भामिनीविलासः/अन्योक्त्युल्लासः

               




   

॥ श्रीः ॥

पण्डितराजश्रीजगन्नाथविरचितः

भामिनीविलासः ।


अच्युतरायकृतया प्रणयप्रकाशाख्यया व्याख्यया समेतः ।


अन्योक्युल्लासः ।

प्रथमः प्रमोदः ।

प्रेम्णा प्रेड्य प्राञ्चोः प्रपदानि प्रेयसीप्रिययोः ।
प्रचुरं प्रपञ्चयामि प्रौढ्यै प्रणयप्रकाशमहम् ॥
नहि भामिनी विलासः सुखसाध्यो भवति रसविलोलधियाम् ।
प्रणयप्रकाशविरहे तस्मात्तेनैव तैः स संपाद्यः ॥

 इह श्रीमत्परमेश्वरशिरःकिरीटहीरकहारीभूतसमुल्लसत्तरङ्गां सकलोपनिषदन्तरङ्गां भगवतीं गङ्गामाराध्य तत्प्रसादसमासादितसकलविद्याकमलिनीविद्योतनत्वमहिम्ना श्रीमज्जगन्नाथनाम्ना पण्डितराजेन ‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥' इति भरतसूत्रात्, ‘सुन्दरी खेशहृदयं वशीकृत्य खसद्गुणैः । लौकिकं वैदिकं चापि कुजतीष्टं ससाधनम् ॥ तद्वत्काव्याद्यपि श्रीमन्महारामायणादिकम् । श्रोतुर्मनो वशीकृत्य हितं वक्ति सहेतुकम् ॥' इत्यादिमदुक्तसाहित्यसारप्रपञ्चितपद्धत्या धर्मादिचतुर्विधससाधनपुरुषार्थानां भामिनीविलासाख्ययथार्थलघुकाव्यप्रणयनेनोपदिदिक्षया तन्निष्प्रत्यूहतादिप्रयोजनं शिष्टाचाराद्यनुमितश्रुतितः प्राप्तविधानं वस्तुनिर्देशलक्षणं मङ्गलं तावदन्योक्त्युल्लासेऽत्र तयैवाप्रस्तुतप्रशंसारूपया शिष्यानुशासनार्थं ग्रन्थारम्भेऽपि द्योत्यते--

दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः ।
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥ १ ॥

 दिगन्त इति । अयं बुद्धिस्थत्वेनापरोक्षो मृगपतिः, 'सिंहो मृगेन्द्रः' इत्यमरात्सिंहः, इदानीं वर्तमानकाले, न तु भविष्यत्कालेऽपि, अस्मिन्प्रपक्षे लोके भूर्लोके पुनरप्रथमे । एतेन पूर्वं शतशः करिवरा विदारिता एवेति ध्वनितम् । अनुपमशिखानामतितीक्ष्णाग्राणां नखानां पाण्डित्यं नैपुण्यं कस्मिन्प्रकटयतु । न क्वापि प्रकटयत्वित्यन्वयः । तत्र हेतुं पूर्वार्धेनाह--यतः, मदमलिनगण्डा दानदिग्धकपोलाः करटिनः । ‘करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीविनि । एका दशाहश्राद्धेऽपि दुर्द्धरूढेऽपि वायसे ॥' इति विश्वः । विशालगण्डस्थलमण्डिता गजा इत्यर्थः । दिगन्ते प्राच्यादिदिक्प्रान्ते श्रूयन्ते । ‘ऐरावतः पुण्डरीको वामनः कुमुदोऽजनः। पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥' इत्यमरात्केवलं परोक्षमेव श्रवणद्वारावगम्यन्ते, न त्वपरोक्षीक्रियन्त इत्यर्थः । तथा करिण्यो गजिन्यः कारुण्यास्पदं खलु तद्यूथनाथानां प्रागेवानेन विदारितत्वात्तासां स्त्रीत्वेन वधानर्हत्वाच्च तास्तावदनुकम्पापात्रमेवेति भावः । किंच मृगा हरिणा असमशीला अतुल्यबलाः खलु । तस्माद्युक्तमेवोक्तमृगपतेः शौर्यप्रकटनस्थानाभाववर्णनमित्याशयः । इयं हि मुख्योक्त्या व्याख्या । अन्योक्तिस्तु-- स्वस्य कस्यचिदन्यस्य वा पण्डितमाण्डलिकचक्रवर्तिन; स्तुतिरियमिति पाण्डित्यपदान्यथापत्त्योह्यते । वस्तुतस्तु तस्याः सर्वतोमुखत्वेन यथाप्रसङ्गं यथायोगं प्रकल्पनेऽपि न क्षतिः। इयमेव व्यवस्था यावदभिमन्योक्तिष्वपीति दिक् ॥ मङ्गलपक्षे तु वस्तुनिर्देशलक्षणमङ्गलपरतया श्लेषेणार्थत्रयं ज्ञेयम् । तद्यथा— मृगपतिः । अत्र अजहत्स्वार्थलक्षणया नृमृगपतिर्नरसिंहो ग्राह्यः । तथा चेदं प्रह्लादस्य हिरण्यकशिपुवधोत्तरं ब्रह्मादीन्प्रति भगवत्प्रभाववर्णनवचनम् । हे ब्रह्मादयः, अयमपरोक्षो मृगपतिरुक्तवृत्त्या नृहरिः । इदानीमित्याद्युत्तरार्धशेषं प्राग्वदेव । एवं करटिशब्देनाप्येतद्वध्यत्वेनासुरा एव ज्ञेयाः। ते तु दिगन्ते श्रूयन्ते । समुद्रपातालादिनिविष्टत्वाद्दूरवर्तमानत्वेन केवलमाकर्ण्यन्त एवेत्यर्थः । तद्वत्करिणीपदेनापि कयाधूप्रभृतयोऽसुरस्त्रियो बोध्याः । तथा मृगयन्त्यन्वेषयन्तीति व्युत्पत्त्या शुक्रपुत्रादयस्तन्मन्त्रिण एव मृगशब्दिताः । तस्माद्भगवतो नारसिंहस्य पुनः शौर्यप्रकाशने न किमपि प्रकृते पात्रमिति हिरण्यकशिपुवधादितच्चरितात्मकवस्तुव्यञ्जनेन विचित्रं तच्छौर्यैश्वर्यमिति द्योतितम् । तेन तस्य कविकर्तृकनमस्क्रियात्मकमपि मङ्गलं ध्वन्यते । तस्यास्त्वत्तोऽहं निकृष्टो मत्तस्त्वमुत्कृष्ट इति भावनपूर्वककायिकादित्रिविधप्रह्वीभावैकरूपत्वात् । पक्षे ‘शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म खभाव जम् ॥' इति स्मृतेर्मृगयन्त्यन्वेषयन्ति सदसद्वस्तु विचारयन्ति ते मृगा ब्राह्मणास्तान्पाति त्रिःसप्तवारं क्षत्रक्षपणपूर्वकं पृथ्वीप्रदानेन पालयतीति तथा । श्रीमत्परशुराम इत्यर्थः । नखानां न विद्यते खमाकाशपदवाच्यमवकाशजातं येषां ते तथा । वध्यराहित्येन निरवकाशानां शराणामित्यर्थः । ननु कुत एवमिति चेत्तत्राह--दिगन्त इति पूर्वार्धेन । करटिन ऐरावताद्यष्टदिग्गजोपलक्षिता जहत्स्वार्थलक्षणया तस्वामिन इन्द्रादिलोकपाला इत्यर्थः । तेषां मदमलिनगण्डत्वं तु मदजन्यस्वेदादेव बोध्यम् । एवं करिण्यः करा राजग्राह्यनियतधनभागास्ते विद्यन्ते येषां नृपणां तेषां स्त्रिय इत्यर्थः । खनिहतराजरमण्य इति यावत् । तद्वन्मृगानिरुक्तव्युत्पत्त्या विचारशीला जनकादिक्षत्रिया इत्यर्थः । इदं हि श्रीमत्परशुराम विजयोत्तरं खगतमेव कश्यपादिसप्तर्षिवचनम्। उक्तार्थमेवान्यत् । पक्षे गोपीसान्त्वनार्थं भगवता प्रेषितमुद्धवं प्रति राधिकावाक्यमिदम् । तथा हि । हे उद्धव, अयमस्मद्बुद्धिस्थत्वेन प्रत्यक्षः । एतेन प्रीत्यतिशयः सूचितः । मृगेति । मृगो हरिणस्तद्वत्पतिः । स यथा वन एव प्रायः क्रीडति तद्वदयं श्रीकृष्णो वृन्दावन एवास्मद्भर्ता । न तु ग्रामादौ प्रसिद्धस्तथेत्यर्थः । अस्मज्जारः । श्रीकृष्ण इति यावत् । एवं चास्मान्वञ्चयित्वा गतस्तस्येदं वक्ष्यमाणफलमित्याकूतम् । उत्तरार्धशेषस्तु यथाश्रुत एव । तदेतत्कालावच्छेदेनास्मिल्लोके मादृग्विलासास्पदं तस्य नास्त्येवेति भावः । तदेवोपपादयति-- दिगन्त इति । मदेति । मदेन मृगमदेन मलिनाश्चित्रितत्वेन श्यामा गण्डाः कपोला यासां तास्तथा । कस्तूरीकलुषितकपोला इत्यर्थः । एतादृशाः करटिनः करटाः पूर्वोक्तविश्वान्निन्द्यजीविनः शतशोऽसुराः सन्ति यस्येति स तथा । अनेकदुष्टासुरचमूनायकस्य । भौमासुरस्येति यावत् । तेन स्वगृहे रोधितत्वेन तत्संबन्धन्यः करिण्यः करशब्दितबलिप्रहणशालिन्योऽनेकराजानां षोडशसहस्रसंख्याकाः कन्यका इत्यर्थः। तास्तु निरुक्तरोधनवशात्कारुण्यास्पदं यथा स्यात्तथा दिगन्ते क्वचिद्दिक्प्रान्ते श्रूयन्त इति यावत् । तस्मात्ता अपि न सद्यः संभोगार्हा भवन्तीति भावः । तथा मृगा मृगयन्ति राधादिगोप्युपभोग्यत्वकीर्तिश्रवणेन श्रीकृष्णमन्वेषयन्तीति मृगाः । कुब्जादिमथुरानार्य इत्यर्थः । तास्त्वसमशीलाः सामान्यवनितात्वेनातुल्यस्वभावाः खलु । तस्मात्तासु तु पुरुषोत्तमस्य भगवतः कदाप्यनुचित एव विहार इति रहस्यम् । एवं च युक्तमेवास्यास्मान्वञ्चयतः संभोगस्थलराहित्यमधुनेति तत्त्वम् । अत्र प्रथमतृतीयचतुर्थार्थेषु युद्धवीरः, तथा द्वितीये पाण्डित्यवीरः, पञ्चमे विप्रलम्भकारानुप्राणितः सौन्दर्यवीरश्च रसः । अर्थचतुष्टयेऽपि धीरो दात्तो नायकः । पञ्चमे तु कितवः । परकीयाः प्रगल्भाः सौन्दर्यगर्विता विप्रलब्धा नायिकाः । अप्रस्तुतप्रशंसा श्लेषः काव्यलिङ्गं परिकरः परिकराङ्कुरः संकरश्चालंकाराः । एतेषां लक्षणानि तु सोदाहरणमुक्तानि कुवलयानन्दकारिकासु-- अप्रस्तुतप्रशंसास्यात्सा यत्र प्रस्तुताश्रया । एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥ नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयात्मकः । सर्वदो माधवः पायात्स यो गङ्गामदीधरत् ॥ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना । उच्चद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् । जितोऽसि मन्द कंदर्प मचित्तेऽस्ति त्रिलोचनः ॥ अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु नः शिवः ॥ साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥” इति । संकरलक्षणं तूक्तं कुवलयानन्द एव--- ‘नीरक्षीरन्यायेनास्फुटमेदालंकारमेलने संकरः' इति । एवं रसादिलक्षणान्यपि मदीयसाहित्यसारतो ज्ञेयानि । विस्तरभयात्तानि नेह प्रपञ्च्यन्ते । अत्र यद्यपि अन्योक्त्याद्युक्तरसापेक्षयाप्रस्तुतप्रशंसाद्यलंकारस्यैवाधिकचमत्कारकारित्वेन प्राधान्यादस्यार्थचित्राख्यमध्यमकाव्यत्वेऽपि निरुक्तालंकारापेक्षयापि तद्व्यञ्जितयुद्धवीरस्यैवाधिक्येनाह्लादजनकत्वाद्ध्वनिसंज्ञकोत्तमोत्तम काव्यत्वमेव ज्ञेयम् । अयं काव्यभेदस्तु रसगङ्गाधरराख्यैतद्रन्थ एव प्रसिद्धः । तदिहान्योक्त्याख्यप्रथमोल्लासे नीत्युपदेशात्ससाधनयोर्धर्मार्थयोः प्रतिबोधनम् । नीतिमत एव धर्मार्थयोः संभवात् । द्वितीये शृङ्गारोल्लासे तु स्वकीयाया नायिकायाः संवर्णनेन ‘धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ' इति स्मृतेस्तादृशस्य तस्योपपादनम् । अवशिष्टोल्लासद्वये तु ससाधनस्य मोक्षस्यैव प्रबोधनमिति । न च वेदेनैव धर्माद्यखिलपुमर्थोपदेशस्य ससाधनं विस्तरतः कृतत्वात्किमनेन पौरुषकाव्येनेति चेत्सत्यम् । तस्यार्थित्वादिविशेषणविशिष्टाधिकारिविषयत्वात् । यथाहुः--‘अर्थी समर्थों विद्वाञ्शास्त्रणापर्युदस्तो यजेत याजयेत्' इति । उपलक्षणमिदं सामान्यतो यावद्वेदार्थग्रहणतदनुष्ठानादेः । तस्माद्ये तावद्वेदाद्यर्थश्रवणादितः प्रभुसंमितोपदेशत्वादिना समुद्विजन्ति तथा पुरुषार्थमप्यभिवाञ्छन्त्येतादृग्विषयिजनैकविषयत्वादस्य काव्यादेर्नैव नैरर्थ्यशङ्कापीति ध्येयम् । एवं चात्र विषयित्वे सति पुमर्थेच्छवोऽधिकारिणः । व्यञ्जनया पुमर्थचतुष्टयबोधनं विषयः । तत्प्राप्यानर्थनिवृत्तिः प्रयोजनम् । व्यङ्ग्यव्यञ्जकभावः संबन्धश्च सिद्धः । अत्र शिखरिणीवृत्तम्-- ‘रसै रुदैश्च्छिन्ना यमनसभला गः शिखरिणी' इति वृत्तरत्नाकरोक्तेरिति शिवम् ॥

 एवमलौकिकपाण्डित्येऽपि पुरुषेण तावद्गर्वः स्वप्नेऽपि नैव कर्तव्यः, किंतु ‘श्रुतं प्रज्ञानुगं यस्य यस्य प्रज्ञा श्रुतानुगा । असंभिन्नार्थमर्यादः पण्डिताख्यां लभेत सः ॥’ इति महाभारतोक्तपाण्डित्यरीतिमतैव भाव्यम्, नो चेद्दुर्वारदुःखापत्तिः स्यात् । गर्वापादकख्यातिलाभपूजादिप्रयोजनस्य पण्डित्यस्य ‘क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥' इति वचनात्तत्साध्योपभोगानां नश्वरत्वात्तथा प्रतिक्षणमनुभवाच्च। अत एवाहुः— ‘वेदाभ्यासात्पुरा तापत्रयमात्राश्च शोकिता । पश्चादभ्यासविस्मारभङ्गर्वैश्च शोकिता ॥ इति । तस्मात्पाण्डित्याभिमानो नैव विधेय इति तात्पर्यं राजहंसान्योक्त्या द्योतयति--

पुरा सरसि मानसे विकचसारसालिस्खल-
त्परागसुरभीकृते पयसि यस्य यातं वयः ।
स पल्वलजलेऽधुना मिलदनेकभेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम् ॥ २॥

 पुरेति । इयं हि सार्वभौमाश्रितोऽप्ययं सूरीश्वरस्तद्विरहाद्यतो निराश्रयस्ततोऽद्य क्षुद्रशूद्राद्याश्रयेण तिष्ठत्विति धनयौवनाद्युन्मादेन वदन्तं कंचित्प्रति कस्यचिदभिज्ञस्योकिः । रे इति नीचसंबोधने । यस्य पुरा प्राङ् मानसे मानसाह्वये सरसि सरोवरे । विकचेति । विकचानि प्रफुल्लानि यानि सारसानि ‘सारसं सरसीरुहम्’ इत्यमरात्कमलानि, तेषामालिः पङ्क्तयस्तस्याः सकाशात्खलन्तश्च्यवन्तो ये परागाः पुष्परेणवस्तैः सुरभि सुगन्धि यथा संपेदे तथा कृतं तस्मिन्नित्यर्थः । एतादृशे पयसि जले यस्य वयो यातम् । तारुण्यमतिक्रान्तमिति यावत् । ननु सारसानामालिः पङ्क्तिरिति त्वयोक्तम् । सा च संयोगविशेष एव । एकताननिकटसंगयोस्यैव तादृशकिंचिद्विरलसामानाधिकरण्यद्वारकसंयुक्तसंयोगस्य वा ‘भुक्ता पङ्क्तिर्विप्रपङ्किः’ इत्यादौ तच्छक्यताया दृष्टत्वात् । तस्य च गुणत्वात्परागरूपद्रव्यस्य ततः स्खलनवर्णनमनुचितमेवेति चेन्न । आद्ये ‘वर्षत्यम्बुदमालेयम्’ इत्यादिवत् , द्वितीये ‘द्विजपङ्क्तिभुजे’ इत्यादिवच्च संबन्धविशेषकल्पनया निरूढलक्षणया वोपपत्तेः । एतेन ‘चकोरीगणे'(१।३) इत्यादि व्याख्यातम् । एवं चैतादृशस्यापि पण्डितवरस्य पाण्डित्याभिमानेन संपादितभोगक्षये जाते नीचाश्रयोऽप्यधुनानेन कार्य इति पामरेणापि बोध्यते खण्ड्यते चेतरेण । तथापि भोगाभावस्तु नैव हृत इति धिक्पाण्डित्याभि मानमित्याशयः । सः । मरालेति । मराला हंसाः । अत्र मरालपदस्य हंसे शक्तिग्रहस्तावन्मानसादिसिद्धपदसांनिध्यादेव । तदुक्तम्-‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यव्यावहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥” इति। मदीये साहित्यसारेऽपि ‘रौत्याम्रे पिकः' इत्यादौ प्रसिद्धपदसंनिधेरिति । तेषां कुलं वंशस्तस्य नायकः, तत्र वा नायको धुरीण इत्यर्थः । मिलदिति । मिलन्तः समुच्चयीभवन्तो येऽनेके भेका बहवो मण्डूकास्तैराकुलं व्याप्तं तत्रेति यावत् । एतादृशे । पल्वलेति । ‘वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका' इत्य‘मराक्षुद्रसरोवारिणीत्यर्थः। अधुनाद्य कथं वर्ततां कथं निवसतामिति कथयेत्यन्वयः। तस्मादत्रैतद्वर्तनमनुचितमेवेति भावः । अन्योक्तिस्तूक्तैव । अत्रोदात्तो नायकः। करुणो रसः । अप्रस्तुतप्रशंसालंकारस्तु प्रायो यावदुल्लाससमाप्ति साधारण एव । इह काव्यलिङ्गमपि । पृथ्वीवृत्तम् । तदुक्तम्-- ‘जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः'इति॥

 एवं निजैश्वर्यमदेन कस्यापि प्रभावापह्नवेन केषांचिदप्याशोच्छेदो नैव कर्तव्य इति विधात्रन्योक्त्या ध्वनयति--

तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे
मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति ।
माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः ॥३॥

 तृष्णेति । इयं कंचिदपूर्वगुणगणैः सर्वजनसंतोषणनिपुणस्यापि नवाभ्युदयमुपगच्छतो निजदुर्गुणाभासैः परिभावकं प्रति कस्यचिद्गुणज्ञशिरोमणेरुक्तिः । हे धातः अयि चतुरानन । तृष्णालोलेति । तृष्णया पिपासया लोलानि चपलानि विलोचनानि नेत्राणि यस्य तस्मिन् । एतादृशे चकोरीगणे, न तु चकोरकुले । एतेन करुणायोग्यत्वं व्यज्यते । प्राचीं पूर्वदिशम् । तत्रैव चन्द्रस्योदितत्वसंभवात् । कलयति पश्यति सतीत्यर्थः । किं चेति समुच्चये । तथेति यावत् । कैरवेति । ‘सिते कुमुदकैरवे' इत्यमरात्कुमुदवृन्द इत्यर्थः । मौनं मुकुलीभावं मुञ्चति । त्यजति सतीत्यर्थः । विकसति सतीति यावत् । एवं कामे मदने धनुर्मल्ल्यादि पौष्पं चापं धुन्वति भ्रमरविरुतलक्षणटणत्कारेण कम्पयति सतीत्यर्थः । न केवलमेतावदेव तिर्यङ्मात्रोपकरणम्, अपि तु मनुष्योपकारित्वमपि भूरितरं तत्रेति द्योतयति-- मान इति । मानवतीति । रूपाद्यभिनिवेशशालिसुन्दरीवृन्दस्येत्यर्थः । माने निरुक्तगर्वे । न चात्र मानपदार्थपौनरुत्यम् । मानवतीयत्र मानं पद्मिन्यादिलक्षणप्रतिपादकं शास्त्रं प्रमाणं विद्यते यासु विषये तास्तथेति व्युत्पत्तेर्विवक्षितत्वात्तासामेव रूपाद्यभिमानस्य दुरुत्सार्यत्वात्तत्संकरजातीनां तु तादृग्रूपवत्त्वासंभवेन यौवनैकमहिम्ना कदाचित्तत्सत्त्वेऽपि तस्य सुनिरस्यत्वाच्चेति ध्येयम् । माने निरुक्तगर्वे सपदि तत्कालं प्रस्थातुकामे गन्तुकामे सतीति यावत् । न तु गते तदेतत्सत्त्वेऽप्यक्षतेः । चन्द्रोदये सत्येतच्चतुष्टयं तावत्स्पष्टमेव स्वभावाद्भवतीति । तस्मादधुनोक्तरीत्या। सर्वलोकाभ्युदयसमय इदानीमित्यर्थः । त्वयेत्यार्थिकम् । धारेति । जलदपटलाटोप इत्यर्थः । ‘आडम्बरः समारम्भे’ इति विश्वः । तत्रापि विधौ चन्द्रे, न तु नभःप्रदेशविशेषे । विधातुं कर्तुमुचितो युक्तः किं नु । अपि तु नैव योग्य इति योजना । तदभ्रेण शुभ्रच्छव्याच्छादनं भवता नैव भावनीयमिति भावः । यद्वा गोकुले भगवता हेतुत्वादैरैन्द्रयागे भग्ने प्रवर्तिते च गोवर्धनाराधने क्रुद्धेन वृद्धश्रवसा प्रारब्धेऽतिवृष्टिविवर्धने तत्रत्यानां ब्रह्माणं प्रतीयं मघवन्मौढ्यध्वननधुरीणा वाणी । तद्यथा-- हे धातः । चकोरीति । चकोरवच्छ्रीकृष्णचरणनखचन्द्वैकजीविनां गोपानां स्त्रीसमूह इत्यर्थः । प्राचीं पुराकृतभगवत्संघटनां कांचिद्दूतीमित्यर्थः । ‘कैः अवकुले’ इति छेदः। फलोद्गमे स्वनाशकत्वात्तुच्छकुले । वंश इत्यर्थः । कैः सुखरूपैर्ध्वनिभिः । विधौ 'विधुः शशाङ्के कर्पूरे हृषीकेशेऽपि’ इति विश्वाच्छीकृष्ण इत्यर्थः । इन्द्रेणेति शेषः । शिष्टं तु प्राग्वदेव । इह ललितो नायकः । चरणत्रये शृङ्गारश्वरमे करुणश्च रसः । श्लेषोऽप्यलंकारः । शार्दूलविक्रीडितं वृत्तम् । तदुक्तम् –‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति ।

