शृङ्गारोल्लासः ।
द्वितीयः प्रमोदः।

 अथ श्रीगुरुस्तावदेवं नीत्युपदेशेन सप्तधनौ धर्मार्थावुपबोध्याधुनावसरप्राप्तं ससाधनं काममपि ङ्गरोल्लसेन समुपदेष्टं सोऽपि श्रीरामवत्स्खकीयायामेव वया संपादनीयो न तु श्रीकृष्णवत्परकीयायामित्यन्वयव्यतिरेकनिदर्शनद्वयपरं प्रकरण मारभमाणः प्रथमं मङ्गलत्वेनादर्शदर्शनादिवच्छूद्ररसालम्बनीभूतनायिकावदन वर्णननिपुणं तां प्रति नायकवाक्यमुपन्यस्यति

न मनागपि राहुरोषशङ्का
न कलङ्कानुगमो न पाण्डुभावः ।
उपचीयत एव कापि शोभा
परितो भामिनि ते मुखस्य नित्यम् ॥ १ ॥

 न मनागपीति । इदं हि सीतां प्रति श्रीरामस्य, राधां प्रति श्रीकृष्णस्य च वाक्यं तदन्नसौन्दर्यमलौकिकतयावधार्यं प्रसादातिरेकादेव तन्मानापनोदनफल- कम् । न चैवं सारस्यानुसारेण विवेचनचतुराणां श्रीरामादिविलासपरत्वेन प्रकरणयो जनमयुक्तमेवेति सांप्रतं ‘यौवनोद्भमानितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः। संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥’ इति, ‘लोभाद्वराटिकानां विक्रेतुं ततम क्रममटन्त्या । लब्धो गोपकिशौर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ इत्यादौ च तत्र तत्र तलिङ्गस्य मध्ये स्फुटतरवाकवेः खश्रेयसीवर्णने यथाकथं चित्तात्कालिकफलसंभवेऽपि पारत्रिकतदभावध्रौव्यात् । प्रत्युत ‘न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥’ इति भगवद्धणवर्णनहीनवाग्व्ययस्य निषिद्धवाच्च । न चैवं प्रथमोल्लासेऽपि शक्यं भगवदितरपरत्वेन निषेधसत्त्वम् । तस्य धर्मोपदेशध्व- नकत्वेन भगवत्परत्वस्य परम्परया संभावितत्वेन तदभावात् । न चैवमत्रापि ‘ऋ. तौ भार्यमुपयात्’ इति ब्रह्मचर्यमेव, ‘तद्यदात्रौ रत्या संयुज्यते’ इति च श्रुतेः स्खकीयाविषयकस्य कामस्यापि धर्मत्वेन तत्तौख्यमेवेति वाच्यम् । तथात्वेऽर्थका मयोः पुरुषार्थत्वराहित्यापातात्तयोस्तदानुभविकखस्य सार्वलौकिकत्वेनेष्टापत्तौ तद्वि रोधात् । उकश्रुतेस्तु परिसंख्याविधित्वेन स्वकीयेतरर्तुलान्यकालनिवृत्तावेव तात्पर्येण तदनुकूलेन्द्रियनिरोधेन ‘मनसश्चेन्द्रियाणां च ऐकायं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥' इति स्मृतेः। संपद्यमनपूरमधर्ममा भा० वि० ५ ९ त्रपर्यवसन्नत्वेन यथाश्रुतार्थकखाभावाच्च । वस्तुतस्तु साध्यसाधनमेदेन पारत्रिकं धर्ममोक्षाख्यपुरुषार्थद्वयमेव । अर्थकामौ त्वैहिकावेव । तत्रापि साधनीभूतस्य ध र्मस्य चित्तशुद्धेर्जनकत्वेन तद्रारा वैराग्यादिसाधनचतुष्टयपुष्टिपूर्वकश्रवणादिपरिपा कोत्तरं वेदान्तमहावाक्यजन्यब्रह्मात्मतत्त्वसाक्षात्कारव्यङ्गथे विशुद्धाद्वैतात्मरूपमोक्ष एव पर्यवसन्नत्वेनैक एव पुरुषार्थः । सर्वपुरुषैरर्यमानस्य निःशेषदुःखध्वंसनिर तिशयसुखलाभस्य तत्रैव संभवात्। धर्मादित्रयाणां परस्परं साध्यसाधनभावसंभ- वेऽपि मुख्यपुमर्थाभावात् । ‘यत्सुखं साधनाधीनं दुःखमेव तदुच्यते’ इत्याद्य भियुक्तोक्त्यापि तथावाचेत्यन्यदेतत् । निरुक्तश्रुतिवशादृतुकाल एव पाणिहीता यामेव कामोपभोगशीलस्यानुषङ्गिकोऽपि किं धर्मो न संभवत्येव । यदि संभवति चेदत्रापि परम्परया भगवत्तात्पर्यकत्वेन किमनया कुरुध्येति चेत्सत्यम् । तथापि प्रथमप्रकरणापेक्षयात्र विक्षेपबाहुल्यस्य कोटिगुणमधिकतमखात्परकीयायामपि प्रसक्त्यापातात्क नाम धर्मोदयावकाशः । देवतापरत्वे त्वस्य तत्स्मरणादिनाम च्छब्दस्थल आहार्यतत्तादात्म्यस्य नटादाविव संभवेन च नायमनर्थः, प्रत्युत धर्माधिक्यसाधकखमेव। कामाख्यस्य व्यावहारिकपुरुषार्थस्यापि निरुक्तान्वयव्य तिरेकनिदर्शनेनाधिकारिणा खकीयायामेव साधयितुं शक्यखाच्च न काप्यनुप पत्तिः । अत एवोक्तं भगवतापि—‘धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ' इति । नन्वथापि ‘रम्या दशा मनसि मे मदिरेक्षणायाःइति तृतीयपद्यादावस्मि जुलासे कवेः शतशोऽप्यस्मच्छब्दस्य सत्त्वात्तथा तृतीये करुणोल्लासेऽपि द्वितीय पचे ‘मामद्य मजरचनैर्वचनैश्च बाले हा लेशतोऽपि न कथं शिशिरीकरोषि’ इति, तथा ‘सा केवलं हरिणशावकलोचना मे’ इत्यादि तृतीयपद्यादावपि भूरिशस्तस्य स्फुटखाचतुर्थे शान्त्युल्लासेऽपि प्रथमलोक एव ‘विशालविषयावलीवलयलग्नदावा- नलप्रसृत्वरशिखावलीविकलितं मदीयं मनः’ इत्यत्र, तथा ‘शिशिरयाशु मां लोचनैः'

इत्यादौ द्वितीयपद्यादावपि तस्य स्पष्टतमत्वाच्च यस्य पूर्वं रमण्यामल्यनुराग-

स्तस्यैव तन्निधने शोकस्ततस्तस्यैवौदासीन्ये भगवत्प्रार्थनमित्यवश्यमेकवक्तृकचे वाच्ये ‘संभवत्येकवाक्य वाक्यभेदो हि नेष्यते’ इति न्यायात्संपद्यमानायामेकवाक्य- तायां कथमत्रत्यास्मच्छब्दस्य रामादिपरतया तृतीयस्थस्यापि तस्य श्रीराममात्रपर तया चतुर्थस्थस्यैव तस्य काव्यैकपरतया व्याख्यानेन वाक्यमेदाङ्गीकरणं शब्दार्थपरी क्षणनिपुणानामादरणीयं स्यात् । तस्माद्यथाश्रुतैवेयमुलासत्रयी व्याख्येयेति चेद्वा ढम् । किमत्र कवेर्निजधर्मपत्न्यैव वर्णनीयत्वेनाभिमतेति ब्रूषे । यद्वा या लोक प्रसिद्धा ‘यवनी नवनीतकोमलाङ्गी शयनीये यदि नीयते कदाचित् । अवनीतल मेव साधु मन्ये न वनी माघवनी विनोदहेतुः ॥’ इति सुप्रसिद्धेतदीयपद्यसिद्धा यवनविशेषस्य कस्यचित्पृथ्वीपतेसैंहिता। आद्ये श्रीमद्भङ्गप्रसादासादितसूरिवरत्व तरमिन्द्रप्रस्थे पृथ्वीपतिं प्रत्युपेत्य शीतार्त इव संकुचन्ति दिवसा नैवाम्बरं श र्वरी शीघ्र मुञ्चति किं च सोऽपि हुतभुक्कोणं गतो भास्करः। त्वं चानङ्गहुताश भाजि हृदये सीमन्तिनीनां गतो नास्माकं वसनं न वा युवतयः कुत्र व्रजामो वयम् ॥ इति श्लोकेन स्खवृत्तविनिवेदनं यदनेन कविना कृतमिति वृद्धपरम्परोद न्तसुप्रसिद्धमेव । तत्र खपत्न्यभावस्य व्यततरत्वादसंभव एव । तदुध्र्व तु निर् तयवन्या एव श्रीमद्भङ्गप्रसादमदेनाङ्गीकारातक नाम धर्मपत्नीसंभवः । यतस्तद् “मेव काश्यां सर्वविप्रैर्बहिष्कारे कृते ततः पावनतायै पूर्वतपोवशीकृतां श्रीगङ्गा- मेव पीयूषलहरीनाम्ना ‘समृदं सौभाग्यं सकलवसुधायाः किमपि तत्’ इत्यादिद्विप- यशपद्यात्मना गङ्गास्तवेनाभिनवेन तां तु प्रतिश्लोकमेकैकसोपानं जलेना तिक्रामन्या तयासावभिक्षालित इत्यपि वृद्धप्रसिञ्चैव सिद्धम् । अन्ये तु ‘शात स्तरां प्रणमने विहिते गुरूणामाकथं वाचममलं भव पुत्रिणीति’ इति षष्ठपट्टी नायिकायां प्रातःकालिकश्वशुरादिगुरुकर्मकनमस्करणस्य तत्कर्तृकनिरुक्ताशीर्वादन दानस्य च, तथा ‘आगतः पतिरितीरितं जनैः शुण्वती चकितमेत्य देहलीम्’ इति चतुर्दशपदी पाणिग्रहीतृवाचकपाति शब्दप्रयोगस्य, तथा तृतीयप्रकरणे ‘धृत्वा पद स्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे’ इति पञ्चमपट्टी विवाहकशिलाधिरोहणस्य, तथा ‘खप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्ट वयसि न कंचन साभिलाषम्’ इति सप्तदशपथेऽपि प्रतिपदप्रयोगस्य च स्खधर्म पत्नीलिङ्गस्य का गतिरिति भवतैव परिचिन्तनीयम् । यदि लोकप्रसिद्यादिकं सर्व मिदमलीकमेवेति कामुकैककैवल्यवादिनस्तवाग्रहस्तदापि करुणोल्लासे यथा मध्ये क्वचिदप्यालम्बनान्तरं नैवाकरोत्तथैवात्रापि कामिन्येकवर्णनेन भाव्यम् । प्रकरण- मङ्गस्योभयत्रापि तुल्यत्वात्ततु नास्त्येव । ‘यौवनोद्मनितान्तशङ्किताः’ इति, ‘अ- धिरोप्य हरस्य हन्त चापम्’ इति च पञ्चत्रिंशत्षत्रिंशत्पद्ययोः श्रीरामपरत्वात् । तथा ‘लोभाद्वराटिकानाम्’ इति चत्वारिंशत्पद्यस्य ‘रूपारुचिम्’ इत्येकचत्वारिंशत्प- यस्य च श्रीकृष्णपरखात् । एवं ‘आविर्भूता यदवधि’ इति, ‘प्रसङ्ग गोपानाम्’ इति च त्रिषष्टिचतुःषष्टिश्लोकयोरपि तस्परात्, एवं ‘व्यत्यस्तं लपति क्षणम्’ इति वैदेह्यालम्बनकरावणदुरनुरागवर्णनघटितस्यैकोनसप्ततिश्छोकस्य तात्पर्यतः सीता सौन्दर्यध्वननद्वारा श्रीरामपरत्वात् । एवं ‘मथुरागमनोन्मुखे मुरारौ’ इति वृशी- तितमपद्यस्य श्रीकृष्णपरत्वात् । तथा ‘पाणौ कृतः पाणिरिलासुतायाःइति षड् शितितमपद्यस्य श्रीरामपरत्वात् । तथा ‘परपुरुषदृष्टिपातवज्ञा’ इति नवतितमपद्य स्यापि तत्परत्वात् । एवं ‘चेलाञ्चलेनाननशीतरश्मिम्’ इति सप्तनवतितमश्लोकस्य श्रीकृष्णपरत्वाच्च । यदि खल्पानीमानि वचनान्येव बहुतरवचनवण्र्यरमणीपरतया नेतव्यानीति मनुषे, तर्हि खल्पानि वेदान्तवाक्यान्येव बहुतमवाक्यप्रतिपाद्यध- र्मपरतयैव नेतुमुचितानि स्युरिति जितं पूर्वमीमांसकैः । एतेन ‘यजेदेकं कुल याथ ’ इति न्यायः प्रत्युक्तः । तस्य समानयोग्यताकस्यैकस्य समानयोग्यता कानां कुलस्य रक्षणार्थ त्याज्यत्वविधानमित्यर्थंकवात् । न चास्तु निरुक्तयवन्येव अकृते वण्र्या, पूर्वोक्तधर्मपत्नीलिङ्गानि तु यथाकथंचिदुणवृत्त्या ‘सिंहो माणवकः इत्यादिवदाहार्यज्ञानेन वा ‘चिन्तामणिरेवायं कुमारःइत्यादिवाद्योज्यानि तथेमानि श्रीरामादिपराण्यपि पद्यान्यप्राकरणिकान्यपि शास्त्रादिसंस्कारवशात्स्खपावनत्वार्थ तेन विनिर्मितानीत्येव विज्ञेयमिति वाच्यम्। अहो परीक्षकवमायुष्मतः किं वर्णनीय म्। यद्यवनीवर्णनपर्यवसन्नतायै धर्मपत्नीलिङ्गकानि भगवद्वर्णनपराणि च वाक्यानि प्रकरणमेदकान्यपि यथाकथंचिद्योजयसीति बालैरप्युपहास्यत्वापत्तेः । किं च यत्रै तस्य कवेरेवमेवाशयः स्यात्तदात्रयमेव पद्यमस्मच्छब्दघटितमनेन कविना स्वकृते रसगङ्गाधरे समुदाहृत्य यद्यख्यातं तात्पर्यतस्तत्रास्मच्छब्दः किमित्यप्रयुक्तः स्यात् । तथा च रसगङ्गाधर उत्तमोत्तमकाव्योदाहरणप्रस्तावे-यथा वा -‘गुरुमध्यगता मया नतानं निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामव लोक्य घूर्णितासीत् ।’ अत्र घूर्णितासीदित्यनेन ‘असमीक्ष्यकारिन्, किमिदमनु चितं कृतवानसि’ इत्यर्थसंवलितोऽमर्षश्चर्वणाविश्रान्तिधामखाप्राधान्येन व्यज्य ते । तत्र ‘शब्दोऽर्थश्च गुणः’ इत्युकम् । इहोदाहरणवर्धनायकस्यैवोदाहर्तुत्वात् ‘असमीक्ष्यकारिन्, किमिदमनुचितं कृतवानसि ’ इत्यर्थसंवलितो मां प्रत्यमर्ष इत्येवोक्तं स्यात् । न स्याच्च तदा निरुक्तरीत्या श्रीरामादिपरताप्यस्य । तस्मा तदभावादपातदर्शनमात्रेण विपरीतार्थभानेऽपि वस्तुगत्येदं श्रीरामादिपरतयैव व्याख्यातुमुचितमिति प्रतिभाति । न चास्मच्छब्दवैयधिकरण्यमसांप्रतमिति वाच्यम् । सामानाधिकरण्येन संपद्यमानैकवाक्यतापेक्षयापि तस्याधिकनमरस परिपोषकत्वेन प्रकरणमेदेन चेष्टत्वात् । तथाहि । शङ्करोल्लासेऽत्र तावत्स्खध र्मपत्न्याः पूर्वोकयवन्या वानेन कविना वर्णने कृते तदुत्तरं करुणोल्लासे तत्रि धनवशात्तदवलम्बनेन प्राक्तनानुरागौत्कण्ठ्यात्स्खस्य शोकोकर्षेऽपि वर्णिते ततोऽजु तापोदितनिरतिशयनिर्वेदान्निजस्यौदासीन्येऽपि शान्त्युलासे प्रपञ्चिते यावान् त्यविकासस्ततोऽपि प्रथमोल्लासे नीतिवर्णनध्वनितससाधनधर्मार्थोपदेशसिद्धौ प्रस- ङ्गकामोऽपि श्रीरामवत्स्वकीयायामेव साधनीयो न तु श्रीकृष्णवत्परकीयायामपि, तस्येश्वरत्वेन तत्र तत्संपादनस्यादुष्टत्वेऽपि तदंशे तदाचारस्याननुष्ठेयत्वात् ‘यान्यस्माकं सुचरितानि तानि वयोपास्यानि । नो इतराणि’, ‘महतां वचनं पथ्यं तथैवाचरितं क्कचित्’ इत्यादिश्रुतिस्मृतिभ्यां तथैव बोधितवाचेत्यन्वयव्य- तिरेकप्रबलोदाहरणपूर्वकोपदेशसूचनलाभात्त्वदभिमतभङ्गयन्यतरसरण्या विवरणे तु सुतरां तदसंभवाच्च, ततः करुणोल्लासे श्रीसीतानिर्याणोत्तरं श्रीरामकर्तृकशोक विकसनेनाहोऽनन्तकोटिब्रह्माण्डमण्डनपण्डितस्य भगवतश्चण्डांशुवंशावतंसस्य श्री रामस्यापि सङ्गप्रसादादेतादृशः शोकः संपन्नस्तत्र कैव कथा मादृशानामज्ञानां विषये यैकतत्पराणां पामराणामिति परमनिर्वेदलाभसंभवाद्यथाश्रुते तु तदभावात्प्रत्युत यदि मम तपःसामर्थे स्याच्चेन्मृताया अपि प्रियायाः परमेश्वरकृपया जयदेवपन्या इव पुनर्जीवनं दग्धाया अपि तस्याः , सत्सुहृदादिसामग्रीमहिम्ना मदालसाया इव पुनरवाप्तिथेति तपआदावभिलाषस्यैव संभवाचततः शान्त्युद्यासे खनिदर्शनेन ससाधनस्य ‘किं तीर्थ हरिपादपद्मभजनम्’ इत्यादिना नीत्युलासे सूत्रितस्य ‘पातालं ब्रज’ इत्यादिना मोक्षस्यैव समुपदेशाविकसनादधिकतमरसपरिपोषः किं विकचीभवति न वेति निर्मत्सराः परित्यक्तपक्षपातप्रसराः सारासारविचारचतुराः सूरीश्वरा एव परिचिन्तयन्खिति कृतं पल्लवितेन । हे भामिनि, ‘कोपना सैव भामिनी’ इत्यमरादयि रूपादिगर्वलक्षणमानमूलकप्रणयकोपाङ्करसुन्दरतरवदने वैदेहि । तेनास्यां मानवतीवोत्तमनायिकात्वमुग्धात्वानि ध्वनितानि । एवं च तव कादाचित्कप्रणयकोपाङ्करोदये सत्यपि मुखे वक्ष्यमाणरीत्या यदेतावनिरुपमं लावण्यं तदा तदभावे कियत्तद्भविष्यतीत्यतथावमेव त्वया संपादनीयमित्यचिन्यसौन्दर्य मानापनोदनप्रार्थनं खानुकूल्यसंपादनं च सूचितम् । ते तव मुखस्य वदनस्य। एतेन मानवशात्प्रकृतेऽप्रसन्नवेऽपि ‘कोपेऽपि कान्तं मुखम्’ इत्यादौ कविसमयव- र्णितनैसर्गिककमनीयत्वमपह्वानर्हमेवेति सूचितम् । कापि वक्ष्यमाणहेतुभिरनुपम त्वेनातिलोकोत्तरैवेत्यर्थः । अनेन ब्रह्मानन्दादपि त्वन्मुखनिरीक्षणानन्दस्य लक्ष गुणाधिक्यमिति ध्वन्यते । शोभा सुषमेत्यर्थः । तर्हि किमसौ नेत्रनासिकादितद् वयवेष्वेव नेत्याह-परित इति । समन्ताद्भागेऽपीत्यर्थः । एवं च सर्वावयवः सौन्दर्यसंपूरितवं व्यज्यते । अहो यस्य समन्ततोऽपि स्खप्रकाशरत्नस्यैव कान्तिभर तस्य कैमुल्यसिद्धमेव यावदंशसौष्ठवमिति भावः । तत्रापि किं तारुण्यारम्भादिसम यविशेष एवैवं नेत्याह—नित्यमिति । प्रतिक्षणमित्यर्थः। एतेन कृष्णपक्षक्षयिणः शरद्राकासुधाकराढ्यतिरेकः सूचितः । तर्हि किं सर्वदैकरूपैव मन्मुखशोभा । तथा च नित्यं भावत्कदिदृक्षा तत्र नैव स्यात् । न चैकमेव तुल्यावस्थं चेद्वस्तु कश्चित्सहते पौनःपुन्येन द्रष्टुम् । उक्तं च —‘नवनवगुणरागी प्रायशो जीवलोकः इति । तत्राह--उपचीयत एवेति । संवर्धत एवेत्यन्वयः । न तु वयःपरिणामेन हसते, नापि प्रथमक्षणानुभूतवदेवाखण्डं तिष्ठति । तस्मादौ किकमेव तद्वदनलावण्य मित्याशयः । तथा चावयवान्तरं विहाय वदनस्यैवैवं वर्णनेन भाषणस्य तन्मात्रसा- ध्यात्त्वयेतःपरं मौनं झटिति परित्यज्य प्रसादपूर्वकं स्मरशरवैश्वानरपरितप्तोऽहं मणितामृतसंततस्तुषारनिकरैः परितोषणीय इति श्रीरामस्य सीतां प्रति श्रीकृष्णस्य राधां प्रति वा तद्वदनस्तवनतः प्रार्थनं द्योत्यते । तत्समर्थनार्थं हेतून्व्यनक्ति-- नेत्यादिपूर्वार्धेन । यतस्तत्र मनागपीषदपि राहुरोषशङ्कापि राहुसंज्ञकस्य प्रसिद्ध सुरविशेषस्य सैंहिकेयस्य रोषः क्रोधस्तस्य शङ्कासंभावनापि न । नैवेत्यर्थः । एतेन क्षयिखाद्यभावः सूचितः। मनाक्पदेन भावादिति भ्रान्त्यापि तत्संभावनाव्युदासः । तत्र हेतुद्वयम् । नेत्यादि । कलङ्कपाण्डिनोरभावः । यद्वा अक्षीणत्वेन राहुरोषश झानवकाशेऽपि मानावस्थादिषु रोषदोषवशादस्य भवतु कलङ्काङ्कखमित्याशङ्कयाह नेति । अत्रानुपदेन निरुकरीत्यनुसारेणापि नैवात्र कलङ्कपङ्कसंकरावकाश इत्या दयः सूच्यन्ते । गमनं गमः । कलङ्कस्यानुगमः कलङ्कानुगमः । सोऽपि नैवास्ती त्यर्थः । ननु मा भवत्वेवं तामसममर्षमालिन्यमथापि राजसं मत्सरपाण्डुरवं तु भवेदेव राकासुधाकरोदयमाकलय्येत्यत्राह-नेति । ‘हरिणः पाण्डुरः पाण्डुः इत्यमरादत्र पाण्डिमापि वास्तीत्यर्थः । तस्माद्यतोऽत्र न दोषत्रयवत्त्वं प्रकृतचन्द्र- वत्, अतस्त्वद्वदनमनुपममेवेति तात्पर्यम् । एवं च त्वया सद्यो मानं विहाय निरुतगुणकथनं यथार्थीकर्तव्यमस्मभ्यं रतिप्रदानेनेत्याकूतम् । इह खकीया पर कीया वा मुग्धा मानवती नायिका । अनुकूलो नायकः । विप्रलम्भः शृङ्गारः । आधिक्यताद्ष्यरूपकानुप्राणितो व्यतिरेकालंकारः। तदुक्तं कुवलयानन्दकारिकासु -व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किंतु प्रकृति कोमलाः ॥’ इति । एवं चाद्धतोऽप्यत्र रसस्तदङ्गतया ज्ञेयः। मालभारिणीवृत्तमिदम् । उकं हि वृत्तरत्नाकरे-‘ससजाः प्रथमे पदे गुरू चेत्वभरा येन च माल भारिणी स्यात्’ इति ॥

