्णोर्यत्परमं पदम् ।।
लोकोद्भवैः फलैः कन्दैः शृंगारैर्बदरैः शुभैः ।।
वित्तैश्च धान्यैः पुष्पैश्च गंधधूपैः सदीपकैः ।। ६४ ।।
यः पूजयेद्भक्तियुक्तः सर्वपापैः प्रमुच्यते ।।
ततो द्विजान्भोजयेच्च सुहृत्संबंधिबांधवान् ।। ६५ ।।
व्रतावसाने गृह्णीयात्कश्चिदेको नरो व्रतम् ।।
तेषां मध्ये दृढाश्चक्रुरनघव्रतपारगाः ।। ६६ ।।
इदं जीवनघाती चेत्सत्यं तु समयोषितम् ।।
वर्षमेकं ततः स्वेच्छा इदं तवानघव्रतम् ।। ६७ ।।
तत्रोपेक्षणकं कार्यं नटनर्तकगायकैः ।।
प्रभाते तु नवम्यां तं तोयमध्ये विसर्जयेत् ।। ६८ ।।
एवं यः कुरुते यात्रां वर्षेवर्षे च हर्षितः ।।
भक्तियुक्तः श्रद्धया च सर्वपापैः प्रमुच्यते ।। ६९ ।।
कुटुंबं वर्द्धते तस्य यस्य विष्णुः प्रसीदति ।।
आरोग्यं सप्त जन्मानि ततो यांति परां गतिम् ।। 4.58.७० ।।
एतामघौघशमनामनघाष्टमीं च कौंतेय संप्रति मया कथिता हिताय ।।
कुर्वंत्यनन्यमनसः स्वयशोभिवृद्ध्यै ऋद्धिं प्रयांति कृतवीर्यसुतानुरूपाम् ।। ७१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अनघाष्टमीव्रतं नामाष्टपंचाशत्तमोऽध्यायः ।। ५८ ।।