 ननु सत्यमेव यदुपदिष्टं निरुक्तान्योक्त्या स्ववैभवमदात्कस्यापि गुणापलापेन केषांचिदपि तदेकोपजीविनां जीवातुविनाशो नैव विधेय इति, तथाप्येते मदनुयायिनस्तावन्मां प्रति प्रतिदिनम् । ‘अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥' इति । पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ।’ इति। ‘असंपादयतः कंचिदर्थजातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ।’ इति । ‘तुङ्गत्वमितरानाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥' इति । तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्रः स्फुटं फलम् ॥ इति । ‘अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्टुरक्षिप्तमृगयूथो मृगाधिपः ॥’ इति च बहुतरमाघकाव्यादिसंमतिपूर्वकं स्वाभ्युदयार्थं परापकारमेव कर्तव्यतयोपदिशन्तीत्याशङ्किनं प्रति तत्रत्य एव कश्चित्तटस्थो मध्यस्थ इव सकलगुणज्ञतया प्राक्तनोपदेष्टयैव कमलान्योक्त्या श्रद्धाविधानं व्यनक्ति-

अयि दलद्रविन्द स्पन्दमानं मरन्दं
तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः ।
दिशि दिशि निरपेक्षस्तावकीनं विवृण्व
न्परिमलमयमन्यो बान्धवो गन्धवाहः ॥ ४ ॥

 अयीति । इदं हि कोमलामन्त्रणे संबोधनम् । तेन वक्तरि शिक्षकत्वेऽपि कारुण्यं व्यज्यते । दलदिति । भोः । विकसितकमलेत्यर्थः । एतेन मरन्दे स्पन्दमानतायां हेतुः सूचितः । भृङ्गा भ्रमराः, न तु हंसाः तेन क्षुद्रत्वादि द्योत्यते । तव त्वत्संबन्धिनमित्यर्थः । एवं च भृङ्गेष्वर्थमात्रलोलत्वं ध्वन्यते। स्पन्दमानं किंचित्स्रवमाणम् । तेन मयि भूयः संपद्यते' ततो भक्षयन्तु नाम ये केचन यथेच्छमित्यौदासीन्यव्युदासः । मरन्दं मकरन्दम् । किमपि कथंचिदपि । एतेन स्वामित्वाभावः सूचितः । लिहन्तः । आखादयन्तः सन्त इत्यर्थः । एवं च यावदर्थमेवैते मधुरं भाषन्ते तदूर्ध्वं तु स्वप्तेऽप्येते नैव गोचरीभविष्यन्तीत्यनुचितपात्रत्वं तेषु व्यज्यते । मञ्जु मनोज्ञम् । ‘मञ्जु मञ्जुलम्' इत्यमरः । क्रियाविशेषणमिदम् । मनोहरं यथा स्यात्तथा गुञ्जन्तु गुञ्जारवाख्यकर्णजापं कुर्वन्त्वित्यर्थः । एतेनातिनीचत्वं तेषु ध्वन्यते । उक्तं हि महाभारते-- ‘सुलभाः पुरुषा लोके सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोतापि दुर्लभः ॥” इति । न च सर्वेऽप्येवमेवेति पूर्वपद्याशयोपदेष्टुरस्य तथात्वाभावादित्याह-- दिशि दिशीत्युत्तरार्धेन । दशदिशास्वपीत्यर्थः। एतेनाचिन्त्यशक्तिः सूचिता । तावकीनं त्वत्संबन्धिनं परिमलं सुगन्धं विवृण्वन्विशदयन् । ‘वितन्वन्' इति पाठे विस्तारयन्नित्यर्थः । किं लोभेन, नेत्याह–- निरपेक्ष इति । एतादृशोऽयं प्रत्यक्षो गन्धवाहः पवनाख्यो बान्धवः सखा अन्य एव अलौकिक एवास्तीति संबन्धः । तस्मादेतदादरणमेव करणीयमिति तात्पर्यम् । अत्रोदात्तो नायकः । शान्तो रसः भेदकातिशयोक्तिरप्यलंकारः। मालिनी वृत्तम् । तदुक्तम्-‘ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥

 एवं जीवनैकनिर्वाहार्थं कंचिदुपागतमर्थिनं नैवावजानीयादिति कुटजान्योक्या द्योतयति समुपागतवतीत्यार्यावृत्तविशेषेण--

समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥ ५॥

 समुपेति । रे कुटज । नवकुटजकदम्बामोदिनो गन्धवाहाः' इति भर्तृहरेः, ‘उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः' इति कुवलयानन्दकारिकायाश्चोक्तेः 'कुडा’ इति महाराष्ट्रभाषाप्रसिद्धो वर्षाकालविकासी कश्चित्तिक्ततमो वृक्षविशेषः कुटजस्तत्संबुद्धौ । एतेनातिनिन्द्यत्वं ध्वनितम्। दैवात्प्रारब्धाद्धेतोः समुपागतवति सादरं समीपमभिसर्पति । एतेनावश्यादरणीयत्वं व्यज्यते । तत्रापि मधुकरे मधुसंपादके त्वयि तदाविर्भावाभावेऽपि स्वसांनिध्येन तज्जनके भृङ्गविषये, न तु भ्रमरे । एवं च व्ययहेतुत्वेऽव्ययकारणत्वान्नित्यसंग्राह्ययत्वं सूचितम् । अवहेलामवज्ञां मा

गाः । माकार्षीरित्यर्थः। एवमप्यनास्थायामाह-— मकरन्देत्युत्तरार्धेन । तस्मात्त्वयायं सर्वथा सेव्य एवेत्याशयः । इह पूज्यो नायकः । करुणो रसः । काव्यलिङ्गमप्यलंकारः ॥

 अस्त्वेवं सति विभवे नीत्युपदेशः कस्यचिद्दैवाद्विपत्तौ सत्यां कथं कार्यं तेनेत्यत्र धैर्यमेव । उक्तं हि भर्तृहरिणा—‘विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥' इतीति कोकिलान्योक्त्या व्यनक्ति तावदित्यार्यया--

तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन् ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ६ ॥

 तावदिति । हे कोकिल, त्वं तावद्वनान्तरेऽन्यारण्यमध्ये । एतेन धैर्यभङ्गहेतुः विषयिसङ्गव्युदासः सूचितः । निवसन्नितरां तिष्ठन्सन्नित्यर्थः, न तु क्षणमात्रं विहरन् । एवं च तत्संभवाभावो व्यज्यते । विरसान्दिवसान्यापय । नयेत्यर्थः तावत्पदापेक्षितं पूरयति--यावदित्युत्तरार्धेन । रसाल आम्रः। ‘आम्रश्चूतो रसालोऽसौ' इत्यमरः । मिलदिति । मिलन्त्याश्लिष्यन्ति मिलन्त्योऽभिसमालिङ्गन्त्यो वालिमाला भ्रमरपङ्क्तयो यस्मिन्स तथेत्यर्थः । तस्मात्स्वाभीष्टदविकासपर्यन्तं धैर्यमेवावलम्ब्य विपन्नेन वन एव विहर्तव्यमिति तात्पर्यम् । इह करुणो नायकः । शान्त रसः । लोकोक्तिरप्यलंकारः । तदुकम — ‘लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते । सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ।’ इति ॥

 ननु भवता भूर्युपदेशे क्रियमाणेऽपि मम संशयः पुनः पुनर्नवो नव एवाविर्भवतीति धिङ् मामतिनीचामिति स्वमनसि खिन्नमिव शिष्यमालक्ष्य गुरुस्तं कूपान्योक्त्या प्रोत्साहयति--

नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥ ७ ॥

 नितरामिति । हे कूप, अहं नितरामत्यन्तं नीचो निम्नः । पक्षे हीनः । कुता र्किक इत्यर्थः । अस्मीति खेदं कदापि मा कृथाः । नैव कुर्वित्यर्थः । तत्र हेतुः अत्यन्तेत्युत्तरार्धेन । यतस्त्वमत्यन्तसरसहृदयः । रसो जलम् । पक्षे शृङ्गारादिः। तेन सहितं सरसमत्यन्तमुत्कटं हृदयमन्तःप्रदेशः । पक्षे मनो यस्य । तथा परेषां लोकानाम् । गुणेति । गुणो नीत्युपदेशादिः । पक्षे रज्जुः । तं गृह्णातीति तथा । एतादृशोऽपीत्यर्थः । अत्र काव्यलिङ्गमलंकारः । शिष्टं प्राग्वत् ॥

 ननु तत्र वनादावपि केनचिदवज्ञा कृता चेत्तदा किं विधेयमित्याशङ्क्य स्वगुणज्ञलाभसंभावनया धैर्यमेवेति कमलिन्यन्योक्त्या व्यनक्ति--

कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः॥८॥

 कमलिनीति । इह पूर्वार्धे तु सरलमेव । तस्मान्मूर्खकृतावज्ञावशात्खेदो नैव कर्तव्य इति भावः । तत्र हेतुः--परिणतेत्युत्तरार्धेन । परिणतः परिपक्व एतादृशो यो मकरन्दः पुष्परसस्तस्य मार्मिकाः । मर्मज्ञ इत्यर्थः । एतादृशा मिलिन्दा भ्रमराः । स्पष्टमेव शिष्टम् । तस्माद्गुणज्ञा एव त्वद्गुणाञ्ज्ञास्यन्ति न त्वन्य इति तल्लाभार्थं धैर्यमेव धार्यमिति तत्त्वम् । अत्र खिन्ना नायिका । करुणो रसः । निरुक्त एवालंकारः । वृत्तमिदं पुष्पिताग्राभिधम् । तदुक्तम्—‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति ।

 अथ महापद्यपि नीचपरिचरणं नैव कर्तव्यमिति भ्रमरान्योक्त्या व्यनक्त्यार्यावृत्तेन--

येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत ।
कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ ९ ॥

 येनेति । अमन्देति । प्रचुरमकरन्द इत्यर्थः । दलदिति विकसितकमल इति यावत् । एतेन सकलसुखसामग्री सूचिता । अनायिषत । नीतानीत्यर्थः । खल्विति तेनेत्यनेनान्वेति । तथा च तेनैव न त्वन्येन । एतेनानौचित्यं सूचितम् । मधुकरेण कुटजे प्रागुक्तद्रुम ईहा इच्छापि । हा इति खेदे । कथं तेने किमिति विस्तारितेति संबन्धः । इह विपन्नो नायकः । करुणो रसः । परिकरोऽप्यलंकारः ॥

 ननु यदि कश्चिदनेकगुणाधिकरणमपि गुण्यादिषु तुल्यदृष्ट्यैव तत्पोषकश्चेत्तत्र गुणिनो मे कथमाधिक्यं स्यादिति चेत्तत्स्तुत्यैवेति चन्दनान्योक्त्या व्यनक्त्यार्याविशेषेण-

अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः ॥ १० ॥

 अयीति । कोमलसंबोधनेन स्वस्मिन्पाटवं द्योतितम् । मलयेति । कुलीनत्वेन स्तुत्यर्हत्वं व्यज्यते । अयं प्रत्यक्षस्ते तव महिमा माहात्म्यं कस्य गिरां वाचां विषयोऽस्तु । अनिर्वाच्यत्वान्न कस्याप्यस्त्वित्यर्थः । कस्य विधातुः । अस्मदादीनां नैवेति वा । तमेव कथयंस्तत्र हेतुमपि द्योतयति-- उदित्युत्तरार्धेन । गरलं विषमुद्गिरतो वमतः । एतेनातिहेयत्वं सूचितम् । एतादृशान्फणिनो नागान्परिमलोद्गारैर्यत्पुष्णासि । पोषयसीत्यर्थः । अपकारिष्वप्युपकारित्वं तवालौकिकमेवेति भावः । इह समदृष्टिर्नायकः । शान्तो रसः । उक्त एवालंकारः ।

 स्तुतिर्हि विपुलैव कार्यकारिणीति द्योतयितुं पुनर्निरुक्तान्योक्त्यैव तां व्यनक्ति--

पाटीर तव पटीयान्कः परिपाटीमिमामुरीकर्तुम् ।
यत्पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम् ॥ ११ ॥

 पाटीरेति । पाटीरेति चन्दनसंबोधनम् । पटाः सन्ति यस्य स पट तन्तुवायः तद्वत् ईरयति स्वगुणानन्यत्र पटादौ स यथा प्रेरयति तद्वत्स्वनिष्ठसौरभ्यादिधर्मांश्चन्दनद्रुमादौ प्रेरयतीति पटीरो मलयाचलस्तत्र भवः पाटीरस्तत्संबुद्धावयि मलयानिलय चन्दनेत्यर्थः । तवेमां वक्ष्यमाणत्वेन प्रत्यक्षां परिपाटीं रीतिमुरीकर्तुं स्वीकर्तुं कः पटीयानस्ति । न कोऽपीत्यर्थः । तस्मात्त्वमेव धन्य इत्याशयः । तत्र हेतुमाह-- यदित्युत्तरार्धेन । यद्यस्माद्धेतोस्त्वं पिषतामपि पेषणेन चूर्णीकुर्वतामपि । एतेन परमतितिक्षुत्वं ध्वनितम् । एतादृशां नृणां मनुष्याणां पिष्टोऽपि परिमलैः पुष्टिं तनोषि । विस्तारयसीत्यर्थः । इह क्षमी नायकः । शान्तो रसः । काव्यलेङ्गमलंकारः ।

 नन्वेवमपि स यदि मत्कार्यं नैव विवेचयिष्यति तदा किं वक्तव्यमिति चेद्धंसान्योक्त्या तद्ध्वनयति--

नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् ।
विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ॥ १२ ॥

 नीरेति। हे हंसेति संबुद्धिः। एवकारेण त्वयैवमालस्यं नैव कार्यमिति व्यज्यते। तत्रानिष्टापात्तिं स्पष्टयति-– विश्वस्मिन्नित्युत्तरार्धेन । इह जडो नायकः । उक्त एव रसोऽलंकारश्च ॥

 नन्वेवमुक्तौ स क्रुध्याति चेत्तत्र वक्तव्यां स्तुतिं व्यनक्ति--

{{block center|

उपरि करवालधाराकाराः क्रूरा भुजंगमपुंगवात् ।
अन्तःसाक्षाद्द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ १३ ॥

 उपरीति । बहिः। करवालेति । करवालः खड्गस्तस्य धारा तद्वदाकारो रोषव्यञ्जकव्यक्तिविशेषो येषाम् । तत्र हेतुः-- भुजंगमेति । भुजंगमाः सर्पास्तेषु पुंगवः श्रेष्ठस्तस्मात्सर्पराजादपि क्रूराः । क्रोधना इत्यर्थः । तर्ह्यन्तरपि ते तथैव स्युरिति सर्वोत्कटत्वेनोक्ततद्वर्णनं कथम् । तत्राह-- अन्तरिति शेषेण । द्राक्षेति । मृद्वीका नामपि माधुर्योपदेशदेशिका इति यावत् । एतादृशाः केऽपि जना जयन्तीति योजना । अर्थात्तादृशा भवन्त एवेति द्योत्यते । इह निष्कपटो नायकः । शान्त एव रसः । प्रतीपमलंकारः ।

स यदि दुर्जनोपदेशादेतन मनुते चेत्तत्रोक्तामैव ‘अयि दलवू’ (१४ ) इति कमलान्योक्तिं भङ्ग्यन्तरेण पठितुं स्पष्टयति

स्वच्छन्दं दलदरविन्द ते मरन्दं
विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
आमोदानथ हरिदन्तराणि नेतुं
नैवान्यो जगति समीरणात्प्रवीणः ॥ १४ ॥

स्वेति । विन्दन्त आस्वादयन्तः। विदधतु कुर्वन्तु । समीरणाद्वायोः। शेषमुक्तप्रायमेवाधस्तात् । प्रहर्षिणीवृत्तमिदम् । तदुकम्–नौ ज्रौ गस्त्रिदशयति प्रहर्षिणीयम्’ इति ॥

 ननु स निरुक्तवाक्यं श्रुत्वा रोषं करिष्यतीति चेद्वदान्यत्वकरुणत्वादिसूचकेन पद्यान्तरेण स्तोतव्य इति द्योतयितुं तदेव सरोवरान्योक्तिघटितं पद्यं पठति--

याते मय्यचिरान्निदाघमिहिरज्वालाशतैः शुष्कतां
गन्ता कं प्रति पान्थसंततिरसौ संतापमालाकुला ।
एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥१५॥

यात इति । मयि । निदाघेति । ग्रीष्मकालीनोष्णरश्मिजन्यातपार्चिसहस्रैरित्यर्थः । अत एव अचिराच्छीघ्रं शुष्कतां नीरसतां याते प्राप्ते सति । असौ विप्रकृष्टा । संतापेति उक्तातपावलितरलितेयर्थः । एतादृशी । पान्थेति । पथिकपरम्परेति यावत् । कं प्रति गन्ता कं वदान्यं प्रति जीवनयाचनार्थं गमिष्यति । नैव कमपि गमिष्यतीत्यर्थः। उत्तरार्धं तु सरलमेव । मार्गपदं सन्मार्गद्योतकम् । एवं जीवनपदमपि श्लेषेणोदकस्य प्राणनस्य च सूचकम् । जनुः । जन्मेत्यर्थः । ‘जनु र्जननजन्मानि’ इत्यमरः । तस्मादल्पसत्वोऽपि भाविसंकटप्राप्तावर्थिवैमुख्यसंभावनया पूर्वमेव क्षीयमाणतनुर्वदान्य एव धन्यो न त्वन्ये भूरिभाग्यसंपदा अपीत्याशयः । अत्र पूर्वार्धे सदयकरुणौ परार्धे धीरदानवीरौ च नायकरसौ । काव्यलिङ्गमप्यलंकारः । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं तु प्रागेवोकम् ॥

 ननु तत्राप्यसौ नैव प्रसीदतीति चेत्स्वानन्यगतिकत्वध्वननेन प्रसादमूलीभूतं तत्र स्वविषयकपरमकरुणोत्पादनमेव मीनान्योक्त्या विधेयमिति व्यनक्ति--

आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्ति ।
संकोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ १६ ॥

 आपेदिर इति । हे सरः सरोवर, त्वयि संकोचं ग्रीष्मोष्मणा ह्रासमञ्चति । स्वीकुर्वति सतीत्यर्थः। पतङ्गाः ‘पतङ्गौ पक्षिसूर्ये च' इत्यमराराद्धंससारसादयः पक्षिणः परितः समन्तादम्बरपथमाकाशमार्गमापेदिरे । प्रापुरित्यर्थः । न केवलमेत एव तथा किं त्वन्येऽपीत्याह-- भृङ्ग इति द्वितीयपादेन । रसालेति । रसाल आम्रः । ‘आम्रचूतो रसालोऽसौ' इत्यमरः । ‘कुड्मलो मुकुलोऽस्त्रियाम्' इति च । अतो दीनदीनो दीनेभ्योऽनन्यगतिकेभ्यो नक्रादिभ्योऽपि दीनः । परमानन्यगतिक इत्यर्थः । मीनो मत्स्यः । नु वितर्के । हन्तेति खेदे । कतमां कां वा गतिमभ्युपैतु । तस्य त्वदुदकप्राचुर्यं विना गत्यन्तराभावान्न कामपि गतिमभ्युपैत्वित्यर्थः । तस्मादनेन त्वत्पङ्क एव विकीभूय लोकान्तरे गन्तव्यमिति भावः । एतेन त्वयायं नैवोपेक्षणीय इति व्यज्यते । अत्र करुणावेव नायकरसौ । परिकरोऽप्यलंकारः। वसन्ततिलकावृत्तम् । तदुक्तम्— ‘उका वसन्ततिलका तभजा जगौ गः' इति ॥

 ननु स यदि ब्रूयात्किमेवं मदनिष्टं चिन्तयसीत्यत्र किं कार्यमिति चेत्कमलिन्यन्योक्त्या स्वस्य परहितैकनिरतत्वं व्यञ्जनमेवेति वदंस्तामेवाह--

मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनि मंस्थाः ।
लोकानामेव मुदे महितोऽप्यात्मामुनार्थितां नीतः ॥ १७ ॥

 मधुप इवेति। हे अम्बुजिनि कमलिनि । एतेनोक्तनिष्टचिन्तनसंभावनारूप विपरीतबोधवत्त्वात्तत्र त्रीबुद्धित्वं ध्वनितम् । पक्षे भो पद्मिनि, त्वं मधुप इव भ्रमर इव। पक्षे मद्यप इव। अस्मिन्मारुते वायौ । पक्षे मे लक्ष्मीब्रह्मप्रभे तत्कारि रुतं शब्दितं यस्य तस्मिन् गुरावित्यर्थः । विषयसप्तमीयम् । सौरभेति । सौगन्ध्य लोभम् । सूर्यविकासित्वान्निशि मुकुलीभावेन स्वपरिमलवितरणकार्पण्यमित्यर्थः । पक्षे मुखप्रसादादिना निजमनोज्ञत्वाप्रकाशनमिति यावत् । मा मंस्थाः। मा मनन विषयीकुर्या इत्यर्थः । तत्र हेतुः--लोकानामेवेत्युत्तरार्धेन । यतोऽमुना मारुतेन महितोऽपि पूजितोऽप्यात्मा खदेहो लोकानामेव मुदे जनानामेव संतोषार्थमर्थितांअ नीत इति योजना । एवं चास्य खप्रयोजनं न किमपीति द्योतितम् । तस्मान्ना यमनादरणीय इत्याशयः। इह मुग्धा नायिका । पूज्यो नायकः। शान्तो रसः। श्लेषोऽप्यलंकारः ।

 नन्वेतदपि श्रुत्वा स तूष्णीमेव स्थास्यति चेत्किं कर्तव्यमित्याशङ्कय तत्र पठ नीयां स्त्महत्त्वसूचिकां मालत्यन्योक्तिं वक्ति

गुञ्जति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥ १८ ॥

 गुञ्जतीति । हे मालति । स्त्रीलिङ्गसंबोधनं प्राग्वत् । त्वं मञ्जु मनोज्ञम् । ' मञ्जु मङगलम् ' इत्यमराद्रम्यं यथा स्यात्तथेत्यर्थः। गुजति गुजारवं कुर्वति मिलिन्दे भ्रमरे विषये इति यावत् । मौनं मोपयसीनैव कुर्या इत्यर्थः । तत्र हेतुः-शिरसेत्यादि । यत एनम् । वदान्येति । दातृवरा अपि सुरतरवः कल्पद्रुमाः सादरं शिरसा वहन्तीत्यन्वयः । इह नायिकादिकमुक्तमेव । मौनशिरःपदे लाक्षणिकत्वेन श्लेषव्यञ्जके ।

 ननु तत्र कश्चित्कर्णेजपो विरुद्धं बोधयेच्चेत्तदा कथमित्याशङ्कायां तत्र वक्तव्यां चन्दनान्योक्तिं कथयति-

यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥ १९ ॥

 यैस्त्वमिति । हे पटीरज भो मलयज चन्दन, गुणगणवानपि त्वं यैर्द्विजिह्वैः सर्पैः । पक्षे सूचकैः । सतामसेव्यतां नीतस्तानपि वहखीत्यादि सरलमेव । औनत्यं महत्त्वम् । इह मूढो नायकः । व्याजस्तुतिरप्यलंकारः ॥

 ननु ततोऽसावुत्थायान्यत्रैव रोषाज्जगमिषुवेत्तत्र किं वाच्यमित्यत्र वकव्यां भृङ्गन्योकिं कथयति

अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे ।
पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्योऽसि ॥ २० ॥

 अपनीतेति । हे भ्रमर, त्वम् । अत्र ‘मधुप-' इत्यपि पाठः । अपेति । दूरीकृतान्यसौरभ्यवार्त इत्यर्थः । अत एव देवेति । अत्रोक्तावेव नायकालंकारौ ॥

 नन्वेवमपि दुर्जनवाक्य एवासौ श्रद्दधानश्चेत्तर्हि नद्यन्योक्त्या स विबोधनीय इति ध्वनयति तामेव पठन्


तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः ।
शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥ २१ ॥

 तटिनीति । हे तटिनि । “तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी' इत्यमरादयि नदीत्यर्थः। त्वं चिराय बहुकालमिति विचारयेति विवेकं कुर्वियर्थः । अत्र स्त्रीत्वेन संबोधनमविवेकित्वं व्यनकि । इतीति किम् । तदेवाह-विन्ध्येत्यादि शेषेण । विन्ध्याचलोत्पन्नायाः । एतेन सद्गुरुभक्त्युत्कटत्वयोग्यत्वं ।ध्योत्यते । अत एव पवित्रायास्तव शुष्यन्त्याः सत्या अपि रथ्योदकादानं रथ्यावर्तिदुर्गन्धोदकखीकरणं खलु युक्तं किमिति योजना । तत इदमनुचितमेवेति भावः । अत्र कुलीना मुग्धा नायिका । परिकरोऽप्यलंकारः ॥

 नन्वथापि सा नैव वमनुसरति चेत्तत्र वक्तव्यां बर्बुरान्योक्तिं कथयन्देशयागो हि दुर्जनादिति न्यायात्ततो वदान्यान्तरमेव गन्तव्यमिति व्यनक्ति

पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शूकैः ।
उपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥ २२ ॥

 पत्रेति । हे बबुर । ‘बाभुळ' इति देशभाषाप्रसिद्धवृक्षविशेषेत्यर्थः । पत्रेति । न केवलं गुणाभाव एव किंतु दोषपरिपोषोऽपीत्याह-वृतं चेत्यादि । शुकैः कण्टकैः । ‘शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे' इत्यमरः । खलु वृतं कण्टकमात्राकुलाखिलशावमित्यर्थः । कचित्‘वृतं च बत' इति पाठः ।चः समुच्चये। एतादृशं गुणहीनं दोषवन्तं च भवन्तं वयमर्थिनः कस्य वस्तुनो लोभेनोपसर्पेम त्वन्निकटे आगमनं करवामेति त्वमेव वदेति संबन्धः । तस्मादितोऽन्यत्रैव गच्छामेति तत्त्वम् । इह दुष्टो नायकः । उक्त एवालंकारः ।।

 तत्र कश्चित्वसुचेत्स्वनिर्गमनावसरे स कथमुपदेश्य इत्याशङुकथानया कोकिलान्योक्त्येत्याह-

एकस्त्वं गहनेऽस्मिन्कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ॥ २३ ॥

एकस्त्वमिति । हे कोकिल, यत एकस्त्वमस्मिन्नाहने । ‘गहनं काननं वनम्’ इत्यमरादरण्ये। अतः कदाचिदपि कलमव्यक्तमधुरध्वनिं न कुर्युः । मैव कुर्वि त्यर्थः । तत्र हेतुः साजत्येति ।

यतोऽमी निर्दयाः काकास्त्वां साजात्यशध्नङ्कया निजजातीयभ्रान्त्या न निघ्नन्तीत्यन्वयः ।

उक्त्ध्वनिरचने तु भ्रान्त्यपगमान्निर्दयत्वखाभाव्येनना मारयिष्यन्त्येवेति भावः । इह करुणादेव नायकरसौ । भ्रान्तिमानप्यलंकारः ||






अथ कदाचित्स राजा खगुणाकृष्टतयानुनेतुमायास्यति चेत्तत्र वक्तव्यां हिमा चलान्योक्तिमाह- तरुकुलसुषमापहरा जनयन्तीं जगति जीवजातार्तिम् । केन गुणेन भवानीतात हिमानीमिमां वहसि ॥ २४ ॥ तरुकुलेति। ‘सुषमा परमा शोभा', 'हिमानी हिमसंहतिः' इति चामरः । जातिर्जातं च सामान्यम्” इत्यपि। ‘आर्तिः पीडाधनुःकोट्योः' इति च । हे भवानी- तातेति महत्त्वसूचकम् । तेन तवेदमनुचितमिति तात्पर्यम् । अत्रोदात्तो नायकः । परिकरोऽप्यलंकारः ॥ | किमेवं दुर्जनतिरस्करणमेवोपदेशनीयं तावतैवं खादिसज्जनादरसंभवादिति चेन्न । सज्जनादरोपदेशस्याप्यपेक्षितत्वात् । न हि शोधनादिना निर्दोषमपि गोदुग्धं शर्कराप्रक्षेपादि न वाञ्छतीति तात्पर्येण तत्सूचिकां कलभान्योकिं वक्ति- कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवझासीः । अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ २५ ॥ कलमेति । यद्यप्येवंजातीयका सा समुपागतवति दैवात्' ( १॥५) इति प्रागुकैव तथापि तत्र कुटजपदस्यायन्तजाड्यव्यञ्जकत्वादिह तु राज्ञः खगुणपारव- श्येन तथात्वाभावादीषजडत्वविवक्षयैव करिशावकवाचिना कुलभपदेन ध्वननाना- मैडितत्वावकाशः।उपकण्ठान्तिकाभ्यर्णाभ्या अप्यभितोऽव्ययम्' इत्यमरादन्ति- के समीपम्। अवज्ञासीरवज्ञाविषयीकुर्या इत्यर्थः । तत्र हेतुः-अपि दानेति । दानं मदोदकम् । पझे वितरणम् । तेन सुन्दराः सुभगास्तेषाम् । अत एव द्विपेति । द्विपाः ‘द्विरदोऽनेकपो द्विपः' इत्यमराजास्तेषां धुर्याः। ‘धूर्वहे धुर्यधौरेयधुरीण सधुरंधराः' इत्यपि तदुतेः श्रेष्ठास्तेषामित्यर्थः । गजराजानामप्ययं शिरोधार्य इत्यन्वयः । इह पूज्यतरो नायकः । शान्तो रसः । काव्यलिङ्गमप्यलंकारः ॥  ननु तत्राप्यसावुदासीन एव द चेत्तत्र स्वानुरागजनिक बकव्यां भ्रमरान्यो तिमाह

अमरतरुकुसुमसौरभसेवनसंपूर्णसकलकामस्य ।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ २६ ॥

 अमरेति । सुरद्रुमपुष्पसौगन्ध्यास्वादनपर्याप्तसर्वमनोरथस्येत्यर्थः । एतादृशस्य भ्रमरस्य पुष्पान्तरसेवेयं महती बिडम्बना अनौचिती भवतीति योजना । तस्माद स्मदादरोऽवश्यं निरन्तरं विधेय एवेति भावः । इह नायकरसौ कावेव । परिकरोऽप्यलंकारः॥

 एवं संपद्विपीत्युपदेशश्रवणेन तुष्टः शिष्यः शिष्टतरं स्खोपदेष्टारं स्तौति-पृष्टा इत्यादित्रिभिः। तत्र निरुपमत्वं प्रथममाघ्रान्योक्त्या व्यनकि --

पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
माकन्द न प्रपेदे मधुपेन तवोपमा जगति ॥ २७ ॥

 पृष्टा इति । हे माकन्द । ‘आम्रचूतो रखालोऽसौ सहकारोऽतिसौरभः । कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ॥' इत्यमरादय्यानेत्यर्थः । पक्षे मा लक्ष्मीः, ब्रह्मविषयका प्रमा च तस्यास्तयोर्वा कन्द इव मूलकारणं तत्संबुद्धौ । तथा । भोः चतुर्वर्गप्रद, सदुरो इति यावत् । मधुपेनातिनीचेनापि भ्रमरेण । पक्षे बाई दारण्यकमधुब्राह्मणोतमधुशब्दितं ब्रह्म पिबति बुभुत्सुत्वेनास्वादयतीति तथा तेन । क्रममुमुक्षुणेत्यर्थः । यद्यपि । परेति । परैलोकैः स्वैहिकादिफलार्थं पोषिता इत्यर्थः। एतेन मुख्यत्वं सूचितम् । एतादृशः सर्वेऽपि विटपिनो वृक्षाः । अत्र शाखिपदं चेत्पूर्णः श्लेषः। दृष्टाः प्रश्नविषयीकृताः। ततो दृष्टा अनुभूताश्च । यद्वा परपुष्टः कोकिलाः । पक्षे परेण परमात्मना पुष्टाः पूर्णाः। पृा विटपिनो दृष्टावेति। तथापि जगति तवोपमा त्वदृष्टान्तो न प्रपेदे नैव लब्ध इति संबन्धः । इह निरुपमो नायकः। शान्त एव रसः। गुरुविषयकरतिभावो वा।श्लेषोऽप्यनन्वयश्चलंकारः॥

 ननु मया यकिंचिदेव नीतिजातमुपदिष्टं तकिमितिं निरुपमवेन मां स्तैषी त्याशक ‘किंचानर्थे यदवसरे दत्तम्’ इति प्रश्नोत्तररत्नमालिकायां श्रीमद्विमला चार्यचरणारविन्दवचनात्ममयेऽनुशास्तुत्वेन सुरगुरुप्रभृतिभ्योऽपि भवदाधिक्यमेव भवतीति मालाकारान्योक्त्या द्योतयति

तोयैरल्पैरपि करुणया भीमभानौ निदाघे
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां
धारासारानपि विकिरता विश्वतो वारिदेन ॥ २८ ॥

 तोयैरिति । हे मालाकार । मालाः पुष्पस्रजः करोतीति तथा तत्संबुद्धौ । भवता कर्त्रा करुणया अल्पैरपि तोयैर्वाप्याद्युद्धृतैर्जलैः करणैरस्य तरोर्या पुष्टिर्भीमभानौ भीमश्चण्डो भानुः सूर्यो यस्मिस्तत्र निदाघे ग्रीष्मर्तौ व्यरचि अकारीत्यन्वयः । किं ततस्तत्राह--सेत्युत्तरार्धेन । सा पुष्टिरिह लोके प्रावृषेण्येन प्रावृषि वर्षाकाले भवः प्रावृषेण्यः प्रावृट्कालीनस्तेनेत्यर्थः । अत एव विश्वतः सर्वतः वाराम् “आपः स्त्री भूम्नि वार्वारि' इत्यमराज्जलानामित्यर्थः। धारासारानपि धाराश्चासाराश्च धारासारास्तान् । धारा जलधराः प्रसिद्धा एव । तथा आसाराः धारासंपात आसारः इत्यमराद्धाराणां संभूयपतनमिति रामाश्रमकृताद्व्याख्यानाच्च धाराणां समुचितपरिपातास्तानपीत्यर्थः । एतेन पुष्टिसामग्रीप्राचुर्यं सूचितम् । विकिरता वर्षता एतादृशेन वारिदेन मेघेन जनयितुं कर्तुं शक्या योग्या किम् । अपितु नैव योग्येति योजना । तस्मात्त्वं निरुपमरवेन स्तोतुं योग्य एवेति भावः । अत्रोक्त एव नायको भावश्च । प्रतीपविशेषोऽलंकारोऽपि । मन्दाक्रान्ता वृत्तम् । तदुक्तम्- ‘मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्’ इति ॥

 एवं निरुक्तलोकेऽल्पपदं क्षुद्रत्वं गुरुवाचि व्यनक्तीत्यस्खरसान्मेघान्योक्त्या पुनः स्तौति

आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ २९ ॥

 आरामेति हे तोयद जलद । आरामेति ।‘आरामः स्यादुपवनम्’ इत्यमरादुद्याननायकः। विवेकेति । विचारहीनः । नूनं निश्चितम् । अस्तीति शेषः । एवं ‘रसा विधेभरा स्थिरा इत्यमराद्रमा पृथ्वी । नीरसा निर्गता रसा उदकानि यस्याः सकाशात्तथा जलहीनेत्यर्थः । तद्वद्वायाभिश्चक्रवातैर्दशदिशः परुषीकृताः क्षीकृताः सन्तीति यावत् । तथा । चण्डेति। चण्डस्तीत्र आतपः। ‘प्रकाशो द्योत आतपः' इत्यमरास्प्रकाशो यस्य स तथा। सूर्य इत्यर्थः। दुःसहो ग्रीष्मकालिकत्वेन स्रोतुमशक्योऽस्तीति यावत् । एवं धन्वनि। ‘समानौ मरुधन्वानौ’ इयमरान्मरुदेशे चम्पकस्य । सकले संहारेऽपि । ध्वंसकारणे सत्यपीत्यर्थः। त्वममृतेन । 'पयः कीलालममृतम्’ इत्यमराजलेन । पक्षे पीयूषेण। सिञ्चनप्लावयन् । एतादृशो वेधसा ‘स्रष्टा प्रजापतिर्वेधाःइत्यमराष्ट्रह्मणा कुतोऽप्यस्यादृष्टाद्धेतोः। आविष्कृतः प्रकटीकृतोऽसीति संबन्धः । अतस्त्वल्लभ एव पुमर्थ इत्याशयः । इहोतावेव नायकरतिभावौ । प्रहर्षणमप्यलंकारः । शार्दूलविक्रीडितं वृत्तं तूक्तमेव ॥

 एवं स्तुतिमाकर्यं निर्विण्णः श्रीगुरुः ‘किमनया स्तुत्या । यदुक्तम्-‘अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम् । सद्यो न रोचते सा सन्तोऽप्ययै न रोचन्ते ॥’ इति । किंच ‘येषां निमेषमात्रेण जगतः प्रलयोदयौ । तादृशः पुरुषा याता मादृशां गणनत्र का ॥’ इति वचनादलमस्मदीयस्तवेन” इति द्योतयन्म हानुभावशरीरनाशमनुसंधाय सिंहान्योक्त्या शोचति--

न यत्र स्थेमानं दधुरतिभयभ्रान्तनयना
गलहानोद्रेकभ्रमदलिकदम्बाः करटिनः।
लुठन्मुक्ताभारे भवति परलोकं गतवतो
हरेरद्य द्वारे शिवशिव शिवानां कलकलः ॥ ३० ॥

 न यत्रेति । यत्र हरेद्रे। गलदिति । गलावद्यद्दानं मदोदकं तस्योद्रेकेण बाहुल्येन भ्रमन्ति अलिकदम्बानि भ्रमरवृन्दानि येषु ते तथा। न तु साधारणाः । एतेन मदोन्मत्तत्वं सूचितम् । एतादृशः करटिनः। उक्तार्थमिदं प्राक् । गजेन्द्रा इत्यर्थः । अतीति । अतुलभीतिचकितलोचनाः सन्त इति यावत्। स्थेमनं स्थिरीभावं न दधु नैव बभुरित्यन्वयः। तत्र परलोकं खर्गादिलोकान्तरं गतवतः। जगामेति गतवांस्तस्य पञ्चत्वं प्राप्तस्येत्यर्थः । एतादृशस्य हरेः। ‘हर्यक्षः केसरी हरिः' इत्यमरासिंहस्य। लुठदिति । लुठन्ति श्वापदपादैः प्रचलन्ति ते तथा मुक्तानां विदारितमतङ्गज गण्डस्थलजात मौकिकानां भाराःप्रचुरनिकरा यस्मिस्तत्तथा । एतादृशे द्वारे दरीमु-खेऽद्य । शिवशिवेति खेदाद्भगवन्नमस्मरणम् । शिवानां कोष्ट्रीणां कलकलः कोलाहलो भवतीति योजना । तस्मान्नश्वरमेवेदमखिलं दृश्यवैभवामिति भावः । इहो दात्तो नायकः। वीरकरुणभयानकशान्ता रसाः । पर्यायस्वभावोक्ती अलंकारौ तदुक्तम्-एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि संमतः । अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि ॥' इति, ‘खभावोकिः स्वभावय जात्यादिस्थस्य वर्णनम् । कुरधैः गुरुतरङ्गाक्षैः स्त्रग्धकणैरुदीक्षितम् ॥' इति च । शिखरिणी वृत्तम् । तल्लक्षणंतूरूमेवाधस्तात् । अथ निरुक्तस्वनिर्वेदेन शिष्यमुखं म्लानमिवालक्ष्य तं प्रोत्साहयितुं बकुला न्योज्या तदुणवर्णनं ध्वनयति--

दधानः प्रेमाणं तरुषु समभावेन विपुलां
न मालाकारोऽसावकृत करुणां बालबकुले ।
अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलै
र्दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३१ ॥

दधान इति । तरुषु खमभावेन समानदृध्या प्रेमाणं दधानोऽत एवासौ मालकारो यद्यपि बालबकुले नूतनबकुलद्रुमे विपुलां करुणां नकृत नैव चकार । तथापि तु पुनरयं द्रक्शीघ्रम् । ‘द्राक्षु सपदि द्रुतम्' इत्यमरः । उद्यदिति । आविर्भवत्पुष्पगुच्छानां परिमलैः सुगन्धैर्दिगन्तान्। मधुपेति पुष्पंधयनिचयगुज़ रवपूरितानेतादृशाना।तेने विस्तारयामासेति संबन्धः । इह ललितो नायकः । वीर एव रसः। असंभवोऽप्यलंकारः । तदुक्तम्-‘असंभवोऽर्थनिष्पत्तेरसंभाव्यख वर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ' इति ॥ तत्राप्येकः काम एव तव शत्रुर्जेतव्य इति वृक्षपर्यन्योक्तया ध्वनयति

मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं मांसला
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किंतु मनागयं जनयति स्वान्ते ममाधिज्वरं
ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः ॥ ३२ ॥

  मुलमित्यादि। हे तरुपते । वृक्षाणां पतिः श्रेष्ठस्तत्संबुद्धौ। भो वृक्षराजेत्यर्थः। अत्र तजातिविशेषस्याकथनात्तच्छद्मनापदेश्ये अद्यावध्युत्तमखादिजात्यनिर्णयाद- प्रौढत्वं व्यज्यते। यतस्तव मूलमतीवात्यन्तमेव स्थूलं महत्तरम् । तथा बन्धनदृढं बन्धनं भूमेरन्तर्गते महापाषाणादौ वेष्टनं तेन दृढमचलं चास्तीत्यर्थः । एतेन चक्रवातादिभीत्यपनुतिः सूचिता। एवं शाखाः स्कन्धत्वेन प्रसिद्धास्ताः शतं नतु खल्पाः । तत्रापि मांसला लक्षणया पल्लवपरिपुष्ट नतु शुष्काः। एतादृश्यः सन्तीति यावत्। न चैवमपि राजमार्गनिष्ठत्वेन मे छेदनादि भयमस्त्येवेति वाच्यम् ।तव पवतदुर्गनिष्टत्वादित्याह- वास्तु इति । दुर्गे दुःखेन गन्तुं शक्यः दुर्गः। स चासौ महीधरः पर्वतस्तस्मिन्वासोऽपि भवतीत्यतो हेतोस्तव भीतिः कुत्रास्ति । न कापि भयं संभवतीत्यर्थः। किंत्वेकोऽयं दावानलो दावाप्तिर्मम। खान्तेऽन्तःकरणे मनागीषदाधिज्वरम् ‘पुंस्याधिर्मानसी व्यथा' इत्यमराद धिर्मानसी व्यथा तया ज्वरः संतापस्तं जनयति । संपादयतीत्यर्थः हेतुं वदंस्तं विशिनष्टि ज्वालेयादिचरमपादगतविशेषणाभ्याम् । कीदृशः । अकरुणो निर्दयः । पुनः कीदृशः । ज्वालेति । ज्वालानामार्चिषामाली पङ्किस्तया वलयीभवन्कटकाकारीभवन्सन् । घस्मरः । बहुभक्षक इति यावत् । ‘भक्षको घस्मरोऽद्भरःइत्यमरः । एतेन तत्र स्वभीतिहेतु सामग्री द्योतिता । तस्मादेतस्मात्त्वया भेतव्यमेवेति भावः । पक्षे तरव एव पतयः फलादिप्रदा नेन पालयितारो यस्य तत्संबुद्धौ । अत एव तव वासो दुर्गमहीधर इति संगतम्। एतेनारण्यविहारित्वेन विरक्तत्वं सूचितम् । यतस्तव मूलम् ‘ऊध्र्वमूलम्-’ इति स्मृतेरधिष्ठानीभूतं ब्रह्म स्थूलमतीव परममहत्परिमाणम् । परिच्छेदत्रयशून्यमे वास्तीत्यर्थः । कीदृशं तत् । बन्धनेति । बन्धने संसारबन्धने खट्टशानुभूतेऽपि दृढम् । अविनाशीति यावत् । एवं ज्ञाने सामग्री केत्यत्राह-शाखा इति । तैत्तिरीयादिरूपा इत्यर्थः । दावानलपदादौ गौणी लक्षणा । तेन लुप्तोपमा। एतेन दावानलो यथा वनस्थवृक्षयोरेवान्योन्यसंघर्षादुत्पन्नस्तद्दाहकोऽन्यदाहकश्च भवति, तद्वद्भवारण्ये त्रीपुंसयोः परस्परसंनिकर्षतः प्रादुर्भूतः कामोऽपि तद्धातकः श्रवणा दिनान्यघातकवेति व्यक्तम् । एतादृशः। अयंति छेदः । अघहेतुः परस्त्रीविष यकवेन पापकारणीभूतो यः स्मरः कामः स तथेत्यर्थः । शेषं तूक्तार्थम् तस्मात् ‘जहि शत्रु महाबाहो कामरूपं दुरासदम्’ इति स्मृतेः काम एव श्रेय इत्याशयः। अत्र विरको नायकः । शान्तो रसः । श्लेषोऽप्यलंकारः ॥

 एवं गुरुवाक्यमाकर्यं भवत्प्रतापाने कोऽयं मशकः कामो यन्मामेवैतजयः कर्तव्यतयोपदिश्यते श्रीमद्भिर्मम वेतप्राणान्तसंकटमेव परिस्फुरत्यतः स्खप्रभा वादेवायमुपशमनीय इति मेघान्योज्या व्यनक्ति--

ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातक
स्त्वां ध्यायन्घन वासरान्कथमपि द्राघीयसो नीतवान् ।

दैवाल्लोचनगोचरेण भवता तस्मिन्निदनीं यदि
स्वीचक्रे करकानिपातनकृपा तत्कं प्रति ब्रूमहे ॥ ३३ ॥

 ग्रीष्म इति । अत एव । भीष्मेति । ‘दारुणं भीषणं भीष्मं घोरं भीमं भयान कम्' इत्यमरादतिभयंकरैरित्यर्थः। एतादृशैः करैः किरणैः कृत्वा दिनकृता दिवसकरेण कर्ना दग्धोऽपि । दाहवत्प्राणान्तसंतापितोऽपीत्यर्थः । एतादृशोऽपि यश्चातकः । हे घन, खां ध्यायन्मनसा जीवनदातृत्वेन चिन्तयन्सन् द्रघयसोऽतिशयेन दीर्घा इति द्रषीयांसस्तान् । ग्रीष्मतौं दिवस विस्तीर्ण प्रसिद्धमेव । एतादृशानपि । एतेन परमासह्यत्वं व्यज्यते । वासरान्दिवसान्कथमपि येनकेनाप्यनिर्वाच्यप्रकारे णापि नीतवाननयदिति संबन्धः। लोचनेति । नेत्रविषयीभूतेन । प्रत्यक्षेणेत्यर्थः। एतादृशेन भवता त्वया । तस्मिन्नुक्तरूपे चातके । करकेति । ‘वर्षोपलस्तु करका’ इत्यमरात्पाषणाकारवारिपरिणामविशेषा एव करकास्तासां निपातनं तद्रूपा या कृपा स यदीदानीं स्वीचक्रेऽङ्गीकृता तत्तर्हि कं प्रति ब्रूमह इत्यन्वयः । तस्मादतुः लश्रद्धालुरनन्यगतिकश्च मादृशो भक्तजनः कदापि नैवोपेक्षणीयः किंतु स्खसामर्थे ।शेनैव कामादि विघ्नसहस्रतोऽप्यमृतप्रदानेन संरक्षणीय एवेति भावः। अत्र दग्धो ऽपीत्यनेन श्रद्धातिशयः सूचितः । एवं दैवादियनेनाचार्यदौर्लभ्यं ध्वनितम् । इदान नीमित्यनेन स्खभ्युदयसमये हि वदान्यचक्रवर्तिनां प्रायेण पात्राद्यविचार्येव वितरणप्रवीणत्वं प्रसिद्धे किमुत निजैकजीवने परमसुजने तप्रकटीकरणमिति द्योति तम् । अत्र पूज्यतमो नायकः। करुण एव रसः। विषम विशेषोऽलंकारः । तदुक्तं विषमं प्रकृत्य–‘अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थं समुद्यतम् । भक्ष्याशया हि मञ्जूषां भङ्क्त्वाखुस्तेन भक्षितः ॥’ इति ॥

 तत एवं शिष्यवाक्यं श्रुत्वाप्यश्रुतामिव भावयंस्तदुत्तरमविधायैवान्यजनैः सहैव वा र्तान्तरासक्तमाचार्यमालक्ष्य स तावत्तस्य तद्वैमुख्यपूर्वकं स्वैकपरायणत्वं संपादयितुं तस्मै निजीौत्सुक्यं मेघान्योक्यैव व्यनक्ति--

दवदहनजटालज्वलजालाहतानां
परिगलितलतानां म्लायतां भूरुहाणाम् ।
अयि जलधर शैलश्रेणिशृङ्गेषु तोयं
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३४ ॥