 एवं कृतेऽपि स्तवे प्रागुक्तरीत्या सीतायां राधायां वा मानातिरेकादप्रसक्षायां सत्यां श्रीरामः श्रीकृष्णो वा किं मन्मुखमेवैवं लोकोत्तरगुणाढ्यं नापरशरीरमिति प्रत्युत रोचैकपरितोषकारिणीं तदाशङ्कां प्रशमयंस्तदङ्गमार्दवमपि संवर्णयति

नितरां परुषा सरोजमाला
न मृणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकाना-
मथ का नाम कथापि पल्लवानाम् ॥ २ ॥

 नितरामिति । अयि प्रिये, यदि तवङ्गकानां करचरणाद्यखिलावयवानां कोम लता मृदुता यदि । दैववशादनुभूयेत चेदिति शेषः । एतेन पूर्वोतमानवत्त्वादी श्वरस्यापि मे वदङ्गसङ्गः सुदुर्लभ एवेति द्योत्यते । तेन किंचिदुपालम्भोऽपि सूच्यते । तदा सरोजमाला कमलमालापि । न तु सरोजमात्रम् , नापि नितरां परुषा । अत्यन्तं कठोरेत्यर्थः । एवं च तस्याः सौकुमार्योत्कर्षः सर्वानुभवसिद्धो ऽपि प्रकृताग्रे तुच्छ एवेति व्यज्यते । एवं भवखस्यास्तथात्वम् , परं त्वेतद्भवति- बिसतन्तूनां प्रकृतसाम्यं भवेदेवेत्यत्राह--न मृणालानीति । विचारपेशलानि सामान्यतः कोमलवेन प्रसिद्धान्यपि किं त्वदङ्गापेक्षया तानि तथा वा न वेति संशये यदि तानि कोमलानि वदवयवापेक्षया स्युस्तहैिं विरहदशायां खया शय्यायां योजितानि सन्ति खदतें मुदाजनकानि न स्युरित्याद्युदाद्यात्मकविवेके तु पेशलानि ‘पेशलो रुचिरे दक्षे’ इति विश्वात्कोमलतया रुचिराणि । कोमल वा दक्षाणि न । नैव सन्तीत्यर्थः । तेन प्रकृतेऽलौकिकमार्दवं ध्वनितम् । यदामदुक धुरंधराणां मृणालनामपीदृगवस्था, अथ तदा पल्लवानाम् । पदस्खत्पदो लवः सौन्दर्यस्य लेशो येषु ते तथा । तेषां का नाम कथा । न कापेत्यन्वयः । अत्र परिकराङ्करः काव्यार्थापत्तिश्चलंकारः । तदुक्तं कुवलयानन्दकारेिकासु —कैमुयेना र्थसंपत्तिः काव्यार्थापत्तिरिष्यते । स जितस्वन्मुखेनेन्दुः का वार्ता सरसीरु- हाम्’ इति । एवं विशेष्यस्य साभिप्रायवे परिकराङ्करोऽपि तत्रैवोक्तः । सोऽत्र स्फुट एव । शेषं तु सर्वे प्राग्वदेवात्राप्यनुसंधेयम् ॥

 अथैवं प्रार्थनेऽप्यतिभूमिगतमानखेनाप्रसन्नमेव सीतां राधां वा श्रीरामः श्रीकृष्णो वाकलय्योपेक्षाया अपीदृक्स्थले कार्यकारित्वस्य लोकाद्यलोकितवेन तामेव कुर्वन्नपि निरुक्तनायिकासौन्दर्यादिपारवश्येन परमविकलश्च सन्संस्कारव- शात्तद्विपरीतसुरतावस्थां रतान्तोत्तरद्वित्रिपलोत्तरं पुनः स्खेन रतिप्रार्थनायां कृतायां सत्यां तदनादरद्योतकमस्तकदोलनावस्थां वा स्मृत्वा ततः संजातं दुःखो त्कर्षमसहमानः खमनस्येव रहसि दैवं पुरः स्थितमिव प्रकल्प्य तत्प्रतिवदति-

स्वेदाम्बुसान्द्रकणशालिकपोलपालि-
दोलायितश्रवणकुण्डलमण्डनीया ।
आनन्दमङ्कुरयति स्मरणे न कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥ ३ ॥

 स्वेदाम्बुसान्द्रेति । रे दैव । मदिरेति । मदिरेक्षणमवलोकनं यस्याः सा तथा तस्याः । सुरासमसंमोहकविलोकनाया इत्यर्थः । एतेन अहो यस्याः स्खभा विकानिरीक्षणमपि मद्यवत्स्खास्वादकमादकं किं वाच्यं तस्याः प्रोकावस्थावलोकन स्मरणं तथेति तदनाप्या दुःखातिरेकः सूच्यते । कापि निर्वक्तुमशक्यापि । एवं चालौकिकत्वं तदवस्थायां व्यज्यते । तेनाप्युकविप्रलम्भपरिपोष एव प्रध्वन्यते । तर्हि किं विपरीता । नेत्याह-रम्येति । एतेन शोकशङ्कनवकाशः सूचितः । एतादृशी दशावस्था मे मम मनस्यन्तःकरणे स्मरणे । जायमाने सतीत्यर्थः । आनन्दं हर्षम् । नाडुरयति नैवाविर्भावयत्यपि किं पुनर्वकव्यं न वर्धयतीति संबन्धः । वक्ष्यमाणगुणायाः पूर्वोक्तालौकिकनायिकावस्थायाः स्मरणे जाय माने मन्मनसि मनसिजपरिताप एव भूरितरं भवतीति भावः । यथाश्रुतभट्टस्तु यथाश्रुतमेव स्मरणपदं तृतीयान्तं कृखा योजयन्ति । तेषां स्मरणस्य परोकैकवि- षयखेनावश्यं वियोगकालिकखस्य वाच्यत्वात्तदानीं निरुक्तस्मरणस्य दुःखेकजनक खस्यानुभवसिद्धत्वेनानन्दजनकखस्य सुतरामयुकखादाप्रहेण तदङ्गीकारे तु प्रकृते प्रतिपाद्यखेन विवक्षितस्य शृङ्गारस्य भङ्ग एव भवेत् । तस्माद्युक्तमेवेदं सप्तम्यन्त खेन व्याख्यानमिति तत्त्वेन विदो विदांकुर्वन्विति दिक् । कुत एतदिति चेदत आह-खेदेत्यादि पूर्वार्धेन निरुक्तदशां विशेषणयन् । खेदाम्बुनः पूर्वोक्तरतिश्रा न्तिजन्यघर्मोदकस्य ये सान्द्राःन तु विरलाः । तेन श्रमाधिक्यात्सौकुमार्याधिक्यं ध्वन्यते । ते च ते कणाः ‘लवलेशकणाणवः” इत्यमरान्मौकिकजालकतापन्नः दृषतास्तैः शालते शोभत इति तथा । तादृशी या कपोलपालिः कपोलयुग लस्थली तस्यां दोलाग्निते पुरुषागितवेगादान्दोलायमाने तत्कालावच्छेदेन रता न्तश्रान्तवाकान्तयाचितरतान्तरनिषेधध्वनकसकृच्छिरोवधूननतो वा तथाभूते ये अवणकुण्डले कर्णस्थिते रत्नताटङ ताभ्यां मण्डयितुं विभूषयितुं योग्येति तथा । अत्र दशवन्मण्डनेनैव यौवनवद्दामण्डनं बोध्यम् । एवमम्बुपदं श्रवणपदं चाधि कवदपि तत्कणेषु मौक्तिकचस्य कुण्डलयोस्तनिष्ठत्वेन विलक्षणशोभावत्त्वस्य च सूचकत्वादुचितमेवेति । इह स्वकीयादिः प्रागुक्तैव नायिका रसश्च । विरहातुरो नायकः । चरमपदे लुप्तोपमादिरलंकारः । वसन्ततिलकावृत्तम् —‘उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥

 अथैवं विरहार्ततां नायकस्य सख्यादिद्वारा ज्ञात्वा द्वितीयदिवसे सायं स्वयमेवा भिसृतां सीतां राधां वा श्रीरामः श्रीकृष्णो वा राकापीयूषकरापेक्षयापि निष्कल इत्यादिना लोकोत्तराननसौन्दर्यवर्णनेनाभिनन्दयति

कस्तूरिकातिलकमालि विधाय सायं
स्मेरानना सपदि शीलय सौधमौलिम् ।
प्रौढिं भजन्तु कुमुदनि मुदामुदारा
मुल्लासयन्तु परितो हरितो मुखानि ॥ ४ ॥

 कस्तूरिकेति । अयि आलि । खतोऽभिसरणतः सखीप्राये प्रिये इत्यर्थः । एतेन वक्ष्यमाणप्रार्थनकरणयोग्यत्वं व्यङ्गयम् । त्वं कस्तूरिकातिलकं निजवदनस्य मृगाङ्कतौल्याप्तये मृगमदविशेषकमित्यर्थः । एवं च तन्मुखस्य निष्कलङ्कवेन पूर्णचन्द्रापेक्षयापि विलक्षणानन्दप्रदत्वं द्योत्यते । विधाय ललाटे कृत्वा । अद्य सायं स्वयमभिसरणात्स्मेरानना । स्मेरमागन्तुकमानादिजन्यरोषावमोषेण नैसर्गि- कमन्दहासयुक्तमित्यर्थः । एतादृशमाननं मुखं यस्याः सा तथा। स्मितवदना वर्तस एवेति यावत् । अतः सपदि झटितीत्यर्थः । एतेन यदि विलम्बं कुर्यादेकदाचि पूर्ववत्पुनर्मानवशाद्रोषकषायिताननापि स्याः । तदानीं वक्ष्यमाणास्मत्समीहितं न स्यादित्युपालम्भेन किंचिद्विनोदोऽपि द्योतितः । समयातिक्रमभीतु मुख्यं प्रयोजनम् । सौधेति । नैजराजमन्दिरमूर्धानमित्यर्थः। शीलयाधिरोहेति योजना। किमर्थमिति चेत्तदाह--औढिमित्याद्युत्तराधैन । कुमुदानि कैरवाणि न त्वब्जानि । मुदामानन्दानाम् । ‘मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः । उदारां निरतिशयाम् । एतेन चन्द्रदर्शनजन्यानन्दस्य तेषां प्रायः प्रतिदिवसं सत्त्वेऽपि तस्य सातिशय त्वावद्वदनदर्शनजन्यस्य निरतिशयखाच्च वदाननं लोकोत्तरसुन्दरमेवेति सूचितम्। औढि ढताम् । भजन्तु । स्वीकुर्वन्खित्यर्थः । तथा हरितः दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमराद्विश इत्यर्थः । मुखान्याननवत्स्खस्खाग्निमपु रोदेयानिति यावत् । उल्लासयन्तु प्रोज्वलयन्खित्यन्वयः। तस्मात्कुमुदानन्दसंदो हार्थ सकलदिङ्खविकासार्थं च त्वया निरुक्त व्यापारवत्या हृतं भाव्यमिति भावः । अत्र कुमुदहरित्पदाभ्यामहो नपुंसकानां स्त्रीणां चापि यदाननविलोकनेन यदान न्दोदयस्तदा किमु वक्तव्यं तदानननिरीक्षणेन क्षणेनैव पुंसां विलक्षणोऽसाविति व्यज्यते । इह स्वकीया परकीया वा मध्याभिसारिका नायिका । मुदितो नायकः । संभोगारम्भः कारः । आधिक्याभेदरूपकमलंकारः ।

 एवं प्रार्थनतस्तथा चरणोत्तरं निरुक्तकुमुदानन्दादिव्यवहारे जायमाने पुनर प्यतीव गर्वितायां सीतायां राधायां वा सत्यां ततः सुरतादिविलासमलभमानः श्रीरामः श्रीकृष्णो वा भूरिवारें प्रेरितामपि तद्वचनानादरेणेतः परमुपेनैव वया विधेयाधुनेत्युपदिशन्तीं तत्प्रियसखीं प्रति वक्ति--

तन्मञ्जु मन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायंतनाम्बुजसहोदरलोचनायाः ॥ ५॥

 तन्मविति । ‘मन्दमनु’ इत्यपि पाठः । हे प्रियाप्रियसखि । सायंतनेति । क्त्रन्त तस्यां सुरतमुख निमीलितनेत्रवं ध्वन्यते । तच्च पूर्वं कदाचित्सुरतसमये समनुभूत अमित्यर्थः । यद्यपि वक्ष्यमाणहसितस्योक्तनायिकायां नैसर्गिकवेन प्रागुकसौध- मौल्याधिरोहणप्रार्थनकालीनवैकीौचित्यादुतकालिकखमयुकमेव, तथापि श्वसित सायतनपदभ्यां तात्पर्यतः ।प्रोक्तावसररीत्वसैव तत्र सुघटमानत्वाहध्युमेवोक्तव्याख्यानम् । । एतेन निरुक्तमानादिवशाद्वित्रि दिनमपि संभोगालाभप्रयोजकत्वेन कोटिकल्पायमानमेव ममेति स्वातुरत्वं व्यज्यते । एतादृशं मञ्जु ‘मनोजं मज मञुलम्' इत्यमराचारुचन्द्रिकया चेतोहरमित्यर्थः । तर्हि किं प्रहसितं प्राप्यज नवत् । नेत्याह-मन्देति । तेन तस्यामुत्तमोत्तमत्वं द्योत्यते । तथा तानि निरु ककालीनान्येच श्वसितानि पद्मिनीजातीयखेन सुरतश्रान्तिजनितसुरभितरोच्छा त्रजातानीत्यर्थः । एतदपि तस्यैव परिपोषकम् । तेनोककालिकचेन स्मितादि ज्वलौकिकवं ध्वन्यते । तथा सा तात्कालिक्येव । वै निश्चितम् । नत्रयं गुण कथनारोपः स्खनेमविषयतयेत्याशयः। कलब्रेति । कलङ्कः कपोलनिर्मितकस्तूरीप रचनलक्षणलाग्छनविशेषः । एवं च तन्मुखस्य प्रकृत्यैव रम्यतमत्वान्मण्डनान पेक्षत्वेऽपि तस्य शास्त्रादिसंप्रदायैकपरिपालनौपयिकत्वेनादरणीयत्वं द्योत्यते । तेच विधुरा सुरतश्रमनिर्मितघर्मवशात्तदपसारणात्तच्छून्येत्यर्थः। अत एव मधुरा । ‘मधुरं रसवत्वादुप्रियेषु मधुरोऽन्यवत्' इति विश्वात्सरसेत्यर्थः । एतेन हीरका देर्निष्कलङ्कस्यापि निरुककान्तिमत्वव्युदासः सूचितः । एतादृशी याननश्रीर्मुख लक्ष्मीरित्यर्थः । केचित्तु मधुमन्देति मधुराननेति च पदैक्येनैव व्याचक्षते । तेषां सर्वथासमस्तपदात्मकवैदर्भरीतिमत्त्वस्य मधुररसपरिपोषकत्वानभिज्ञत्वमेव मूलम् । एतानि धर्मजातानि । हन्तेति खेदे । अद्यप्येतावति भूरितरकाले गते ऽपीत्यर्थः । एवं च प्रागुक्तं स्वातुरत्वमेव परिपोषितम् । मे मम हृदयं स्वान्तम् । उन्मदयन्ति स्मृतिशतैरुन्मत्तं कुर्वन्तीत्यन्वः । अतस्त्वया शीघ्र तादृग्घटन पाटवेन साभिसारणीयैव, अन्यथास्माकमुन्मत्तवाताद्यपातेन वैपरीत्यमेव संभा व्यत इति भावः । अत्र मध्या मानवती प्रकृता स्टुतिविषयीभूता तु परितृप्ताः खकीया परकीया वा नायिका । व्याकुलो नायकः । विप्रलम्भः शृङगारः । कलङ्न् केत्याधिक्यतप्यरूपक सायंतनेति लुप्तोपमा चालंकारः ॥

 एवं निवेदितनिजवृत्तया सख्या सामाद्युपायैः प्रतिबोधिता सती सीता राधा वा द्वितीयदिने प्रससादेति कविः संवर्णयति

प्रातस्तरां प्रणमने विहिते गुरूणा-
माकर्ण्य वाचममलां भव पुत्रिणीति ।
नेदीयसि प्रियतमे परमप्रमोद-
पूर्णादरं दयितया दधिरे दृगन्ताः ॥ ६ ॥

 प्रातस्तरामिति । दयितया प्रकृतनायिकया प्रातस्तरामत्युषःकाले गुरूणां श्वभूप्रभृतीनां पूज्यानाम् । प्रणमने प्रकर्षेण धर्मशास्त्राद्युकक्रमाद्यनुसरणलक्षणो- त्कर्षेण नमने नमस्करणे । विहिते विधिवत्कृते सति । अथ त्वं पुत्रिणी पुत्रवती भवेद्भयमलां निष्कपटां वाचं वाणीम् । अधुदुक्कगुणामेवाशीर्वादभारतीमित्यर्थः । आकर्यं श्रुखा । नेदीयसि निकटवर्तिनि प्रियतमे श्रीरामे श्रीकृष्णे वा । स्वप्रेमविषयीभूते कान्त इति यावत् । परमेति । परमो निरुपमः स ‘चासौ प्रमोदो हर्षस्तेन पूर्णं निरवधिक आदरः सत्कारो यथा स्यात्तथेत्यर्थः । दृगन्ताः। न तु दृगन्तः। कटाक्षा इत्यर्थः । एवं च तेषां पौनःपुन्यं ध्वन्यते । दधिरे स्थापिता इति संबन्धः । न तु प्रेषिताः । तथा च पुनस्ततः स्वपाङ्गानाकर्षणाप्रतिक्षणं नवनवापाङ्गास्तत्रैव निधीयन्त इत्यर्थसमाजव्यञ्जनेन प्रसादप्राचुर्यं सूचितम् । इत्थं च ‘उत्तमानां क्षणं कोपःइति वाक्येन तथासौ झटिति सुप्रसन्ना बभूवेति भावः । ततः पुत्रस्य भवत्संभोगैकसाध्यत्वादद्याहं स्वरसत एव संपादयिष्याम्येवे त्याश्वासनं नायकं प्रति द्योत्यते । अत्र मध्या सुप्रसन्ना खकीया परकीया वा नायिका। प्रहृष्टो नायकः । संभोगलेशः शृङ्गारः। स्खभावोक्तिरलंकारः ॥

 अथ यावन्निशि तदभिसरणं निरुक्ततदीक्षणमेवानुसंदधानः श्रीरामः श्रीकृष्णो वा यामचतुष्टयविश्लेषमप्यसहिष्णुः सन्खमनस्येव विलपति-

गुरुजनभयमद्विलोकनान्तः-
समुदयदाकुलभावमावहन्त्याः ।
दरदलदरविन्दसुन्दरं हा
हरिणदृशो नयनं न विस्मरामि ॥ ७ ॥

 गुरुजनेति । अहम् । हा इति खेदे । हरिणदृशो मृगाक्ष्याः सीताया राधाया वा। गुर्विति । गुरवः श्वशुप्रभृतयो ये जना लोकास्तेभ्यो भयं तत्संनिधौ प्रियवी क्षणानौचित्यसाध्वसं तथा मद्विलोकनमनुपदोक्तमन्निरीक्षणं च ताभ्यां योऽन्तःस- मुदयन्मनस्याविर्भवन्य आकुलभावो विह्वलीभावस्तमावहन्त्या दधत्याः। अनेन लज्ञाभयलालस्यवैक्लव्यं सूचितम् । अत एव-द्रेति । किंचिदुन्मीलदम्बुजम जुलम् । त्रिभागभङ्गुरमित्यर्थः । एतादृशं नयनम् । न तु नेत्रे । तेनोतरसपोष एव । न विस्मरामि । पुनः पुनः स्मराम्येव । दृढसंस्कारैरिति योजना । तस्मात्क देन्दूदयः स्यादित्यौत्कण्ठ्यं व्यज्यते । इहेव नायिका। उत्कण्ठितो नायकः । वि प्रलम्भः शृङ्गारः। लुप्तोपमालंकारः परिकरश्च । पुष्पिताग्रावृत्तम् । उक्तं हि वृत्त रत्नाकरे-‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति ॥

 ततः सायमभिसृतां सीतां श्रीरामो राधां प्रति श्रीकृष्णो वा परमप्रहृष्टः संस्त कुचावेव प्रथमं संभोगारम्भस्यालिङ्गनपूर्वकत्वेन कामशास्त्रेवा निर्णीतत्वात् ‘अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी । दशवर्षी भवेद्भौरी अत ऊध्वे रजस्वला ॥ ’ इति स्मृतेरेकादशवर्षादिवयःक्रमेण पञ्चबाणप्रेरणयैव पञ्चविधत्वं प्राप्तत्वेन वर्णयति

वदरामलकाम्रदाडिमाना-
मपहृत्य श्रियमुन्नतां क्रमेण ।
अधुना हरणे कुचौ यतेते
दयिते ते करिशावकुम्भलक्ष्म्याः ॥ ८ ॥

 बदरेति । अयि दयिते भो प्रेयसि, ते तव कुचौ वक्षोजौ क्रमेण । बदरेति । अत्रोत्तरोत्तरमहत्त्वकठिनत्वाधिक्यं ध्वन्यते । उन्नतां महतीम् । वर्तुलवाद्यनेक धनैर्गुरुतरामित्यर्थः। श्रियं शोभाम् । न हि क्रममन्तरा महत्याः श्रियो हरणम् । तेन तयोः परमनीतिनिपुणान्मन्मनोहारकखं कैमुत्यसिद्धमेवेति द्योत्यते । अप हृत्य वलाद्हीयेत्यर्थः । अधुनेदानीम् । करीति । करिणो गजस्य यः शावः पोतः। एतेन व्यामग्राह्यस्तनीखादिना शबरतरुणीखदेणुदासः । तेन पद्मिनीखें तस्यां व्यज्यते । तस्य यौ कुम्भौ कटौ तयोर्या लक्ष्मीः शोभा तस्या इत्यर्थः। हरणे यतेते यत्नं कुरुत इत्यन्वयः । एवं च लोके प्रायेण गजान्तलक्ष्म्या एव संपाद्यत्वप्रवादात्तत्संपादने निरुक्तकुचाभ्यां कृते सत्यस्यां प्रौढावस्थात्वमेव स्यात्तथा च प्रागुक्तरीतिकोऽविवेकमूलकः प्रायो मानो नैव स्यादिति किंचिदुपालम्भः खावश्योपभोग्यत्वं च सूचितम् । इह मध्यानुकूला स्वकीया परकीया वा नायिका । मुदितो नायकः । संभोगारम्भः शृङ्गारः । पर्यायविशेषोऽलंकारः । तदुक्तम् ‘पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः। पझं मुक्त्वा गता चन्द्रं कामिनीवद- नप्रभा ॥’ इति । प्रकृते तु पर्यायेणैकस्यानेकश्रीहर्तुत्वेनैवानेकसंश्रयस्तथापरश्री- हरणयतमानत्वेनापीति विशेषः ।

