भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५९

← अध्यायः ०५८ भविष्यपुराणम्
अध्यायः ०५९
वेदव्यासः
अध्यायः ०६० →

सोमाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि व्रतं श्रेयस्करं परम्।।
शिवलोकप्रदं पुण्यं विधिवन्मे निबोधताम्।।१।।
वारे सोमे सिताष्टम्यां पक्षे सोमं समर्चयेत्।।
विधिना चन्द्रचूडालं प्राप्यमेतत्स चन्द्रकम् । । २
दक्षिणार्धे हरिं ध्यात्वा मध्ये तु परितः प्रभुम् ।
पञ्चामृतादिना देवं स्थापयित्वा यतव्रती । । ३
चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलेपयेत् ।
हरभागं नीलरक्तं शिवस्योपरि मौक्तिकम् । । ४
पश्चात्पुष्पैः समभ्यर्च्य सितं रक्तैरनुत्तमैः ।
नीराजनं पुनः कुर्यात्पञ्चविंशतिदीपकैः । ।
अथ सिद्धैः शुभैर्भक्ष्यैनेवद्यं विनिवेदयेत् । । ५
एवंकृतोपवासस्तु प्रभाते पूर्ववच्छिवम् ।
सम्पूज्याज्यं तिलैर्मिश्रं जुहुयाज्जातवेदसि । । ६
व्रतिनो ब्राह्मणान्पश्चाद्भोजयित्वा विधानतः ।
मिथुनानि तु सम्भोज्य यथाशक्त्यनुपूजयेत् । । ७
आवर्त्य पितरावर्च्य विधिना तेन सुव्रत ।।
संवत्सरांते कर्तव्यं यत्तत्सर्वं निबोध मे ।। ८ ।।
प्रागुक्वविधिना पूज्या सितपीतयुगद्वयम् ।।
दद्याद्वितानकं चैव पताकां घटकीं तथा ।। ९ ।।
धूपगंधारसी चापि दीपवृक्षं सुशोभनम् ।।
एवमादीनि योज्यानि पूर्ववद्भोज्यमाचरेत् ।। 4.59.१० ।।
चतुरस्रं त्रिकोणं च मण्डलं कारयेत्ततः ।।
त्रिकोणे पार्वतीं ध्यायेच्चतुरस्रे महेश्वरम् ।। ११ ।।
संकल्प्य द्विजदांपत्यं वासोभिर्भूषणैस्तथा ।।
पूजयित्वा यथाशक्त्या कुर्यान्नीराजनं शुभैः ।।
दीपकैः पञ्चविंशद्भिर्भोजयित्वा विसर्जयेत् ।। १२ ।।
अब्दपञ्चकमेकं वा एवं यः कुरुते नरः ।।
उभाभ्यां लोकमासाद्य पदं यास्यत्यनामयम् ।। १३ ।।
आ देहपतनाद्यस्तु नित्यमेतत्समाचरेत् ।।
इहैव स हरिः साक्षान्नररूपो विभाव्यते ।। १४ ।।
न स्पृशंत्यापदस्तस्य न दुःखी भवति क्वचित् ।।
ज्वरग्रहादिभिर्नैव पीड्यतेऽसौ कदाचन ।। १५ ।।
।। श्रीकृष्ण उवाच ।। ।।
अथ वा तेन मार्गेण तामवेहि सिताष्टमीम् ।।
संप्राप्यादित्ययोगेन प्राग्विधानेन चाभ्यसेत् ।। १६ ।।
किंतु दक्षिणतंत्रस्थं भास्करं वार्चयेद्बुधः ।।
पद्मरागेण दिव्येन सुवर्णेन च पार्वतीम् ।। १७ ।।
कुंकुमेन समालभ्य चन्दनेन शिवं तथा ।।
अभावे सर्वरत्नानां हेम सर्वत्र योजयेत् ।। १८ ।।
रुद्रबीजं परं पूतं प्रियं रुद्रस्य सर्वदा ।।
रक्तमाल्यांबरधरं नैवेद्यं घृतपाचितम् ।। १९ ।।
शेषः पूर्वविधानेन कर्तव्यो विधिविस्तरः ।।
तिथौ पूर्णे च कुर्वीत गव्येनानघ पारणम् ।। ।। 4.59.२० ।।
एतत्प्राक्च विधायाब्दं पञ्चाब्दानेवमेव च ।।
कृत्वा सूर्यादिलोकेषु भुक्त्वा भोगान्व्रजेत्परम् ।। २१ ।।
पतंगवत्प्रतापी स्याददीनश्च जन प्रियः ।।
अस्मिन्रोगो न बाधेत धनवान्पुत्रवान्भवेत् ।। २२ ।।
यद्यष्टमी भवति सोमयुता कदाचिदर्केण वा कुरुकुलोद्वह तामुपोष्य ।।
पूज्यो मया सह हरं हरिणांकचिह्नं भक्त्यायुषां पदमुपैति पदं पुरारेः ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सोमाष्टमीव्रतवर्णनं नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।