दवेति । अयि जलधर । इदं हि कोमलामन्त्रणे स्खकारुण्योत्पादनार्थम् । भो जलपदवाच्यानाममृतानां जीवनानां च धारक मेवेत्यर्थः। एतेनाखिलपुरुषार्थदा नदक्षत्वं द्योतितम् । त्वम् । दवदहनेति । ‘दवदावौ वनारण्यवती’ इत्यमराह्वस्या- रण्यस्य संबन्धी यो दहनो व्तस्य जटाला जटा इव येन दीर्घतरा अंशविशेषास्तद्विशिष्टा ये ज्वालाः । ‘वह्रेर्द्धयोर्ज्वालकीलैः’ इत्यमरः । तेषां जालानि तैरा- समन्ताद्धतास्ताडिताः। त्वगादौ दग्धा इति यावत् । तेषामित्यर्थः । अत एव । परिगलितेति । च्युतलतानामत एव म्लायतां म्लायन्ति ग्लानिं प्राप्नुवन्ति ते म्लायन्तस्तेषाम् । म्लानानामित्यर्थः। एतादृशां भूरुहाणाम् । ‘वृक्षो महीरुहः शाखी’ इत्यमरावृक्षाणामिति यावत् । ‘षष्ठी चानादरे’ इति षष्ठी । ताननादृत्ये त्यर्थः । शैलेति । पर्वतशिखरेषु तोयं जलं बहु विपुलं वितरसि वर्षसि । पर्वतेषु हि भूयसी वृष्टिर्भवतीति प्रसिद्धमेव। अयं निरुक्तस्तावकीनस्त्वदीयः श्रीमदः संपदुन्मदः कः। आक्षेपार्थकोऽयं किंशब्दः। अनुचित एवेत्यर्थः । तस्मादस्मास्वेवा मृतवृष्टिः पात्रतया कार्येति तात्पर्यम्। इह स्थूललक्ष्यो नायकः । करुणो रसः । परिकरोऽप्यलंकारः । मालिनी वृत्तम्। तल्लक्षणं तूक्तमधस्तात् ॥

इत्थं शिष्यवचनं श्रुख पान्थान्योक्त्या श्रीगुरुस्तमाश्वासयति--

शृण्वन्पुरः परुषगर्जितमस्य हन्त
रे पान्थ विह्वलमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीवनोऽयं
नाकर्णितः किमु सखे भवताम्बुवहः ॥ ३५ ॥

 ऋण्वन्निति । रे इति नीचसंबोधने। तेन निरुक्ताक्षेपस्त्रयानुचित एव विरचित इति सूचितम्। पान्थ पथिक। पक्षे हितबिज्ञासुत्वेन भो सन्मार्गगामिनित्यर्थः। त्वमस्य प्रकृतस्य मेघस्य । पक्षे गुरोर्मम । पुरोऽग्रभागे। परुषेति । परुषं भयंकरम् । पक्षे त्वय्यौदासीन्यमिव विधायान्यं प्रयुक्त्वेन दुःसहं च तद्भर्जितं स्तनितम् । पक्षे उच्चैर्भाषितं श्रुण्वन्सन्मनागपि ईषदपि विह्वलमना विकलान्तःकरणो न स्याः मा भवेत्यन्वयः । तत्र हेतुः । विश्वेति । हे सखे, भवता। एतेन सान्त्वनंव्यज्यते । विश्वेति । विश्वस्य सर्वस्याप्तिः पीडा तस्या वारणं दूरीकरणं तदर्थं समर्पितं जीवनमुदकम् । पक्षे प्राणधारणं येन स तथेत्यर्थः । परोपकारैकतत्पर इति यावत् । एतादृशोऽयं प्रत्यक्षोऽम्बुवाहो वारिदः। पक्षेऽम्बुशब्दवाच्यममृतपदश्लिष्टं कैवल्यं वहति ब्रह्मात्मबोधपर्यन्तोपदेशेन निर्वहतीवि तथा श्रीगुरुरित्यर्थः ।नाकर्णितः किमु प्रथितमहिमस्वाज्ञ श्रुतः किम् । अपितु श्रुत एवेति योजना । तस्माद्युक एवायं त्वदाक्षेप इति भावः । इह संबोध्यो नायकः । शान्तो रसः। श्लेषःकाव्यलिीङ्ग चालंकारः। वसन्ततिलका वृत्तम् । तल्लक्षणं प्रागेवोक्तम् ॥

 एवमाश्वास्य चतुर्विधान्यतमपुमर्थार्थिनापि दुःखमस्त्याज्य एवेअवति रहस्यं चन्द- नान्योक्तया सूचयति-

सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरं
कीर्तिः किं च दिगङ्गनाङ्गणगता किं त्वेतदेकं शृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरा-
नुज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३६ ॥

 सौरभ्यमिति । हे श्रीखण्ड श्रीः खण्डेषु यस्य तत्संबुद्धौ। चन्दनस्य हि यादृशी । काष्ठखण्डदशावच्छेदेन सौरभ्यशोभोपलभ्यते न तादृग्द्वमादिदशावच्छेदेनेति सुप्रसिद्धमेव । अतो युक्रेवोक्तव्युत्पत्तिः। अयि चन्दनेत्यर्थः । तव सौरभ्यं सौगन्ध्यम्। भुवनेति । लोकत्रयेऽपि विदितं सर्वमान्यतया प्रख्यातम् । वर्तत इति यावत् । तथा शैत्यं तु संतापोपशामकत्वं तु लोकोत्तरमीकिकमेव । अस्तीत्यर्थः। किंचतव कीर्तिर्दाहादावपि परिमलपौष्कल्यख्यातिः। दिगिति । प्राच्यादिचपल विलोचनाजिरसंचारिणीत्यर्थः । भवतीति शेषः । किं तत इति चेत्तदाह--किंत्वित्यादि । तदेव स्फुटयति-इयं प्रत्यक्षा द्विजिह्वावलिः सर्पराजिस्तव कोटरेष्वनायाससंपन्नत्वात्काष्ठबिलेष्वित्यर्थः। गरलज्वालां गरलानि वान्तविषाणि तैर्या स्वनिश्वसूक्ष्माग्निना सह त्वत्काष्ठसंयोगाज्वालार्चितम् । यद्वा तान्येव ज्वालेवदाहकत्वाज्वाला ताम् । यद्वा तानि ज्वालेव ज्वला तामित्यर्थः। उज्झन्ती उद्भाव यन्ती सती ते सर्वानेव तव संपूर्णान्सुन्दरानेव रम्यानेव निरुकसौरभ्यादीन्गुणान् । धर्मानित्यर्थः। निगिरति खलु भक्षयत्येवेति योजना। तस्मादेतस्याः परिग्रहस्तव परमनाशहेतुत्वादनुचित एवेति भावः । अत्र सुन्दरपदेन गुणेष्ववश्यं संरक्षणीयत्वं द्योत्यते । इह संबोध्यनायकपक्षेऽपि कोटरपदमात्रे गौणीं वृत्तिमाश्रित्यान्तः पुरादिाहैकान्तदेशविशेषार्थकत्वमुररीकृत्यार्थान्वयो विधेयः । तद्यथा -भो देव दत्त, ते सौरभ्यं सुरभेः ‘सुगन्धे च मनोज्ञे च वाच्यवसुरभिः स्मृतः’ इति विश्वान्मनोज्ञस्य भावः सौरभ्यम् । रम्यखमित्यर्थः । शैत्यं ‘तिशीतौ कुशे तीक्ष्णे’ इति हैमात्तैक्ष्ण्यम् । तेजखित्वमिति यावत् । द्विजिह्वति । ‘द्विजिह्वौ सर्प सूचकौ’ इत्यमरात्परच्छिद्रसूचकपञ्जिरित्यर्थः । गरळेति । गरलमिव दुरुपदेशजातं मारकत्वाद्भरलं तेन ज्वालेव कोपाग्निजन्या या परध्वंसनेच्छा तामित्यर्थः। शेषं तूफार्थमेव । तस्मात्पिशुनवचो नैवादरणीयमित्याशयः । अत्रोपदेश्यो नायकः । करुणो रसः। श्लेषप्तोपमे अष्यलंकारौ । शार्दूलविक्रीडितं वृत्तम् ॥ एवं श्रीगुरुवाक्यं श्रुखा दुर्जनवचनश्रोतरि स्खस्मिनौदासीन्यमिवालक्ष्य तस्य सर्वत्र निरपेक्षसर्वोपकारित्वं सूचयनात्मनि तत्कारुण्यमुत्पादयति मेघान्योक्त्या--

नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च संगतिः।
तथापि हरते तापं लोकानामुन्नतो घनः ॥ ३७ ॥

नापेक्षेति । हे गुरो, यद्यप्यस्यापेक्षा नास्ति । तथा दाक्षिण्यं समुद्रोदकमानीय दातृवात्खतः सामर्यमपि नास्तीत्यर्थः । शेषं स्फुटमेव । अत्र नापेक्षेत्यादि नचतुष्टयेन क्रमादुरौ लोभौद्ध्त्यरागसग्ङ्गव्युदासः सूचितः । तेनाहं नैवोपेक्ष्य इति रहस्यम्। इह पूज्यः कृपालुश्च नायकः । उक एव रसः । परिकरोऽप्यलंकारः॥अथैवं शिष्यवाक्यमाकर्यं यद्येवं तव श्रद्धा चेतर्घनुपम एवासीति कमला न्योक्तया तदुत्पत्तिस्थितिसंपत्तिगुणपलितवनतो व्यनक्ति-

समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं
निवासः पद्मयाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ३८ ॥

समुत्पचिरिति । हे अम्बुज भो कमल, तत्र समुत्पत्तिः प्रादुर्भावः खच्छे निर्मले सरसि मानसादौ सरोवरे । नतु पल्वलेऽस्तीत्यर्थः । एवं निवसनमपि वसतिरपि हरिहते विष्णुपायें । तवेत्यस्तीति चाद्यन्तयोरनुबन्धनीयम् । किंचत्वं पझाया लक्ष्म्या निवासो वसतिस्थानम् । अचीति शेषः । तथा तव परिमलः सुगन्धोऽपि । सुरेति । देवमनोहर इत्यर्थः । भवतीत्यध्याहारः । एतेन गोडु ग्धादेरुत्तमस्थानजन्यत्वेऽपि ताम्रपात्रादिस्थित्या तस्य पुनस्तदितरपात्रादिगत्वे शरादियोग्यसंमेलनाभवेन लवणाद्ययोग्यसंमेलनेन वा तथा शोधितत्वादम्यादि संस्कृतवैलादिसुवासितत्वाभावेन हिड्यादि दुर्गन्धिस्वादिना वा त्याज्यमिवास्यापि निन्यजलादिना हेयत्वं व्युदस्तम् । तर्हि किमेतावन्त एवं मयि गुणाः सन्ति नेत्याह-गुणैरिति । अन्यैरपि निरुक्केतरैः खीयसुन्दरीस्मितसदनमाड इयायैरपीत्यर्थः। ललितस्य । रम्यस्येति यावत् । एतादृशस्य तव यदि । द्विजेति । पक्षिश्रेष्ठे । पक्षे त्रैवर्णिकशिरोमणौ । हंसे राजहंसे, पक्षे परमहंसे । कस्मिंश्चिद्रह्मनिष्ठ इत्यर्थः । रतिः प्रीतिरस्ति । तह्यमतीवानुपमैवोन्नतिरुत्कटता भवतीत्यन्वयः । तस्मादेवमेव सार्वदिकी श्रद्धा वर्धनीयेति तत्त्वम् । अत्र द्विजे त्यादरणीया शब्दब्रह्मनिष्णातखादिबहिःसामग्री हंसेत्यन्तःसामग्री च सूचिता । इह बुभुत्सुर्नायकः। शान्तो रसः । काव्यलिङ्गादिरप्यलंकारः । शिखरिणी वृत्तम् ।

 ननु तर्हि किं सर्वपालकेन राज्ञा मया नीचजनोज्जीवनं नैव विधेयमिति चेत्व र्वजीवनं त्वया संपादनीयमेव परंतु तत्तद्योग्यतातारतम्यं विवेकेनैव न त्वन्यथेति क्षीराब्ध्यन्योक्तितो ध्वनयति-

साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान्निद्राति नारायणः।
एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम् ३९

 साकमिति । प्रावेति‘। पाषाणप्रतरप्रावोपलाशमानःइत्यमरात्पाषाणगणैः साकं सार्धम् । नीरे नीरवत्सर्वतः परिपूर्णं क्षीर एव । नतु फलवदिवत्कचित्कदा चित्केनचिदुपलभ्यमान इति यावत् । एतेन क्षीरार्णवे नीरसंभवानीरपदप्रयोगानौ चित्यं परास्तम् । एवं नीरचरपदेऽपि तेषामतितुच्छत्वबोधनार्थमेव नीरपदम्। तेन वक्ष्यमाणाविवेकपरिपोषोऽपि ध्वन्यते । नीरचरैः ।।मकरादिभिर्जलचरैरि त्यर्थः । स भगवानिति पदाभ्यां श्रुतिप्रसिद्धत्वं सर्वेश्वरत्वं ततोऽतिपूज्यवं च व्यज्यते । हे क्षीरार्णव, त्वामहं किं निन्दान्यथवा स्तवानीति त्वमेव कथयेति संबन्धः । अत्राविवेकी नायकः । संदेहोऽप्यलंकारः। शार्दूल विीडितं वृत्तम् ।

 एवं निन्दापदं श्रुत्वा कुपितं तं प्रति खयं निःस्पृहत्वेन क्षीरार्णवन्योक्तयानिन्दामेव स्फुटयति--

किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यन्न तावकमर्णव वदनं प्रयाति तृषितानाम् ॥ ४० ॥

 किं खल्विति। अभ्रायितेन अभवन्मेघवदाचरितेनेत्यर्थः । महत्त्वनीलत्व दिनाभ्राम्यं बोध्यम् । तत्र हेतुः-वळिलमपीति । एतेन तस्यातितुच्छत्वाद्दान योग्यत्वमावेद्यते । ननु गङ्गादीनामपि किं जलं खयमेव जनवदनं प्रयातीत्यब्राह-तृषितानामिति । तस्मातृषितैर त्वज्जलं क्षारत्वात्पातुं नैव शक्यत इत्याशयः । पक्षे सदुपदेष्टरि कुपितत्वेन कृतप्तस्य तव जलमपि तृषितैरपि जनैरप्राश्यमेव क्क पुनरन्नमिति ध्वन्यते । अत्र शठो नायकः। छप्तोपमाप्यलंकारः ।करुण रसः ॥  तत्रापि संपदादिमदेनप्रणमन्तं तं प्रति तस्य कालप्रतत्वेन विनाशित्वं सूचयन्कासारान्योक्तया भियं ध्वनयति--

इयत्यां संपत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरा-
न्कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४१ ॥

 इयत्यमिति । पूर्वं क्षीरार्णवत्वेन संबोधनेऽपि कुपितत्वास्रार्णवत्वेननिन्दा । तत्रापि स्तब्धत्वादधुना पल्वलत्वेनासावुचितैव । इयत्यां प्रत्यक्षतयाति विपुलायामित्यर्थः। सलिलानां जलानां संपत्तौ लक्ष्म्यां सत्याभिति योजना। हे कासार, ‘कासारसरसी सरः’ इत्यमराद्भोः सरोवर, त्वमधुना शरत्काल आर्तानां तृषाक्लान्तानां जनानां तृषम् । पक्षे धनाद्याशां यदि सहसा झटिति न हरसीति संबन्धः। तहैिं निदाघे निदाघ उष्णोपगमःइत्यमराष्ट्रीष्म इत्यर्थः। चण्डांशौ चण्डास्तीक्ष्णा अंशवः किरणा यस्य तस्मिस्तिग्मरश्मौ । सूर्य इति यावत् । परितो न त्वेकदेशे । अङ्गारेति । अङ्गारवदतिदाहकत्वात्क्रूरतरातपविशेषा एवङ्गरास्तेषां निक-रान्समूहन्किरति । वर्षति सतीत्यर्थः । अत एव कृशीभूतस्त्वं केषां तां तृष्णांपरिहर्तासीत्यन्वयः । तदानीं त्वयि तृष्णोपशामकत्वस्य सुतरामसंभव इति भावः। तस्मात्त्वयैतादृशं विवेकं विधाय तादृग्दशातः प्रागेवार्थपरिपालनतत्परेण भाव्य-मिति हृदयम् । अत्राप्युक्ता एव नायकादयः ।  तत्रापि दृप्तत्वादविनयित्व एव सति तत्कालं तादृक्संवादश्रवणेन राज्ञि मूढत्वमवधार्यं तद्दत्तधनाद्यपि परित्यज्य गतेष्वर्थेषु स तदादानपरः पुनः किं चित्स्रामपूर्वकं समुद्वान्योकित एवोपदिश्यते—

अयि रोषमुरीकरोषि नो चे
त्किमपि त्वां प्रति वारिधे वदामः ।

जलदेन तवार्थिना विमुक्ता-
न्यपि तोयानि महान्न हा जहासि ॥ ४२ ॥

 अयीति । अ यि वारिधे। एतेन तत्कोपशमनार्थिवं सूचितम् । नो चेत्कुपिते टुपदेशवैयर्थमेव स्यात् । त्वं महानपि संस्तोयान्यपि । हेति खेदे । न जहासि न त्यजसीति संबन्धः । तस्मादिदं महतस्तेऽनुचितमेवेत्याकूतम् । मालभारिणी वृत्तम् । ‘ससजाः प्रथमे पदे गुरू चेत्सभरा येन च मालभारिणी स्यात्’ इति वृत्तरनाकरोकः । वीरो रसः ॥

 एवं तदुक्मािकण्यं निरुकसमुद्रजलदन्यायेनैव मया यदेतैरर्थिभिः परित्यक् धनं संय्यते तत्कालान्तरे तावदेतेभ्य एव दानार्थं न तु स्खोपभोगार्थमित्यादि पाण्डित्यं सदुरूनिकटेऽपि प्रकटयन्तं तमेव राजसुतं कश्चित्तटस्थः प्रावृण्नद्य न्योक्त्या विनयमुपदिशति

न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जह्नुजायाः।
न युक्तमेतत्तु पुरो यदस्यास्तरङ्गभङ्गान्प्रकटीकरोषि ॥ ४३ ॥

 न वारयाम इति । अत्र वर्षानीत्वेन संबोधनं तु स्त्रीप्रकृतिवन्मूर्वत्वं क्ष णिकैश्वर्यवत्त्वं चापल्यबाहुल्यं गाम्भीर्यवैधुर्यं च सूचयितुम् । हे वर्षनदि प्रावृट्का लमात्रतरङ्गिणि, भवतीं त्वां जह्नजाया भागीरथ्याः । एतेन महामहिमत्वं द्योत्यते। स्त्रोतसि ‘स्रोतोऽम्बुसरणं खतःइत्यमरात्प्रवाह इत्यर्थः । विशन्तीं प्रविशन्तीं तदैक्यसंपादनं कुर्वन्तीं न वारयामः । नैव प्रतिरोधयाम इति यावत् । वयमिति शेषः । एतेनामानित्वौदासीन्ये ध्वन्येते। तर्हि किं वदसीत्यत्राह--नेत्युत्तरार्धेन । एततु न युक्तं नैवोचितमित्यर्थः । तत्किमित्यत आह--पुर इत्यादिशेषेण । यदस्या जाह्नव्याः पुरोऽग्रे ।तरत्रेत्यादि यथाश्रुतमेव योज्यम् । यद्यपि ‘भन्नस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः'इत्यमराद्भङ्गपदं द्विरुकमिवाभाति, तथापि ‘यः सर्वज्ञः सर्ववित्’ इत्यादिवत्सामान्यविशेषभावं परिकल्प्य व्यवस्थापनीयम् । यद्वा अस्या इति षष्टी तरङ्गत्यनेन संबन्ध्य भङ्गपदेन ध्वंसा एव प्राह्याः। पुरःपदे त्वसौ सिद्धे वेति न दोषः । तस्मात्त्वया विनयपूर्वकमेव गुवैक्यं संवादेनासादनीयमित्याशयः। इत आरभ्य पद्यचतुष्टये शठ एव नायकः। }}अथ तन्माहात्म्यवर्णनेन तत्सेवनमपि कर्तव्यतया कमभन्योज्या व्यनकि-- I

पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां
येनाघ्रातसमुज्झितानि कुसुमान्याजह्रिरे निर्जरैः।
तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे ॥ ४४॥

पौलोमीति। हे अम्बुज। एतेन विचारशरताराहित्यं द्योत्यते । येन । पौलोमीति । ‘पुलोमजा शची’ इत्यमरादिन्द्राणीरमणाराम इत्यर्थः । विलसतां भ्राजताम्। गीर्वाणेति । सुरतरूणाम् । आघ्रातेति । पूर्वमाम्रातान्यात्तगन्धानि पश्व-समुज्झितानीति तथा । आस्वाद्य त्यानीति यावत् । एतादृशानि कुसुमानि । निर्जरैर्देवैरप्याजभ्रिरे । आस्खादितानीत्यर्थः । अद्य विधिवशादैववशात्तस्मिन्मधुव्रतेभ्रमरे । अत्र व्रतपदमवश्यपरिपाल्यतां ध्वनयति । माध्वीकं मकरन्दम् । आकाक्षति अपेक्षमाणे सतीत्यर्थः । त्वं लोभमञ्चसि स्वीकुरुषे चेत्तदा त्वां प्रति किंनृमह इत्यन्वयः । तस्मादीदृक्पात्रे धनलोभो नैव कर्तव्यः । किंतु यथेच्छं समर्पणीयमेवेति भावः ।

 ननु भवत्वेवं पूज्यतमखमस्य, तथापि खपाण्डित्यप्रकटने को दोषः । प्रत्युतशिष्यस्य मम पुत्रतौल्यात् ‘सर्वत्र जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्’ इति न्यायात्संतोष एव स्यादित्याशङ्क्य कादचित्ककृतघ्नताभानापत्तेस्तदपि त्याज्यमेवेति स एव राजहंसान्योक्त्या व्यनकित--

भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥ ४५ ॥

 भुक्तेति । रे इति नीचसंबोधनम् । निरुक्ताशङ्कशालित्वाद्युकमेव । न चविवेकाभावादेवेयमाशङ्का न तु प्रमादादिति वाच्यमित्याह -राजेति । एवं च राजहंसे यथा क्षीरनीरविवेककुशलत्वमेवमेव त्वय्यपि शास्त्राभ्यासेन सदस्रद्विचारः चतुरत्वं वर्तत एव, तथाप्युक्तपाण्डित्यप्रकटनेच्छा यदि तदा प्रमादिखमेवेति माणवकैरपि निर्णीयमिति द्योत्यते । भवता यत्र। मृणालेति । कमलतन्तुसंहतिरित्यर्थः। भुक्ता आखादिता। तथाम्बून्युदकानि निपीतानि । तथा नलिनानि पद्यानि निषेवितानि उपवेशनादिभिरुपभुक्तानीति यावत् । पक्षे मृणालवन्मृदुतराणि सुह्रुत्सँइत- भा वि ३ पुराणोपदेशवाक्यानि, तथाम्बुवन्मृदुतमानि कान्तासंमितकाव्योपदेशवाक्यानि, तथा नलिनवन्मृदूनि राजसंमितवेदोपदेशवाक्यानि च सतात्पर्य भृतानीत्याशयः। अत्र पाठक्रमादर्थक्रमस्य बलीयस्खन्यायेन वेदवाक्यानां प्राथमिकवं बोध्यम्। तस्य सरोवरस्य त्वं केन कृत्येन । व्यापारविशेषेणेत्यर्थः । कृतोपकारो रचितप्रत्यु पकारो भवितासीति वदेत्यन्वयः । तस्माद्धरुप्रत्युपकारो नैव कर्तुं शक्यः । किंतु तत्सेवनमात्रं ‘यावज्जीवं त्रयः सेव्या वेदान्तो गुरुरीश्वरः। पूर्वं ज्ञानाप्तये पश्च कृतनवनिवृत्तये ॥’ इति वचनात्कर्तव्यम् । न तु तत्र खपाण्डित्यप्रकटनमपी त्याकूतम् ॥

 एवमनधिकारितया सदुपदेष्टयेपि तटस्थजन एव रुष्टः स राजकुमारस्तमेव तिर स्करोति-प्रारम्भ इति भृङ्गान्योक्त्या ।

प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी
पुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान्।
तस्मिन्नद्य रसालशाखिनि दशां दैवात्कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥४६॥

 प्रारम्भे इति । हे चञ्चरीक भ्रमर । वसन्तस्य प्रारम्भे । यस्य । उल्लसदिति । विकसद्वल्लरी विसर इत्यर्थः । त्वम् । मञ्जुलेति । मनोज्ञगुञ्जार यावत् । रचयन्कुर्वन्संस्तान्प्रसिद्धानुत्सवानातनोर्विस्तारितवानसीत्यर्थः । अद्य तस्मिन् । रसा लशाखिनीति । आम्रवृक्ष इत्यर्थः। न चात्र शास्त्रीत्यधिकं तस्य परिपुष्ट्यभिप्रायखात्। दैवात्कृशां पल्लववैकल्यवतीमित्यर्थः । दशामवस्थामञ्चति स्वीकुर्वंति विषये त्वं विनयं प्रश्रयं मुञ्चसि त्यजसि चेत्तर्हि त्वत्त्वत्तः सकाशादन्य इतरो नीचः कः। न कोऽपीति योजना । तस्मादेवमौद्धत्यं नैव त्वया विधेयमित्याशयः ॥