 अथैवं कुचवर्णनोत्तरमालिङ्गनं संपाद्य क्रमागतं चुम्बनं संपादयितुं श्रीरामः सीतां प्रति श्रीकृष्णो राधां प्रति वा तत्कपोलपालिमेव तुरीयपुमर्थापादकतुरीया श्रमप्रवृत्तियोग्योदग्दक्खेनोत्प्रेक्षते--

कपोलपालिं तव तन्वि मन्ये
लावण्यधन्ये दिशमुत्तराख्याम् ।
विभाति यस्यां ललितालकायां
मनोहरा वै श्रवणस्य लक्ष्मीः ॥ ९॥

 कपोलेति । हे तन्वि कृशाङ्गिः । एतेन निरुतगाढालिङ्गनासहिष्णुत्वेन सौकुमा र्यातिशयः सूचितः । तथा हे लावण्यधन्यै । मौक्तिकसदृशकान्या रूयाते इत्यर्थः । एतेनोत्तमतमखं द्योतितम् । तव । इमामित्यध्याहारस्तु वक्तुस्तदेकासक्तवेनानव- धानताद्योतकतया रसैपोषकवाहुण एव । तथा चाडुलिनिर्देशः प्रत्यक्षवेन तस्यां व्यज्यते । कपोलपालिं कपोलस्थलीम् । उत्तराख्यामुदक्संज्ञां दिशमेवाहं मन्ये तर्कयामीति योजना । कुत इत्यत आह--विभातीत्याद्युत्तराधैन । यस्यां कपोल- पालौ । पक्षे निरुक्तदियोि । ललितेति । ललिताः सुन्दरा अलकाघूर्णकुन्तला यस्यां सा तथा पक्षे ललिता रम्या अलका कुबेरनगरी यस्यां सा तथा । एता दृश्यामित्यर्थः । अत एव वै निश्चितं श्रवणस्य कर्णस्य । पक्षे पदैक्यम् । कुबेरस्य । ‘किंनरेशो वैश्रवणः' इत्यमरः । लक्ष्मीः शोभा । पक्षे संपत् । मनोहरा रम्य तमा । विभाति परिस्फुरतीति संबन्धः । तस्मात्कपोलचुम्बनं देहीत्याशयः। इह हेतूत्प्रेक्षा तद्धटको भन्नश्लषश्वलंकारः। शेषं तु प्राग्वदेव ॥

 एवं संपादिते सति निरुक्तरात्रावातृप्ति सकलसंभोगे रात्र्यन्तरे पुनर्लीलया प्रणयकुपितां सीतां श्रीरामो राधां श्रीकृष्णो वालक्ष्य तत्प्रसादनार्थ तत्प्रियसखीं प्रति तल्लीलापारवश्यं स्खस्य वर्णयति

नीवीं नियम्य शिथिलामुषसि प्रकाश-
मालोक्य वारिजदृशः शयनं जिहासोः।
नैवावरोहति कदापि च मानसान्मे
नाभेः प्रभा सरसिजोदरसोदरायाः ॥ १० ॥

 नीवीमिति । अयि प्रियाप्रियसखि, उषसि प्रातः प्रकाशं सौरालोकलेशमा- लोक्य दृष्ट्वा। मिथिलां पूर्वरात्रौ सुरतार्थमौत्सुक्यात्खत एव च्युतां नीवीं स्खजघ नवसनप्रम्थि नियम्य वामकरेण संरुध्य । शयनं निद्राद्यनुकूलावस्थानं जिहासोस्य तुमिच्छोः। एतादृश्या वारिजदृशः पद्माक्ष्याः । अतएव । सरसिजेति । सरसिजं कोकनदमेव प्रकृते वक्ष्यमाणसारस्यवशाद्भाह्यम् । तस्य यदुदरं मध्यभागस्तस्य सोदरा सादृश्यातिशयात्महोदरभगिनीसमा । तस्या इत्यर्थः । एतादृश्या नामेः शरीरमध्यग्रन्थेः प्रभा कान्तिः। मे मम मानसादन्तःकरणात् । पक्षे सोविशे षात् । कदापि च कदाचिदपि । नैवावरोहयपगच्छतीत्यन्वयः। नामेः स्वभावतो निम्नतमलगौरखावर्ताकारवादिना कमलमध्यगतपीतवर्णकर्णिकासाम्यानीवीनिरो धननियोजितकराङख्या रतकान्तिमण्डितलेन कोकनदीयखावभासयोग्यच्च पुनः सुरतौत्कण्ठ्यजनकलेन तद्विलक्षणप्रभानुभवस्य संस्कारदाद्यत्सूर्योदयवशाद्यनौचित्येनौत्सुक्यपौष्कल्याच्च तप्रभायाः स्मृतिद्वारा निरुक्तनायकचित्तानवरोहध्वनि तनिरुक्तनायिकाविषयकाभिलाषपरिपोषकतैवेति कदापि चेति पदैः सूचितम् । तस्मात्त्वं शीघ्रमेव तां प्रसादयेत्याशयः । अत्र मानवती प्रकृता । लीलावती तु स्मृता मध्या खकीया परकीया वा नायिका । उत्सुको नायकः । विप्रलम्भः ४ङ्गरः । लुप्तोपमा स्खभावोक्तिश्चलंकारः ।

 अथ तत्सौजन्यमुपन्यस्यति-आलीध्वित्यादिद्वाभ्याम् ।

आलीषु केलीरभसेन बाला
मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मदीयां
सौदामनीयां सुषमामयासीत् ॥ ११ ॥

 आलीष्विति । बाला । अत एव । प्रथमचरणशेषः। ममालापं मद्विलासी यमाभाषणम् । सौदामनीयां ‘तडित्सौदामनी’ इत्यमराद्विद्युत्संबन्धिनीम् । सुषमां ‘सुषमा परमा शोभा’ इत्यपि तदुक्तेर्विलक्षणचापल्येन लोकोत्तरकान्तिमित्यर्थः। अयासीदगमत् । एवं च लज्जातिशयः सूचितः। अत्र लज्जिता मध्यादिर्नायिका । शेषं तु प्राग्वदेव । उपजातिर्धत्तम् ।

मुधैव मन्तुं परिकल्प्य गन्तुं
मृषैव रोषादुपजल्पतो मे ।
उदश्रुचञ्चन्नयना नताङ्गी
गिरं न कां कामुररीकरोति ॥ १२ ॥

 मुधैवेति । व्यर्थमेव । मन्तुं ‘भागोऽपराधो मन्तुधइत्यमराद्रोषम् । उदिति । उक्तान्यशूणि याभ्यां ते तथा अतएव चवती चपले तादृशे नयने यस्याः सा तथा । अतएव नतेति । कां कामपि गिरं नोररीकरोति नैवोच्चारयतीति योजना । वर्तमानप्रयोगात्परमसुशीलवं द्योत्यते । चकारेति भूतार्थकपाठेऽपि वक्तृभाषणक्ष णाव्यवहितप्राक्क्षणावच्छिन्नत्वेन तत्सांगत्यात्तादर्थमेवेति तत्त्वम् । अत्र खि मध्ग़ादिर्नायिका । लुप्तोपमा । इतरत्सर्वं प्राक्तनमेव । उपेन्द्रवजावृत्तम् ॥

 ननु ‘मांसपाञ्चालिकायास्तु यन्त्रलोळेऽङ्गपञ्जरे । नाय्वस्थिग्रन्थिशालिन्याः ब्रियाः किमिव शोभनम् ॥’ इत्यादि श्रीमद्वासिष्ठाद्युकरीत्या श्रीमद्भिविंवेकिभिरेव भाव्यम् , किमनेन पामरजनसाधारणेन तदौत्कण्ठ्येनेति सख्याशयमाशकम साम- न्यव्याप्या तां प्रत्याह-

तदवधि कुशली पुराणशास्त्र-
श्रुतिशतचारुविचारजो विवेकः।
यदवधि न पदं दधाति चित्ते
हरिणकिशोरदृशो दृशोर्विलासः ॥ १३ ॥

 तदवधीति । श्रीराम एव हे सखि, विवेकः कुशली क्षेमशाली तदवध्येव तावत्कालमेव । न तूर्वमित्यार्थिकम् । किमवधीति तदाकाङ्कितं पूरयति—यदवधी त्युत्तराधैन। हरिणेति साभिप्रायम् । कुरङ्गशावाक्ष्या इत्यर्थः । तत्रापि दृशोः, न तु दृशः। तत्रापि विलासःन तु भासः । एतेन सानुरागापाङ्गतरङ्गितवं तत्र व्यज्यते । स यदवधि चित्ते नायकमनसि पदम् । चरणोपलक्षितं खसंचारमिति यावत् । न दधाति तदवधीत्यादि पूर्वेण संबन्धः । ननु नह्यापातिकलौकिकविवेकमात्रेण कामि- नीविषयकः कामः शाम्यत्यतो निरुक्तविवेकं विशिनष्टि-पुराणेति । उत्तरोत्तरा धिक्यध्वननार्थ शास्त्रादिग्रहः तासामपि शतं तस्यापि चारुरुपक्रमादितात्पर्यावधार णपूर्वकःन त्वापातिकः । ‘शतवारविचार-’ इति पाठे तु ‘आवृत्तिरसकृदुपदेशात् ’ इत्यधिकरणार्थं बोध्यः । एतादृशो यो विचारः प्रमाणानुग्राहकलैौकिकादियुक्त्यूह्य पोहस्ततो जायत इति तथेत्यर्थः। ईदृशोऽप्यसौ तावदेवायुष्मान्यावन्नोतकटाक्ष च्छटास्मृतिरतः सैव शीघ्र त्वया प्रसादनीयेत्याशयः । उक्तं हि-‘अनुरक्ताङ्गन- लोललोचनालोचनाकृति । खस्थीकर्तु मनः शक्तो न विवेको महानपि ॥’ इति । अत्र विवेकस्य निरुक्तजन्यतोक्त्या नित्यसिद्धविवेकाख्यसार्वभ्यशक्तेः श्रीकृष्णस्य व्युदासः सूचितः। श्रीरामस्य तु वृहद्वसिष्ठोक्तरीत्या सनत्कुमारदत्तावरणागमनशा पाङ्गीकरणलक्षणभक्तानुप्रहणादिमनुष्यनाट्यलीलानटनपाटववत्वेन तदुचितमेवेति न कोऽपि शङ्कावकाशः । इह हरिणेत्यादौ परिकराङ्करादिरलंकार एवाधिकः । पर कीयामध्यान्तरा नायिकादिकं तु सर्वे प्राग्वदेव । श्रीकृष्णे मोशवर्णनात् ॥

 अथौत्कण्ठ्यौत्कठ्याच्छीरामस्तावन्निरुक्तसखीसमक्षमेव खमनोरथं प्रथयति--

आगतः पतिरितीरितं जनैः
शृण्वती चकितमेत्य देहलीम् ।
कौमुदीव शिशिरीकरिष्यते
लोचने मम कदा मृगेक्षणा ॥ १४ ॥

 आगत इति । भो भर्तृदारिके सीते, तव पतिः श्रीरामस्त्वन्मन्दिरं प्रत्ययमा गत इति जनैः सखीजनैरीरितं कथितं वाक्यजातं श्रुण्वत्येव सती, न तु श्रुत्वा । तेनादरातिशयो द्योत्यते । अत एव चकितं यथा स्यात्तथा। देहलीम् । प्रत्युद्वमन विधया मन्दिरद्वारान्तःप्रदेशस्थलीं प्रतीत्यर्थः । एतेन मर्यादातिशयः सूचितः । एवं चकितपदेनौत्कण्ठ्यातिशयश्व। मृगेति । हरिणाक्षी जानकी । तेन लोचनयो श्चाञ्चल्याधिक्याल्लालस्योत्कर्ष व्यज्यते । कौमुदीव शरद्राकाचन्द्रिकेव मम लोचने कदा शिशिरीकरिष्यत इत्यन्वयः। एतेनाशंसाधिक्यं ध्वन्यते । अत्र पतिपदात्ख कीथैव मध्योत्कण्ठिता नायिका । स एव नायकः । विप्रलम्भः ४ङ्गारः । चपळ तिशयोक्तिः पूज़ेपमा लुप्तोपमा चालंकारः । रथोद्धतावृत्तम् । तदुक्तम्— ‘रान्न जराविह रथोद्धता लगौ, इति ॥

 नन्वेवं जानक्याः प्रत्युद्गमादिसंप्रदायः कदाचिदनुभूतः किंवा कामुकतया केवलमुत्प्रेक्ष्यत इत्याशङ्कय प्रागेवं प्रत्यहमनुभूतमेवेति श्रीरामस्तत्सखीं प्रति यथा वृत्तं निवेदयति

अवधौ दिवसावसानकाले
भवनद्वारि विलोचने दधाना ।
अवलोक्य समागतं तदा मा-
मथ राम विकसन्मुखी बभूव ॥ १५ ॥

 अवधाविति । भो सखि, तदा निरुक्तमानावस्थापूर्वकाले। रामा। रमयते सा रामा। रूपलावण्यादिभिः शरीरधमैः पातिव्रत्यादिभिर्मनोधर्मीश्च तद्वशीकरणनिपुण वैदेहीत्यर्थः। एतेनानुपेक्षणीयत्वं द्योत्यते। दिवसेति । सायंसमयरूप इति यावत् । अवधौ । ‘अवधिस्त्ववसाने स्यात्सीम्नि कालेऽपि चावधिः' इति विश्वदन्तःपुराना गमनप्रयोजकपरिसमाप्तावित्यर्थः । एतेन स्खस्य तस्याश्च धार्मिकत्वं ध्वन्यते । भव नेति । शुद्धान्तद्वार इत्यर्थः । विलोचने दधाना । नेत्रे तटस्थीकुर्वाणा सतीति यावत् । मां समागतमवलोक्य । अथ तदुत्तरक्षणावच्छेदेनेव, न तु किंचिद्विभु श्यापि। एवं च प्रीत्यतिशयः सूचितः । विकसदिति । एतेन वदनेऽरविन्दत्वं व्यज्यते । तेन तळाले तद्विकासादद्भुतरसेन लोकोत्तरानन्दो ध्वनितः । तस्मात्त्व याधुना तत्प्रसादनार्थ यतितव्यमेवेति भावः । इह स्मर्यमाणा अनुकूला वर्तमाना मानवती स्खकीया मध्यैव नायिका । उत्सुको नायकः। विप्रलम्भः ऋञ्जरः । काव्य लिङ्गमलंकारः ॥  अथ निरुकसखीं प्रत्येव श्रीरामः सीतायाः श्रीकृष्णो राधाया वा शीघ्र वी. भा० वि• ६ करणप्रयोजकस्खौत्कण्ठयद्योतकस्खविषयकतदनुरागैौकट्यमपि प्रकटयति-- वक्षोजाप्रमित्यादिभित्रिभिः

वक्षोजाग्रं पाणिनामृश्य दूरं
यातस्य द्रागाननाब्जं प्रियस्य ।
शोणाग्राभ्यां भामिनी लोचनाभ्यां
जोषं जोषं जोषमेवावतस्थे ॥ १६ ॥

 वक्षोजाग्रमिति । हे सखि, कदाचिदेकान्ते वक्षोजानं कुचाग्रम् , न तु कुचौ कुचं वा । तेन विनोदः सूचितः । पाणिना करेण । आमृश्य । ईषत्स्पृष्टे त्यर्थः । द्राक्। ब्रअल सपदि द्रुते’ इत्यमराच्छीघ्रमित्यर्थः । दूरं यातस्य तत्रापि प्रियस्य प्रीति विषयस्य तं ममेत्यर्थः। एतेन वक्ष्यमाणरोषस्य प्रणयमूलकत्वं द्योत्यते । आननाब्जं मुखचन्द्रं वदनकमलं वा। भामिनी निरुक्तचूचुकस्पर्शतः प्रोद्दीप्तका मापूर्तेः कोपना । पूर्वोक्तनायिकेति यावत् । शोणेति । अरुणकोणाभ्यामित्यर्थः । एवं च हार्दस्य कोपानेर्बहिः प्रभापि व्यञ्जिता । एतादृशाभ्यां लोचनाभ्याम्। जोषं विनोदानुसंधानात्प्रथमं सुखं यथा स्यात्तथा । ततः जोषं किमथ निकटमभिसर्तव्यं न वेति संदेहात्तूष्णीं यथा तथा । पुनः । जोषमेव किमनेनेदं मन्मदनोद्दीपनं विधाय तदपूरणमथुनं क्रियत इति धिगेनमिति मर्यादोल्लङ्घनध्वननं च यथा तथैवावतस्थ इत्यन्वयः। ‘तूष्णीमथै सुखे जोषम्' इत्यमरः । ‘जोषं सुखे प्रशंसायां तूष्णीं लङ् नयोरपि’ इति कोशान्तरमपि । यद्वा जुषित्वा जुषित्वा पुनः पुनः संसेव्येत्यर्थः। शेषं तु प्राग्वदेव । तस्मात्त्वया दूरं नैव स्थातव्यम् । किं तु तप आगत्य मद्र तिसंपूर्तिरेव विधेयेत्याशयः । अत्र क्षुब्धा मध्या स्वकीया परकीया वा नायिका । विनोदी नायकः। संभोगः शृङ्गारः। श्लेषोऽलंकारः ॥

गुरुभिः परिवेल्लितापि गण्ड
स्थलकण्डूयनचारुकैतवेन ।
दरदर्शितहेमबाहुनाला
मयि बाला नयनाञ्चलं चकार ॥ १७ ॥

 गुरुभिरिति । श्वभूप्रभृतिभिः। पूज्यैरित्यर्थः । परिवेल्लितापि । अभिव्याप्ता पीत्यर्थः । ‘परिवेष्टिता’ इत्यपि पाठः । अपिनानुरागातिशयो व्यज्यते । गण्डेति । कपोलपालिकप्पनयनलक्षणरम्यमिषेणेति यावत् । एतेन चातुर्यातिशयः सूचितः। दरैति । ईषत्प्रकाशितपैरोबैंकधृक्यनावृतभुजकनकपुण्डरीकवृन्तेत्यर्थः । एतेन सुरताभिलाषः सौन्दर्योत्कर्षश्च द्योत्यते । एतादृशी बाला निरुक्तनायिका मयि। नयनाञ्चलं लोचनपल्लवम् । संभोगदानसूचकं कटाक्षमित्यर्थः । अत्र लुप्तोपमा लंकारः । अन्यत्सर्वं प्राग्वदेव ॥

गुरुमध्यगता मया नताङ्गी
निहता नीरजकोरकेण मन्दम् ।
दरकुण्डलताण्डवं नतभ्रू-
लतिकं मामवलोक्य घूर्णितासीत् ॥ १८ ॥

 गुर्विति । अत एव । नतेति । मया । नीरजेति । कमलमुकुलेनेत्यर्थः । त्वत्कुचतोऽयं न्यूनोऽधिको वेति परीक्ष्यतामिति विनोदो द्योत्यते । मन्दं निहता । अन्यैरविज्ञातं यथा तथाभिहतेत्यर्थः । एतादृशी सती सा । दरेति । ईषत्ताटङ्क नटनं यथा तथा । नतेति ! नम्रभ्रूवल्लिकं च यथा तथेत्यर्थः । क्रियाविशेषण- द्वयेनानेन क्रमादावेगविनयौ ध्वनितौ । एवं मामवलोक्य चूर्णिता कम्पिता । एतेन किमिदमकार्यसमीक्ष्यैव प्रेक्षावद्भिरपि भवद्भिरित्याक्षेपो ध्वनितः । अत्रापि रूपकमलंकारः। शेषं तु प्राग्वदेव ॥

 एवं संप्रेरितसख्युपदेशादागतां । सीतां प्रति श्रीरामो राधां प्रति वा श्रीकृष्णः किंचिदुपालभते--

विनये नयनारुणप्रचरा
प्रणतौ हन्त निरन्तराश्रुधारा ।
अपि जीवितसंशया प्रयाणे
नहि जाने हरिणाक्षि केन तुष्येः ॥ १९ ॥

 विनय इति । अयि हरिणाक्षि, त्वयि मया विनये कृते सति तव । नय नेति । अरुणस्य शोणवर्णस्य यः प्रचारोऽरुणप्रचारः। नयनयोररुणप्रचारो यस्याः सा तथा। कुपिता भवतीत्यर्थः । तर्हि विनयकापट्यसंभवभजको नमस्कारः कार्य इत्यत्राहप्रणताविति । हन्तेति खेदे । निरन्तरेति । निरन्तरमश्रुधारा यस्याः सा तथा । रुदिता भवसीत्यर्थः । तथुपेक्ष्येत्यत आह-अपीति । प्रयाणे मया गमने क्रियमाणे सति तु । जीवितेति । जीवितस्य संशयो यस्याम् । एतादृशी संदिग्धजीवितापि भवसीत्यर्थः । अतस्त्वं केनोपायेन तुष्येः संतुष्यसीत्यहं नहि जाने नैव जानामीति योजना । एतेन मौग्ध्या धैर्यानुरागा व्यज्यन्ते । ‘प्रसाराः धाराः, संशयः, इति पाठे तु तव भवन्तीत्याद्यध्याहृत्यैव योज्यम् । शेषं कार्थमेव । अत्र मध्या संबोध्या स्वकीयादिरेव नायिका । लुप्तोपमालंकारः। उक्तमेवान्यत् ।

 इत्थमुपालम्भवाक्येन पुनः कुपितायां सीतायां राधायां वा सत्य श्रीरामः श्रीकृष्णो वा तल्पनिकट एवानरुपखिन्नत्वेन प्रसुप्तः सन्खप्ने तां तथाविधां दृष्ट्वासी प्रबुद्धः खनिकटस्थितामिव मूर्तिमतीं निद्रां प्रकल्प्य निरुतनायिकासंभाषणलाभ जनकत्वेन तां स्तौति

अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं
तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम्।
अविरलगलद्बाष्पां तन्वीं निरस्तविभूषणां
क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ २० ॥

