भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९८

← अध्यायः १९७ भविष्यपुराणम्
अध्यायः १९८
वेदव्यासः
अध्यायः १९९ →

हेमाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् ।।
यस्य प्रसादाद्भवनं वैरिच्यं याति मानवः ।। १ ।।
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।।
तदर्द्धेनावरस्तद्वदल्पवित्तोऽपि शक्तितः ।। ।। २।।
दद्यादेकपलादूर्ध्वं यथाशक्त्या विचक्षणः ।।
धान्यपर्वतवत्सर्वं विदध्यान्नृपसत्तम ।। ३ ।।
विष्कंभशैलांस्तद्वच्च कृत्वा मंत्रमुदीरयेत् ।।
नमस्ते ब्रह्मबीजाय ब्रह्मगर्भाय वै नमः ।। ४ ।।
यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय ।।
यस्मादग्नेरपत्यं त्वं यस्मादुल्ब जगत्पतेः ।। ५ ।।
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम ।।
अनेन विधिना यस्तु दद्यात्कनकपर्वतम् ।। ६ ।।
स याति परमं स्थानं यत्र देवो महेश्वरः ।।
तत्र वर्षशतं तिष्ठेत्ततो याति परां गतिम्।। ७ ।।
हेमाचलात्परं दानं न चान्यद्विद्यते क्वचित् ।। ८ ।।
हैमं महींद्रमणिशृंगशतैरुपेतं लोकाधिपाष्टकयुतं सहितं मुनीन्द्रैः ।।
यः शक्तिमान्वितरतीह गणेशलोके कल्पं कुमारवदसौ कुरुपुंगवाऽऽस्ते ।। ९ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे हेमाचलदानविधिवर्णनं नामाष्टनवत्युत्तरशततमोऽध्यायः ।। १९८ ।।