 एवं निर्भर्सनमाकर्य स तटस्थस्तावत्प्रहसन्निव तं राजकुमारं प्रति निरुक्तवाक्यं वया स्खकीयान्तःपुर एव वक्तुमुचितं नतु पण्डितमण्डल्यामिति कृष्णसारा न्योक्त्या व्यनक्ति--

एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुंधरायाः ॥ ४७ ॥

 एणीति । हे कृष्णसारत्वम् । गुर्विति । गुरुर्महान्स चासौ गवीश्च तेन निमीलिते तादृशे अक्षिणी नेत्रे यस्य स तथा।परमाभिमाननिमीलितलोचनः सन्नित्यर्थः।अस्मिन्काननेऽरण्ये । ‘अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । एणीति ।

भृगीसमूहेष्वित्यर्थः। खलु निश्चितं किं खेलसि । किमिति क्रीडखीति यावत् । किंतर्हि कार्यमित्यत आह-सीमामित्युत्तरार्धेन । इमाम् । भिन्नेति । भिन्न विदारितास्ते च ते करीन्द्रकुम्भा गजराजकपोलास्तेषां या मुक्ता मौक्तिकानि तैः प्रचुरातथा । तामित्यर्थः। एतादृशीम् । हरीति । सिंहविलासस्थल्या इति यावत् । सीमां मर्यादां कलयावलम्बयेति संबन्धः। तस्माद्विपश्चित्सदसि खया नैवैवं शक्यं बक्तुमिति तत्त्वम् । एतदारभ्य पञ्चपञ्चकान्तं वीरो रसः। धीरललितो नायकश्च ॥

 एवं तटस्थराजकुमारयोः स्वनिमित्ं विवादं श्रुत्वा पण्डितवरस्तं नृपसुतं प्रति स्वसमानेषु रोषो नैवोचित इति सूचयति– जठरेति सिंहान्योक्तिभ्याम् ।

जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणा हरिणाली हन्यतां नु कथम् ॥ ४८ ॥

 जठरेति । करिणां गजानां न तु मशकानामरिणा शत्रुणा एतादृशेन महावीरेण हरिणा सिंहेन। जठरस्योदरस्य ज्वलनो वह्निस्तेन ज्वलति संतप्यत इति तथा तेन । क्षुत्परितप्यता सतापीत्यर्थः। अपगतेति । अपगता निरस्ता शङ्का भीतिकल्पना यथा स्यात्तथा । पुरोऽग्रभागे न तु पश्वात् । समागतापि न चकस्मात्प्राप्ता । एतेन मौढ्यातिशयो व्यज्यते । एतादृशी हरिणाली मृगपङ्कतिः कथं नु हन्यताम् । न कथमपि मार्यताम्, किंतु पाख्यतामेवेति योजना । तस्मात्त्वयात्र तटस्थादैशान्तिरेव कार्येति तात्पर्यम् ॥

येन भिन्नकरिकुम्भविस्खल
न्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तिके कथं
कथ्यतां नु हरिणा पराक्रमः ॥ ४९ ॥

 येनेति । भिलेति । भित्र विदारिताः। मही पृथ्वी । अचिता पूजिता । तेन दूरिणा सिंहेन । अद्य हरिणान्तिके मृगनिकटे पराक्रमः कथं नु कथ्यताम् । न कथमपि कथनीय इत्यर्थः । तस्मादसमैः सह नैव वतव्यमिति भावः । ‘रोनराविह रथोद्धता लगौ’ इत्युकेरिदं तद्वृत्तम् ॥  अथ तं तटस्थं प्रत्यपि स एव पण्डितवरस्तावन्मया निरुकरीत्योपशमितस्यास्य निकटे त्वया नैवेतः परं स्थातव्यमिति गजान्योक्तिभ्यां व्यनति--

स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५० ॥

 स्थितिमिति । मदेति । मदेनान्धे ईक्षणे नेत्रे यस्य स तथा तत्संबुद्धौ । एतेनावस्थितिशीलवं ध्वन्यते । सखे । एवं चोपदेशार्दवं व्यज्यते । गजेति । रे करिकुलपते, त्वमिह जटिलायां वल्दीबाहुल्येन संजातजटायामेतादृश्यां वनभुव्य रण्यभूमौ क्षणमपि । एतेन भीत्यतिशयः सूच्यते । स्थितिं नो दध्या नैव कुर्वि त्यन्वयः । तत्र हेतुः-असाविति । एतेन प्रत्यक्षवादविवासव्युदासः । कुन्भीति । गजविभ्रभेणेत्यर्थः । कुम्भिपदभ्रान्यर्हवं व्यनक्ति-खरेति। खराणि तीक्ष्णानि यानि नखराणि नखानि तैर्विद्राविता विदारिता महागुरुप्राव्णां महापा षाणानाम् । अत्र महत्त्वं स्थूलत्वम् । गुरुत्वं तु वजमणिवहुर्भद्यत्वमेवेति न पौनरुक्त्यम् । अत्र ‘महागिरि-' इत्येव पाठः प्रामाणिकः। प्रामाः संघा येन स तथेति यावत् । तत्र खरपदं निरुक्तकार्यक्षमखसूचनार्थम् । एतादृशः । अत एव--हरीति । मृगराजराजः । गिरीति । कन्दर इत्यर्थः । स्वपिति निद्रातीति

योजना । तस्मादिह तवावस्थानमनुचितमेवेति भावः। भ्रान्त्यालंकरः ||त् center|

गिरिगह्वरेषु गुरुगर्वगुम्फितो
गजराजपोत न कदापि संचरेः ।
यदि बुद्ध्यते हरिशिशुः स्तनंधयो
भविता करेणुपरिशेषिता मही ॥ ५१ ॥

}}

 गिरीति । हे गजेति । अयि करीन्द्रपुत्र, त्वम् । गुर्विति । गुरुर्महान्न चासौ गवंश्व तेन गुम्फितो ग्रथितः । परमबलामभिनिवेशावेशित इत्यर्थः । एतादृशः । अत एव-गिरीति । गिरेः पर्वतस्य यानि गह्वराणि बिलानि तेष्वित्यर्थः । कदापि कस्मिंश्चित्कालेऽपि । एतेन भयाधिक्यं व्यज्यते । न संचरेः संचारमपि नैव कुर्यां इत्यन्वयः । कुत इत्यत्राह-यदीत्युत्तराधैन । यदि स्तनंधयोऽष्यति पोतोऽपि । हरीति । सिंहबालको बुध्द्यते जागर्ति चेत्तर्हि मही पृथ्व्यपि । करे ण्विति । करेणव एव गज्य एव परिशेषिता मारणादवशेषिताः । शूराणांहि स्त्रीवधानौचित्यात्ता एवावस्थापिता यस्यां सा तथा। एतादृशी भविता भविष्यतीति संबन्धः। तस्माद्वनान्तर एव वया गन्तव्यमिति हृदयम् । मञ्जुभाषिणीवृत्तमिदम् । तदुक्तं वृत्तरत्नाकरे-‘सजसा जगौ भवति मजुभाषिणी’ इति ॥

 एवं स्खोत्कर्षसूचनपरितुष्टो राजपुत्रस्तं स्वगुरुं पण्डितमण्डलीमण्डनवेन बकु लान्यया स्तौति--

निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो बकुलमपि कुत्रापि निदधे ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५२ ॥

 निसर्गादिति । निसर्गात्खभावात् । आराम उपवने । तर्विति । तरूणां वृक्षा- णामाम्रादीनां यत्कुलं वृन्दं तस्य यः समारोपः सम्यगुत्तमफलपर्यवसायिनारो- पोऽवापस्तेन यत्सुकृतं पुण्यं तदस्यास्तीति तथा सवृक्षारोपणपुण्यवानित्यर्थः । एता दृशः । तत्रापि कृती कुशलः । एतेन तदारोपणस्थानविवेचनचातुर्य सूचितम् । एतादृशः । मालेति । शिष्टं पूर्वार्ध बोधार्हमेव । अस्त्वेवं किं तत इत्यत आह—इदमित्युत्तराधैन । किं तदित्यत्राह--यदिति । कोणेति । कोणान्तरग- तोऽपीत्यर्थः । एवं च प्रतिष्ठासामप्यभावः सूचितः । जगदिति । विश्वमण्डलमि त्यतिशयोक्तिः । तेन लोकोत्तरसष्ठव व्यज्यते । कुसुमेति । कुसुमानां पुष्पाणां यो भरस्तस्य यत्सौरभ्यं सौगन्ध्यं तेन भरितं पूरितमित्यर्थः । एतादृशं कर्ता करिष्य- तीति । तस्माद्यद्यपि मयायं ब्राह्मणसाधारण्येनैवादृतस्तथाप्यस्य सङ्करोरलौकिकमेव सामर्थमित्यसौ माननीय एवेति भावः । अत्र ललितो नायकः । अद्भुतो रसः । असंभवोऽलंकारः ॥

 अथोत एव तटस्थोऽपि संस्तुवन्राजकुमारनिन्दां ध्वनयति—यस्मिन्नितिराघवान्योक्त्या ।

यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै
र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिंगिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ५३ ॥

 यस्मिन्निति । यस्मिन्खेलति क्रीडति सति। हरिदिति।‘दन्ती दन्तावलो हस्ती'

इत्यमराद्दिग्गजा इत्यर्थः । हृदि मनसि । कल्लोलेति । महर्भिनिनादैः। मन्येति । मन्था समुद्रमथनदण्डीभूतो मन्दरः स चासावद्भिश्च तस्य यद्रमणं परिवर्तनं तस्य यो भ्रमोऽवभासस्तमित्यर्थः। पेदिरे प्रापुरिति यावत् । किं तावतेत्यत आह सोऽयमित्युत्तरार्धेन । सोऽयं प्रत्यक्षः । तुङ्गति । तुङ्गा महत्तरास्ते च ते तिमिंगिला महामत्स्यास्तेषां यान्यङ्गानि तेषां यः कवलीकारो प्रासीकरणं तत्र क्रियाको- विदो व्यापारेण कुशलः। न तु ज्ञानमात्रनिपुण इत्यर्थः । एवं च कवलीकारको- विद इत्येतावतैव सार्थक्ये क्रियापदानर्थक्यं परास्तम् । एतादृशः । अत एव केलीति । केलिना वध्वादिभिः सह क्रीडया न तु तदपराधेन यः कलहः सङ्गा मस्तेन त्यकोऽर्णवः समुद्रो येन स तथा। एतादृशो राघवः । ‘तिमिंगिलगिलो ऽप्यस्ति तर्फिलोऽप्यस्ति राघव’ इति वचनान्निरुपमो मत्स्यविशेषः । कस्य सरसः कोडे। ‘क्रोडः सूकरमातङ्गयोः कोडा कोडं च वक्षसि’ इति विश्वाद्वक्षसि । मध्य इति यावत् । क्रीडतु विहरतु । न कस्यापि विहरखिति संबन्धः । तस्मादेतादृश किंचिल्लीलाकलहयक्तसार्वभौमाश्रयः पण्डितमण्डलीपूजनीयः श्रीगुरुरयं क्षुद्रस्य राजकुमारस्य तव निकटेऽवस्थातुं नैव योग्य इत्याशयः। ‘तिमिंगिलादयश्चान्ये इत्यमरः। अत्रोदात्तो नायकः । अद्भुत एव रसः। अक्रमातिशयोक्त्यलंकारः ॥

 एवं तटस्थस्यातिगुणज्ञतामालक्ष्य स एव पण्डितः स्वत्गतमेवानेन राजकुमारेणास्य परिपालनमेव कर्तव्यं न तु तिरस्करणमिति द्योतयंल्लवङ्गलतिकान्योक्तया वदति--

लूनं मत्तगजैः कियत्कियपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभीष्मभानुकिरणैर्भस्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ ५४ ॥

 लूनमिति । काननं वनं यद्यपि कियत्किंचिन्मत्तगजैर्घनं छिनम् । तथा कियदपि तुषारार्दितैस्तुषारेण । ‘तुषारस्तुहिनं हिमम्' इत्यमराद्धिमेनार्दिताः पीडि तातैः । शीतव्याकुलितैलकैरित्यर्थः । छिन्न खण्डितम् । इन्धनार्थमित्याशयः । पिष्टमुर्वरितम् । ग्रीष्मेति । ग्रीष्मे निदाघे जातः अत एव य। भीष्मो भूरिता पकलाद्भयंकरः एतादृशो यो भानुः सूर्यस्तस्य ये किरणास्तैर्मयूखैरित्यर्थः । भस्मी कृतं नीरसतापादनेन भस्मतां नीतमेवेति संबन्धः । तथाप्येषा प्रत्यक्षा कोणगता कोणमप्रसिदैकदेशं गतेति तथा । रहसि विद्यमानापीत्यर्थः । मुहुर्भूयः परिमलैः सुगन्धैदिंशः ककुभ आमोदयन्ती सुरभयन्ती सत्यपि तत्रापि । लवङ्गेति । 'लवङ्गं ‘देवकुसुमम्' इत्यमराद्देवपुष्पवल्लीत्यर्थः। न तु मालतीलता । एतेनोष्णत्वत्सुर भित्वाभ्यां कस्तूर्यादिवत्परमादरणीयत्वं द्योतितम् । तत्रापि ललिता नवीना न तुजीर्णा । एवं चावश्यरक्षणीयखं ध्वन्यते । हा कष्टमित्यनुपमखेदे । दावेति । दावानलेन दह्यते भस्मीक्रियत इत्यन्वयः । तस्मादिदमनुचितमेवेति भावः । अत्र तृतीयचरणेनालौकिकगुणवत्त्वं लवङ्गलतायां व्यज्यते । एवं च जगति प्रायोऽद्य गुणिनः सुदुर्लभा एव । तत्रायं त्वचिन्त्यगुणवत्त्वात्त्वया संरक्षणीय एवेति हृदयम्। । न च ‘ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे’ इति जयदेवप्रयोगा दत्र ललितेत्यादिपदापहारः शङ्काः। अस्य व्यस्तवादिति । अत्र लवङ्गलतापदंस्त्रीत्वेन करुणरसपरिपोषार्थमेव । तेन करुणावेव रसनायकौ ॥

 अथ स्पष्टं तं तटस्थमेव कारुण्योद्रेकात्स्तुवनन्दनान्योक्त्या खाविषं व्यनक्ति--

स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतं
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किं त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥५५॥

 खर्लोकस्येति। हे नन्दन अयि सुरोद्यान, त्वं खर्लोकस्येन्द्रलोकस्य शिखामणिःशिरोरत्नवदलंकारीभूतामित्यर्थः । तथा । सुरेति । सुराणां देवानां ये तरवस्तेषांकल्पद्रुमाणां यो ग्रामः समूहस्तस्येत्यर्थः । अद्भुतमाश्चर्यकरं धाम स्थानम् । तथा।पौ लोमीति । शचीतद्रमणयोः। पुण्येति । सुकृतपनामिति यावत् । परिणतिः रिपाकोऽसीति सत्यम् । किं तु सहृदयैः सुधीभिरिदं विधिदैवं, ब्रह्म वा नित्यं प्रार्थ्यतेत्। याच्यत इत्यन्वयः इदमिति किं तदाह-त्वत्त इत्यादिचतुर्थचरणेन । खाण्डवेति । खाण्डवमेतनामकमैन्द्रं वनं प्रसिद्धमेव । तदेव रङ्गो नृत्यभूविशेष स्तत्र ताण्डवमुद्धतनृत्यं तत्र नट इव पटुरेतादृशो वैश्वानरो दावाग्निस्त्वत्तः सकाशादूरेऽस्त्विति । तस्मादचिन्त्यमहिम्नोऽपि तवैतस्मातृपकुमाराद्भयं भातीत्यतः सावधानेन भाव्यमिति भावः । अत्र ललितो नायकः । भयानको रसः। रूपकमलंकारः । किंच खाण्डवरङगेत्यादौ रद्रौरसोऽपि परिस्फुरतीति विबुधैःध्रैर्यम्|| ततः स तटस्थोऽपि स्वमनोरथभङ्गदुःखं तं पण्डितं प्रति कीरान्योक्त्या व्यनक्ति--

स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटितारलकुटो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः॥ ५६ ॥

 स्वस्वेति । जने लोके । स्वखेति। स्वस्व।व्यापारसमासक्तचित्ततयेत्यर्थः। मत्तो मत्सकाशात् । निवृत्ते परावृत्ते सति । एतेनैकान्तलाभः सूच्यते ।चछ्विति । चश्चाः कोटिरग्र्ं तेन विपाटितो विदारित आरलकुट आराख्यलोहशलाकाविशिष्ट्काष्टविशेषो येन स तथेत्यर्थः । अत्र ‘विदारिताररपुटः’ इति पाठः प्रामाणिकः । अररपुटं कपाटपुटकम् । ‘कपाटमररं तुल्ये' इत्यमरः। एतादृशः सन्नहं पञ्जराद्य स्याम्युद्वीय गमिष्यामीति योजना । एवं कीरवरे शुकश्रेष्ठे । मनोरथमयं मनोराज्यै कविकारं पीयूषममृतमाखादयत्यास्वादप्रहणपूर्वकं पिबति सतीति यावत् । अन्तः पञ्जराभ्यन्तरे । वारणेति । गजशुण्डाकार इत्यर्थः । महतोऽप्यहेः स्वल्परन्धेऽपि प्रवेशो लोके प्रसिद्ध एवेति नानुपपत्तिः । फणीति । सर्पश्रेष्टः संप्रविवेशेति संबन्धः । तस्मादीश्वर एवैतत्संकटादभिरक्षवित्याशयः । अत्र करुणो रसः । सचिन्तो नायकः । रूपकलुप्तोपमे अलंकारौ ॥

 एवं नृपकुमारपण्डितवरतरुतटस्थानां परस्परं संवादे जायमानेऽकस्मादन्तः पुराद्धद्धम्येमांधरूढां तद्धर्मपत्नीं निरीक्ष्य व्याकुलमनसः कांश्चित्तरुणसदस्यान्प्रति स एव पण्डितवरः कुरङ्गान्योक्तयोपदेशं व्यनक्ति

रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुला-
मेतामम्बुधिकामिनीं व्यवसिताः संगाहितुं वा कथम्।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्भावेव रसातलं पुनरसौ यातो गजग्रामणीः ॥ ५७ ॥

 रे चाञ्चल्येति। यूयम्। श्रितेति । ‘शैलवृक्षौ नगौ’ इयमरादाश्रितकूलद्रुमाः सन्त इत्यर्थः । एतेन विवक्षितयुवकर्तृकयुवति विशेषनिरीक्षणे खभास्तम्भादिना निभृतत्वं ध्वन्यते । कल्लोलेति । महोर्मिपङ्किसंपत्तिमतीमित्यर्थः । एतां प्रत्यक्षाम् । एतेन नैबास्माभिरिदमनुष्ठितमिति वृथैवायमुपालम्भ इत्यापादनं व्युदस्तम् । अम्बु धीति । समुद्रगाम्। गङ्गरूपां नदीमिति यावत् । एवं चोत्तरार्धवक्ष्यमाणार्थयोग्यता द्योत्यते । संगाहितुं प्रवेष्टमिति यावत् । कथं वा व्यवसिताः कृतव्यापारा भवथेति संबन्धः । ननु किमत्रानिष्टमिति चेत्तत्राह--अत्रैवेत्युत्तरार्धेन । उच्छलदूर्वं गच्छत्तच तदम्बु च तस्य यो निर्भर आधिक्यं तेन ये महावर्ताः 'स्यादावतोंऽम्भसां भ्रमः’ इत्यमरात्प्रसिद्धा महान्तो जलभ्रमास्तैरित्यर्थः । एवकारेण कान्तान्तरे तथा नाशसंभावनासत्त्वेऽपि नास्यामसाविति शङ्का परास्ता। समावर्तितो भ्रामितः। असौ महत्त्वेन प्रसिद्धः। अत एव-राजेति । करीन्द्रः पुनर्गावेव पाषाणवदित्यर्थः । यद्यस्माद्रसातलं यात इत्यन्वयः। तस्मादयमनुचितारम्भ एव भवतामिति भावः । अत्र भयानकरौद्रौ रसौ । मूर्खा नायकाः । उपमालंकारः ॥

 अथेममभिनवं रोषपरुषं ध्वनिमाकर्य चकितमवलोकयन्तं स्वपोतं सैव युवरा जयुवतिः सिंहशिशुकान्योक्त्या परिसान्खयति-पिचेति ।

पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु पुरुषान्।
त्रयाणां लोकानामपि हृदयतापं परिहर
न्नयं धीरं धीरं ध्वनति नवनीलो जलधरः॥ ५८ ॥

 व्हे पोत अयि बालक, त्वमिह मदीयपयोधरमण्डले स्तन्यं पिबेत्यन्वयः। ननु पिबाम्येव स्तन्यं किमित्ययं निरनुयोज्यानुयोग इत्यत आह-मदेत्यादिपूर्वार्धशेषेण त्वम् । मदेति । मदो यौवनादिविकारस्तद्वत्प्रधानाश्च ते दन्तावलाश्व ‘दन्ती दन्ता वलो हस्ती’ इत्यमरादजावेति गन्धद्विषादिवत्समासः । तेषां या धीर्जुन्या तद्वद्धि स्तयेत्यर्थः । इह प्रत्यक्षेषु । हरिदिति । दिक्प्रान्तेष्विति यावत् । परुषान्रोषक षायितानेतादृशान्दृगन्तान्किमिति कुतो नु हेतोराधत्से प्रसारयसीति संबन्धः । न च युक्तमेव वध्यबुध्द्या नेत्रकोणसंचारणं तद्रुद्धीमजन्यत्वादित्याह--त्रयाणामि त्युत्तरार्धेन । यतोऽयं प्रत्यक्षः । एतेनाश्रद्धेयनिरासः। त्रयाणामपि । एवंच महा- महिमखं द्योतितम् । लोकानां भूरादीनम् । हृदयेति । अमृतवृध्यान्तस्तापं पारि हरन्सन्नत एव धीरं धीरं यथा स्यात्तथा परमगम्भीरमित्यर्थः । नवोऽभिनवः स चासौ नीलो जलधरो मेघ एव ध्वनतीति योजना । तस्माच्छान्तो भवेति भावः । अत्रोदात्तो नायकः । वीरो रसः। भ्रान्तिरलंकारः ।

 एवं पुत्रं समाधाय तं पण्डितवरं सा नृपकुमारतरुणी नीरदान्योक्तया मधुर ध्वनिभाषणं प्रार्थयते-

धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः।
उन्मदवारणबुध्ध्या मध्येजटरं समुच्छ्लति ॥ ५९ ॥

 धीरेति। हे नीरद, ते तव धीरेति । गभीरारावैरित्यर्थः। अलं पर्याप्तम् । तत्र हेतुमाह-न इत्यादिशेषेण। मे मम मासिको मासमात्रकालिको गर्भः । गर्भस्थः सुत इति यावत् । उन्मदेति । उन्मत्तमातङ्गभ्रान्त्येत्यर्थः । मध्येजठरं जठरस्य मध्य इति यावत् । समुच्छलति सम्यगुह्वानं करोतीति योजना । तस्मा न्मधुरं वक्तव्यमित्याशयः । अत्रोता एव नायकादयः ॥

 अथ पुनरपि तैजसप्रकृतिकत्वेनातिचञ्चलं त्वखबालं प्रति सैव सिंहान्योक्तया परिसान्त्वयति--वेतण्डेति ।

वेतण्डगण्डकण्डूतिपाण्डित्यपरिपन्थिता ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६० ॥

 वेतण्डेति । तण्डा गजास्तेषां ये गण्डाः कपोलास्तेषां यत्कण्डूतिपाण्डित्यं तस्य यः परिपन्थी प्रतिस्पर्धा तेनेत्यर्थः। एतादृशेन हरिणा सिंहेन । हरिणेति । मृगपद्दिष्वित्यर्थः। कः पराक्रमः कथ्यताम् , अपि तु न कोऽपि कथ्यतामिति संबन्धः । तस्मादेते रुरुखाश्रितास्त्वया यथार्ह पूजनीयास्तथा परिपालनीया एवेति भावः । अत्र धीरो नायकः। करुणो रसः ॥

 ततस्तत्पितासौ नृपकुमारः कंचिदागतं नीचजनं सकुर्वतेन पण्डितमण्डनीभू तेन सद्रुरुण कमलान्योक्त्या प्रबोध्यते-