 अकरुणेति । हे भद्रे वक्ष्यमाणनायिकासंभाषणसुखदातृत्वेन कल्याणि निद्रे , तन्वीं निसर्गकृशाङ्गीम् । प्रेयसीमित्यर्थः । एतेन प्रकृतप्रणयप्रकोपप्रकर्षप्राकट्ये प्रयुकविरहवैवश्यकार्यातिशयस्य कमुत्यसिद्धत्वं ध्वनितम् । कोऽलौकिकगुणक वेतनादिसाधारणः पदार्थः । भवतीं विना त्वामन्तरा विनिवेदयेत् । विशेषेण वक्ष्यमाणभाषणपूर्वकत्वलक्षणेन तत्रापि नितरां बहुकालम्, न तु क्षणमात्रं वेद येज्ज्ञापयेदित्यर्थः । मां प्रतीति शेषः । न कोऽप्यन्यस्त्रिभुवनेऽपीत्यार्थिकम् । ननु दृश्यत एव भवता भवश्रियाप्रायः सततमेवेति कोऽत्र मया स्खप्नतो विशेषः संपादित इत्यतस्तां विशिनष्टि-अकरुणेत्यादिना त्रिभिः। रे अकरुण । एवं च कथमेतावत्कालं मप्रसादनोपेक्षा स्वानुमानेन मन्मथव्यथाविदापि भवता भावि तेत्याक्षेपः सूच्यते । न च मया त्वत्प्रियसखीप्रार्थनशतमेव त्वत्प्रसादनार्थं कृतम् , न तूपेक्षापीत्याक्षेप्यम्। अप्रामाणिकत्वादित्याह--ऋषेति । एतेन धूर्तत्वं ध्वन्यते। सिन्धुपदेन त्रैकालिकानाश्वसनीयवचनत्वं माधुर्यगन्धविधुरत्वं च । अत एव त्वं ममाञ्चलं बलात्कारेण धृतं वसनपल्लवं विमुञ्चति संबन्धः । अहो नेहादेव मयाञ्चलो धृतः, न तु बलात्कारेणेत्यत्राह--तवेति । मया तव स्नेहः सम्य परिचित इत्यभिधायिनीं वदन्तीमिति योजना । एतेन यदि सम्यक्नेहः स्यात्तर्हि कथमेतावत्कालं विरहः सुसहः स्यादित्यादितर्कस्तर्यते । तेन परमतिः रस्कारो व्यज्यते । अतएव अविरलेति । सततस्खलदश्रुधारामित्यर्थः । एते माल्यसाधित्वं ध्वन्यते । तत्रापि ‘धनेन कान्ताम्’ इत्युक्तेर्नवभूषणसमीहाया नवोढाचेष्टात्वोतेश्च मया चूडामण्यादेर्भूषणस्य प्रदाने कृतेऽपि नैव प्रससादेति व्यनक्ति-निरस्तेति । ऋजवस्तु त्यक्तखङ्गनाभरणामिति विवरिष्यन्ति । इह कुपिता स्वीयादिर्मध्यैव नायिका । तत्परो नायकः । स्वप्नो व्यभिचारी भावः। विप्रलम्भ एव शङ्करः । परिकरकाव्यलिङ्गदयोऽलंकाराः । हरिणीवृत्तम् । तदु तम् —'रसयुगहयैन्स घ्रौ स्लौ गो यदा हरिणी तदा' इति ॥

 अथैवं प्रेयोवाक्यमाकण्यं तप्रेमदाढ्यावधारणेन सद्यः सुप्रसन्नया प्रेयस्याः सह यथेच्छं सुरतसुखमुपभुज्य प्रातः सकललानप्राकालिककृत्योत्तरं सरथं कालिन्दीं वा स्नातुमागतां सीतां राधां वालक्ष्य श्रीरामः श्रीकृष्णो वा तदर्थमेव तत्रैवागतः संस्तीरवर्तिन्यास्तस्याः खप्रियदर्शनेनातिप्रसन्नं वदनारविन्दं तथा विकासोन्मुखं नीरवर्ति कमलं प्रत्यपि मकरन्दलोभवशादुभयत्रापि धावमानां भ्रमरकिशोरस रणिमवलोक्य तन्मौग्ध्यं स्वमनस्येव वर्णयति--

तीरे तरुण्या वदनं सहासं
नीरे सरोजं च मिलद्विकासम् ।
आलोक्य धावत्युभयत्र मुग्धा
मरन्दलुब्धालिकिशोरमाला ॥ २१ ॥

 तीर इति । रे मनः, इयमलिकिशोरमाला मुग्धा भ्रान्ता भवति । तथा वं मा भव । किंतु विवेकेन स्वरमण्यानन एव संसक्तं भवेति भावः । कुतोऽस्या भ्रान्तिरवधार्यत इति चेत्तत्राह--यत इयं तीरे तरुण्याः सहासं वदनं नीरे मिल द्विकासं सूर्योदयवशात्प्राप्तसंफुल्लभावं सरोजं चालोक्य मरन्दलुब्धा सत्युभयत्रापि धावतीति संबन्धः । अत्र किशोरपदं हि भ्रमयोग्यतार्थम् । एवं च तदानने पद्मा न्यूनानतिरिक्तत्वं व्यज्यते । इह मध्या मुदिता स्खकीया परकीया वा नायिका । हृष्टो नायकः । कटाक्षादिसंभोग एव शृङ्गारः। भ्रान्त्यादिरलंकारः। यवेकस्या अलिकिशोरमालाया ऐककालिकोभयकर्मकधावनक्रियासंभवविभावनमधुजरतीया- नौचित्याचेत्तर्दास्तु कालभेदेन तद्यदा प्रथमं सौरभ्याद्याधिक्यलक्षणपश्चिमीजा- त्यधर्मतः सीतादिमुखे धावल्यसौ तदा तत्रापि नेत्रादिपञ्चवैधर्म्युघटकांशदर्शनत- स्ततः परावृत्य पुनः सरोजे धावति तत्रापि तादृक्सौगन्ध्यालाभात्ततोऽपि पुनः परावृत्य तत्र धावतीत्यतः संदेहादिरेवासाविति रहस्यम् ॥  ततः श्रीकृष्णः कुजादौ निश्यन्यां गोपयुवतिमुपभुज्य राधिकासंकेतितमालती कुजे निशीथे समागतस्तया प्रत्युद्गमनादिना सत्कृतश्च, तदनन्तरं राकाचन्द्रिकायां तमालिङ्गितुं तस्कन्धे संस्थापितापि निजभुजकल्पलतामजरी तद्वक्षसि स्वशत्रुभूत गोषयुवत्यन्तरकृतगाढालिङ्गनप्रसङ्गसंपन्नमौक्तिकस्रग्जनितत्वगादिनिकोचनचिहमव लोक्य सद्यःकुपितया तया तत्क्षणादेवाकृष्टेति कविस्तत्कोपचापल्यं प्रकाशयति--

वीक्ष्य वक्षसि विपक्षकामिनी
हारलक्ष्म दयितस्य भामिनी ।
अंसदेशविनिवेशितां क्षणा-
दाचकर्ष निजबाहुबाहुरीम् ॥ २२ ॥

 वीक्ष्येति । अत्र कामिनीत्युक्तचिह्नहेत्वर्थम् । एवं दयितपदं प्रियत्वसूचना- तदंसदेशे स्वबाहुलतानिधानयोग्यताध्वननार्थम् । तद्वद्वल्लरीपदमपि तस्यामति सौकुमार्यद्योतनार्थमेव बोध्यम् । स्पष्टमेवान्यत्। इह परकीया मध्या खण्डिता नायिका । वञ्चको नायकः । विप्रलम्भः शृङ्गारः। लुप्तोपमादिरलंकारः॥

 एवं कुपितायां राधिकायां सत्यां तत्प्रसादनार्थंमन्येद्युस्तत्सखीं समुत्कण्ठयितुं श्रीकृष्णस्तल्लीला एव सुरतादिरूपाः स्मृत्वा संवर्णयति-दरानमदित्यादिचतुर्भिः ।

दरामत्कंधरबन्धमीष-
न्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिःश्वासभरालसाङ्गं
स्मरामि सङ्गं चिरमङ्गनायाः ॥ २३ ॥

 दरानमदिति । अत्र प्रतिपद्य हे सखीति संबोधनाध्याहारो बोध्यः । अह मङ्गनायाः प्रकृताया राधिकायाः सङ्ग संभोगं चिरं स्मरामीति योजना । तत्र हेतुं द्योतयितुं विशिनष्टि-क्षुद्रेत्यादित्रिभिः। दरमीषदानमन्ती कंधरा शिरोधिः कंधरेत्यपि’ इत्यमराष्ट्रीवा यत्र तादृशो बन्धः पुरुषायिताभिधः सुरतरचनाविशेषो यस्मिस्तत्रैव तसंभवात्तमित्यर्थः । अत एव । ईषदिति । निग्धपदेनानन्दाश्रुसद्भावो व्यज्यते । किंचेतोऽपि तत्र विपरीतरतत्वमेवेति व्यनक्ति--अनल्पेति । अङ्ग शरीरम् , न तु हस्ताद्यवयवाः। तस्मादेतादृगनुपमसुखदां तां त्वं हुतं प्रसादयै त्याकूतम् । इह स्मर्यमाणा प्रमत्ता मध्या परकीयैव नायिका । प्रकृता तु कुपितैव । उत्कण्ठितो नायकः । विप्रलम्भः ष्ठङ्कारः। उक्त एवालंकारः ।

रोषावेशान्निर्गतं यामयुग्मा-
देत्य द्वारं कंचिदाख्यां गृणन्तम् ।
मामाज्ञायैवाययौ कातराक्षी
मन्दं मन्दं मन्दिरादिन्दिरेव ॥ २४ ॥

 रोषेति । कोपवेगान्निर्गतं बहिर्गतम् । ततो यामयुग्मास्प्रहरद्वयादनन्तरम् । द्वारं तन्मन्दिरद्वारमेत्यागत्य । कांचित्तत्सखीं प्रत्याख्यां निरुक्तमद्रोषकारणक थाम् । गृणन्तम् । जल्पन्तामित्यर्थः । एतादृशं मामाज्ञायैव निरुक्तशब्दलिङ्गन ज्ञात्वैव । कातराक्षी प्रकृतमद्रोषवशाद्दीतचकितलोचना राधेयर्थः। मन्दिराद्या गारादिन्द्रिरेव लक्ष्मीरिव सर्वाशरम्या मन्दं मन्दमाययावीषद्वहिराजगामेत्यन्वयः। एतेनार्जवौत्कण्ठ्यभीतिप्रीतिप्रणयादयो द्योत्यन्ते । अत्रोत्सुका मध्या परकीया नायिका । उपमालंकारः । शेषं प्राग्वत् । शालिनीवृत्तम् । तदुक्तम्-‘शालि. न्युक्ता म्तौ तग गोऽब्धिलोकैःइति ॥

हृदये कृतशैवलानुषङ्गी
मुहुरङ्गानि यतस्ततः क्षिपन्ती ।
प्रियनामपरे मुखे सखीना-
मतिदीनामियमादधाति दृष्टिम् ॥ २५ ॥

 हृदय इति । अनुषङ्गः संबन्धः। सखीनां मुखे त्वत्प्रियः श्रीकृष्णः समागत इति प्रियनामपरे सति । इयं बुद्धिस्थत्वेन प्रत्यक्षा राधिका । तत्रेत्यध्याहारः । निरुक्तसखीमुख इत्यर्थः । अतिदीनां दृष्टिमादधाति, न त्वादधाविति योजना । तेन स्वस्य रसपारवश्याद्धेतमपि तदृत्तं वर्तगानमिव भातीति ध्वन्यते । एवं च तस्या विरहलीलोत्कर्षः प्रतिबोधितः। तेनास्य सौहार्दातिशयः सूचितः । इह विरहिणी नायिका । शेषं तु पूर्ववदेव । काव्यलिङ्गमलंकारः ।

इत एव निजालयं गतया
वनितायाः गुरुभिः समावृतायाः ।
परिवर्तितकंधरं नतभ्रु
स्मयमानं वदनाम्बुजं स्मरामि ॥ २६ ॥

 इत एवेति । पुरोवर्तिदेशत एव । वैनत्ये हेतुः--गुरुभिरिति । ‘वनितायाः इति पाठस्तु सरल एव । एतादृश्या राधायाः । परीति। वलितग्रीवम् । नतेति । नते ध्रुवौ यत्र । अत एव स्मयमानं सितयुतम् । एतादृशम् । वदनेति । मुखा ब्जमित्यर्थः । एतेन हीप्रीत्यौ द्योत्येते । इह सलज्जोत्कण्ठा नायिका । लुप्तोपमा दिरलंकारः। शेषं प्राग्वत् ॥

 अथ निरुक्तसखीसमक्षमेव वसन्तागमव्यञ्जकमलयानिलाद्युद्दीपनविभवासहि- कृणुतां कथयन्श्रीकृष्णो राधिकाप्रसादनत्वरां सूचयति

कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वाताः कृतान्ताः ।
अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलौ
चुलकयति मदीयां चेतनां चञ्चरीकः ॥ २७ ॥

 कथयेति । अयि सखि, मे जीविते न तु धनादौ । तेन त्वयाधुना तत्प्रसा दने विलम्बलेशोऽपि न कार्यं इति व्यज्यते । आशा संभावनापि । तेन वस्तुत स्तत्रैव स्थास्यतीत्यतिवैक्लव्यं ध्वन्यते । कथामिव जायतामिति त्वमेव कथयेति संबन्धः । किमिति तत्संशयस्तत्राह-मलयेत्यादिना । तेन तेषु दाहकत्वानुमितं विषसंपृतत्वं ध्वन्यते । मलयाचलचन्दनसंबन्धित्वेन शीतादिमत्त्वं त्वविनाभाव सिद्धमिति बोध्यम् । अत एव विरहिणो मे । कृतान्ताः ‘कृतान्तो यमुनाभ्राता’ इत्यमरान्मृत्यवः । एतादृशा वाताः पवना वान्ति । प्रसरन्तीत्यर्थः । न केवल मेतावदेव किंत्वन्यदपि तथेति कथयति-अयमपीति । अयं प्रत्यक्षश्चञ्चरीको भ्रमरोऽपि माकन्दमौलौ प्रफुल्लाम्रशिखरे मनु मधुरं गुञ्जन्सन्मदीयां चेतनां ‘प्रतिपज्ज्ञप्तिचेतनाःइत्यमराद्विवेकसाधनीभूतां बुद्धिमपि चुलकयत्याचामति खल्विति योजना । एवं च विवेकसामर्या अप्यभावः सूचितः । तस्मात्त्वया त्वरयैवासौ प्रसादनीयैवेत्याशयः । अत्र कुपिता मध्या परकीयैव नायिका । विरही नायकः विप्रलम्भः शृङ्गारः। काव्यलिङ्गादिरलंकारः । मालिनीवृत्त मिदम् । तदुक्तम् –‘ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥

 पुनस्तल्लीलान्तरमेव श्रीकृष्णस्तत्सखीं प्रति कथयंस्तप्रसादन एव त्वरयति—

निरुध्य यान्तीं तरसा कपोतीं
कूजत्कपोतस्य पुरो दधाने ।
मयि स्मितार्द्रं वदनारविन्दं
सा मन्दमन्दं नमयांबभूव ॥ २८ ॥

 निरुध्येति । हे सखि, कदाचिद्यान्तीं पलायमानां कपोतीं “पारावतः कलरवः

कपोतःइत्यमरात्कलरवाख्यां पक्षिणीं निरुध्य कराभ्यां धृत्वा । कूजत्कपोतस्य । सुरतार्थ रुतविशेषं कुर्वतस्तद्भर्तुरित्यर्थः । पुरोऽग्रभगे दधाने स्थापयति । एता दृशे मयि सतीति यावत् । सा पूर्वप्रकृता राधिका । स्मितेति । स्मेरसुधयाति स्निग्धीकृतमित्यर्थः । एतादृशम् । वदनेति । मुखकमलम् । मन्दमन्दं शनैःशनै- र्यथा स्यात्तथा। नमयांबभूव नीचकारेति संबन्धः । एतेन तस्या अपि तास्काालि- कसुरतौत्कण्ठ्यं संपन्नमिति व्यज्यते । तस्माद्यथाधुनाप्येवं स्यात्तथा भवत्या अवश्यं भावनीयमिति भावः । इह लीलाशालिनावेव स्मर्यमाणनायिकानायकौ । प्रकृतौ तु तौ कुपितावियुक्तायुक्तावेव । विप्रलम्भ एव शृङ्गारः । यद्यपि स्मर्यमाणस्य तस्य संभोगारम्भरूपस्य संभवेऽपि वर्तमानत्वाभावात् लुप्तोपमादिरलंकारः ।

 अथैकविंशतिलोकवर्णितवदनां सीतां प्रति श्रीरामः पूर्वलोकषीत्या संप्रे षितसखीप्रार्थनशतैरभिसृतां राधिकां प्रति श्रीकृष्णो वा सायं तद्वदनस्य राका निशाकरत्वध्वननेन परितोपयति-

तिमिरं हरन्ति हरितां पुरःस्थितं
तिरयन्ति तापमथ तापशालिनाम् ।
वदनत्विषस्तव चकोरलोचने
परिमुद्रयन्ति सरसीरुहश्रियम् ॥ २९ ॥

 तिमिरमिति । अयि चकोरलोचने । एतेन त्वन्मुखस्य निष्कलङ्कत्वापरिक्षण- त्वादिना चकोरमिथुनमेव नयनच्छझनानैवागत्य विहरतीति द्योतितम् । तव वदनत्विषो मुखकान्तयः । हरितां दिशां पुरःस्थितमग्रभागवर्ति तिमिरं हरन्ती त्यन्वयः । एवं तर्हि किं मन्मुखस्य सूर्यत्वमुत्प्रेक्ष्यते । तत्त्वनुचितं तस्य ताप कत्वादस्य तु तच्छामकत्वादित्यत आह—तिरयन्तीति । अथ प्रथमप्रसारतस्ति मिरहरणानन्तरमित्यर्थः। तापशालिनां त्रिविधतापवतां न तु कामज्वरातुराणाम्। तथात्वे बहुवचनात्सामान्यवनितात्वापत्तिः । तापं तिरयन्त्यपसारयन्तीति योज ना। अथापि जीवन्मुक्तमुखमयूखेष्वतिव्याप्तिरत आह--परीति चरमचरणेन । सरसीति । कमलशोभामित्यर्थः । परिमुह्यन्ति मुकुलीकुर्वन्तीति संबन्धः । तस्मांद्धन्योऽहमद्य वदाननदर्शनेनैवेत्याशयः । अत्र मध्या स्वकीया परकीया वाभिसारिका नायिका। मुदितो नायकः । संभोगारम्भ एव शृङ्गारः। व्यङ्गय रोऽपि' इति पाठे तु मुदिरपदवाच्यमेघेन गर्जनतस्तन्निद्राभङ्गः संपादित इति नकाप्यनुपपत्तिः । तस्माद्यः पूर्वं व्यावहारिको यश्चायं प्रतिभासिकश्च मद्विघातः संपन्नस्तं त्वमेव पारमार्थिकं तत्प्रसादनं संपाद्य शामयेत्याशयः । इह विषादनम- लंकारः। तदुक्तम्-‘इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्याव- निर्वाणिस्तावदेव सः ॥” इति । शेषं तु पूर्ववदेव ॥

 ननु किमेवं भवादृशां प्रौढानामपि कान्तैकरत्या दुःखित्वौचित्यम् । उक्तं हि कविसमयेऽपि-‘विपुलपुलिनाः कल्लोलिन्यो नितान्तपतज्झरीमसृणितशिलाः शैलाः सान्द्रद्रुमा वनभूमयः । यदि परिचयो वैयासिक्यां बुधैश्च समागमः क्व पिशितवसामय्यो नार्यस्तदा के च मन्मथः ॥ इति । तस्माद्विचार एव कार्य इति वदन्त सखीं प्रति श्रीरामः श्रीकृष्णो वा समहाभारतवेदपञ्चकोपलक्षितयावच्छ- ब्दब्रह्मपरिशीलनेऽपि तत्रत्यमेकमद्वितीयव्रह्मलक्षणमर्थजातमपि तथा संतापशान्ति नैव विरचयति यथायं रतान्तश्रान्तायाः प्रकृतकान्तायाः पुनः सुरतार्थ प्रार्थने मया क्रियमाणे सति मुखमयूखसखो नकारोऽपीति प्रतिवदति-

श्रुतिशतमपि भूयः शीलितं भारतं वा
विरचयति तथा नो हन्त संतापशान्तिम् ।
अयि सपदि यथायं केलिविश्रान्तकान्ता-
वदनकमलवल्गत्कान्तिसान्द्रो नकारः ॥ ३३ ॥

 श्रुतीति। अत्र संतापशान्ति विरचयतीत्युत्तरार्धेऽप्यनुकर्षणीयम् । वदनेति । वल्गन्त्यान्दोलनेन चलन्ती या कान्तिः प्रभा तया सान्द्रः । निबिड इत्यर्थः । एता- दृशो नकारोऽपीति योज्यम् । कान्तिवशीकृते चक्षुषि नकारग्रहणे श्रोत्रस्य प्रवृत्त्य- वसरशून्यतैव संपद्यत इति सान्द्रपदेन द्योत्यते । एवं तथापदेन सपदिपदेन च मय्यप्युक्तरीत्या श्रुत्यादिकं निर्विषयानन्दप्रदत्वेन संतापशान्ति त्यागयोगादिसा- धनपरिपाकतस्तनोयेव तथा सद्यस्तारक्साधनमन्तरेव विषयानन्दप्रदानेन नैव संतापशान्ति तनोतीति योयते । अत्र पूर्ववदेवेतरद्विना रतश्रान्तनायिकाप्रती- पविशेषालंकारौ ॥ अथैवं सूचनतः सत्वरा सखी सामान्यतः कारणानभिज्ञेव सीताया राधाया वा निरुकरोषवैवश्यजातविरहकृतपाण्डिमानं तां प्रत्येव वर्णयन्ती तत्प्रत्युत्तराकाङ्क्षां व्यनक्ति

लवलीं तव लीलया कपोले
कवलीकुर्वति कोमलत्विषा ।
परिपाण्डुरपुण्डरीकखण्डे
परिपेतुः परितो महाधयः ॥ ३४ ॥

 लवलीमिति । अयि सखि, तव कपोले कोमलत्विषा । एतेन रोषराहित्यं तत्काले ध्वनितम् । लवलीं लीलयैव न खायासेन कवलीकुर्वति असति सति । परीति । अतिसितावदातजलजपुञ्ज इत्यर्थः । महाधयो महामनोव्यथाः परितः सम- तात्परिपेतुः संनिपेतुरिति संबन्धः । तस्मात्किमेतत्कारणमित्युत्तरं देयम् । उत्त- रिते च श्रीरामादिविरहरूपे कारणे मया तन्मार्जकोपायः समुपदिश्येतेयाशयः । अत्र विरहिण्येव स्वकीया परकीया वा मध्या नायिका । विप्रलम्भशृङ्गारः। काव्यार्थापत्तिरलंकारः । अत्र मालभारिणीसुन्दर्योर्मलनादुपजातिविशेषो वृत्तम् ॥

 तत उत्तरानवाप्तौ सीतासमक्षमेव तत्सखीं प्रति सति निकटवर्तिनि श्रीरामे तदवलोकनसंकोचादिकं वर्णयति-

यौवनोद्भवनितान्तशङ्किताः ।
शीलशौर्यबलकान्तिलोभिताः ॥
संकुचन्ति विकसन्ति राघवे
जानकीनयननीरजश्रियः ॥ ३५ ॥

 यौवनेति । हे सखि जानकीति । सीताक्षिपद्मलक्ष्म्यो राघवे विषये । यौव- नेति । अतः संकुचन्ति। शीलेति । अतो विकसन्तीत्यन्वयः । एवं च तदनवलो- कनेऽपि तत्सिद्धवत्कारः प्रसादनोपाय एवेति भावः । इह कुपिता मध्या खकी- यैव नायिका । अनुकूलो नायकः । विप्रलम्भादिः शृङ्गारः । रूपकादिरलंकारः ॥

 एवं विनोदतोऽप्यप्रसन्नायां जानक्यां सैव सखी पूर्वोक्तामेव तत्सखीं प्रत्यस्या एव परिहासान्तरमाचरन्ती सती श्रीरामस्यानन्तकल्याणगुणादिकरणत्वं व्यनक्ति---

अधिरोप्य हरस्य हन्त चापं
परितापं प्रशमय्य बान्धवानाम् ॥
परिणेष्यति वा युवा त्विदानीं
निरपायं मिथिलाधिनाथपुत्रीम् ॥ ३६॥

 अधिरोप्येति । हे सखि । हन्तेति खेदे। तु पुनः । एतेनेयं सीता तावत्पूर्व

श्रीरामेणोकरीत्या परिणीतैवैका जनककन्यकेति ध्वनितम् । इदानीं वर्तमानकाले, न तु कल्पान्तरे। तेनोक्तावतारस्य पुनः संभवेऽपि न क्षतिः । युवा यः कश्चिद्रामा- तिरिक्तो राजकुमारः। हरस्य शिवस्य चापं कार्मुकमधिरोप्य सज्जीकृय। तथा बान्ध- वानां वसंवन्धिन परितापम् । कथमेवं दुर्घटो विदेहपणः कुमारेण पूरणीय इति संतापमित्यर्थः । प्रशमय्य क्षणमात्रेण दूरीकृत्य । तत्रापि निरपायं निर्बाधं यथा स्यात्तथा । एतेन युद्धादिव्युदासो ध्वन्यते । मिथिलेति । अन्य कांचिज्जनकक- न्यकामिति यावत् । न तु पार्थिवीम् । एतस्यास्तु प्रागेव भगवता श्रीरामेण तथो- द्वहनात् । परिणेष्यति वोद्वहिष्यति किम् । अपि तु नैवोद्वहिष्यतीत्यन्वयः । तस्मात्तादृग्गुणमणिगणमहार्णवः श्रीमत्किरणमालिकुलतिलकः श्रीरामचन्द्र एवेति तत्रापीयमेवमुदासीनेति पृथ्वीजन्यत्वेनौचित्येऽपि विदेहनन्दिनीत्वेनानुचितमे- वेपि तत्त्वम् । ‘युवा न वायम्' इति पाठे त्वयं प्रत्यक्षः श्रीरामो नैव परिणेष्यति तथाप्यन्यः कश्चिद्युवा परिणेष्यति वेति काक्वा व्याख्येयम् । शेषं तु प्राग्वदेव । इह परिकराङ्कुर एवालंकारः । शेषं प्राग्वदेव ॥

 अथोक्तसखीवाक्यमाकर्त्य पतिव्रतासीमन्तभूषणीभूतया सीतया निरुकपरिहा- सासहिष्णुत्वेन रोषोत्कर्षतः कम्प एव संपादिते सति पुनरपि सैव सखी प्राग्व- देव तत्सख्यन्तरं प्रति तद्विनोदमेव कुर्वन्ती सती तन्मौग्ध्यं ध्वनयति-

भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः ॥
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥ ३७ ॥

भुजेति । हे सखि, इयं जानकी वरेण श्रीरामेण । नवेति । नूतनोद्वाहिता । वधूर्जाया । अत एव । रहसि । भुजेति । बाहुद्वन्द्वरूपसारिकादिपक्षिरोधककाष्ठगृह इत्यर्थः । गृहीतालिक्विता । तत्कालेति । अकस्माद्वागुरागतेत्यर्थः । तत्रापि बालेति । नूतनहरिणीव नितरां वेपते कम्पत इत्यन्वयः । तस्मान्मध्याया एतस्याः परम- सुखनिधाने भगवति विलासप्रधाने श्रीरामे रतिं प्रार्थयति सति नववधुरिव निरुक्त- दृष्टान्तेन मृत्युपाशग्रस्तत्वारोपमिव मत्वा कम्पाद्याविष्करणमयुक्तमेवेत्याकूतम् । इहोपमालंकारः । अपरं तु सर्व पूर्ववदेव ॥ |

 एवं शिथिलप्रयत्नाः सीताया राधाया वा सखीरालक्ष्य श्रीरामः श्रीकृष्णो वा स्मरज्वरातुरो नायिकातत्सखीसमक्षमेव मुक्तकण्ठं संजातसकलविवेककुण्ठं च शोचवि--

उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता ।
तदपि न हा विधुवदना मानससदनाद्बहिर्याति ॥ ३८ ॥

 उपनिषद् इति। हेति शोकारावसूचकम् । मयेति कत्रध्याहारो वक्तुर्विरहपार- वश्यावद्योती । उपेति । परिपीतेति प्रमादो व्यज्यते। पेयवद्धृदये निहितेति यावत्। हन्तेति खेदे । गीतापि । सुतसंहितोक्तव्रह्मगीतापीत्यर्थः । शिवादिगीतयोरुक्तकथो- तरकालिकत्वात् । एवं च श्रुतिस्मृत्युभयवैफल्यमेव जातमिति द्योतितम् । तदपी. त्यादि सरलमेव । न यातीति संबन्धः । मनः सदा चन्द्राननामेव चिन्तयतीति तात्पर्यम्। तरुणीनां हि मन्दिराद्वहिर्याने सखीसुमङ्गलीसलिलसुमनःशशाङ्काद्यपेक्षैव निमित्तं प्रायः । तत्तूपनिषद्गीतामानसविधुपदैरेव श्लेषादिना सिद्धमेवेति युक्त एवो- कतदभाव इति । अत्र वकीया परकीया वा मध्या क्रुद्धा नायिका। विरहविकलो नायकः । विप्रलम्भः शृङ्गारः । विशेषोक्तिरलंकारः । तदुक्तम्-‘कार्याजनिर्विशे. षोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरदीप ज्वलत्यपि ॥” इति ॥

 इत्थं श्रीरामस्य श्रीकृष्णस्य वा मारशरप्रहारपारवश्यजन्यशोकमाकलव्य सीतां राधां वा तत्सखी बलात्स्वकरे गृहीत्वा तत्सविधं निन्ये । ततोऽपि सातिमानव- शान्नैव प्रससादेति कविर्वर्णयति--

अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् ।
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥ ३९ ॥

 अकरुणेति । सा विकला। अत एवालीजनस्य कराम्बुजमादाय । खकरेणाव- लम्ब्येत्यर्थः । अकरुणेति । एतावत्कालमुपेक्षकत्वात्। एतेन सख्यादिद्वारा प्रार्थने कारितेऽपि त्वया साक्षात्प्रणत्यादिना तन्नैव कृतमिति द्योतितम् । तर्हि त्वयाप्युपे- क्ष्यतां तत्रा–प्रियतमेति । तह्यलिङ्गय । नेत्याह-मुञ्चामीति । अहमितः परं त्वां मुञ्चामि तथाहमपि नैवास्मीति संबन्धः । त्वद्वियोगान्नैव जीवामीति रहस्यम् । एवं चैतावत्कालं मया प्रतीक्षितम् । इतःपरे तु मदभिलषितसत्काराभावादहं पञ्च प्राणानेव पञ्चबाणसात्करोमीति व्यज्यते । हे प्रियतम, इतःपरमहं त्वां मुञ्चामीति योजनं त्वकरुणहृदयेति संबोधनरहस्यानवधान निबन्धनमेव । इति निरुक्तप्रका- रेण । आलपति भाषत इत्यन्वयः । बुद्धिस्थत्वाल्लट् । इह रूपकादिरलंकारः । शेषं तु प्रागैवदेव ॥ अथैवं श्रीकृष्णे राधिकाप्रसादे नैराश्यमापन्ने ततोऽन्यत्र गते च सति तत्सखी तावदन्येद्युस्ता प्रति भेदाख्योपायान्तरमारचयन्ती तेन गोपतरुण्यन्तरप्रीतिः संपा- दितेति निवेदयति लोभादित्यादिद्वाभ्याम्-

लोभाद्वराटिकानां विक्रेतुं तक्रमक्रममटन्त्या ।
लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ ४० ॥

 लोभादिति । अयि सखि राधिके, अद्य वराटिकानां कपर्दिकानां लोभात्तक्रं विक्रेतुमक्रमं यथेच्छमटन्या भ्रमन्त्या। गोपेति । ‘कैशोरमापञ्चदशम्' इति वचना- त्वत्तुल्यवयस्त्वं तस्यामप्यस्तीति न त्वया श्रीकृष्णप्रात्याशा कार्येति द्योत्यते । मध्येरथ्यं रथ्याया गोकुलप्रतोल्या मध्य इत्यर्थः। ‘रथ्या प्रतोली विशिखा' इत्यमरः। महेन्द्रेति । इन्द्रनीलोख्यरत्नविशेषः श्रीकृष्णरूपो लब्धः प्राप्त इति योजना । त्वया वसावाप्तोऽप्यपहारित इति तत्त्वम् । अत्र परकीयैव मध्या प्रकृता खिन्ना अप्रकृता मुदिता च नायिका । तथैव नायकोऽपि । विप्रलम्भसंभोगाख्यौ शृङ्गा- रावपि । प्रहर्षणविशेषोऽलंकारः। उक्तं हि-वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः ॥' इति । एवमक्रममित्यादौ खभावोक्तिर्महेन्द्रेति रूपकातिशयोकिरपि ॥

रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम् ।
शिव शिव सुदृशः सकले जाता सकलेवरे जगत्यरुचिः ॥ ४१ ॥

 रूपेति। ततस्तस्याश्चन्द्रादियावद्र्पविषयका रुचिरेव संपन्ना । तां निरसितुं हरिमुखस्य लावण्यम्, न तु सौन्दर्यम् । तेन हि लवणस्य भावो लावण्यं लवणमेव लावण्यमिति व्युत्पत्तितः श्लेषो विवक्षितः । तथा चारुचिनिरासार्थ लोके सैन्ध- वादि क्षारावादनं क्रियत इति प्रसिद्धमेव। न चात्र हरिमुखस्य लावण्यमिति रस- यन्त्या इति च मुखसंबन्धि घर्मस्य क्षारत्वाद्वाभ्यार्थध्वननापत्तिरिति सांप्रतम् । तस्य तु प्रकृते पूर्वपद्यवर्णितवराटिकालुब्धगोपकिशोरीकर्तृकतक्रविक्रयाक्रमानवश- संपन्नरथ्यान्तःकृष्णरूपमहेन्द्रनीलमणिलाभलक्षणार्थस्य परमानुकूल्यात् । अतएव गोपकिशोरीत्वेन मौग्ध्यान्मधुरारोचकनिरासे तक्रादिवद्रसयन्त्या आखादयन्त्यो । चक्षुश्चषकाभ्याममृतवत्पिबन्त्या इति यावत् । अत एव सुदृशः । शिव शिवेति खेदे। सकलेवरे खदेहसहिते सकले जगत्यप्यरुचिरेव जातेति संवन्धः । एतेन तस्या जीवन्मुक्तिरेव संपन्ना, त्वं शोकाकुलैव तु मौग्ध्येनेति ध्वनितम् । तस्मादद्यापि विचारः कार्य इति तात्पर्यम् । इह विषादनादिरलंकारः । शेषं तु पूर्ववदेव ॥  एवमुपायेनाभिसृतां राधिका प्रति श्रीकृष्णः स्तौति-

किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति ।
तद्यदि पतति हुताशे तदा हताशे तुलां तवारोहेत् ॥ ४२ ॥

 किमिति । हे राधे, त्वम् । हन्तेति खेदे। ममाङ्गं सुवर्णवर्णमिति मुग्धतया मौढ्येन किं जल्पसीयन्वयः । तत्र हेतुः- तदिति । तेति । हता नष्टाशा उकोपमाभिलाषो यस्यास्तत्संबुद्धौ । तत्सुवर्ण यदि हुताशेऽग्नौ पतति तदा तव । अङ्गस्येति शेषः । तुलामारोहेदिति संबन्धः । एवं च तप्तमेव काञ्चनं त्वदङ्गसमं न त्वन्यदित्याकूतम् । 'न वारेहेत्' इति पाठे तु तदापि तुलामारोहेन वेति संशय एव । हुताशपदेन तत्र तपो व्यज्यते । इह परकीयाभिसारिका मध्या नायिका । अनुकुलो नायकः । प्रतीपविशेषोऽलंकारः। संभोगारम्भः शृङ्गारश्च ॥

 एवं महाप्रयत्नेन संपन्नसङ्गयोः श्रीकृष्णराधिकयोः परस्परावलोकनोत्सवं कविः स्तौति-

औत्सुक्यात्परिमिलतां त्रपया संकोचमञ्चतां च मुहुः ।
नवसंगमयोर्यूनोर्नयनानामुत्सवो जयति ॥ ४३॥

 औत्सुक्यादिति । नवेति । भूरिकालोत्तरसंपन्नत्वेन नूतनः संगमो ययोस्तौ । तयोरित्यर्थः । अल्पकालेऽपि तत्त्वं तु परस्परविरहपरितापातिशयादेव बोध्यम् ।। एतादृशयोयूंनोस्तरुणयोः । राधाकृष्णयोरित्यर्थः । सरल एव चरमचरणः । बहुत्वं तूभयसंबन्धित्वादेव । जये हेतुः औत्सुक्यादित्यादिविशेषणाभ्याम् । कदा रहः सङ्गः स्यादित्यन्योन्यौत्कण्ठ्याद्धेतोरिति यावत् । परिमिलतां परितः सकलकिरणप्रेर- णेन समन्ततो मिलन्ति संश्लिष्टीभवन्तीति तथा। तेषामित्यर्थः । तथा नवत्वादेव। त्रपया हिया संकोचमञ्चताम् । स्वीकुर्वतामित्यर्थः । मुहुरित्युभयत्रापि योज्यम् ।। एवं चोकावलोकने लोकोत्तरत्वं व्यज्यते । इह काव्यलिङ्गादिरलंकार एवापरः । इतरतु सर्व पूर्ववदेव ॥

 अथ राधिका स्वसौन्दर्याद्युत्कर्ष द्योतयन्ती सामान्ययुवनिदर्शनतः श्रीकृष्णवि- नोदं व्यनकि-

गरिमाणमर्पयित्वा लघिमानं कुचतटात्कुरङ्गदृशाम् ।
स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ ४४ ॥

 गरिमाणमिति । निर्विवेकाय यूनां धैर्याय ते नम इति योजना । अत्र प्रकृत-

धैर्यस्यान्यदीयत्वेनाप्रत्यक्षत्वेऽपि युष्मच्छब्दचतुथ्र्येकवचनादेशप्रयोगस्तु वक्रयाः स्वलावण्यादिगर्वप्रमादादेव बोध्यः । निर्विवेकत्वे हेतुः शेषेण । गरिमाणं स्वनिष्ठाच- लत्वमहत्त्वादिधर्मम् । अर्पयित्वा कुरङ्गदृशां कुचतटाय दत्त्वेत्यर्थत एव फलति-- कुरङ्गेति । कुचेति । लघिमानं तदपेक्षयापि लघुत्वम् । स्वीकुर्वत इति योजना। अयमाशयः–यदैव तरुणानां मनस्यस्या मृगाक्ष्याः कुचौ कनककमलकोरकाकारा- विति तन्महत्त्वविषयको विकारः संपद्यते तदैव महत्त्वभङ्ग इति । एतेन मत्कुच- सौन्दर्यदर्शनेन सुदर्शनकरोऽपि त्वं मोहितोऽसीयहमेव धन्येति ध्वन्यते । अत्र सौन्दर्यगर्विता मध्या परकीयैव नायिका । अनुरक्तो नायकः । संभोगः शृङ्गारः । परिवृत्तिरलंकारः । तदुक्तम्-‘परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । जग्रा- हैकं शरं मुक्त्वा कटाक्षान्स रिपुश्रियम् ॥” इति ॥ एवं विनोदेन परितुष्टः श्रीकृष्णोऽपि राधिका स्तौति न्यञ्चतीत्यादिद्वाभ्याम्---

न्यञ्चति वयसि प्रथमे समुदञ्चति तरुणिमनि सुदृशः ।
दधति स्म मधुरिमाणं वाचो गतयश्च चारुतां च भृशम् ॥ ४५ ॥

न्यञ्चतीति । हे राधे, सामान्यतः सुदृशः सुन्दर्याः प्रथमे बाल्याख्ये वयसि न्यच्चति न्यग्भावं हासे गच्छति सति । तथा तरुणिमनि यौवने समुदञ्चति सम्यक्प्रकाशमाने च सति । वाचो वाण्यः । अर्थात्तस्या एव । मधुरिमाणं दधति स्म धारयामासुरेव। तथा गतयोऽपि मरालदन्तावलादिवत्सविलाससालसगमान्यपि। भृशं चारुतां रम्यतां दधति स्मेयनुकृष्य योज्यम् । ‘विभ्रमाश्च' इति पाठे विलासा अपीत्यर्थः । तथा च गतिमाधुर्यं तु प्राग्वदेव। विलासमाधुर्यं तु सकलयुववशी. कर्तृत्वं बोध्यम् । तस्मात्रैलोक्यसुन्दर्यास्तव तु वागादौ तत्कैमुत्यसिद्धमेवेति भावः । तेनैवमेव विनोदोक्तयस्त्वया भूयो वक्तव्या इति द्योत्यते । परिकराङ्कुरोऽलंकारः ॥

निःसीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम् ।
अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ॥ ४६॥

 निःसीमेति । निःसीममनन्तं शोभासौभाग्यं यस्य । अमितसुषमैश्वर्यमित्यर्थः । एतादृशं तन्वयाः कृशाझ्या नयनद्वयम् । स्पष्टमन्यत् । उत्प्रेक्षालंकारः । अन्य- दुभयत्रापि प्राग्वदेव ॥ ।

 अथैकोनचत्वारिंशच्छोकोक्तरीत्या सीतयातीव रति निराशतां नीतः श्रीरामस्त- त्समक्षमेव तत्सखीं प्रागनुभूतं तच्छीलोत्कर्षम् , पूर्वोक्ताव्यवहितश्लोकद्वयेन वाग्गतिनेत्रैकवर्णनेनेतरगुणावयवानामवर्ण्यत्वं मनस्युरप्रेक्ष्य कुपितायां राधिकायां सत्य तत्सान्त्वनध्वननार्थं तत्सखीं प्रति श्रीकृष्णो वा तच्छीलविशेष वर्णयति-

गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्विहन्तुकाम माम् ।
रदयन्त्रितरसनाग्रं तरलितनयनं निवारयांचक्रे ॥ ४७ ॥

 गुरुमध्य इति । मार्तिकेति । मृत्तिकाया इमानि तानि च तानि शकलानि चेति तथा तैः। मृल्लोष्टखण्डेरित्यर्थः ।रदेति । रदैर्दन्तैर्यन्त्रितं घृतं रसनाग्रं जिह्वाग्रं यस्मिन्कर्मणि यथा भवति तथेत्यर्थः । स्वभावोक्तिरियम् । एवं तरलितेत्यपि । यथाश्रुत एवान्वयः । एवं च लज्जाभये व्यज्येते । तस्मान्मौग्ध्य इयमेवं मर्यादा- शीलाभूत , अधुना तु मध्यावस्थायां ततोऽप्याधिक्येनैव भाव्यम् । तदपहाय विवेकैकमूलकं क्रोधादिकमेवेयं कलयतीति तत्र मद्देवमेव प्रयोजकमित्याकूतम् । इह स्वकीया परकीया वा स्मयमाणा लज्जादिमती, प्रकृता तु क्रुद्धा मध्यैव नायिका । कामुकः खिन्नश्च नायकः । विप्रलम्भ एव शृङ्गारः । लुप्तोपमा काव्यलिङ्ग खभा- वोक्तिश्चालंकारः ॥

 ततो रसरभसाद्विरहकातरेण श्रीरामेण सीता श्रीकृष्णेन राधिका वा यदि त्वं नैव प्रसीदसि तर्हि गच्छाम्येवाहम् , तथाप्येकवारं चरममिदमालिङ्गनं देहि इति वदता बलादेवालिङ्गिता सती तादृगाश्लेषादिमाहात्म्येनैव सद्यः प्रससादेवि कविर्वर्णयति--

नयनाञ्चलावमर्श या न कदाचित्पुरा सेहे।
आलिङ्गितापि तस्थौ साङ्ग सा गन्तुकेन दयितेन ॥४८॥

 नयनेति । या नेति । नेत्रकोणसूचितरतिपरामर्शमपीत्यर्थः। एतेन मानाद्य- तिरेकः सूचितः । पुरा कदाचिदपि न सेहे नैवासहत् । किंतु कुपितैवासेत्यर्थः । सा गन्तुकेन जिगमिषुणा दयितेनालिङ्गितापि न तु दृष्टा साङ्गमङ्गैर्भुजप्रसारणकु- चौन्नत्यकरणादिरूपैः साधनैः सहितं यथा भवति तथा । एतेन प्रसादो द्योतितः । तस्थाविल्यन्वयः । तस्मादलौकिकं काममाहात्म्यमिति तत्त्वम् । आलिङ्गितापि जोषं तस्थौ सा' इति पाठे तु जोषं सुखं यथा स्यात्तथा तस्थावियर्थः । अत्र गन्तुकपदं सहेतुकम् । इह मुदिता खकीया परकीया वा मध्यैव नायिका नायकश्च । संभोगः शृङ्गारः । परिकरोऽलंकारः ॥  एवं श्रीरामेण सीतायाः श्रीकृष्णेन राधाया वा ज्ञातेऽप्युक्तचेष्टया प्रसादे स्पष्टे मिष्टभाषणादिना तस्यादृष्टवात्तद्दार्थ्यपरीक्षणार्थं सत्यप्रतिज्ञत्वेन तत्कालमेव चुम्ब- नायकृत्वैवान्यत्र गमने कृते सति संभोगारम्भार्धभङ्गवशादतुलकामाकुलया तयैव तदानयनार्थं प्रेषिता खसखी तं प्रति तदवस्थां कथयति-

मानपराग्वदनापि प्रिया शयानेव दयित करकमले।
उद्धेल्लद्भुजमलसग्रीवाबन्धं कपोलमाधत्ते ॥ ४९ ॥

 मानेति । हे दयित । मत्सखीप्रियेत्यर्थः । प्रिया । तावकीति शेषः । रत्यु- त्पादनायेदं पदद्वयम् । मानेति । शयानेव । एतेनातिशैथिल्य सूच्यते । करेति । खहस्तपद्म इति यावत् । उद्वेल्लदिति । उद्वेल्लनुत्कर्षण वक्रीभवन्भुजो येन तम् । एतेनोक्तशैथिल्यमेव पोषितम् । अलसेति । अलसस्तत्सूचकारशाली ग्रीवाबन्धो (न्धः) के (कः) स्थिति विशेषो येन तम् । एतादृशम्। स्पष्टमितरत् । तस्मात्त्वयास द्रुतमुपगन्तव्येति तात्पर्यम् । अत्र निरुक्तावस्थया चिन्तातिशयो व्य(ज्येते) इह विरहिणी खकीया दिरेव नायिका । चतुरो नायकः । विप्रलम्भः शृङ्गारः। उपमादिरलंकारः ॥

 एवं सखीवचनं श्रुत्वा श्रीरामः सीतां श्रीकृष्णो वा राधामभ्युपगम्य तां स्तौति--

लोचनफुल्लाम्भोजद्वयलोभान्दोलितैकमनाः ।
कस्तुरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥ ५० ॥

 लोचनेति । अयि प्रिये, अयं प्रत्यक्षः। तव अलिके। ललाटमलिकम्” इत्यम- राल्ललाट इत्यर्थः। कस्तूरीति। मृगमदविशेषकमिषादिति यावत् । अलिभ्रमर उल्लसति मन्मनसि प्रतिभातीत्यन्वयः । तत्र हेतुः-पूर्वधैिन । लोचने त्वचेचे एव फुल्ला- म्भोजे विकसितासिताब्जे तयोर्यद्वयं तत्रान्दोलितं किं तत्र गन्तव्यमत्र वेति संदेह- दोलाधिरूढमेकं मनो यस्येति तथा। एवं चोभयत्राप्याशापाश पारवश्यान्मध्य एवा- वस्थित इति यावत् । एतेन तात्कालिकप्रसन्नदृष्टित्वं तस्यां ध्वनितम्। तत्र च खोप- गम एव हेतुरिति द्योत्यते । अत्र प्रसन्नैव स्वकीया परकीया वा मध्या नायिका । अनुकूलो नायकः । संभोगारम्भः शृङ्गारः । कैतवापत्यादिरलंकारः ॥ .