नीरान्निर्मलतो जनिर्मधुरता रामामुखस्पर्धिनी
वासः किं च हरेः करे परिमलो गीर्वाणचेतोहरः।
सर्वस्वं तदहो महाकविगिरां T कामस्य चाम्भोरुह
त्वं चेत्प्रीतिमुरीकरोषि मधुपे तत्वां किमाचक्ष्महे ॥६१॥

 नीरादिति । हे अम्भोरुह, तव निर्मलतो नीराजनिरुत्पत्तिः । न च संबुधै वास्य गतार्थखात्पौनरुक्तयापत्तिः। तत्पदस्य योगरूढत्वेऽपि ‘रूढिर्यागमपहरति’ इति न्यायेन शीघ्रोपस्थित्या च पद्ममात्रपरत्वात् । किंच तव मधुरता जहत्स्वार्थया ‘गङ्गायां घोषः' इत्यादिवत्त्वन्मधुमाधुरीत्यर्थः। रामेति । यावत्त्रीगुणा या रंभणी तस्या यन्मुखं निरुतलक्षणया तदेकदेशोऽधरस्तस्पर्धिनी खाधिक्येन तद्विरोधि नीत्यर्थः । यद्वा मधुरता 'मुखरुचा सौधाधरीमाधुरी’ इत्यादिवत्सुन्दरतैव । तथाच नोक्तलक्षणाद्वयायासः । एवं किंच । तवेति वास इत्यत्र परिमल इत्यत्र च ज्ञेयम् । गीर्वाणा देवाः । तत्तस्मादहो इत्याश्चर्यं । त्वं महाकविगिरां सर्वस्वं सर्व त्रोपमानयोग्यत्वात्तथा कामस्य सर्वस्खम् । ‘अरविन्दमशोकं च’ इति प्रथमबाण त्वात् । असि । अथ त्वं चेन्मधुपे भृङ्ग, पक्षे मद्यपे नीचे, प्रीतिमुरीकरोषि खीकरोषि तत्तहिं त्वां किमाचक्ष्महे कथयामः। न किमपि वदाम इत्यर्थः । “यस्य इति पाठे यस्य तव नीरादित्यादि योजयित्वा हे अम्भोरुह, तत्त्वमहो महाकवी त्यादि योज्यम् । तस्मादिदं नैव कार्यमिति तात्पर्यम् । अत्र मूढो नायकः । श्लेषः प्रतीपावलंकारौ ॥

 किंच बलवच्छचूंपेक्षा नैव कार्येति गजान्योक्तया व्यनक्ति--

लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्धते वैरम् ॥ ६२ ॥

 लीलेति । परिणामे विषमो यो हरिस्तेनेति सहार्थे तृतीया । स्पष्टमेवान्यत् । तस्मात्सावधानो भवेति भावः । अत्र प्रमत्तो नायकः । भयानको रसः । लुप्तोपमालंकारः ॥

 एवं निरुकाचार्यवचसि विश्वासदाढ्यर्थं कश्चित्तटस्थतं राजसुतं प्रति ‘सकृज्ज ल्पन्ति पण्डिताः’ इति वचनात्तद्वचोदौर्लभ्यादि द्योतयन्सामान्यतो विदुषां वचसः प्रेक्षापूर्वकत्वाचलार्थकत्वे ध्वनयति--

विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६३ ॥

 विदुषामिति । न परावन्ति वैयर्यादिद्वारा नैव पराङ्मुखीभवन्तीत्यर्थः । तत्र दृष्टान्तं स्पष्टयति-द्विरदानामिति शेषेण । ‘द्विरदोऽनेकपो द्विपः' इत्यमरा द्भजानामिति यावत् । रदा इव दन्ता इवेत्यर्थः । वाचां नैसर्गिकनैर्मल्यशालित्वेन दृढत्वादिसंपूर्णगुणवत्त्वेनाचलत्वेन च पुंस्त्वेनोपमानमिति रदा इवेत्यनेन ध्वन्यते । तस्मात्त्वयैतद्वाक्यं श्रद्धेयमेवेति भावः । अत्र धीरो नायकः । पाण्डि त्यवीरो रसः । पूर्णोपमामात्रमलंकारः ॥

 अथ स एव पण्डितवरः प्रकृततटस्थं प्रति किमिति त्वमस्य मयि विश्वासं जनः यसि, यद्यप्ययं वदान्यस्तथाप्यपरीक्षक इति विश्वासभावाभावयोरप्यस्माकं तु फलं पामरैस्तुल्यमेव भवतीति कल्पद्रुमान्योक्त्या व्यनक्ति-

औदार्य भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेः
वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ६४ ॥

 औदार्यमिति। संभूतिरुत्पत्तिः । परिमल इति । इदं पद्य यद्यपि नीरानि मॅलतः’ (१६१ ) इति प्राक्तनपथं पठितवाद्विशेषणपदविशिष्टमपि पुनरुकमेव, तथापि वक्तुरुभयत्राप्येकत्वानीत्युपदेशावेशवशेन पौर्वापर्यानुसंधानहीनतया तथा प्रयुक्तमपि नव दोषावहम् । प्रत्युत रसनिर्भरपोषकत्वादुणावहमेव । एवमेव नैष धीयचरितेऽपि कीर्तिमण्डलपदं प्राथमिकपद्यद्वयेऽपि पठितं प्रसिद्धमेव । अत्र विशेषणचतुष्टयेऽपि सुरतरोरिति संबन्धनीयम् । तेनास्य क्रमात्कीर्तिसमुत्पत्तिनि वसतिगुणसंपत्तीनां लोकोत्तरत्वं द्योत्यते । एवं निरुक्तप्रकारेण दातृगुरोर्वदान्यमा न्यस्येत्यर्थः । सुरेति । कल्पद्रुमस्येति यावत् । अत्र दातृशुरो मुरतरो’ इति संबुध्द्यन्तपाठे तवेत्यध्याहार्यम् । सर्वे संपूर्णा अपि गुणास्तदा लोकोत्तरा एव । अचिन्त्या एव स्युरिति शेषः । तदा कदेत्यत्राह--स्यादित्यादिचरमचरणेन । यदि । अर्थेति । अर्थिनां सामान्यतो यावद्याचकानां प्रवरमुत्कटं यदर्थितं तस्य योऽर्पण त्रिघिट्टनविधिस्तस्मिन्विषय इत्यर्थः । एकः केवलो विवेको योग्यतादिविचारः स्यादित्यन्वयः। तस्मादनेन विवेक एव संपादनीय इत्याशयः । इहोदात्त नायकः। दानवीरो रसः । विनोक्तिरलंकारः ॥ वरे  एवं वदति सति पण्डिततदैश्वर्यमसहमानः कश्चन पिशुनः प्रकृतरराजकुमारं भ्रूसञयैवायं त्वद्गुरुपि खामविवेकिनमेव मनुत इति किमस्मिन्कृतग्ने विफलभक्ति संपादनेनेति सूचयन्बहिरेव बहुतरविनयवानकस्मान्मृगयां विधायागच्छन्तं व्याधं मयेदं विश्वासेन मृगादिहिंसनमनुचितमेव क्रियत इति कंचिदुदासीनं प्रति जल्पन्तं सन्तमालक्ष्य तेनैव पण्डितवरेण प्रस्तुताङ्कराख्यकिरातान्योक्तया निन्द्यते--

एको विश्वसतां हराम्यपट्टणः प्राणानहं प्राणिना
मित्येवं परिचिन्त्य मात्ममनसि व्याधानुतापं कृथाः ।
भूपानां भवनेषु किंच विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥ ६५ ॥

 एक इति । रे व्याधवमस्यपघृणः। ‘कारुण्यं करुणा घृणा’ इत्यमरादपगता घृणा दया यस्मात्स तथा। निर्देय इत्यर्थः । अत एव विश्वसतां हरिततृणादिदर्श नेन सदयवादिविश्वासशालिनामित्यर्थः । एतादृशां प्राणिनां मृगादिजीवानां प्राणा नेक एव हरामीत्येवमात्ममनसि खचेतसि परिचिन्त्यानुतापं संतापं मा कृथाः। नैव कुर्विति संबन्धः । ‘मा स्म’ इत्यपि पाठः। तत्र हेतुः--पानामित्युत्तरार्जुन । गूढेति । अप्रकटपरघातकरणाद्यभिप्राया इति यावत् । एतादृशाः । तत्रापि साधू नामरयः। अत एव-चत्तुल्येति । त्वया सह तुल्या समाना कक्षा गूढहिंसना दिकल्पना येषां ते तथा । एतादृशा नराः । ‘खलाः’ इत्यपि पाठः । कति न वस- न्ति । अपि तु वसन्तीति योजना तस्माद्भवता निरुक्तपिशुनानात्मसा- सहस्रशो । म्येनानुसंधायोकानुतापस्त्याज्य एवेति भावः । अत्र शठो नायकः । करुणो रसः । अलंकारस्तूक एव ॥

 ततोऽतिक्षुब्धचेतस्तया स एव पण्डितः पृथ्वीमप्युपालभते—

विश्वास्य मधुरवचनैः साधून्ये वश्चयन्ति नम्रतमाः।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६६ ॥

विश्वास्येति । हे मातः काश्यपि । ‘क्षणी ज्या काश्यपी क्षितिः' इत्यमरा दयि मातर्धरणीत्यर्थः। त्वं तानपि दधासि । अतस्तवापि च विवेको यातो गत एवेत्यन्वयः। तान्कानियत्राह-विश्वास्येति पूर्वार्धेन । ये नरा नम्रतमाः सन्तो मधुरवचनै: साधून्विश्वस्य वञ्चयन्तीति संबन्धः । अत्र काश्यपिपदेन विवेकार्हर्च द्योत्यते । इह प्रौढा नायिका । उक्त एव रसः । काव्यलिङ्गमलंकारः ।

 एवं पण्डितवरं रुटमालक्ष्य स राजकुमारः परिसान्वयन्सामान्यतो विदुषः स्तौति--

अन्या जगद्धितमयी मनसः प्रवृत्ति-
रन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या
विद्यावतां सकलमेव गिरौ दवीयः ॥ ६७ ॥

 अन्येति । निरुपमगुणत्वेन विलक्षणैवेत्यर्थः। कृतिराचारः । दवीयः । ‘दवी यश्च दविष्ठं च सुदूरे’ इत्यमरादतिदूरमेवास्तीत्यन्वयः। इह ललितो नायकः । अद्भुतो रसः । मेदकातिशयोक्तिरलंङ्कारः ।

 अथ स एव नरवरकुमारस्तमेव खगुरुं प्रति निजापराधक्षमापनप्रार्थनं व्यनक्ति -

आपद्तः खलु महाषयचक्रवर्ति::विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागिरुदेहनमध्यगतः समन्ता
लोकोत्तरं परिमलं प्रकटीकरोति ॥ ६८॥

 आपद्त इति । महाशयेति । महान्विशालो गम्भीरश्वाशयोऽभिप्रायो येषां तेषां बुद्धिशालिनां पुंसां यश्चक्रवर्ती । सार्वभौम इत्यर्थः । कश्चिीरवरस्ता वदापद्भतोऽपि विपद्रस्तोऽपि । एवं चात्र सावधानत्वानर्हत्वं ध्वन्यते । अकृतेति । पूर्वं कृतः प्राकेनचिदनुष्ठित इति कृतपूर्वः । तादृशो न भवतीत्यकृतपूर्वस्तम् । विचित्रमिति यावत् । एतादृशमुदारभावमौदार्यमित्यर्थः । विस्तारयति खल्विति योजना । उक्तमेवार्थं दृष्टान्तेन द्रढयति—कालेति । कृष्णागरुसंज्ञकः प्रसिद्धश्चन्द नविशेषः । दहनेति । दहनो वहितस्य मध्यस्तं गतोऽपि परमदह्यमानोऽपीत्यर्थः। समन्तात्परितः, नकदेशे । तत्रापि लोकोत्तरमलौकिकं न तु सामान्यं परिमलं सुगन्धं प्रकटीकरोतीति संबन्धः । तस्मान्मदपराधाः श्रीमद्भिः स्वाभाव्यादेव क्षम्यन्ते, तथाप्यधीरतयाहं व्यर्थमेव प्रार्थयामीत्याशयः । अत्र धीरो नायकः । निरुक्त एव रसः। दृष्टान्तोऽलंकारः ॥

 न चास्वेवमस्माकं स्वभावाच्छमस्तथापि त्वयि राजप्रकृतित्वेन यौवनं धनसं ‘ पत्तिः प्रभुत्वमविवेकिता। एकैकमप्यनर्थाय किमु तत्र चतुष्टयम् ॥' इति, ‘यत्र श्रियौवनं वापि शारदा वापि तिष्ठति । तत्र सर्वान्धता नित्यं मूर्वखमपि जायते ॥’ इति चहन्नारश्दीये कपिलाचार्यवचनाच्च मद्वचसा ‘हितं मनोहारि च दुर्लभं वचः’ इति न्यायेन कोपवेदनुचितमेवेति वाच्यम् । गुरूणां भवादृशामस्मदेकहितार्थ कोपघटितत्वेन परुषवाक्यस्यापि काश्मीरकटुखवत्तोयैकपोषकत्वादित्याशयेन महतां कोपमपि सामान्यतो रम्यखेनैव वर्णयति--

विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव।
लोकंपृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ६९ ॥

 विश्वेति । विश्वस्मिञ्जगति येऽभिरामाः सुन्दरा एतादृशा ये गुणास्तेषां यक़ौरवं पौष्कल्यं तेन गुम्फिता प्रथितास्तेषामित्यर्थः । एतादृशां निर्मलधियां सुमनसां रोषोऽपि कोपोऽपि रमणीय एवेति यथाश्रुतमेवान्वयः। अपना हितोपदेशार्थं स चेत्किमु वलव्यमिति द्योत्यते । तत्र दृष्टान्तं स्पष्टयति—लोकमित्युत्तरार्जुन । लोकं जगत्पृणन्ति परितोषयन्तीति तथा तैः । करमीरेति । कुहुमस्येत्यर्थः।। इह नायकाद्युक्तमेव ॥

 अथ श्रीमदग्रे क्षमादिप्रार्थनादावपि क्क नामास्माकं पामराणां सामथ्र्यमिति खविनयं व्यञ्जयनौद्धत्यं चापनयन्स एव राजकुमारः खस्य प्रकृतमेव गुरुं प्रति तन्माहात्म्यं ध्वनयति--

लीलाहुण्ठितशारदपुरमहासंपद्भराणां पुरो
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥७०॥

 लीलेति । विद्येति । विद्याया ऋगादिचतुर्दशान्यतमाया यत्सदा हं तस्माद्वि निर्गलन्तोऽवकरादिना सह च्यवन्तो ये कणा धान्यलेशा इवाक्षरार्थशास्तान्मुष्णन्ति स्तेयेनापहरन्ति ते तथा। एतादृशोऽत एव पामरा मादृशो नीचा जनः । लीलेति । लीलया हेलया न त्वायासेन कुण्ठिता हठातृहीताः । शारदायाः सरस्वत्या यत्पुरं नगरम् । न तु गृहं नापि ग्रामः । तस्य महासंपद्मरा उत्कटैश्वर्यसंभारा यैस्ते तथा तेषां भवादृशां निरतिशयविदुषां पुरोऽग्रे वल्गन्ति चेद्रटन्ति यदि तर्वद्याधुनैव श्वो वा फणिनां सर्पाणां मूर्धसु मस्तकेषु । शकुन्तेति । पक्षिपोताः । तथा दन्ता- वलानां गजानाम् । मूर्धस्खिति सर्वत्रानुषज्यते । शशाः प्रसिद्धा एव । एवं सिंहानां मूर्धसु शालावृकाः श्वनो वा ‘शालावृकाः कपिक्रोष्टश्वानः’ इत्यमराक्कोष्टारः । पदं चरणं सुखेनानायासेनैव धास्यन्ति स्थापयिष्यन्तीति योजना । ‘मूर्धनि’ इत्येक वचनान्तोऽपि पाठः। तत्राप्यनर्थान्तरमेव । तस्मात् ‘नभः पतन्त्यारमसमं पत त्रिणः’ इति न्यायात्स्वशक्त्यनुसारेण स्वापराधक्षमापनार्थमेव मया यत्किंचिच्छीम चरणनलिनाने यथाकथंचित्प्राणुते । न तु पाण्डित्यप्रकटनार्थमतः क्षन्तव्यमेवेति भावः । अत्रोदात्तो नायकः । पाण्डित्यवीरो रसः । यथासंख्यमलंकारः ॥

 किंच न केवलं महतां कोपे कमनीयवमात्रं किंतु तत्कृतपरुषवाग्भिस्तर्जितानां मादृशां शिष्याणां महत्त्वापादकखमपीति स एव राजकुमारः प्रकृतं स्खगुरुं प्रति द्योतयति-

गीर्भिर्गुरूणां परुषाक्षराभि-
स्तिस्थूलाक्षरैः युक्तः भागःरस्कृता यान्ति नरा महत्त्वम्।
अलब्धशाणोत्कषणा नृपाणां
न जातु मौलौ मणयो वसन्ति ॥ ७१ ॥

 गीर्भिरिति । नरा गुरूणां परुषाक्षराभिर्न तु तादृगर्थाभिभिस्तिरस्कृताः सन्तो महत्त्वं यान्तीति संबन्धः। तमेवार्थमर्थान्तरन्यासेन द्रढयति--अलब्धेति । न लब्धं शाणोत्कषणं यैते तथा एतादृशो मणयो जातु कदाचिदपि नृपाणां मौल मुकुटे नैव वसन्तीत्यन्वयः । तस्मान्न मम रोषलेशोऽपीत्याशयः । तस्मादुक्ततिरस्क- रणमिष्टमेवेति भावः। इह धीरो नायकः। शान्तो रसः। अर्थान्तरन्यासोऽलंकारः॥

 एवं नरवरकुमारेण संप्रार्थितोऽपि प्रकृतः पण्डितः प्राक्तनं ‘एको विश्वसताम्’ (१।६५ ) इति पद्यावतरणे समुषक्षितं कंन्चिपिशुनं पुनरपि निन्दंस्तं स्वशिष्यं प्रति दुर्जनाः सर्वथा त्याज्या एव, नो चेद्रजैकानुवर्तिनीनां सर्वप्रजानामपि तथा त्वापाताद्राष्ट्रभङ्गप्रसङ्ग इति द्योतयति

वहति विषधरान्पटीरजन्म
शिरसि मषीपटलं दधाति दीपः।
विधुरपि भजतेतरां कलङ्क
पिशुनजनं च बिभर्ति यत्क्षितीन्द्रः ॥ ७२ ॥

 वहतीति । पटीरजन्मा मलयजश्चन्दनविशेष इत्यर्थः विषेति । सर्वानित्यर्थः। चहति धारयतीति यावत् । विषधरपदमत्र साभिप्रायम् । तेन तद्धारणानौचित्यं सूचितम् । दीपः शिरसि मषीपटलं दधातीति संबन्धः। मयीति । कजलभार- मित्यर्थः। एवं वन्यग्राम्योदाहरणे स्फुटीकृत्य दिव्यमपि तद्विशदयति-विधु श्चन्द्रः। अपिः समुच्चये । पूर्णचन्द्रोऽपि कलहं भजतेतरामत्यन्तं सेवत इति यावत् । तत्र हेतुः-पिशुनेति शेषेण । चोऽप्यर्थे। यद्यस्माक्षितीन्द्रोऽपि न तु क्षुद्रोऽपि पिशुनजनं दुजेनसंघं बिभर्ति पोषयतीत्यन्वयः । यतो राजैव दुर्जनरज कस्ततो दिव्यादिभिरपि यदा कलङ्कादिरङ्गकृतस्तदा कैव कथा मनुष्याणामतस्व येदं नैव कार्यमिति तात्पर्यम् । अत्र संबोध्यो नायकः । काव्यलिङ्गानुप्राणितगम्यो प्रेक्षालंकारः। ‘खछु बिभ्रति क्षितीन्द्राःइति पाठे खितरराजवत्तवापि पिशुन पोषक खप्रजानां तथाखापत्त्या राष्ट्रभङ्गोऽवश्यंभावीत्यतस्तत्त्याज्यमेवेति भावः ॥  एवं गुरुवाक्यमाकर्ण्र्यं स एव राजकुमारः खलानामपि सद्गुणोत्पादनार्थमनुस्ञ्जनपूर्वकं सद्भिरपि संग्रहणं करणीयमेवेत्याकृतेन तथा स्खभाववत्तया तद्वर्णनं प्रणयति-सत्पुरुष इत्यादिद्वाभ्याम् ।

सत्पूरुषः खलु हिताचरणैरमन्द-
मानन्दयत्यखिललोकमनुक्त एव ।
'आराधितः कथय केन करैरुदारै
रिन्दुर्विकासयति कैरविणीकुलानि ॥ ७३ ॥ (युग्मम् ।)

 सदिति । पुरुष एव पूरुषः । संश्वसौ पूरुषश्चेति तथा। साधुजन इत्यर्थः। अनुक्त एवाप्रार्थित एव सन्नित्यर्थः। अखिलेति। सर्वजगदपीति यावत् । हितेति । तत्कल्याणव्यापरैरित्यर्थः। नतु तात्कालिकसुखाभासजनकैः स्रक्चन्दनाङ्गनासङ्ग- संघटनैरिति यावत् । अमन्दं प्रचुरं यथा स्यात्तथा । आनन्दयति खलु संतोषय त्येवेत्यन्वयः। तदेवार्थान्तरन्यासेन द्रढयति —आराधित इत्युत्तरार्धेन । इन्दुः केनाराधितः सन्कैरविणीकुलान्युदरैः करैर्विकासयतीति कथयेति योजना । एतेन नेयं व्याप्तिरिति प्रत्युक्तम् । एवंच निरुक्तप्रयोजनार्थ खद्भिर्धर्जना अपि रजनीया एवेति भावः । नो चेखभावभङ्गप्रसङ्ग इति तत्त्वम् । अत्र ललितो नायकः । करुणो रसः। उक्त एवालंकारः ।

परार्थीव्यासङ्गादुपजहदथ स्वार्थपरता-
मभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितो दातृमहिमा
समय यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७४ ॥

 परार्थेति । स कोऽप्यनिर्वाच्यगुणगणः पुरुषो जयतितरामित्यन्वयः । तरपा परिच्छिन्नसर्वोत्कर्षवर्तनव्युदासः । कोऽसावित्यत आह-—परार्थेत्यादिविशेषणत्र येण । यः परार्थेति । परस्मा अयं परार्थः । स चासौ व्यासङ्गो व्यापारश्वेति तथा तस्मादित्यर्थः । स्वार्थेति । स्वपुरुषार्थपरायणतामपीति यावत् । उपजहदुपजहाति त्यजतीति तथैतादृशः सन् । अमेदेति । न विद्यते मेदो जलतरङ्गदिन्यायेन दैतावभासो यस्मिस्तच्च तदेकत्वं चेति तथा । विशुदैकामिति यावत् । एतेनौपचा किप्रेम प्रत्यस्तम्। सततं सर्वदा । इदं च देहलीदीपन्यायेनोभयत्राप्यन्वेति । तेन प्रेम्णः क्षणिकत्वं गुणानां च तथात्वं प्रत्युक्तम् । गुणेति । ‘युके क्ष्मादावृते भा० वि० ४ मूतम्' इत्यमराठूतपदस्य ऋतशब्दितसत्यार्थकत्वेनावधारणफलकत्वादुणा एवेति तथा । तेषु मूर्तिमच्छान्यादिगुणेष्वित्यर्थः । सुजनेष्विति यावत् । वहति स्वीकरोतीति संबन्धः । पुनः कः सः । खभावादिति । यस्यान्तः स्वभावादेव न तु लोकप्रार्थेनादिहेतोरित्यर्थः । अत एव ललितो निष्कामतया सुन्दरो दातृमहिमा वदान्यमाहात्म्यमित्यर्थः । ‘उदात्त-' इति पाठे तु कर्मधारयः । स्फुरतीति योजना । एतेन निरतिशयौदार्यं सूचितम्। पुनः कः सः । समर्थ इति । यो नित्यं नतु क्षणमात्रं समर्थो दक्षः । अस्तीति शेषः । एतेनाचिन्त्यशक्तिमत्त्वं व्यज्यते । अत्र विशेषणत्रयेऽपि यथेच्छं हेतुहेतुमद्भावः । इह प्रथमे परमगुण ज्ञत्वं द्वितीये वदान्यमान्यत्वं तृतीये तद्रक्षणक्षमत्वं च क्रमाङ्गनितम् । तस्माद्भ चाडशां महतां ‘अयं निजः परो वेति गणना लघुचेतसाम् । उदाचरितानां तु वसुधैव कुटुम्बकम् ॥' इति वचनात्रिरुपाधिकमेव सर्वानुग्रहशीलत्वमित्याकृतम्। इह नायकाद्युक्तमेव ॥

 अथ स तद्ररः सत्यमेव सर्वानुग्राहकत्वं स्वाभाव्यात्सतां तथापि भवादृशं राजकुमारैः सत्सङ्ग एव दुःसङ्गवर्जनपूर्वकं विधेय इत्यन्वयव्यतिरेकाभ्यामर्थान्तर न्यासाभ्यामुपदिशन्व्याप्ती प्रतिबोधयति–वंशभव इत्यादिद्वाभ्याम् ।

वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः।
न हि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥७५॥

 वंशेति । वंशः कुलम् , पक्षे वेणुः । गुणः शमादिः, पक्षे ती । इह संबोध्यो नायकः। शिष्टं स्पष्टमेव ।

अमितगुणोऽपि पदार्थों दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ७६ ॥

 निखिलेति । नष्टपुंस्त्वाद्यापादकत्वात्तथात्वं बोध्यम् । यद्यपि तत्कामानां च निर्गुष्ट एव, तथापि तच्छास्त्रविदां पुट्याद्यपादपाकादावनुपयुकत्वादुष्टत्वविवक्षयैव तथात्वेनोदाहृत इति ध्येयम् । नो चेत्तत्तत्कामुकेप्सितत्वेन किंचिदपि दुष्टं नैव स्या दिति दिक् । अधिकं तु साहित्यसारे दोषरनादावस्माभिः प्रपञ्चितमित्यत्रोपरम्यते ।

 किंच सतां किंचिदपकारेऽपि दैववशादज्ञानादिना संपद्यमाने ते तावदुपकार- मैव कुर्वन्तीत्यतोऽपि सत्सङ्ग एव कर्तव्यो न तु कदाचिद्वसन्नोऽपीत्याशयेन पुनः स एव सद्वरुः प्रकृतमेव नरवरकुमारं प्रतिबोधयति-

उपकारमेव तनुते विपद्तः सङ्गणो नितराम् ।
मूर्च्छा गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ७७ ॥

 उपकारमेवेति । सद्गुणः सन्तः शुभा गुणा अस्येति तथा । सुजन इत्यर्थः। नितरामितिपदं सर्वत्र संबध्यते । एवंच साद्गुण्यस्य त्रैकालिकत्वं व्यज्यते । विप• दिति । अतिविपद्भरतोऽपीति यावत् । उपकारमेव नितरां तनुते विपुलं विस्तारय तीति संबन्धः । अत्रास्मिन्नुक्तविषये केनचिद्युकिविशेषेण स्तम्भित इति यावत् । वाथवा मृतो भस्मीभूत इत्यर्थः । एतादृशः पारद एतन्नामको रसो रसायनविशेषः । एवं च न रसपदेन पौनरु क्यम् । निदर्शनमुदाहरणमस्तीत्यन्वयः । पारदो हि मूच्

  1. पुनर्निर्दिष्टम् लक्ष्यपृष्ठस्य नाम

र्छिछतो वा भस्मीभूतो वा रोगपरिहारादीष्टं संपादयत्येवेति लोके दृष्टमेव । अतः सङ्गणः पुरुषो नितरां विष दूतोऽप्युपकारमेव तनुत इति निर्णीयत इति तात्पर्यम् । इह ललितो नायकः । दृष्टान्तोऽलंकारः । उपगीतिर्धत्तम् । तदुक्तं वृत्तरत्नाकरे-‘आर्याद्वितीयकेऽर्थे यद् दितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्द्धते ॥’ इति ॥

 ननु दुःसङ्गाहुर्मार्गप्रवृत्तिस्ततः पापोत्पत्तिस्तस्माद्रुद्धेरेव यदि सर्वदा दुःसङ्गः कर्तुमनुचितः किल तर्हि ‘धर्मेण पापमपनुदति’ इति श्रुतेरैवर्यसाध्येन धर्मेण निरुक्तपापं पराकरिष्यामस्ततः का नः क्षतिदुर्जनसङ्गतोऽपीत्याशयैश्वर्यस्य क्षणि कत्वान्मैवमिति सीतावृत्तान्तकथनेन ध्वनयति—-

वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ७८ ॥

 वनान्त इति । या वनान्ते दण्डकारण्यप्रान्ते । गोदावरीतीरादावित्यर्थः । ‘वनान्तःइति पाठे तु वनमध्य इति यावत् । खेलन्ती क्रीडन्ती सती । शश केति । शशशावकमालोक्य चकिता सती भयहर्तुः सर्वेश्वरत्वेन यावद्भयभङ्गदक्ष स्येत्यर्थः । एतादृशस्य । भुजेति । बाहेकदेशम्। सपदि तत्कालं नतु विलम्बेन । एतेन भीत्यतिशयो व्यज्यते । भजतीष्टसाधनताधिया सेवत इत्यर्थः । अहो इत्या श्चर्यं सा निरुकगुणेयं वर्ण्यत्वेन बुद्धिस्थतया प्रत्यक्षा । दशामिति । अतएव-- हलेति । हलानीव लाङ्गलानीव रदा दन्ता येषां तैः । एतादृशे रक्षोभिः संरक्षक राक्षसैः परीताऽशोकवनिकायां परिवृता। अतएव विवशा पराधीना सती कामप्य निर्वाच्यभीत्यादिरूपामिति यावत् । एतादृशीं दशामवस्थां श्रयत्यवलम्बत इय स्न्वयः। तस्मादैश्वर्यमदेनापि नैव दुःसङ्गः कार्यं इति तात्पर्यम् । इह मध्या स्वकीया नायिका । भयानको रसः । काव्यलिङ्गमलंकारः॥

 नन्वेवमपि सीतायाः किंचित्कालं लोकलीलान्यायेनैश्वर्यतिरोभावाभासेऽपि पुनस्तन्निरतिशयत्वस्य रावणवधाद्युत्तरं सुप्रसिद्धत्वानैतन्निदर्शनेनैश्वर्यवत्त्वाद्धर्मक्ष येण पुंसां दुर्मार्गप्रवृत्त्यादिना पापसंपादको दुःसङ्गः सर्वथा त्याज्य एवेति सिध्य- तीत्यस्खरखात्स्मरनिदर्शनेन तद्रढयति स एव सह्रुः प्रकृतनृपतिसुतं प्रति--

पुरो गीर्वाणानां निजभुजबलाहोपुरुषिका
महो कारंकारं पुरभिदि शरं संमुखयतः।
स्मरस्य स्खबलानयनसुममालार्चनपदं
वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥ ७९ ॥

 पुर इति । गीर्वाणानां देवानां पुरोऽग्रे । अहो इत्याश्चर्यं । निजेति । निज स्यात्मनो यद्भुजबलं बाहुबलं तेन आहोपुरुषिका ‘आहोपुरुषिका दर्पश्च स्यात्सं भावनात्मनि’ इत्यमरादूर्वेण धन्यंमन्यता तामित्यर्थः । कारंकारं भूयः कृत्वेति यावत् । पुरेति । साभिप्रायमिदम् । त्रिपुरदग्धेर्यपीत्यर्थः । एवंच येन परम दुर्जयत्रिपुरासुरः सपरिवारपुरोऽपि क्षणाद्भस्मीकृतस्तत्र त्रिलोचने भगवति कैव गणना पञ्चशरमशकस्येति द्योत्यते । शरं बाणं संमुखयतोऽभिमुखं संदधत इत्यर्थः। एतादृशस्य स्मरस्य मदनस्य वपुः शरीरम् । स्वगारिति । स्खः स्वर्गसंबन्धिन्यो या बाला अप्सरसस्तासां यानि नयनानि नेत्राणि तान्येव सुमानि सुष्टु सुतरां वा मा लक्ष्मीर्थेषु तानि ‘लक्ष्मीः पद्मालया' इत्यमरात्कमलानि तेषां या मालेव माला। कटाक्षपरम्परेति यावत् । तया यदर्चनं पूजनं तस्य पदं स्थानं पात्रमित्यर्थः । एता दृशमपि सत् । सद्यस्तत्कालमेव, नतु विलम्बेन । भालेति । भालस्य धूर्जटिल लाटस्य संबन्धी योऽनलः पावकस्तेन यद्भासितजालं ‘भूतिर्भसितभस्मनि’ इत्यम राद्भस्मपुत्रस्तस्यास्पदं स्थानमभूदिति सरलमेव । यस्माज्जगज्जयिनोऽपि मन्मथस्य क्षणाद्भस्मीभूतत्वं सुप्रसिद्धमेव, तदा कैव कथाधुनिकवीराणाम् । अतो नैवैश्वर्याद्याः श्रयेण धर्मविधानास्पापपरिजिहीर्षाशया तत्संपादको दुःसङ्गः कालत्रयेऽपि विधेय इत्याशयः। इह साहसी नायकः । पूर्वार्धे वीरस्तृतीयपादे यङ्गारश्चतुर्थपादे करुणः सर्वेर्मिलित्वा शान्तश्च रसः । परिकरोऽलंकारः ।  एवं तदुक्तिं श्रुत्वा तत्रत्य एव प्रागुक्तः पिशुनस्तावद्विदूषक इव तद्वाक्यस्य अहहेति शब्दपूर्वकं हस्ताभिनयेनोपहासमेवाकरोत् । अतः क्रुद्धः स पण्डितवरः पुनः स्फुटमेव मर्कटदृष्टान्तेन तन्निन्दनं ध्वनयति—-

युक्तं सभायां खलु मर्कटानां
शाखास्तरूणां मृदुलासनानि ।
सुभाषितं चीत्कृतिरातिथेयी
दन्तैर्नागैश्च विपाटितानि ॥ ८० ॥

 युक्तमिति । मर्कटानां सभायां तरूणां शाखाः मृदुलासनानि । तथा चीत्कृतिः धीत्कारः सुभाषितम् । तथा दन्तैर्नखागैश्च विपाटितानि परस्परं विदारणान्याति थेयी अतिथौ साधुस्तथा । तत्पूजेत्यर्थः । इति युक्तं खल्विति योजना ॥

 एवम् श्रीगुरोः क्षोभमवलोक्य तदुपशमनार्थंमतिनीभूय ‘भो भोः श्रीमदाचार्य, क्षम्यतामस्मदादीनामपराधकदम्बम् , तथा मया यत्किंचित्पृच्छयते प्रश्नपञ्चकेन प्रपश्चरहस्यं तन्निर्णयोपदिश्यतां च' इति राजकुमारः संप्रार्थं पृच्छति

किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति दैतान्धकारोदयः।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्यद खेददानकुशलो दुर्वासनानां चयः ॥ ८१ ॥

 किं तीर्थमिति । तदुत्तरयति-~हरीति । एवमेव प्रश्नोत्तरपरम्परेयं पर्याय चतुष्टयेऽप्यग्रे बोध्या । अच्छेति । स्वच्छेत्यर्थः। विषयित्वखभावशाली राजतनूजो भेदवादाभिनिवेशात्तत्प्रतिपादकशास्त्रेषु किमुत्तमं शास्त्रं यस्य श्रवणे तात्पर्यनिर्णये जाते सति दैतं तिष्ठत्येव, येन विषयसुखं मोक्षसुखं चास्माकं स्यादित्याशयेन पृच्छति–किं शास्त्रमित्यादिना । गुरुः स्खचातुरीमाहात्म्येन तदभिमतविशेषण एवाद्वैतित्वेन तृतीयान्तविवक्षया समाधत्ते-श्रवणेनेति । दैतेति । दृश्यरूपध्वा- न्ताभ्युदय इति यावत् । अत्र यच्छब्दानुरोधेन पूर्वं तच्छास्त्रं किमिति प्रश्नेऽपि तच्छब्दाध्याहारो बोध्यः । सततेति । निरन्तरोपकारतत्परमित्यर्थः । मित्रम् । विशेषणदेवात्र क्लीबत्वम् । पुंलिङ्गपाठस्तु किं शास्त्रमित्यादिप्राक्तनप्रश्न, तथा कः शत्रुरित्याद्युत्तरप्रश्नेऽपि विशिष्टस्यैव पृष्टत्वेन तत्स्वारस्यान्मध्यवर्तिनः किं मित्रमि त्यादिप्रश्नस्यापि संदंशन्यायेन तथैव वक्तुमुचितत्वादसततोपकाररसिकस्य तत्त्व वबोधस्यादृष्टत्वेन तद्युदासार्थं निरुकविशेषणानपेक्षणाचानुचित एव । हे सखे इति संबोधनं तु हरिपादेत्यादिसमाधानपञ्चकेऽपि ज्ञेयम् । तेन सौहार्दातिशय ध्वननाज्ञिरुतोत्तरेऽप्याश्वसनीयतमत्वं व्यज्यते । तत्त्वेति । अद्वयात्मसाक्षात्कारेति यावत् । अत्रैव सखे इति संबोधनप्रयोगादेतदपेक्षयान्यद्रहस्यं नैवेति द्योत्यते । एवं वदेति पदमपि प्रश्नपञ्चकेऽपि । तथा तदनुरोधात्त्वंपदाध्याहारश्च कर्तव्य एव । वेदेति । दुःखदागदक्ष इत्यर्थः । दुर्वासनानामन्तःकरणादिनिष्ठदुष्टसंस्कारा राणां चयः संघ एवेति योज्यम् । ‘सखा” इति प्रथमान्तपाठः ‘संचयः’ इति पाठश्च कः सखेत्यध्याहारापत्तेः क्रमभङ्गपत्तेः प्रश्नसरणित्यागापत्तेः सखिमित्रयोर- वान्तरविशेषेऽपि हितकारित्वाविशेषेण पौनरुक्त्यापत्तेः खेददानकुशल इत्यत्रापि कमभङ्गभिया प्रश्नान्तरत्वाद्यपत्तेरन्यथा दुर्वासनेत्यादावनन्वितत्वापत्तेश्च संवुद्यन्त- पाठेऽपि क्रमभङ्गदोषस्य तु प्रथमे चरण एवाविशिष्टपृष्टत्वेन पराकरणीयत्वादनुचित एव। तथा ‘सम्पदेन गुणानाधानाप्रत्युत पदचतुष्टयसमासघटकत्वाच्च तस्य मधुर रसे प्रकृतेऽनुपयुक्तत्वाच्च तथैव सोऽपीति ध्येयं धीरैः। अत्र किं शास्त्रमित्यादि विशिष्टप्रश्नत्रयेऽपि क्रमाद्धर्ममीमांसायाः सुग्रीवादिवद्यत्किंचित्कालावच्छेदेनोपकार- परायणमित्रस्य, शिशुपालादिलक्षणस्य खेददानाकुलस्य शत्रोरपि व्युदासः सूचितः। तस्माद्धरिपादपद्मभजनादिचतुष्टयं पुमर्थचतुष्टयेच्छुना संपादनीयमेव तथा दुर्वास नाध्वंसनं चेति तत्त्वम्। इह बुभुत्सुर्नायकः। शान्तो रसः। उक्तिप्रत्युक्तिरलंकारः ॥

 अथैवं निरुक्कराजपुत्रः सहुरूकं सकलपुरुषार्थनिदानमवधार्यं परमं परितुष्ट इति कश्चित्तचैवोपविष्टो दुष्टो दृष्ट्वा मैनाकदृष्टान्तेन तन्निन्दनमेव व्यङ्ग्यमर्यादया--

निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः ।
चिरं जलनिधौ मनो मैनाक इव मार्दवम् ॥ ८२ ॥

 निष्णातोऽपीति । निष्णातो नितरां स्नात इव। निमग्नोऽपीत्यर्थः । अपिना तदन्यस्य कैव कथेति ध्वन्यते । मार्दवं मृदुखम् । एवं च तवेदं वञ्चकत्वमेवोपदे- शवचनमिति तात्पर्यम्। इह धूर्ता नायकः। वीरो रसः। उपमालंकारः ॥

 एवं निन्दनाकर्णनेनातिखिन्नः स गुरुः स्खगतमेवाडैतित्वाच्छेषेण गुणान्निन्दति-

नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् ।
शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥ ८३ ॥

नैर्गुण्यमेवेति । भौव्यमेव । पक्षेऽचैतनमवमेव । वर्षीयः । ‘साधीयान्सा घुबाढयोः’ इत्यमरात्खाध्वित्यर्थः । स्पष्टमेव धिगित्यादि । तदेवार्थान्तरन्यासेन इढयति—शाखिन इत्युत्तराधैन। शाखिनः ‘वृक्षो महीरुहः शाखी’ इत्यमरावृक्षा इत्यर्थः । चन्दनेति । अत्र यद्यपि द्वमपदमधिकमेव तथापि वक्तुर्निर्वेदाविष्टचेत स्कत्वेनानवधानध्वनकमिति युक्तमेव । अत्र निर्विण्णो नायकः । शान्तो रसः । अर्थान्तरन्यासः श्लेषश्चलंकारः ॥

 एतावदमानो मम धनयाश्चमूल एवेति विभाव्य स एव पण्डितस्तन्निन्दां ध्वन यन्वृक्षजीवनमेव धन्यत्वेन वर्णयति

परोपसर्पणानन्तचिन्तानलशिखाशतैः।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८४ ॥

 परेति । परं प्रत्यन्यं प्रति यदुपसर्पणं स्वीययोगक्षेमार्थमुपगमनं तेनानन्ता दुरन्ता या चिन्ता सैवानलोऽग्निस्तस्य याः शिखा ज्वालास्तासां शतनि तैरित्यर्थः। अत्रानन्तेत्यादिना दुःसहत्वं द्योत्यते । अचुम्बितेति । न चुम्बितमेकदेशेऽपि स्पृष्टमन्तःकरणं येषां ते तथा एतादृशाः पादपा वृक्षाः । अत एव साधु शोभनं यथा स्यात्तथा जीवन्तीति संबन्धः । तस्मादयाचितव्रतानामेव चारु जीवितम् , नैवान्येषामिति तात्पर्यम् । अत्राप्युकावेव नायकरसौ। अप्रस्तुतप्रशंसा परिक- रश्वलंकारः ।

 अथैवं सद्वरुनिर्वेदमालक्ष्य स राजपुत्रः श्रीगुरुं प्रति ‘भो भो भगवन्’ अनेन तटस्थेन ‘निष्णातोऽपि च’ (१८२ ) इत्यादि पद्ये यत्त्वां प्रत्युकं तत्त्वामुद्दिश्य नैवोकम्, किं तु यन्मया पूर्वपक्षी ‘किं शास्त्रम्’ (१८१ ) इत्यादिना मेदवादामि निवेशेन पृष्टम्, तत्त्वादृशाचार्यचरणान्तेवासिनो मेऽनुचितमेवेत्यभिसंधाय मङ शेनैवोक्तम् , अतो नैतदपराधबुख्य मनः खेदनीयमिति प्रार्थयंस्तेन सजनसामा न्यस्तुत्या ध्वनिपद्धतितः स्तौति-

शन्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्रयन्द्रार्णायुरिवेह सज्जनो जयति ॥ ८५॥

 शून्येऽपि चेति । स्रजन ऊर्णायुरिव लताकीट इव शून्येऽपि च चूल्यहृदये पुंस्यपि विषये । पक्षे युवकाशदेशेऽपीत्यर्थः । स्वकीपेति । नैवाग्मिन्नादिसर्म संधैः । पक्षे सूत्रपटलैरित्यर्थः । गुणवत्सां पक्षद्वयेऽपि यथाक्रमं निरुकर्पवैमि ज्यामिति यावत् । आलन्वान आतनोति तथा मिस्त्यत्र । तत्र एव विवक्षि शेषस्थानानि पछिद्राणि पक्षे शवाक्षाद्विभ्रमि शुभशुद्रितानि कुर्वन् । आच्छादयन्नित्यर्थः । पक्षे संजातचक्राणि विदधन्सन् । द्राक् शीघ्र जयतीति योजना । तस्मात्त्वत्पाटवमेवेदं यदनेन दूषितमपि मां भूषयतीति भावः । अत्र ललितो नायकः। शिष्यरतिभावो रसः । उपमालंकारः ॥

 ततः पुनरपि खलमेव निन्दन्ध्वनितस्तमेव नरपतिमुतं च गुरुः स्तौति-खल इत्यादि त्रिमिः ।

खलः सजनकापोसरक्षणेकहुताशनः ।
परदुःखाग्निशमनो मारुतः केन वण्र्यताम् ॥ ८६ ॥

 खल इति । सजना एव कार्षासाः शुद्धत्वमृदुत्वादिसाधम्र्यांतूलविशेषास्तेषां यद्रक्षणं विरोधिलक्षणया भक्षणं तत्रैकहुताशनः। मुख्योऽग्निरित्यर्थः । एतादृशः खाधुबाधकः खल एको निर्णीत इत्यर्थः। परेति । परेषां यानि दुःखानि तान्ये वाभिस्तं शमयति पूर्ववद्विरोधिलक्षणयैव दीपयति तथा एतादृशो मारुतो वायुः परदुःखसंवर्धकः पुरुषः केन वर्यताम् । न केनापीत्यर्थः । तस्य खलापेक्षयापि विचित्रदौथ्यादसाववाच्य एवेति भावः । अत्र दुःशठो नायकः। करुणो रसः । रूपकविशेषोऽलंकारः ।

परगुप्तिनिपुणं गुणमयमखिलैः समीरितं नितराम् ।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ८७ ॥

 परगुहेति । खला दुष्टा आखव इव मूषिका इव। ललिताम्बरमिव रम्यवस नमिव । परेति परेषामन्येषां यद्धं गोप्यं धनादि, पक्षे मेढ़ादि, तस्य या गुप्ति गपनं तत्र निपुणम्। प्रवीणमित्यर्थः । कुत इत्यत्राह--गुणेति । शान्त्यादिगुणप्र चुरम् । पक्षे सूत्रविकारीभूतम् । अत एवाखिलैः सवैलकैर्नितरां समभिलषितमिति यावत् । एतादृशं सजनं दूषयन्त्यारोपितदोषयुक्तं कुर्वन्ति । पक्षे खण्डयन्तीत्य न्वयः। एते यद्यपि तथा वर्तन्ते तथापि त्वं तु नैवमसीत्याशयः । अत्र नायका दिकं कमेव । उपमालंकारः ।

यशःसौरभ्यलशुनः शान्तिशैल्यहुताशनः।
कारुण्यकुसुमाकाशः खलः सज्जनदुःखलः ॥ ८८ ॥

 यश इति । यश एव सौरभ्यं सौगन्ध्यं तस्य लशुन इव लशुनः । स यथा कालत्रयेऽपि सौरभ्यानुत्पत्तिस्थानमेव तद्वदयं खप्नेऽपि यशोनुत्पत्तिहेतुरेवेत्यर्थः। मास्तु यशः, शमश्चेदलम् । उक्तं हि वासिष्ठे—तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥' इति । तत्राह-शान्तीति । शान्तिरेव शैत्यं तस्य हुताशन इवानुत्पत्तिस्थानत्वाद्भुताशनोऽग्निरित्यर्थः। अथापि दया चेदुभयमप्येतद्भविष्यति। अत एवोक्तम्—‘वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः। करणं परोपकरणं येषां केषां न ते वन्द्यः ॥’ इति । तत्राह कारुण्येति । कारुण्यमेव कुसुमं तस्याकाश इवानुत्पत्तिहेतुत्वादाकाश इत्यर्थः । एतादृशः खलः । अत एव-सज्जनेति । सज्जनानां यदुःखं तळाल्यादत्ते संपादय तीति तथा । साधुदुःखजनक इत्यर्थः। ‘दुःखदःइति पाठस्तु सरल एव । त्वं तु सज्जनसुखद एवेति भावः । अत्र रूपकलुप्तोपमाविशेषावलंकारौ । शेषं तौ प्राग्वदेव ॥

 एवं स राजकुमारः खलनिन्दामाकण्यं ततः परमक्षुब्धं श्रीगुरुमालक्ष्य ‘गुर् प्रणतिभिः’ इति न्यायादुक्तनिन्दाप्रधानपद्यत्रयद्योतितस्खस्तुतितः प्रचुरप्रमुदितः संस्तं वृक्षान्योक्त्या प्रणमति

धत्ते भरं कुसुमपत्रफलावलीनां
घर्मव्यथां वहति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतो
स्तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ८९ ॥