 अथैवं स्तुतावप्यत्र ‘भोः प्रिये, अयि प्रेयसि, हे कान्ते, इत्यादि संबुद्ध्यभावा- द्वाक्यस्य सामान्योक्यापत्तेः पुनरपि रोषवशायां सीतायां राधायां वा सत्यां सख्या बलादेव तल्पे निद्रापितायामपि श्रीरामः श्रीकृष्णो वा नवोढानिदर्शनेन तत्सखीं प्रति ब्रूते-

अधिरजनि प्रियसविधे कथमपि संवेशिता गुरुभिः ।
किं भवितेति सशङ्क पङ्कजनयना परामृशति ॥ ५१ ॥

 अधिरजनीति। हे सखि,काचिन्मुग्धा गुरुभिः श्वश्रूप्रभृतिभिः। प्रौढस्त्रीज- नै रित्यर्थः । अधिरजनि । रात्रावित्यर्थः । प्रियेति । तत्कान्तान्तिक इत्यर्थः । कथ- मपि यथाकथंचित् । अतिबलात्कारेणेत्यर्थः । संवेशिता निद्रापिता । अत एव । उत्तरार्ध सरलमेव । इतः परं किं भविता सुरतस्य जन्मप्रभृति कदाप्यननुभूतवा- कथै भविष्यतीति सशङ्क संशयसहितं यथा स्यात्तथेत्यर्थः । पङ्कजेति । रात्री कमलानां मुकुलीभावाद्भीत्यादिना मुकुलितनेत्रा सती परामृशति यथा मनसि विचारयति तथेयमपीत्यर्थः । एतेनोपहासः सूचितः । तस्मादतीतकैशोर्यायास्त्व- द्वयस्याया अस्या इदमनुचितमेवेत्याकूतम् । अत्र कुपिता नायिका परकीयादिरेव । खिन्नो नायकः । विप्रलम्भः शृङ्गारः । काव्यलिङ्गादिरलंकारः ॥

 ततस्तस्यां रजन्यां तथैव गतायां सत्यामन्येद्युरपि प्रदोषे काचित्परमप्रियव- यस्या सीतां राधां वा प्रतिबोधयति-

चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा ।
एतत्वां प्रति वेदयामि मम चेदुक्ति हितां मन्यसे
मुग्धे मा कुरु मानमाननमिदं राकापतिजैष्यति ॥५२॥

 चिन्तेति । योजनं तु यथाश्रुतमेव । कामस्य सचिन्तत्वं वन्मानापनोदस्य दुःसाध्यत्वाद्बोध्यम् । इदमेव सख्यादावपि । आस्वामियं वार्ता । बाहुल्यवशादी- दास्यं द्योत्यते । तृतीयपादेनापक्षपातित्वं ध्वन्यते । किं तदित्यत्राह-मुग्धे इति चरमचरणेन। राकेति । पूर्णचन्द्रः । माने हि त्वन्मुखे रोषकषायवशात्सकलङ्कोs- प्यसविप्रसन्नमिदं खप्रसादतः पराभविष्यत्येवेति भावः। एतेन भूरिकालमयमेताह- शमवसरं लक्षीकृत्य परिभ्रमति, अतोऽसावस्मै त्वया नैव देय इति तत्सौन्दर्यस्तो व्यज्यते । एवं मनसिजसखीप्राणेशपदैः स्थूलसूक्ष्मशरीरद्वयाधिष्ठातृणामेतेषां परि- तोष एव श्रेयस्कर इति द्योत्यते । तस्माहुतमभिसर्तव्यमेवेयाकूतम् । अत्र मानवती स्वकीयादिरेव नायिका । प्रतीप विशेषः काव्यलिङ्ग चालंकारः । शेषं तूकमेव ॥  एवं सख्योपदिष्टाप्यप्रसन्ना सीता राधा वा श्रीरामेण श्रीकृष्णेन वा विनोद्यते--


अलंकर्तुं कर्णोभृशमनुभवन्त्या नवरुज
ससीत्कार तिर्यग्वलितवदनाया मृगदृशः।
कराजव्यापारानतिसुकृतसारान्सयतो
जनुः सर्वे श्लाघ्यं जयति ललितोत्तंस भवतः ॥ ५३॥

 अलंकर्तुमिति हे ललितोतंस, लालित्यं प्रकृतप्रियाकर्णस्थितत्वादेव बो- ध्यम् । पृथक्पदं वेद्यम् । एतेन जडोऽपि रत्नावतंसो यत्कर्णस्थितत्वेनैव ललितोऽभूत्त- यातिप्रीत्या हृद्यालिङ्गितोऽहं चेतनोऽपि ललिततमो नायकः किं न भविष्यामीत्याकूतं द्योत्यते । भवतस्तव सर्व न तु यत्किंचित् । तेन तव सकलजन्मसाफल्यं वक्ष्यमा- णव्यापारानुभवादेवेति व्यज्यते । ततो मम तु न तथेतीष्यपि सूच्यते । जनुः । ‘जनुर्जननजन्मानि' इत्यमराजन्मेत्यर्थः । श्लाघ्यं पूज्यं जयति सर्वोत्कर्षण वर्तत इत्यन्वयः । तत्र हेतुस्रिपाद्या । कर्णावलंकर्तु भूषयितुम् । नवरुजं नवा कर्णवेधादि- जन्यत्वेन नूतना चासो रुक्चेति तथा । तामित्यर्थः। भृशं न तु यत्किंचित् । तेन तज्जन्यदुःखेऽप्यलंकारधारणादौ तरुणीनां प्रायो नैसर्गिक्येवाभिरुचिरिति खभावो- क्तिāन्यते । अनुभवन्त्या न तु शृण्वन्त्याः स्मरन्त्या वेत्यर्थः। एवं वक्ष्यमाणव्या- पारकारणत्वं फलितम् । अत एव ससीत्कारं सीत्कारपूर्वकं यथा भवति तथेति यावत् । तिर्यक् । सव्यतदितरपार्थान्यतरभाग इत्यर्थः । वलितेति । वलितं वक्रीकृतं वदनं यया सा तथा तस्याः । एतादृश्या मृगदृशः कुरङ्गाक्ष्याः । अस्या मप्रेयस्या इति यावत् । करेति । पाणिपद्मस्पर्शा दिव्यवहारानित्यर्थं । एतद्रूगन् । अतीति । अतुलपुण्यपरिपाकमुख्यांशानि ति यावत् । रसयतः । आस्वादयत इत्यर्थः । एता- दृशस्य भवत इति संबन्धः । एवं चेतादृक्तियग्वलितवदनसीत्कार पूर्वकं हि करक- मलव्यापाराः सौकुमार्यातिशयेन सुरतरभसासहिष्णुतादशायां मयानुभवितुं योग्य एव भवन्त्यस्यास्तत्कालं मदङ्गमृदुपरामर्शादिना । तत्त्वद्य विपरीतमेव संपन्नं यज- डेनापि भवता तेऽनुभूयन्ते न तु प्रियतमेनापि मयेति धिमैव मन्दभाग्य मिति भावः । अत्र मानवती स्वकीयादिरेव नायिका । कुशलो नायकः । विप्रलम्भः शृङ्गारः । काव्यलिङ्गादिरलंकारः ॥ ।

 ततोऽपि मानानपगमे पुनस्तत्सख्येव तां साम्नैव प्रार्थयते--

आयातैव निशा निशापतिकरैः पूर्ण दिशामन्तरं
भामिन्यो भवनेषु भूषणगणैरङ्गान्यलंकुर्वते ।

मुग्धे मानमपाकरोषि न मनागद्यापि रोपेण ते
हा हा बालमृणालतोऽप्यतितरां तन्वी तनुः क्षाम्यति ॥५४॥

 आयातैवेति । हे मुग्धे। एतेन सौन्दर्येऽपि मौढ्यं ध्वन्यते । निशा रात्रिरायातैव प्रासैव । किं ततः स्वपिष्याम्येवाह मेकाकिन्येवेति चेताह-निशापतीति । चन्द्र- किरणैः । दिशाम् । प्राच्यादिहरितामित्यर्थः । अन्तरम् । अवकाश जातमित्यर्थः । पूर्ण व्याप्तम् । ननु किमेतावतेत्यत आह–भामिन्य इति । कोपखभावा अपि कामिन्य इत्यर्थः । एतेन संप्रदायः सृचितः । मयापि नैव भूषणानि परित्यक्तानी- त्यत आह-उत्तरार्धशेषेण । त्वं वद्यापि मनागपीपदपि मानं रूपादिगर्वं नापाक- रोषि नैव दूरीकरोषीति संबन्धः । अस्तु नाम ममैवम् , किं तेन तवेत्याह-रोघे. ऐति । ते तव । बालेति । सूक्ष्मविसाद पीयर्थः । अतितरामतुलं तन्वी स्वाभावि- ककृशापि तनुः । रोषेण कोपेन । हा हेति खेदे। क्षाम्यत्यतिकृशवमेतीति योजना। ‘ताम्यति' इति पाठे संतप्ता भवतीत्यर्थः। तस्मात्त्वयैवं नैव कार्यमिति तात्पर्यम् । अत्र परिकराङ्कुरोऽलंकारः । शेपं तूक्तमेव ॥

एवमप्यप्रसन्नां सीतां राधां वा प्रति पुनस्तत्सख्येव प्रवसत्पतिकायाः कस्याश्चि- दन्यस्या नायिकायाः प्रियसीहार्दाधिक्यध्वनकव्यापारजातं कथयन्ती सतीत्वं तु तदधिकवयोवत्यपि मया भूयो विवोधित सत्यपि नाद्यापि मानमवमानयसीयतो वन्द्येवासीत्युपालम्भं व्यनक्ति-

वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्प जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्राम्बुजम् ।
निःश्वासग्लपिताधरं परिपतद्वाप्पाईवक्षोरुहा
वाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥५५॥

 वाच इति । भो सखि, अत्र प्रतिवेशिवेश्मनि । प्रयाणसमये तत्कान्तस्य नगरान्तरं प्रति प्रवासकाल इयर्थः। जने मित्रादिपरिजने । माङ्गलिकीः । सुमुहूर्त- मङ्गलोपयुक्तवस्त्यादिशब्दवतीरिति यावत्। एतादृशीर्वााचो वाणीरनल्पं बहुलं जल्पति सुव्यक्तं वदति सति । केलीति । चरमभूमिकागतरत्यागारगवाक्षमध्य इत्यर्थः । विन्यस्तेति । विन्यस्तं कान्तदर्शनं यथा स्यात्तथावलक्षणेन विशेषेण न्यस्तं स्थापित वक्राम्बुजं मुखकमलं यथा भवति तथेत्यर्थः। ‘विन्यस्य' इति कचिल्लयबन्तपाठोऽपि । तत्र वक्राम्बुजं विन्यस्येति योज्यम् । ‘विन्यस्तवक्राम्बुजा' इति पाठे तु विन्यस्तं वक्राम्बुजं ययेति । अत एव । निःश्वासेति। निःश्वासैर्विरहजन्यदाहोष्णश्वासैग्लपितो ग्लानिं प्रापितः । शुष्कता नीत इति यावत् । तादृशोऽधरोऽधरोष्ठो यस्मिन्कर्मणि यथा भवति तथेत्यर्थः । परीति । परितः समन्तान्न त्वेकदेशे। तेन तत्प्राचुर्य कुच- काठिन्यं च सूच्यते । कठिने हि स्थले पतितोऽम्बुबिन्दुस्तकालमेवोड्डीय सहस्रधा परितः प्रसरतीति प्रसिद्धमेव । तथा पतन्ति च तानि बाष्पाणि चेति तथा । निपत दश्रूदकानीत्यर्थः । एतेन प्रिय वियोगशोकातिशयो द्योत्यते । तैरा क्लिन्नौ वक्षो- रुही स्तनै यस्याः सा तथा । न तूदरम् । तेन स्तनयोरतुलौन्नत्यात्तस्यास्वारुण्या- धिक्यं ध्वन्यते । एतादृशी बाला कैशोरमा पञ्चदशम्' इति वचनाद्वादशाब्दाधिक- वयोवती काचिन्नायिकेत्यर्थः । एतेनास्यास्तादृक्प्रागल्भ्यायोग्यत्वे तद्दर्शनं प्रेमैकनि बन्धन मिति ध्वनितम् । लोलेति । चपललोचना सतीत्यर्थः । एतेन तचेतसोऽति- स्मरशरसंत्रस्तत्वं व्यज्यते । एतादृशी सती प्राणेशं न तु पतिम् । तेन तद्विरहे कथं मत्प्राणाः स्थास्यन्तीति चिन्ताकुलवत्त्वं सूच्यते । आलोकते। पश्यतीत्यर्थः । याव- त्तद्रथधूल्यादिदर्शनं तत्रैव तटस्थीभवतीति भावः । त्वं तु तदधिकवयस्काप्येतादृशी कोपनैवेयाश्चर्यमित्यद्यापि तर्हि प्रसादः कार्य एवेति तात्पर्यम् । इह विरहिणी स्वकीयादिरेव नायिका नायकश्च । विप्रलम्भः शृङ्गारः । लुप्तोपमादिरलंकारः ॥

 एवं सोपालम्भीकूतवचसा किंचित्तत्कोपमालक्ष्य सैव पुनस्तां स्तुवन्ती सखीप्रसा- दव्यञ्जकं तत्स्मितं याचते-

दारिद्यं भजते कलानिधिरयं राकाधुना म्लायति
स्वैरं कैरवकाननेषु परितो मालिन्यमुन्मीलति ।
द्योतन्ते हरिदन्तराणि सुहृदां वृन्दं समानन्दति
त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् ॥५६

 दारिद्यमिति । हे काञ्चनाङ्गि काञ्चनवदङ्गं यस्यास्तत्संबुद्धौ । अयि सुवर्णवर्ण- शरीरे मत्सखि,सीते राधिके वेत्यर्थः । एतेन परमगौरवलावण्यत्वे तत्काये द्योत्येते। गूढाभिसंधिनान्तः काठिन्यमपि । त्वम्। वदनेति । मुखकमल इत्यर्थः । विकासेति । विकासपदविवक्षितस्मेरलक्ष्मीमिति यावत्। एतेनास्यां पद्मिनीत्वं व्यज्यते। चेयदि।। एतेन तद्दालभ्यं व्यज्यते । अञ्चसि । स्वीकरोषीत्यर्थः । तद्ययं प्रत्यक्षः । एतेनोद्दी- पनसामग्री सृचिता । कलेति । एवं चैतच्चतुर्गुणितकलानन्दजनकत्वमुक्तभावत्कमुख एवेति योयते । अधुनेदानीमेव न तु कालान्तरे। तेन तादृशे तन्मुखे लोकोत्तरसौषमशालित्वं सूच्यते । दारिद्यं श्रीशून्यत्वम् । भजते । प्राप्नोतीत्यर्थः । त्वत्प्रसा- दादित्योदयेन त्वन्मुखकमले विकासश्रीभाजि कलानिधेरपीन्दोर्निःश्रीकत्वं युक्तमेवे- त्याकूतम् । एवं च तृतीयपदार्थोऽपि संगतः। तस्या यदि चन्द्रादौ दारिद्यादि तदा रात्रौ मित्रालोकराहित्यात्तमःप्राचुर्यप्रयोजकं तर्हि किं मामक स्मितमिति शङ्कोपशा- मकत्वात्। तथा हि । यद्यपि चन्द्रादिषु दारिद्यादिसत्त्वेऽपि वन्मुखकमलान्तर्गतकु- न्दकलिकायमानकतिचिद्विजराजराजीयालौकिकचन्द्राङ्कुर्दिङमण्डलमण्डनमखण्डि- तमेवेति । एवं राकांपूर्णनिशाकरपूर्णमास्यधुनेति सर्वत्र योज्यम् । म्लायति । ग्लानिं प्राप्नोतीति यावत् । नहि धर्मधूनने धर्मिधौरेयता नाम । अतएव स्वैरमित्यादिद्वि- तीयः पादः । स्वरमुन्मीलतीति संबन्धः । निरर्गले प्रसरतीत्यर्थः । तृतीयपादस्तु विवृतप्राय एव । सुहृदां माइक्सखीजनप्रभृतीनां सरसचेतसामित्यर्थः। अत्र त्रिपाद्यां सर्वत्र वर्तमानार्थकाख्यातैश्चतुर्थचरणग्रथितकारणैककालिकत्वमुक्तकार्याणां ध्वन्य- ते। तस्मादुक्तानेकप्रयोजनं सप्रसादमन्दहसनं भवत्या विधेयमेवेत्याशयः। इह मान- वती प्राक्तनैव नायिका नायकश्च रसोऽपि । लुप्तोपमा प्रतीपविशेषोऽक्रमातिशयो- क्तिश्चालंकारः । तदुक्तम्-‘अक्रमातिशयोक्तिः स्यात्सत्वे हेतुकार्ययोः । आलि- इन्ति समं देव ज्यां शराश्च पराश्च ते ॥' इति । वदनेति यतिभङ्गस्त्वनवधान है- तुभूताद्वयाः सख्यास्तत्प्रसादनलल्यादेवेति दिक् ॥ एवं प्रार्थनेऽप्यपरित्यक्तमानायां सीतायां राधायां वा सत्या प्रकृतैव तत्प्रियसखी निकटवर्तितत्सख्यन्तरं प्रति वक्ष्यमाणलक्षणायामस्यां वसन्तलक्ष्म्यां सत्यां कथमियं मत्सखी मानैकपरवशा प्राणधारणं करिष्यतीति खचिन्तासूचनतोऽनयाज्झटिति । मानापनोदनपूर्वकं प्रत्युपगन्तव्यमेवेति व्यनक्ति-

पाटीरद्वभुजङ्गपुंगवमुखायाता इवातापिनो
वाता वान्त दहन्ति लोचनममी ताम्रा रसालमाः ।
एते हन्त किरन्ति कृजितमयं हालाहले कोकिला
बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु ॥ ५७ ॥

 पाटीरेति। पटीरो मलयाचलः। तस्यायं च चासौ । ‘दुदुमागमाः' इत्यमरा- वृक्षुः । अर्थाचन्दनतरुः बहुवचनं वा । तदीया ये भुजंगमपुंगवाः ‘पुंगवर्षभ जराः' इति श्रेष्ठवाचकशब्देष्वमरे पुंगवपदोकेः सर्पश्रेष्ठास्तेषां मुखानि तेभ्य आयाता इव समागताः किमित्यर्थः । अत एवातापिनः । समान्ताद्विरहिणीतापजनका इत्यर्थः । एतादृशो वाताः पवना वान्त्युक्तरीत्या शीतादिगुणत्रयवत्वेन प्रसरन्तीति। यावत् । किंच । अमी प्रत्यक्षास्वाम्राः नूत्नसंजातपल्लवत्वेनारक्तवर्णा इत्यर्थः । ईदृशाः । रसालेति । आम्रवृक्षा इत्यर्थः । लोचनं नेत्रम् । जात्यभिप्रायमेकव- चनम् । विरहिणीनामित्यार्थिकम् । विवेकज्ञानं वा । दहन्ति । एतेन विवेकः कार्य इत्याकाङ्घापि प्रतिक्षिप्ता । अपि च । हन्तेति खेदे । एते प्रत्यक्षा न तु परोक्षाः । तेन तद्भुनौ भ्रमत्वं व्युदस्तम् । कोकिलाकूजितमयं रुतत्वेन विकृतम् । एतेन विकृतस्य तिक्तद्रव्यादेरतिरिक्तत्ववदनुपमतापकत्वं व्यक्तम् । हालाहलम् । ‘पुसि क्लीबे च काकोलकालकूटहलाहलाः' इत्यमरात्स्वार्थ तद्धितः । कालकूटमित्यर्थः । तेनालीकिकदाहकत्वं द्योत्यते । किरन्ति । वर्षन्तीत्यर्थः । तेनाल्पत्वं सूचितम् ।। भवत्वेवम् , किमेतावता प्रकृत इत्यत आह—बालेति चरमचरणेन । एवं सति हे सखि, इयं मद्यस्या बाला द्वादशवर्षोंवैषोडशावग्वयस्का । सीता राधा वेति यावत् । न तु प्रौढा । तेन धैर्यवेधुर्यं ध्वन्यते । तत्रापि दृढा चेत्सहेतैव कदाचि- त्परंतु परमसौकुमार्यान्न तच्छङ्कापीति व्यनक्ति-बालेति विशेषणतः । तत्रापि वालं न तु पक्कं तदपि मृणालं विसं न तु कुसुमं तद्वत्कोमला सुकुमारतरा तनु- यस्याः सा तथेत्यर्थः । एतादृशी । अत एव नायकसंयोगमन्तरा कथं प्राणान्नक्षतु। न कथमपीत्यार्थिकम् । तस्मादनयाधुनाभिसर्तव्यमेवेति तात्पर्यम् । इह नायिकादिकं सर्वमनपूर्वमेव । उक्तास्पदा हेतूत्प्रेक्षा परिणामः काव्यलिङ्गं लुप्तोपमादिश्वालंकारः ॥

 एवं स्वरहःसखीवाक्येन सीता राधा वा यावत्स्वमनसि श्रीरामाद्यभिसरणसं. कल्पाद्याकलयति तावदेव तदुद्दीपनसामग्रीभूतममृतद्युतिबिम्बमुदयाचलङ्गश्रेणि- परिचुम्बि संबभूवेति कविवर्णयति-

आयातेव निशा मनो मृगशामुन्निद्रमातन्वती
मानो मे कथमेष संप्रति निरातङ्क हृदि स्थास्यति ।
ऊहापोहोमियं सरोजनयना यावविधतेतरां
तावत्कामनृपातपत्रसुषमं बिम्वं वभासे विधोः॥ ५८ ॥

 आयातैवेति । यत इत्यध्याहारः। मृगेति । हरिणाक्षीणामित्यर्थः । एतेन तारुण्यं ध्वन्यते । तत्रैव स्त्रीणां हरिणादिवद्रागादिना लोचनचापल्या दिसत्त्वात् । एवं च साधारणतरुणीनामपीयं रात्रि. कामोद्दीपिका यदा, तदा लोकोत्तरतरुण्या मे सा कीदृगुद्दीपनातिशयं करिष्यतीति न जान इति चिन्ताशयः सूचितः । मनोऽन्तःकरणमपि । न तु चन्द्रादिदिदृक्षया केवलं चक्षुरेवेत्यर्थः । तेन तदौत्कण्ठ्ये सति तदधीनसकलेन्द्रियवैकल्यं व्यज्यते । उन्निदं जागरूकम् । सावधानमिति यावत् । आतन्वती विस्तारयन्तीति तत्त्वम् । तत्रापि आ समन्तादित्यर्थः । एवं चास्याम- यौत्सुक्यजनकत्वं योयते । एतादृशी निशा रात्रिः आयातैव। प्राप्तैवेत्यर्थः । न खायास्यति क्षणान्तरे। एतेन संदीप्तभवनकूपखननन्यायेनोपायवैधुर्यं ध्वन्यते । अतो मे मम हृदि न तु बहिः । एष साक्षिप्रत्यक्षो मानो ‘रूपादिना निजोत्कर्षाद्र्वोऽन्य- स्यावहेलनम् । मत्सौन्दर्यानुसंधानान्न ते गोवर्धन व्यथा ॥” इति मदीयसाहित्य- सारनिरुक्तलक्षणादेर्गवापरपर्यायस्य मनस्योद्दामत्वप्रयोजकधन्यत्वाधायकवृत्तिविशे- घस्यैव विवक्षितत्वाद्युक्तमेव तस्योक्तप्रत्यक्षवम् । संप्रतीदानीम् । तेन कालान्तरे तत्संभवेऽपि प्रकृतकालिकत्वेन पुनस्तदनागतेस्तद्विषयकचिन्तावश्यकत्वं व्यज्यते। निरातङ्क रुक्तापशङ्कास्वातङ्कः' इति कोशान्निःशकं यथा स्यात्तथेत्यर्थः । एतेन संस्कारात्मना तत्स्थितिसंभवेऽपि व्यक्तरूपेण तदसंभव एवेति योल्यते । कथं स्थास्यति कथमपि नैव तत्स्थितिसंभावनाशापीत्याशयः । इमं निरुतप्रकारकम् ।। ऊहेति तर्कवितर्कम् । सरोजेति । पद्ममुखीत्यर्थः । तेन तदानीं सायंकालत्वेन कमलानां मुकुलीभवनोन्मुख्यादुक्तचिन्तापारवश्येन तस्यां म्लानास्यत्वं सूचितम् । यावद्यत्कालावच्छेदेन । विधत्तेतरां ‘विभुर्विजयतेतराम्' इत्यादिवदत्यन्तं करोती. त्यर्थः । तावत्तत्कालावच्छेदेनेव । कामेति । स्मरनरपति सितातपत्रशोभासंभार मि• त्यर्थः । एतादृशं विधोश्चन्द्रस्य विम्वं वभासे प्रकटीवभूवेयन्वयः । अत्रातपत्रेय नेन पूर्णत्वं व्यज्यते । इह मानवती सचिन्ता स्वकीया परकीया वा मध्यैव नायिका । विप्रलग्भः शृङ्गारः । निरेति यतिभङ्गोऽपि वक्या रमावेशाज्ञव दोषाय। इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्यावनिर्वाणस्तावदेव सः ॥” इत्युक्तलक्षणो विषादनाख्यः काव्यलिङ्गादिश्चालंकारः । “सुषमा परमा शोभा' इत्यमरः ।।