 धत्ते भरमिति । यो वक्ष्यमाणगुणगणस्तरुवरः। कुसुमेति । भरं भारम् । अन्यसुखस्य हेतोरितरानन्दकरणार्थमित्यर्थः । न हि तेन तस्य किंचिद्धितम् । धत्ते धरति । तथा घर्मव्यथामातपपीडां शीतभवां हिमसंभवां रुजं पीडां च वहति । इदं वृध्यादेरप्युपलक्षणम्। किंबहुना, देहमप्यर्पयति । इन्धनाद्यर्थिभ्य इत्यर्थः । तस्मा- यित्यादि यथाश्रुतमेव योज्यम् । वदान्येति । अनेनैतादृशो दातृ शिरोमणिस्त्वमेव, अहं तु वदान्याभास एवेति भावः । अत्र चरणत्रयेण क्रमेण विद्यासंभारसंभरण श्रमशालित्वं खलपीडासहिष्णुत्वं प्राणप्रायब्रह्मविद्याप्रदातृस्वं चेति वदान्यगुरुत्वे हेतवो द्योतिताः। नमनेन च तत एव सर्ववन्द्यत्वं व्यज्यते । इहोदात्तो नायकः। दानवीरो भक्तिश्च रसः । काव्यलिङ्गमलंकारः ॥

 अथायं निरुक्तापराधी तटस्थादिरपि मूढजन्ः श्रीमद्भिः करुणयानुग्राह्य एवेति श्रीगुरुं प्रार्थयन्राजकुमारस्तेन प्रबोध्यते—

हालाहलं खलु पिपासति कौतुकेन
कालमनलं परिचुचुम्बिषति प्रकामम् ।

व्यालाधिपं च यतते परिरब्धुमद्ध
यो दुर्जनं वशयितुं तनुते मनीषाम् ॥ ९० ॥

 हालाहलमिति। यो दुर्जनं वशयितुं मनीषाम् । ‘बुद्धिर्मनीषा’ इत्यमरात्तद् त्तिविशेर्।खलु निश्चितम् । विषमेवेत्यर्थः । पिपासति पानकषरूपामिच्छामित्यर्थः ।तनुते विस्तारयति । स हालाहलम्,न तु जलम् ।तत्रापि कौतुकेन, न तु मृतीच्छ्या । खलु निश्चितम् । विषमेवत्यर्थः।पिपासति पानकर्मीकर्तुमिच्छति ।तथा । कालेति। प्रलयकालीनवहिम्, न तु सामान्यामिम् ।

। तत्रापि प्रकाममत्युत्कटम् , न तु यत्किंचित्।    लयकालीनवहिम्, न तु सामान्या

मिम् । तत्रापि प्रकाममत्युत्कटम् , न तु यत्किंचिथःःत् । तत्रापि परिचुचुम्बिषति भूयोऽपि समन्तादपि वक्रसंयुतीकर्तुमिच्छति । न केवलमेतावदेव, किं तु ब्यालेति । सर्पराजं तक्षकमपि । तत्राप्यद्धा साक्षादव्यवहितम् । तत्रापि परिर धुम्, न तु द्रष्टुम् । यतते प्रयत्नं करोतीत्यन्वयः । तस्मादिदं दुर्घटमेवेति भावः । इह मूर्खो नायकः। औदासीन्यध्वनितः शान्तो रसः । दृष्टान्तविशेषोऽलंकारः ॥

 ततः स तटस्थोऽपि स्वदोषमवधार्यानुतप्तस्तं पण्डितं व्याजनिन्दाघटिताप्रस्तु तप्रशसालकारेण पण्डितवरंमन्य इवोपालभते-

दीनानामिह परिहाय शुष्कसस्या
न्यौदार्यं प्रकटयतो महीधरेषु
औन्नत्यं विपुलमवाप्य दुर्मदस्य
शतोऽयं जलधर तावक विवेकः ॥ ९१ ॥

 दीनानामिति । हे जलधर, तावकस्त्वदीयः। अयं प्रत्यक्षः । विवेको विचारः। इह लोके दीनानामनन्यगतीनां कृषीवलानाम्। एतेनावश्यानुकम्पनीयत्वं व्यज्यते। तत्रापि.। शुष्केति । शुष्कधान्यानि । एवं च तत्पुष्यभावे तेषां मृत्युरेव स्यादिति दूतपरितर्पणीयत्वमावेद्यते । परिहृय त्यक्त्वा । महीधरेति । पर्वतेष्वियथुः । औदार्य वृष्टिपुथ्या वदान्यत्वमिति यावत् । प्रकटयतः स्फुटीकुर्वतः । एतेनोप हासः सूचितः । एतादृशस्य दुर्मदस्य दुष्टधायौ मदोति तथा । उन्मादस्येत्यर्थः। विपुलं प्रचुरमौलत्यमौत्कण्व्यमवाप्य प्राप्य। ज्ञातः ‘प्रतीते प्रथितख्यात वितविज्ञा तविश्रुताः इत्यमराद्विख्यातोऽस्तीति संबन्धः । तस्मान्मादृशा दीनास्त्वयानुकम्प- नीया एवेत्याशयः । इहाविी नायकः । करुणो रसः। अलंकारस्तूक एव ॥

 ततः स राजपुत्रः पण्डितस्य सान्त्वनं ध्वनयननुग्रहाभ्यर्थनमपि सूचयन्त्रमा न्यतो महाधियामेव शुक्लत्रं यावद्वक्तारैभ्य वि स्पष्टयति

गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
'तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ ९२॥

 गिरय इति । गुरवो महान्तः। उर्वा पृथ्वी । जगदण्डं ब्रह्माण्डम् । प्रलय इत्याद्यतिगुरुत्वे हेतुगर्भ विशेषणम्। अचलत्वमत्र क्षभशन्यत्वम् । उक्तं हि योग वासिष्ठे—‘अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले । गुरुशास्त्रानुगो मार्गः परित्याज्यो न धीमता ॥’ इति, ‘विचारदर्पणे लन्नां धियं धैर्यधुरं गताम् । आध यो न विलुम्पन्ति वाताश्चित्रानलं यथा ॥’ इति ‘नापदि ग्लानिमायान्ति हेमपर्धा यथा निशि’ इत्यादि च । तस्माच्छीमद्भिरस्मदादीनां सवोनप्यपराधान्सद्वास्म दादयः सर्वेऽपि खलाः समनुप्राह्य एवेति भावः । अत्र धीरो नायकः । गुरुर तिर्भावः। सारोऽलंकारः । तदुक्त कुवलयानन्दकारिकासु–‘उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते । मधुरं मधु तस्माच सुधा तस्याः कवेर्वचः ॥’ इति ॥

 पुनरपि श्रीगुरुरिदं दुर्घटमेवेति मन्वानः खलनिन्दां व्यनक्ति--

व्योमनि वासं कुरुते चित्रं निर्माति यत्नतः सलिले ।
स्नपयति पवनं सलिलैर्यः क्षुद्रे चरति सत्कारम् ॥ ९३ ॥

 व्योमनीति । यः क्षुद्रे । 'क्षुद्रे ‘स्तोकाल्पङक्लका’ इत्यमरादल्प इति यावत् । ‘यस्तु खले’ इति पाठः साधुः । सत्कारः सकरणं सत्कारः साधुतां नयनमित्यर्थः। ख व्योमन्याकाशे वासं वसतिम् । व्योमनि शम्बाम्’ इति पाठे शम्बां क्षेत्रभकिम्। कृषिविभागमिति यावत् । कुरुते । तथा पवनं सलिलैः स्नपयतीति संबन्धः । एवं चैतत्रयं यथा कालत्रयेऽप्यघटमानं तथा क्षुदस्य साधुत्वापादनमपीति ताप र्यम् । अत्र दुःशठो नायकः । शान्त एव रसः । दृष्टान्तविशेषोऽलंकारः ॥

 न केवलं मूर्वस्य साधुत्वापादने यनवैफल्यमेव प्रत्युत तत्कृतस्खवचनानादरः वशान्मानहानिरपि । ततः ‘सतां माने म्लाने मरणमथवा दूरगमनम्’ इति न्यायेन मृत्युसमकक्षदुःखापत्तिरिति स एव पण्डितो मर्कटान्योक्तया व्यनक्ति--

हारं वक्षसि केनापि दत्तमदोन मर्कटः।
लेढि जिघ्रति संक्षिप्य करोत्युचतमासनम् ॥ ९४ ॥

 द्वारमिति । लेव्याखादयति । जिघ्रति गन्धग्रहणविषयीकरोति। संक्षिप्या स्त्यक्त्वा । उन्नतमुखमासनं करोतीति स्ष्टमेव । तस्मादनुचितमेव मूर्वाधु पादमयसममिति हृदयम् । इह नयकायुकमेक । अप्रस्तुतनिन्दालंकारः ।  एवं मूर्धनिर्भत्सनं भूयः समाकर्यं स राजकुमारस्तावत् ‘अनृतं साहसं माया मूर्छवमतिलोभिता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः खभावजाः ॥’ इति वच नात्स्खकीयरमण्यामपि स्त्रीत्वेन तदवधार्य तजिहासुरभूदिति तदिङ्गितैः स पण्डितो निर्णेयाध्यवसिततत्पातिव्रत्यस्त्वया स्वरमण्यौदासीन्यं नैव विधेयमिति भ्रमरा न्योक्त्या व्यनक्ति--

मलिनेऽपि रागपूर्ण विकसितवदनाममन्दजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजासि ॥९५॥

 मलिनेऽपीति । रागपूर्ण रागबाहुल्यवतीमित्यर्थः । पक्षे नायके दुःसङ्गक्तौर्य र्स्वैरत्वैमालिन्यबहुभाषित्वचापल्यानि । नायिकायां तु रागः प्रेमा। ‘अनल्प जल्पेऽपि’ इति पाठः। शिष्टं तु स्पष्टमेव। तस्मानेयं सर्वगुणरमणीया रमणी’ हेयेत्याशयः । अत्र सरोजिनीपदेन तस्यां पद्मिनीत्वं ध्वन्यते । इहाविकी नायकः । करुणो रसः। निरुक एवालंकारः ॥

 अथ तत्रैवावस्थितः प्रागुक्तः कश्चित्तटस्थः स्वमनसि यदयं पण्डितवरस्तावदिमं राजतनूजं स्वसुन्दरीत्यागानौचित्योपदेशान्यथानुपपत्त्या प्रागुक्तरीत्या चतुर्वर्गोप दिक्षुरपि नास्मान्प्रति करुणालेशेनेषपषदप्यगृह्यात्यतो धिङ्मामिति परमविषण्ण स्वेनानुकम्पया किमिति त्वं खिन्नोऽसीति पृष्टस्तदपलाप्यानुतापवशात्सत्त्वप्रधान चेताः सन् धनलोभलक्षणं स्वापराधमेव तत्र हेतु द्योतयन्सास्वेनातेनुकम्पया किमिति त्वं खिन्नोऽसीति पृष्टस्तदपलाष्यानुतापवशात्सत्त्वप्रधानमान्यतः स्वार्थ परार्थ वा धनार्थित्वावच्छेदेन मुखमालिन्यव्याप्तिं स्पष्टयति--

स्वार्थं धनानि धनिकात्प्रतिगृणतोऽपि
 स्वास्यं भजेन्मलिनतां किमिदं विचित्रम् ।
गृणन्परार्थमपि वारिनिधेः पयोऽपि
मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ ९६ ॥

 स्वार्थमिति । प्रतिगृह्यतोऽपि, न तु स्तेयादिना हरतः। स्वास्यं स्वस्य प्रतिग्र हीतुरस्मदादेरास्यं वदनमित्यर्थः । शोभनं मुखं वा। ‘यदास्यम्’ इति पाठे तु यत्प- दमिदमा संबध्यते। ननु कुतो नेदं विचित्रं प्रत्युत धनलाभजन्यसंतोषात्प्रसादिनैव भाव्यमित्याशङ्कय कैमुतिकन्यायेन समादधत्तत्रार्थान्तरन्यासमुपन्यस्यति-गृह्यन्नित्युत्त्रर्धेन। सकलोपि संपूर्णोपि न त्वेकदेश एव। अयं बुद्धिस्थः सर्वलोक प्रत्यक्षो वा । मेघः परार्थमपि, न तु स्वार्थम् । वारिनिधेः सकाशात्पयोऽपि जलमपि । तेनास्य तुच्छत्वं व्यज्यते। हुन्कालिमानं कार्यमेतीति योजना । तस्मा द्धिग्धनयाचनमित्याकूतम् । अत्रोदासीनो नायकः । शान्तो रसः। काव्यार्थापत्त्य- नुप्राणितोर्थान्तरन्यासोऽलंकारः ॥

 एवं समनुतप्तं तं तटस्थमालक्ष्यानुजिघृक्षुः स पण्डितस्तं नृपकुमारोपहारार्थ कैनचिदानीतमलयजेक्षणप्रसतया चन्दनान्योक्त्या स्तुत्या मण्डयति--

जनकः स्थाणुविशेषो जातिः काष्ठे भुजंगमैः सङ्गः ।
खगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ ९७॥

 जनक इति । स्थाणुविशेषः “स्थाणुः कीले स्थिरे हरे’ इति विश्वात्स्थिरत्वोपछ- क्षितो मलयाचल इत्यर्थः । ‘सानुविशेषः’ इति पाठे 'स्नुः ‘प्रस्थः सानुरस्त्रियाम् ' इयमरात्प्रस्थविशेषः । एतेन कुलोन्नत्यराहित्यं व्यज्यते । अस्त्वेवमथापि जात्या हीरकादिवर्दौन्नत्यं स्यादित्यत आह--जातिरिति । काष्ठम् । एतेन दहनेतरानुप योगित्वं ध्वन्यते । एवमपि खात्युकवसङ्गविशेषेण तत्स्यादित्यत्राह-भुजंगमै- रिति । हे पटीरज मलयज । चन्दनेत्यर्थः। एवं च प्राक्प्रतिज्ञाते जनक इत्यादौ हेतुद्यतितः । त्वं तथापि कुलजातिसङ्गसौष्ठवाभावे सत्यपीत्यर्थः। खेति । नैजसौ। रभ्यादिधनैरेवेत्यर्थः । एवं च गुणानामगणितत्वं महत्त्वसाधकसामभ्यन्तरविरहि तत्वं च सूचितम् । महिमानं देवसेव्यत्वादिलक्षणमत्कव्यम् । यातोऽसि प्राप्तोऽसी त्यन्वयः । न चेदं मलयस्य न वा काष्ठत्वजातेरपि माहात्म्यं यच्चन्दने सुरसेव्य त्वम्, किं तु तस्य नैसर्गिकसौरभ्यप्रभाव एव। तद्वद्भवतोऽप्यद्य स्वाभाविक एवायं सत्त्वोदय इत्याशयः। अत्र ललितो नायकः। शिष्यरतिर्भावः । प्रस्तुताङ्करोऽलंकारः॥ ततस्तं तटस्थं स एव पण्डितः प्रश्नोत्तरसरण्या संजातानुतापत्वेन राजतनूजा पेक्षयापि मोक्षसाम्राज्यलक्ष्मीप्रासादे द्रुतमारुरुक्षुमालक्ष्य सर्वोपदेशरहस्यं विषय सुखोपलक्षितं यावद्वैतत्यागमेव संक्षिपति--

कस्मै हन्त फलाय सज्जन गुणग्रामाजेने सजसि
स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता
स्तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥ ९८ ॥

 कॅस्सा इति । हे सज्जन, त्वं हन्त सखेदं कस्मै फलाय । गुणेति । वाग्मित्व दिचारुधर्मसंघसंपादन इत्यर्थः । सज्जसि । संसको भवसीति यावत् । स्वान्तःकर णादेः सत्संस्कारसंपादनार्थं सद्गुणसम्प्रहे किमिति न यतितव्यमित्याशग्ङ्क्या समाधातुमवधानप्रदानं बोधयति-स्वत्मेति । स्वात्मनो निजान्तःकरणादेरुपस्करणं संस्करणं तस्मा इत्यर्थः । किमिति त्वद्वचः समाकर्णनीयमित्यतस्तत्र हेतुगर्भ विशेषणम्-पथ्यमिति । परिणामहितमित्यर्थः । एवं चास्य प्रथममप्रियत्वेप्यनादरणानर्हत्वं ध्वन्यते । ‘समू' पदेनावधानश्रद्धाधिक्यापेक्षा व्यज्यते । किं तदि त्यत्राह--य इत्युत्तराधैन । ये भावा अनञ्पदार्थाः । नितरां शोभाभरैः संभूताः परिपुष्टाः । अत एव हृदयं मनः । नितरामिति काकाक्षिगोलकन्यायेनोभयत्रा- न्वेति । हरन्ति वीकुर्वन्ति । तैरेव प्रागुक्तरम्यानञ्पदार्थेरेव न त्वन्यैः । अस्य साक्षिप्रत्यक्षस्य । कलेवरेति । कलेवरं शरीरं पुष्णातीति तथैतादृशस्य कलेः कलियुगाख्यस्य । वर्तमानकालस्येत्यर्थः । दैनंदिनं दिने दिने भवं दैनंदिनम् । प्रतिदिवससंभवमिति यावत् । वर्तनम् । जीवननिर्वहणमित्यर्थः । अस्तीति शेषः। कलियुगेऽस्मिन्प्रायशो रम्यपदार्थानामेव प्रतिदिवसं भूरिक्षयो भवतीत्यतो धिग्दे हादिरम्यतासंपादकगुणगणासादनमिति हृदयम् । अत्र सज्जनेत्युपदेशार्हत्वं व्यज्यते । इहोदसीनो नायकः । शान्तो रसः । आक्षेपोऽलंकारः ॥

 एवं यावद्रम्यस्याशुविनाशित्वमाकर्य स तटस्थः श्रीगुरुविरहेण निरुक्तनरवर- कुमारस्य दुरवस्थाकथनच्छलेनोभयोरपि तच्चरणकमलयुग्मे रतिमानान्योक्त्या व्यनक्ति--

धूमायिता दश दिशो ललितारविन्दा
देहं दहन्ति दहना इव गन्धवहाः।
त्वामन्तरेण मृदुजालकलाम्र मङ
गुञ्जन्मधुव्रतमथो किल कोकिलस्य ॥ ९९ ॥

 धूमायिता T इति । हे मृद्विति । मृदु कोमलमेतादृशं यज्जालकं कलिकाजालं तल्लाति आदत्त इति तथा एतादृश भो आम्र । अथोऽनन्तरं त्वामन्तरेण भवन्तं विना कोकिलस्य । ललितेति । ललितानि फुल्लत्वादिना सुन्दराण्यरविन्दानि महोत्पलानि यासु ताः । एतादृशो दशदिशोऽपि । यद्यप्यूर्वाधोदिशोर्नारविन्द संभावना तथापि ब्रह्मलोकनागलोकयोस्तद्वर्णनयुक्तैव सा। धूमेति । धूम इव आचरिताः। सधूमा इत्यर्थः । तथा गन्धवाहाः सुरभिवायवो दहना इवाग्नय इव । देहं दहन्तिं किलेति संबन्धः । कुत इत्यत आह—मडिवति । कीदृशं त्वाम् । मञ्जुलध्वनन्मधुकरमित्यर्थः । अत्र ‘दलितारविन्दाः’ इति ‘मृदुताम्रद लाम्रमङ्गुञ्जन्मधुव्रत मधौ’ इति पाठस्तु समीचीनः। तत्र दलितपदं विकसि तपरम् । एवं मृदून्यत एव ताम्राणि दलानि पत्राणि यस्य तत्संबुद्धौ । अत एव मध्विति । एतादृश हे आम्र, त्वामन्तरेण वां विना मधौ वसन्ते कोकिलस्ये त्यादि योज्यम् । तस्मात्त्वद्वियोगो मैवास्त्विति रहस्यम् । इह विषादी नायकः । करुणो रसः । गुरुरतिर्भावश्च । अप्रस्तुतप्रशंसालंकारः ।

 अथैवं स नरवरकुमारोऽपि निजक्षात्रनिसर्गसिद्धशौर्यस्यापि ‘जहि शत्रु महा बाहो कामरूपं दुरासदम्’ इति श्रीमद्भगवद्गीतावचनात् , ‘कः शूरो यो ललना लोचनबाणैर्न विव्यथितः’ इति श्रीमद्विमलाचार्यचरणकमलीयप्रश्नोत्तररत्नमालते श्वान्तःशत्रुभूतकामाद्यासुरभृत्तिविजयमन्तरा वैयर्थमेवेति प्रपूर्वपद्यध्वनितयावद्भ म्यविनश्वरत्वाकर्णनजन्यनिजनिर्वेदं सिंहान्योक्त्या श्रीगुरुं प्रति द्योतयति

भिन्न महागिरिशिलाः करजाग्रजाग्र
दुद्दमशौर्यनिकरैः करटिभ्रमेण ।
दैवे पराचि करिणारिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०० ॥

 भिनेति । करिणां गजानामरिणा शत्रुणा सिंहेन । अत एव यद्यपि दैवेऽदृष्ट पराचि पराङखे सति करटिभ्रमेण । ‘काकेभगण्डौ करटौ’ इत्यमरात्, ‘करटः करिगण्डे स्यात्कुसुम्मे निन्द्यजीवने । काके वाध्ये दुर्द्धरूढे नवश्राद्धे' इति हैमाच करट्शब्दितगण्डपिण्डद्वन्द्वशाली करटी । गजेन्द्र इति यावत् । तद्रमेण स्थूल त्वनीलत्वादिसाधम्र्याङ्गजेन्द्रभ्रान्त्येत्यर्थः । करजेति । करजा नखास्तेषां यान्य ग्राणि तेषां ये जाप्रन्तोऽतन्द्राः अत एव उद्दामा उत्कटा एतादृशा ये शैर्यनि करा वीर्यसमूह्स्तैरित्यर्थः । महागिरिविलाः भिक्षा विदारिताः । हा इति खेदे । तथापि कुत्रापि पिशितस्य । ‘पिशितं तरसं मांसम्’ इत्यमरान्मांसस्येत्यर्थः। लेशोऽपि स्खल्पांशोऽपि नापि खलु नैव लब्ध इति योजना । तस्मादुरदृष्टपुष्टमि- थ्यादृष्टिवशादेव मयैते शत्रवः पराजिताः सर्वेऽपि । वास्तविकविजयस्तु तेभ्यः सकाशात्तेषामेवावास्तविकत्वात्कचिदपि देशे काले नैव लब्धः। अतः सर्वे परि- त्यज्यन्तःशत्रुविजयार्थमेवाहं यतिष्यामीत्याकूतम् । इह निर्विण्णो नायकः । वीरानुप्राणितः शान्तो रसः। उक्त एवालंकारः ।  इदानीं कविनंत्युपदेशफलमन्तःशत्रुविजयार्थ सन्मार्गप्रयत्नलक्षणं धर्म तत्सि व्यर्थ दानाद्युपयोगिनं स्वस्वोचितगुणप्रावण्यैकसाध्यमर्थं च संपादयितुं शिष्यस्य संजातं विज्ञानं प्रारम्भवत्समाप्तावपि सिंहन्योक्तयैव द्योतयति--

गर्जितमाकर्य मनागद्दे मातुर्निशार्धजातोऽपि ।
हरिशिरुत्पतितुं द्रागङ्गान्याकुध्य लीयतेऽतिभृशम् ॥१०१॥

इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे अन्योक्त्युळासः प्रथमः ॥

 गर्जितमिति । हीति । सिंहशिशुः पक्षे श्रीकृष्णसुतः कामः । एतेन देवता विजयवर्णनलक्षणवस्तुनिर्देशलक्षणं मङ्गलमपि प्रकरणसमाप्तौ सूचितं भवति । तथोत्तरप्रकरणप्रतिबोध्यकामपुमर्थस्य सूत्रणमपि ध्वन्यते । निशेति । निशाया रात्रेरर्ध यामद्वयं तत्परिमितं जातं ‘जातिर्जातं च ' इत्यमराजात्युपलक्षितं वयो यस्य स तथा। तादृगपीत्यर्थः । यद्वा निशाधं जातः। पक्षेऽङरितोऽपीति यावत् । मनागीषदूर्जितं मेघध्वनितम् । तस्योद्दीपनविभावत्वात् । पक्षेऽप्येवमेव । मातुर्ज नन्याः । पक्षे अमातुर्जीवस्य । अङ्क उत्सद्धं । पक्षे मनोरूपैकदेशे । द्राक्शीघ्र मुत्पतितुम् । अतिभृशमत्यन्तम् । अङ्गान्यवयवान् । मोहनादीनि साधनानि । आकुञ्जय लीयत इत्यन्वयः । निभृतम्’ इति पाठे तु निगूढामिति व्याख्येयम् । अत्र धीरो नायकः। वीरो रसः। श्लेषश्चलंकारः ॥

  इति प्रणयप्रकाशे प्रथमः प्रमोदः।