 इत्थं संजाते चन्द्रोदये धैर्य धर्तमशक़वाना सीता राधा वा श्रीरामं श्रीकृष्ण वाभिसृत्य यथेच्छ निशि नानाविधविलासैः क्रीडित्वा संजातेऽपि प्रभाते प्राक्तन: भूरिकालिक विरहाकुलत्वेन तत्राप्यतृप्यमाना वस्याः पद्मिनीत्वेन दिवा रमि प्रिय- त्वात्तस्याः तत्कालज्ञानप्रागभाव परिपालनाय तल्लोचनसंछादनलीला संपादयन्त्यपि तेन परमचतुरेण कोमलपरिमलशालिमन्दानिलादिना विज्ञाते सति प्रातःकालेऽसौ निफलितप्रयत्नैव संपन्नेति कविर्व्य्येनक्ति-

प्रभातसमयप्रभा प्रणयिनी हुवाना रसा-
दमुष्य निजपाणिना दृशममीलयल्लीलया ।
अयं तु खलु पद्मिनीपरिमलालपाटञ्चरै-
ररेरुदयमध्यगादधिकचारुतैमरुतैः ॥ ५९॥

 प्रभातेति। प्रणयिनी प्रेयसी । सीता राधिका वेत्यर्थः । प्रभातेति । प्रातःका- लीनसूर्यदीधितिमित्यर्थः । रसात् । शृङ्गारादी रसे वीर्ये गुणे रागे द्रवे रसः' इति कोशात्सुरतानुरागाद्धेतोरिति यावत् । हुवानापलपमाना सतीत्यर्थः । अमुष्य प्रकृ- तस्य श्रीरामस्य श्रीकृष्णस्य वा दृशं दृष्टिं लीलया । शृङ्गारचेष्टाविशेषेणेत्यर्थः । निजेति । स्वकरकमलेनेति यावत् । अमीलयदाच्छादयामासेति संबन्धः । अयं तु प्रकृतनायकस्तु । पद्मिनीति । पद्मिनीनां कमलिनीनां ये परिमलाः सूर्योदयवशसं- पन्नविकासलेशजन्यसुगन्धास्तेषां या आलयः पयः । एतेन वक्ष्यमाणमारुतेषु सौगन्ध्याधिक्यं ध्वन्यते । तासां ये पाटचराश्चोरा इवापहर्तारस्तरित्यर्थः । अत एव -अधिकेति । अधिका लोकोतरा चारुता शीतमन्दसुगन्धित्वरूपा रमणीयता येषां तैरित्यर्थः । एतादृशैमरुतैः पवनै रवेः सूर्यस्योदयमध्यगाद्वबुधे खल्विति योजना। एवं च तद्यत्नवैफल्यमेव बभूवेति भावः । ‘प्रणयिनि' इति सप्तम्यन्तपाठे पञ्चम्य- न्तरसपदेन संबन्धे कान्तविषयकानुरागवशादित्यर्थसंभवेऽपि कर्या नायिकाया अध्याहारापत्तिः । एवं ‘प्रणयनिहुवाना' इति समस्तपाठेऽपि प्रणयेन प्रेम्णा निहु- वाने ति व्युत्पत्तिसंभवेऽपि रसादित्यत्र पौनरुत्यापहृत्यै संभोगशृङ्गाररसाद्धेतोरि- त्यर्थकरणेऽपि च तदापत्तिदुवीरैवेति बोध्यम् । एवं चोकपाठ एव श्रेयान् । तथाच प्रणयिनीत्वादेवोक्तहड्नीलने प्रवृत्तिरिति तत्त्वम् । यदा त्वलयो भृङ्गा एव पाटचरा इति व्याख्यायते तदा माकारीणि सूर्योदयप्रभाजनकानि रुतानि शब्दितानि येषां तैरिति तद्विशेषणमेव ज्ञेयम् । अन्यथा समुचायकश्चकारादिरध्याहार्यः स्यात् । अत एव अधिकेति । एवं पद्मिनीनां स्त्रीविशेषाणां परिमलो येषु ते च ते । आल्या सखीद्वारा पाटचरा इवेति व्युत्पत्त्या जारपरवमपि । तेन समासोक्तिरलंकारः। लीलावती खकीयादिरेव नायिका । पूर्वार्धे संभोगः, उत्तरार्धं विप्रलम्भश्च शृङ्गारः। कुशलो धार्मिकश्च नायकः । श्लेषादिरप्यलंकारः ॥

 अथ प्रातरुत्थानादिविहितयथाविध्याह्निकव्यापार श्रीराम श्रीकृष्णं प्रति वा तार- श्यैव सीतया राधया वा रहस्यभिसृत्य तृतीययामे किंचित्संकेताद्युक्ते सति तद्दर्शिन केनचिद्रहःसुहृदा किमनयोक्त मिति प्रणयपृष्टोऽसौ तं प्रत्याह विदूरादित्यादिद्वा- भ्याम्-

विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया-
दुदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचे ।
गुरूणां संघाते सपदि मयि याते समजनि
त्रपाघूर्णत्तारं नयनमिह सारङ्गजदृशः ॥ ६० ॥(युग्मम् ।)

 विदूरादिति । हे सखे, विदूराद्विशेषेण दूरतो मद्दर्शने जाते । आश्चर्येति । आश्चर्येण पुरुषाकोरेन्द्रनीलनिचयमरीचिमण्डलविलोकनेनाद्भुतेन स्तिमितं स्तब्धम्। अथानन्तरम् । किंचित्परिचयान्निरुक्ताश्चर्यजन्यलोभवशात् । पुरोगमनजनितेष- त्संनिकषदित्यर्थः । उदञ्चदिति । उदञ्चदतिपूजितं भवाञ्चल्यं चापल्यं यस्य तत्तथा। तदनु निरुक्तासक्तिसमुद्रेकानन्तरं परितः समन्ततः सर्वसौन्दर्यदर्शनार्थम् । स्फारितेति । स्फारिता प्रसारिता रुचिस्तत्प्रतिबिम्बग्रहात्सावशिवनीलकान्तिर्येन तत् । एतेन कमान्नायिकादृष्टावपि स्तम्भवेपथुवैवण्यानि ध्वन्यन्ते । अथ सपदि तत्कालं किंचित्कार्यवशाद्रूणां खपूज्यानां संघाते समूहे । तन्मध्य इत्यर्थः । मयि याते । गते सतीत्यर्थः । इहास्मिन्काले। त्रपेति । उक्तगुरुनिकरमध्यवर्त- त्वादेव या त्रपा ही स्तया घूर्णन्ती चलन्ती तारा कनीनिका यस्य तत्तथा । एतादृ- शम् । तत्रापि । सारङ्गो हरिणस्तस्माज्जायत इति तथा । कृष्णसारकिशोर इत्यर्थः । तद्वदृग्दृष्टियस्याः सा तथोक्ता । तस्याः स्वभावत एव कुरङ्गकुमाराक्ष्या इत्यर्थः । नयनं नेत्रम् । जात्येकवचनम् । यद्वा गुर्वित्याद्युक्तहेतोरेककटाक्षाभिप्रायकमेव । समजनीति योजना ॥

 किमेवं तर्हि संभोगभङ्ग एव संपन्नः । नेत्याह---

कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मना-
क्स्पृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः ।
कथंकारं शक्याः परिगदितुमिन्दीवरदृशो
दलद्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥ ६१ ॥

 कपोलाविति । ततो झटित्यवान्तःपुरं गत्वा मयि । उन्मीलदिति । मद्दर्श- नादेमाविर्भवद्रोमाञ्चनिचयौ एतादृशौ कपोली गल्ली स्पृशति चुम्बनार्थं करेण परा- मृशति सतीत्यर्थः । अत एव । अन्तरिति । अन्तःस्मरेण गूढस्मितेन स्तब किता मालतीगुच्छतां गता मुखाम्भोरुहे रुग्यस्या इत्यर्थः । अत एव । इन्दीवरेति । नीलोत्पलविलोचनाया इत्यर्थः । न तु पद्माक्ष्याः । एतेन नायकेऽपि कान्तिसौ- न्दर्यादिलोकोत्तरगुणगणोदयो द्योततः । एतादृश्याः पूर्वेक्तनायिकायाः। दलदिति । दलन्त्यो रसपरिपाकवशात्खयमेव स्फुटन्यः । न तु यत्नपाचिताः । एतेन माधु- यधिक्यं ध्वन्यते । तत्रापि द्राक्षा मृद्वीकाः। न तु जम्बूफलानि । तासां निर्यन्निः- सरन्यो रसभरो द्रवनिवहस्तेन सपक्षाः । निश्चितसाध्यवत्वेन तत्साधम्र्यशालिन्य इत्यर्थः । एतेन तदोष्ठयोनैसर्गिकप्रवालायमानत्वेन परमारुण्येऽपि स्वाभाविकस्मित- पुर्वाभिभाषित्वेन दशनचन्द्रिकाङ्कराञ्चितत्वेन पाटलताया दलद्राक्षोपमेयत्वं तद्वचःसु च मृदुमधुरतरवादिना तद्रसभरोपमेयत्वं च सूचितम् । एतादृश्यो भणितयः । संकेतसूचनादिवाग्व्यापारसरण्य इत्यर्थः । परिगदितं कथयितुं कथंकारं कथं वा शक्याः। न कथमपि शक्यन्त इत्यन्वयः। तस्माभिरुक्तरीतिकतद्भाषणमनन्तगुण- गणैर्वाण्यगोचर मेवेति भावः । अत्र प्रमुदितौ नायिकानायको । संभोग एवं शृङ्गारः । लुप्तोपनादिरलंकारः ॥ ।

 ततः सायं पूर्णचन्द्रोदयं निरीक्ष्य तदपेक्षयापि निकटस्थायाः सीताया राधाया वा वदनस्य श्रीरामः श्रीकृष्णो वा शोभासंभार व्यनक्ति--

राजानं जनयबिभूव सहसा जैवातृक त्वां तु यः
सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरातो विधिः ।
संप्रत्युन्मदखञ्जरीटनयनावक्राय नित्यश्रिये
दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥२२॥

 राजानमिति । हे जैवातृक।‘अब्जो जैवातृकः सोमः' इत्यमराद्धे चन्द्रेत्यर्थः। तेन जैवातृकः स्यादायुष्मान्' इत्यपि तदुक्तेः श्लेषेणान्यस्य राज्यावाप्तौ स मां मारयिष्यतीति त्वया नैव भेतव्यम् , किंतु तद्राज्यस्य प्रतिक्षणोत्कबैंकदर्शनतः। क्षीणत्वकलक्षितत्वादिभिरेव केवलं जीवितव्यमिति द्योत्यते। त्वां तु यो विधिव्रह्मा ।। एतेन विदधातीति विधिरिति व्युत्पत्तिवशात्केवलकियैककोविदस्य तस्य विचार- विधुरत्वं ध्वन्यते । अतएव सहसा राजानं जनयांबभूव । अविचारेणैव रचया- मासेत्यर्थः । सोऽयं सर्वज्ञत्वेन प्रत्यक्षः । एतेनाश्रद्धेयवचनत्वं परास्तम् । जरातो द्विपरार्धायुष्यस्तस्य चरमपराधरम्भाद्वार्धक्येनेत्यर्थः । कुण्ठितेति । अत्र सर्वपदेन सावंशिकतदाश्रयाशाव्युदासः सूच्यते । एतादृशो जात इत्यन्वयः । ननु भवत्वेवम् । किं तावता। नहि दातुर्दैन्ये दत्तद्रव्यदलनं दृश्यत इत्यत आहसंप्रतीत्याद्युत्तरार्धेन । संप्रति मन्मथः । एवं च क्लीबेतरावच्छेदेन सामान्यतः सर्वमनोमथयितुस्तस्य त्वद्राज्योत्सादनादिना त्वन्मनोव्यथकत्वे कैव शङ्केति सूचितम् । तेन पुंराज्यमपहृत्य क्लीबाय तद्दानानौचित्यं परास्तम् । यो न यत्पीड्यः स तत्प्रेमयोग्य इति व्याप्तेरन्वयादिना सिद्धत्वातद्धिनस्यैव तत्पीड्यत्वाच्च । एवं संप्रतिपदेन तात्कालिकं निरुक्तनायिकायास्तन्निकटावस्थानं व्यज्यते । उन्मदेति । उन्मदौ सुरतलालसौं यौ खञ्जरीटौ । ‘खञ्जरीटस्तु खञ्जनः' इत्यमरात्खञ्जनदम्पती इत्यर्थः । ताविव नयने नेत्रे यस्याः । एतेन तद्वक्रय पद्मत्वं ध्वन्यते । तेन ‘एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्बलाधिपत्यम्' इत्यादि- कालिदासीयशृङ्गारतिलको तेरहो यद्दर्शनमात्रेणान्येषां राज्यावाप्तिस्तस्य तन्निरति- शयाखण्डतायोग्यतायाः कैमुत्यसिद्धिरिति ध्वनितम् । वक्राय । मुखायेत्यर्थः । अस्य जगतोऽखण्डमविनाशि । एतेन प्रत्याप्त्याशोपशमः सूचितः । राज्यं दाता दास्यतीति संबन्धः । एवं तर्हि प्राक्तस्य दारिद्यादनविकारितैवोक्तदाने नह्यकिंचनो विप्रो गजदानपात्रं दातुस्तकर्तृकत द्विक्रयपापप्रयोजकवापत्तेः । इत्यतो विशिनष्टि- नित्येति । ननु जगद्धात्रा विधात्रा मह्यमेव राज्यं दत्तं तत्कथमनङ्गोऽप्यसावपहृ- त्यान्यस्मै दास्यतीत्यतस्तं विशिनष्टि । अस्य जगतो नवः । धातेति । मैथुन्यां सृष्टौं मदनाधिनैवोत्पत्तिरिति प्रसिद्धमेव । नन्वेवमपि ‘धाता यथापूर्वमकल्पयत्' इत्यादिश्रुत्या प्राच्यधातृरीतिरेवानेनापि परिपाल्येति यदि विभाव्यते तदा नित्येति तादथ्ये चतुर्थी । एवं च तुभ्यं तेन राज्ये दत्तेऽपि क्षयादिना ते नित्य- श्रीनै वासेति । प्रकृते तु न तथालमिति । अधिकारस्तून्मदेयेतेनैव । अत्र प्रमु- दितौ नायिकानायकों । संभोगविशेषः शृङ्गारः । हेतुप्रतीपलुप्तोपमापरिक- रादयोऽलंकाराः ॥

 अथैवं भगवता श्रीकृष्णेन स्तुतेति परमगर्विता राधिका केनचिच्छद्मना प्रणय- कोप संपाद्य तूष्णीभूता सती नायकेरिततद्रहःसंख्या श्रीकृष्णस्य सौन्दर्यदर्शनेन यदी कुलस्त्रीणामपि कामव्याकुलीभावः संपन्नस्तदानुभूततद्रविसुखसंपत्त्या भव- त्यास्तावत्कैव कथा क्षणान्तरे तदभिसरणेऽतः सद्यो मह्यमेव यशः किमिति न देय- मिति बोध्यते-अविभूतेत्यादिद्वाभ्याम्-

आविर्भूता यदवधि मधुस्पन्दनी नन्दसूनोः
कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणझा।

श्वासो दीर्घस्तदवधिमुखे पाण्डिमा गण्डमूले
शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥ ६३॥

 आविरिति । हे राधिके, यदवधि यदारभ्य । नन्देति । श्रीकृष्णस्येत्यर्थः । मध्विति । मधुवन्मद्यवत्स्पन्दयति व्यामोहनेन धैर्याचेतश्चालयतीति तथा । खदर्शनमात्रेणैवोन्मादयित्रीत्यर्थः । एतेन दुर्निरसत्वं सूचितम् । तत्र हेतुः-- निखिलेति । निखिलानां सकलजीवानाम् । एवं च यदा पुरुषनपुंसकादिसाधारण्येन यावज्जीवानामपि नेत्राकर्षणे कुशला भगवतः कान्तिस्तदा वामसावाकर्षयिष्यतीति किमु वक्तव्यमिति द्योत्यते । यानि नयनानि नेत्राणि तेषां यदाकर्षणं वशीकरण तत्र यत्कार्मणं कर्मणाथर्वणप्रसिद्धवशीकरणक्रियाविशेषेण कृतं कार्मणम् । निरुक्त- शक्तिविशेषशाल्यदृष्टमित्यर्थः । तत्संपादयितुं जानातीति तथा एतादृशी । अत एव काचिद्वागगोचरा कान्तिर्लावण्यलक्षणा यौवनद्यतिरिति यावत् । अविभूता प्रकटी- भूतेत्यर्थः । तदवधि । तदारभ्यैवेति यावत् । कुलेति । कुलस्य । सत्कुलस्येत्यर्थः । तथास्मदादीनां हस्तद्वयादिमत्त्वेऽपि न हस्तिपदशक्यत्वं रूढं गजस्य तु तदभावेऽ- प्येकस्यैव शुण्डादण्डरूपस्य प्रशस्ततरस्य तस्य सत्त्वेन तत्सर्वसंमतमेव तद्वत्सामान्य- तः स्त्रीत्वावच्छिन्नानां जन्यतया कुलैकसंबन्धित्वेऽपि पातिव्रत्याद्यनुमितप्राशस्त्य- शालिकुलजन्यस्त्रीष्वेव कुलका मिन्यादिपदवाच्यत्वमिति प्रकृते सदादिपदाभावेऽपि तदार्थिकत्वं वोध्यम् । न तु केवलमृगाक्षीणाम् । तेन यत्र सतीशिरोमालतीभूतानाम- पीदृश्येवावस्था तत्र परकीयाया भवत्याः कैव कथेति व्यज्यते। मृगपदेनाविभीति- खाभाव्यात्स्मरशरातुरवातिशयः सूचितः। साध्य(ध्व)भिधमुग्धानमित्यर्थः। मुखे वदने दीर्घा नियतपरिमाणाधिकगामी श्वासो निःश्वासः । यद्यदि श्वासस्य नासि- कैकायतनत्वखाभाव्येन मुखाधिकरणकत्ववर्णनमनुचितमिव भाति तथापि भगव- सौन्दर्याद्यभ्युदयदर्शनजन्यानुरागपातिव्रत्यपरिपालनोभयभयजन्यवैकल्योत्कर्षध्व- ननार्थ तदुचितमेवेति तत्त्वम् । अत एव । दीर्घ इति । तथा गण्डमूले कपोल- तले पाण्डिमा । विरहशुभ्रिमेत्यर्थः । न केवलं बाह्यचिह्नमेवैवं किंवान्तरमपि तत्तादृश मिति व्यनक्ति-शून्येति । किं पातिव्रत्यं हेयमुत भगवद्गतिलालस्यमिति निर्णयाभावजन्यकषायाभिधसंकल्पहीनेति यावत् । एतादृशी वृत्तिर्वर्तनं चेतसि प्रादुरासीत्प्रकटीबभूवेति सरलमेव । न च कुलमृगदृक्पदवाच्यपतिव्रतानां परपुरु- षीयलोकोत्तरलावण्यवीक्षणमेवादौ ‘पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः' इति मूलकाराद्युक्तेः क्व पुनस्तदनुरागः, तरी तज्जन्योकनिर्णयाभावः, कतमां निरुक- तत्कार्याणीति वाच्यम् । कृष्णस्य पूर्णब्रह्मत्वेनात्मत्वात्तत्र च निरुपचरितप्रीतिविष- यत्वस्य नैसर्गिकसानुभविकत्वाच्च । तेन मायिकाविष्कारितोकलीलाविग्रहवति तु तस्य कैमुत्यसिद्धत्वात् । इह संबोध्या मध्या मानवती परकीया च, तथा वण्यः परकीया विरहिण्यो मुग्धाद्याश्च नायिकाः। सर्वोत्तमो नायकः । विप्रलम्भः शृङ्गारः । चपलातिशयोक्त्यादयोऽलंकाराः । मन्दाक्रान्ता वृत्तम् ॥

प्रसङ्गे गोपानां यदुषु बहुमानं यदुपते
रुपाकण्र्य स्विद्यत्पुलकितकपोला कुलवधूः ।
विषज्वालाजाले झटिति वमतः पन्नगपतेः
फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥ ६४ ॥

 प्रसङ्ग इति । हे राधे, कुलेति । काचित्साध्वी । गोपानां बल्लवानाम् । नन्दा दीनामपति यावत्। प्रसङ्गे कास्मंश्चिदिन्द्रयागादिकार्यारम्भप्रसकावियर्थः । गुरुषु । निर्धारणसप्तमीयम् । सकलवियोवृद्धेषु मध्य इत्यर्थः । यद्वा ‘स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः' इत्युक्तलक्षणरीत्या स्मृति विषयीभूते गुरुविषयकानुपेक्षणीये कः सर्वगुणैर्व- रिष्ठ इति विचारे प्राप्ते सतीति यावत् । यदुपतेः श्रीकृष्णस्य बहुमानमिन्द्रयागं युक्तिभिः पराकृत्य गोवर्धनैकयागप्रतिपादकयुक्तिवैभवपारवश्यप्रयुकं सत्कार मिति यावत् । उपाकर्य निकटवर्तित्वेनाकस्माच्छ्रुत्वा । विद्यदिति खेदं प्राप्तौ । तथा । पुलकितेति पुलकितौ संजातरोमाञ्चौ कपालौ यस्याः सा तथेत्यर्थः । एतेन ज्ञानाधिक्यज्ञानजन्योऽयमनुराग इति ध्योतितम्। तेन पूर्वपद्यापेक्षयास्य न पौनरुत्यम् । तत्र तु सौन्दर्योत्कर्षस्यैवोक्तवात् । अत्र तु वुड्यादिवैभवस्याप्य- भिहितत्वाचेति । एतादृशी । नन्वेवं तर्हि कथं तया खकपोलपुलकखेदजा- लापलापनमकारीत्याकाङ्क्षा क्षपयति—विषेत्याद्युत्तरार्धेन । एतादृशी अतएव । विषेति । विषस्य गरलस्य या ज्वालास्तासां जालम्, न तु लेशम् । एते- नातिदुःसहत्वं द्योतितम् । तत्रापि झटिति शीघ्रम्, न तु विरम्य । एवं च तदेव दृढीकृतम् । वमतः । भगवत्पादप्रहारासहिष्णुत्वेनोद्रित इत्यर्थः । तत्रापि पन्न: गेति । सर्पराजस्येत्यर्थः । एतेनाशक्यप्रतीकारत्वं ध्वनितम् । तत्रापि फणायाम, न तु पुच्छादौ । यदुपतेरित्यत्राप्यनुकृष्य योज्यम् । श्रीकृष्णस्येत्यर्थः । ताण्डवेति । उद्धतनृत्यप्रकारमित्यर्थः । साश्चर्यमाश्चर्येण विस्मयेन सहितं यथा भवति तथा । भा० वि० ८ कथयतितरां वारंवारे वृद्धगोपान् प्रति निरुकभगवत्ताण्डववर्णनमेवोकरीत्या खानु- रागव्यञ्जकस्वकपोलपुलकाद्यपलापनप्रयोजकाद्भुतरसपरिपोषपूर्वकं विनिवेदयतीत्य- न्वयः । तत्स्यायदा पतिव्रतानामपि श्रीकृष्णसौन्दर्यसार्वन्यादिविचित्रविविधगुणा- कृष्ट्येदृशं कष्टं तदा कैव कथानुभूततद्गत्या भवत्या इति मह्यमेव यशः प्रदाय द्रुत- मचैव तं प्रत्यभिसर्तव्यमित्याशयः । अत्र प्रकृता परकीया मध्या मानवती नायिका वण्य तूत्कण्ठितैव । ललितो नायकः । विप्रलम्भः शृङ्गारः । अपहुतिरलंकारः ॥

 अथ वैदेह्यास्तु ‘राजानं जनयांबभूव' इत्यादिद्वाषष्टिपद्येन श्रीरामेण मुखारवि- न्दवर्णनतोऽभिनन्दने कृतेऽपि परमसात्विकत्वाद्र्वराहिये सत्यतीव परितुष्टोऽसौ राधायाश्चोकोपदेशेनातिप्रसादतोऽभिसृतायास्तादृशः श्रीकृष्णो वा मुखाद्यवयवा- न्वर्णयति--

कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना-
वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया ।
आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां
किंचासीदमृतस्य भेदविगमः साचिस्मिते सर्वदा ॥६५॥

 कैशोर इति । ‘कशोरमापञ्चदशम्' इत्यभियुक्तोतेर्दशवर्षोंत्तरपञ्चदशवर्षप- रिसमाप्तिपर्यन्तमित्यर्थः । वयस्यवस्थाविशेषे तन्व्याः कृशाझ्याः । तनी शरीरे । क्रमेणैकादशवर्षाद्यनुक्रमेण । तनुतां कार्यं क्षीणखमिति यावत् । आयात्यागच्छति सतीत्यर्थः । अत एवाखिलेश्वर ईश्वरादिजगद्यामोहकवाद्विश्वनियन्तरीत्यर्थः। एतेन वक्ष्यमाणतदाज्ञायामवश्यानुल्लङ्घनीयत्वं व्यज्यते । एतादृशे रतिपतौ न तु कामे । तेन ‘यथा राजा तथा प्रजा' इति न्यायेन खस्याखण्डविलासशीलत्वेन खमियम्येषु तत्कारकत्वनैसर्य सूचितम् । तस्मिन्मदने च निरुक्ततनुरूपनगर्यवच्छे- देनागामिन्यागमिष्यति सतीत्यर्थः । अस्य निरुक्तलक्षणस्य रतिपत्राज्ञया नियोगेन तत्कालमेव तत्क्षणमेव । न तु विलम्बेनेत्यर्थः । एतेन राजाज्ञातिक्रमे सद्यः- प्राणविगम इति भीतिः सूचिता । आस्ये मुखे । पूर्णेति । अत्र शशपदेन कपोले कस्तूरीमकरविरचनचतुरवरूपस्तरुणीवभावो ध्वन्यते। पूर्णपदं द्वितीयादीन्दुव्युदा- सार्थम् । तेन तत्र स्खनेत्रचकोरतृप्तिजननक्षमत्वं द्योत्यते । तथा नयनयोनॆत्रयोः । अम्भोरुहामम्भस्युदके रुहन्ति ‘रुह बीजजन्मनि प्रादुर्भावे च' इति धातोर्जन्म लभन्ते तानि तथा । तेषां कमलानामित्यर्थः । एतेन तत्रातिशिशिरीकरणचणत्वं सूच्यते। तादात्म्यं भेदसहिष्णुरभेदः । पद्मरूपत्वमिति यावत् । किञ्चामृतस्य पीयूषस्य श्लेषान्मोक्षस्यापीत्यर्थः । भेदविगमोऽभेदः । साचीति । वलितग्रीवं मन्दहास्य इत्यर्थः । सर्वदा न तु क्षणमात्रम् । तेनोक्तनायिकामुखवीक्षणेऽपि परमपुमर्थत्वं किं पुनस्तदाखादन इति वर्तमानकालेऽपि त्रैगुण्यसत्त्वं च द्योतितम् । आसीदभूदिति संबन्धः । इह स्वकीया परकीया वा मध्याभिसारिका नायिका । मुदितो नायकः । संभोगः शृङ्गारः । क्रामिकं रूपकं चालंकारः ॥

 एवं वर्णनपूर्वकं तद्रात्रौ यथेच्छ विहारं विधाय प्रातःकाले किंचित्कार्यवशायो- जनावगेव प्रवस्य सायं समागतं श्रीरामं श्रीकृष्णं वा यामचतुष्टय विरस्याप्यसहि- ष्णुतया शैवलशय्यायां स्मरवैश्वानरदाहापहानार्थं शयाना सीता राधा वा लोकोत्त- रग्लानिवशात्सरभसव्युत्थानाद्यशक्तत्वेन सरसविलोकनै रेवोपचरतीति कविः संव- र्णयति--

शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणेनैव ॥ ६६ ॥

 शयितेति । प्रकृतनायिकेत्यार्थिकम् । शैवलेति। ‘जलनीली तु शैवालं शैवलः इत्यमराच्छैवलस्य जलनील्या यच्छयनं कुसुमादिवद्विरहाग्निसंतापशान्त्यर्थं तदुपक- ल्पितं तल्पमित्यर्थः । एतेन तत्रातिशीतलत्वमृदुत्वाभ्यामुत्तोपायखयोग्यत्वं व्यज्यते। अत्र शयिता निद्राणी सतीत्यर्थः । न तूपविष्टा नापि प्रसुप्ता । अशक्तिचिन्तौत्क- ट्येन तदसंभवात् । एवं चोक्तवियोगस्यातुलासह्यत्वं सूचितम् । अत एव । सुष- मेति । ‘सुषमा परमा शोभा' इत्यमरादलौकिकसौन्दर्यशोभैव शेषोऽवशिष्टोंऽशो यस्याः सा तथा । एतेन निरुपमकाश्यं ध्वन्यते । एतादृश्यपि सविधे निकट एव, न तु दूरम् । आगतमप्युपगतमपि । तत्रापि प्रियं खप्रीतिविषयं नायकम्, न तु मानाद्यवस्थावशादनारणीयं कान्त मिति यावत् । मधुरेति । चन्द्रमरीचिकामृतव- त्कान्तचक्षुश्चकोरैकाखादनीयव ध्वननार्थ मधुरपदम् । एतादृशं यद्वीक्षणमतिप्रीति- रूपविशषेण यदीक्षणमवलोकनं तेनैव । न तु प्रत्युद्गमनादिव्यापारान्तरैः । एतेन जीवितमात्रत्वेनानुरागातिशयो ध्योत्यते । परमासामर्थ्यव्यञ्जकत्वादेकवचनान्तपाठ एवेष्टः । यदि तु प्रेयोदर्शनोत्तरं प्रतीक्षणोज्जीवनाधिक्येन तद्वदनसौन्दर्यदिदृक्षा- धिक्येन च वीक्षणे पानकन्यायेन विरम्य विरम्यावादनीयनायकलावण्यलालस्येन भूयस्त्वमपि गुणत्वेनैव संभाव्यते तदा भवतु नाम बहुवचनान्त एव पाठः। वीक्षणै- रिति । सत्कुरुत उपचरति खादरविषयीकरोतीत्यन्वयः। तत्र योग्यमुपमानमाहनवेति । यथा हि लोके नवा शुक्लद्वितीयागतत्वेन नूतना । एतादृशी येन्दोश्चन्द्रस्य लेखा । एककलात्मकत्वेन रेखेत्यर्थः । सीतावत् शैवेति । शिवस्य परमेश्वरस्येमानि शैवानि ‘भूरम्भांस्यनलोऽनिलोऽम्बरमहनथो हिमांशुः पुमान्' इति दक्षिणमूर्ति- स्तोत्राद्युक्ताष्टवपुंषीत्यर्थः । ‘ला आदाने' इति धातोस्तानि लायाधेयतयादत्ते। गृह्णातीति यावत् । स शैवलः कालस्य सर्वाधारत्वद्वितीयतिथ्याख्यः कालविशेष एव। स एव शयनं तल्पनिव तत्रेत्यर्थः । शयिता दुर्लक्ष्यत्वादनतिप्रसादवत्त्वाचे निद्रितेव वर्तमानापि । तथा सुषमेति प्राग्वदेव । वर्धमानकलाबीजवत्वेन परमदर्शनीयत्वेन च निरतिशयशोभामात्रावशेषशालिन्यपीत्यर्थः । प्रियमादरेण स्वद्रभृतया कंचिद्देव- दत्तादिरूपं सखायमिति यावत् । मध्विति । मधुतुल्योऽस्तसमयावच्छिन्नत्वेनारक्त- वर्णवत्त्वान्माक्षिकविशेषसदृशो यो रविः सूर्यस्तेन सह यदीक्षण निरुक्तदेवदत्तक- कं खकर्मकमवलोकनं तेनेत्यर्थः । निरुक्तदर्शनस्य तदैव संभवात्तजन्य पुण्यरूपक- रणेनेति यावत् । सत्कुरुते सुखयति प्रदानेन परितोषयति तथेयमपीति संबन्धः । अत्र वकीयादिविरहिण्येव नायिका । सादरो नायकः । पूर्वार्धे विप्रलम्भोऽन्यत्र संभोगश्च शृङ्गारः । उपमालंकारः ॥ अथोकरीत्या निकटगतमपि श्रीराम सीता श्रीकृष्ण राधा वा विरहाग्निना दह्यमानमानसा प्रागत एव तज्ञामामृतमेवोच्चैः परिदेवनपूर्वकमुच्चारयन्ती सत्यपि कथमेतावन्तं कालमपि प्रेयानपि मामुपेक्षितवानेवास्यतश्चिरोपेक्षालक्षणकार्य लिङ्ग- कानुमानेन त्वय्यपरिचितत्वमेव मयाध्यवस्यत इत्याशयवती परिचयहीनेव पश्य- तीत्याह-

विरहेण विकलहृदया विलपन्ती दयित दयितेति।
आगतमपि सा सविधे परिचयहीनेव वीक्षते बाला ॥ ६७ ॥

विरहेणेति । बाली द्वादशवर्षोंर्वषोडशवर्षप्राग्वयस्का । मुग्धेयर्थः । न तु मध्या । एतेनाति धैर्यवैधुर्यं ध्वन्यते । तत्रापि विरहेण खप्रेयो वियोगेन । न तु व्याध्या- दिना। तेन नायकस्यैव प्रकृतेऽपराधित्वेन तं प्रति स्वस्या औदासीन्यसाम्यसूचनं युकमेवेति व्यज्यते । विकलेति । विह्वलचित्तेति यावत् । अत एव दयितेति । वैकल्ये वीप्सा । तेन शोकातिभूमिः सूचिता । एतादृशं विलपन्ती सतीत्यर्थः । एतादृशी सा पूर्वोक्तनायिका । सविधे निकटे । आगतमपि प्राप्तमपि । एतेनाव- श्यपरिचरणीयत्वं सूचितम् । एतादृशं तम् । खकान्तमिति शेषः । परिचयेति । परिचयेन नामग्रामादिबोधपूर्वकचाक्षुषज्ञानेनापि हीना। शून्येत्यर्थः । एतेनौदासी- न्यातिशयो द्योत्यते । सेत्यनेन हार्दप्रेमभर आवेद्यते । एतादृशी वीक्षते । पश्य- तीत्यर्थः । तस्मान्मैवेतः परमेवं कुर्या इति तात्पर्यम् । अतो विरहिणी मुग्धा स्वकीयादिरेव नायिका । अपराधाभासी नायकः । संभोगारम्भो विप्रलम्भश्च शृङ्गारः। उत्प्रेक्षालंकारः। परिकरकाव्यलिङ्गाद्यपि ॥

 इत्थमौदासीन्यमवलोक्य श्रीरामः सीतां श्रीकृष्णो राधां वा परमोत्तमनायक- त्वेन खमात्रापराधमवधारयन्नधरादितद्रूपवर्णनेन प्रसादयति-

अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी ।
तनुरप्रतिमा च सुनुवो न विधेरस्य कृतिं विवक्षति ॥ ६८ ॥

 अधरेति । अयि प्रिये । इयं तवेयध्याहारस्तु वक्तुविह्वलत्वेनानुसंधानवैधु- यदुणावह एव रसपरिपोषकतयेति ध्येयम् । अधरद्युतिरधरोष्ठकान्तिः, न तु पाद- तलदीप्तिः । एतेन चक्षुःसंनिकर्षस्य सांमुख्येन तत्रैवातिसत्त्वाचुम्बनानुरागाति- शयः सूचितः । अस्तेति । अस्ता अदर्शनं गताः । भीतभटन्यायेन संकुचिता इत्यर्थः । पल्लवाः पदस्वत्पदसौन्दर्यस्य लवो लेशो येषु ते तथा, न तु किसल- यानि यया सा तथेत्यर्थः । एवं चात्र मृदुवारुणत्वसरसवातिशयो द्योत्यते । तर्हि किं ममाधर एव रम्य इत्यत आह-मुखेति । आस्यसुषमा । शशीवि ।। शशिनः । न तु चन्द्रस्य । एतेन तत्र शशीयश्यामरूपशालित्वेन तत्कान्तौ लङ्घ- नार्हत्वं ध्वन्यते । तस्य या कान्तिस्तां लङ्घयत्यतिक्रामतीति तथा । तत्र क्षयिवा- दिदोषग्रस्तत्वेन खस्यां प्रतिक्षणाधिकवर्धिष्णुत्वादिगुणगणरमणीयत्वेन च तदति- क्रमणनिपुणत्वं व्यज्यते । नन्वथापि किं मुखमेव मामकं कमनीयमित्यत्राह-- तनुरिति । चः समुच्चये । तनुर्व्यक्तिरपि सकला अप्रतिमैव । अनुपमैवेत्यर्थः । यद्वा न विद्यते प्रतिस्पर्धिनी मा लक्ष्मीरपि यस्याः सा तथेति यावत् । एतेन त्रैलोक्यसुन्दर्याः श्रियोऽपि तव सौन्दर्यमधिकमेवेति ध्वन्यते । तेन सद्यः सर्वा- इसंभोगाभिलाषो द्योत्यते । एतत्रितयं कर्तृ । अस्य वार्तमानिकस्य विधेर्ब्रह्मणः कृतिं रचनां न विवक्षति । नैव विशेषतो वक्तुमिच्छतीत्यर्थः । एवं च कल्पान्त- रीयस्य तस्येयं त्वक्षकृतिरूपाकृतिरस्ति वा न वेति संदेह एव तव संदेह इति भावः। यदि वर्तमानकालिकस्य कस्येयं कृतिस्तावकाकृतिः स्यात्तह्यन्याप्येवम् । तेन स्वाभाव्यादेव काचिदचिता स्यान्न तु तथा क्वापि दृश्यतेऽतः सम्यगेवेदमुक्तं नेत्यायेवं वदन्तमपि तं भ्रूभङ्गेनैवेक्षन्तीं पुनः प्रसादनाय तत्रापि तां विशि- नष्टि—सुध्रुव इति । शोभने स्मरकामुकाकारे ध्रुवौ यस्यास्तादृश्याः । तवेति यावत् । एवं च स्वस्यातिकामवैकल्यं व्यज्यते । अतः सद्यस्त्वं सप्रसादं सुरतं वितरेति तात्पर्यम् । अत्रोक्तैव रुष्टा नायिका । अनुनयी नायकः । उक्त एव शृङ्गारः । प्रतीपानन्वयावलंकारौ ॥

 अथैवं स्तुवयपि श्रीरामेऽप्रसन्नायामेव सीतायां सत्यां सति मत्संनिधाने पर- मपतिव्रतात्वेनात्युत्तमनायिकाया अस्या मद्वयस्यायाः सुरतानुकूल्यसूचकचेष्टावि• शेषात्मकस्मितकटाक्षविक्षेपादिलक्षणप्रसादकरणानौचित्यान्मयैवेतःपरं रत्यागारा- दस्माद्वहिर्गन्तव्यमित्याशयेन तथा च रत्या तद्रहःसख्या काचिदन्या तादृश्येव तद्वयस्या सीतारामयोरैक्यमाकाङ्गन्ती तत एव परमोत्कण्ठया ‘भो सखि, किं जानकी प्रसन्ना वा न वा' इति पृच्छन्ती यत्र परकीयस्यापि रावणाख्यस्य नाय- कस्य केवलमस्याः सौन्दर्यश्रवणमात्रजन्यविरहाग्निनैतादृश्यवस्था बभूव । तत्र खकीयस्य संपादितबहुवारतदुपभोगस्य श्रीरामस्य तन्निकटवर्तिनस्तदप्रसादजनि- ततद्विरहान लेनातुलव्याकुलीभाव इति द्योतयन्त्या नैवाद्याप्यसौ प्रसीदतातिव्यञ्ज- नावृत्या प्रतिबोध्यते-

व्यत्यस्तं लपति क्षण क्षणमहो मौनं समालम्बते
सर्वस्मिन्विदधाति किं च विषये दृष्टिं निरालम्वनाम् ।
वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृतिं
वैदेहीविरहव्यथाविकलितो हा हन्त लङ्केश्वरः ॥ ६९ ॥

 व्यत्यस्तमिति । लपति भाषते । अङ्गेषु स्मरशरनिकरपराघातसंजातकम्पि- तेष्ववयवेषु सत्स्वित्यर्थः। अत्र नायिका तुक्तैव । विरही स्वकीय एवं प्रतिपाद्यो नाय- कः । परकीयस्तु निदर्शनीय एव । विप्रलम्भः शृङ्गारः । काव्यापत्तिरलंकारः ॥

 तदवसरे निरुक्तनायिकामानभङ्गार्थ भगवतः श्रीरामस्य प्रपूर्वपद्यस्तुतावप्य- प्रसन्नराधिकाविरहव्याकुलस्य श्रीकृष्णस्य चेच्छया संपन्नपूर्णचन्द्रोदयं कवि- वैर्णयवि--

उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललनाचूडामणिशासनेन मदनेन ॥७०॥

 उदितमिति । तत्राप्येकमनिष्टमेव संपन्न मिति द्योतयति–रुदितमिति द्विती-

यचरणेन । किं तर्हि न स्वाभीष्टमभूदित्यत्राह–मुदितमित्युत्तरार्धेन । चूडामणय इव रूपाद्याधिक्येन मुख्याः । स्पष्टमन्यत् । तस्मात्खेष्टप्रयोजकमात्रं संपन्नम् । न त्वद्यापि तदिति भावः । अत्र काव्यलिङ्गमलंकारः । अन्यत्तु प्राग्वदेव ॥

 अथ व्याकुलं श्रीकृष्णमेव तत्सखी स्वस्थकर्तु संफुलेन्दीवरं सरः प्रदर्शयति--

इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ७१ ॥

 इदमिति । स तं(तां) प्रत्याह-सखे इति । त्वद्वचस एव तत्स्मारकत्वात्। अत्र बहुवचनान्न रामः । इह स्मृत्यलंकारः। शिष्टं तु प्राग्वदेव स्पष्टं च ॥

 अथैवं समुदितेऽपि चन्द्रमण्डलेऽनुशान्तमानां जानकी राधिका वावलोक्य श्रीरामः श्रीकृष्णो वा परमैश्वर्यवशात्तत्कालं चरमं माराख्ने प्रावृशोभाविभवनं संपाद्य तद्वशेन तामुपालम्भतः प्रसादयामासेति कविः संवर्णयति-

मुञ्चसि नाद्यापि रुष भामिनि मुदिरालिरुदियाय ।
इति सुदृशः प्रियवचनैरपायि नयनानकोणशोणरुचिः ॥७२॥

  मुञ्चसीति । हे मानिनि, इयं मुदिरालिः। ‘घनजीमूतमुदिरजलमुग्धूमयोनयः इत्यमरात्कादम्बिनीत्यर्थः । उदियायोदिताभूत् । एवं च मलिनयाप्यनया घनश्रे- ण्याभ्युदये समासादितेऽन्तर्बहिःशुद्धायाः सर्वाशमुग्धायास्तव मानैकमौनत्वमनुचि- तमेवेति सूचितम् । त्वं त्वयाप्येवं प्रावृडागमेऽपि रुषं क्रोधं न मुञ्चसि । तस्मा- द्धन्यैवासीति विरोधिलक्षणया विचक्षणवशून्यत्वं ध्वन्यते । इति प्रियवचनैः खप्रेयश्चाटुचयैः । सुदृशः । एतेन श्लेषाद्विचारशालित्वं व्यज्यते । अत एव । नयनेति । रोषसूचकलोचनकमलकोणारुणिनेत्यर्थः । अथायिषिता(अपाय्यपेता)। अगमदिति यावत् । एवं च सद्यः सुप्रसन्नाभूदिति भावः । अत्र विगतमाना स्वकीयादिर्नायिका । अनुनयी लब्धसाध्यश्च नायकः । संभोगः शृङ्गारः । लुप्तो- पमादिरलंकारः ॥

 एवं तदोषावमोषपरितोषतः श्रीरामः सीतां श्रीकृष्णो राधां वाभिवर्णयति-- आलोक्येत्यादिद्वाभ्याम् ।

आलोक्य सुन्दरि मुख तव मन्दहास
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः ।
किं चासिताक्षि मृगलाञ्छनसंभ्रमेण
चञ्चपुटं चटुलयन्ति चिरं चकोराः ॥ ७३ ॥

 आलोक्येति । मिलिन्दा भ्रमराः । अमन्दं नन्दन्तीति संबन्धः । असितेति साभिप्रायम् । अत एव । मृगेति । त्वत्कान्यमृतप्राशनार्थमित्यार्थिकम् । चटु- लयन्ति विकासयन्ति । एवं च मुखे प्रसादातिरेकः सूचितः । इह प्रसन्ना नायिका । प्रीतो नायकः । उक्त एव शृङ्गारः । भ्रान्तिरलंकारः ॥

स्मितं नैतत्किंत्तु प्रकृतिरमणीयं विकसितं
मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम् ।
स्तनद्वन्द्व मिथ्या कनकनिभमेतत्फलयुग
लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥ ७४ ॥

 स्मितमिति । एतन्मुखमिति को वा ब्रूत इत्यन्वयः । एतेनापि प्रसादोत्कर्ष- स्तस्यां पद्मिनीत्वं च व्यज्यते । भ्रमरेति । एतेन कबरीसौन्दर्यातिशयः सूचितः । अत एव सेयं प्राक्कोपितापीदानीं सुप्रसन्नत्वेन प्रत्यक्षेत्यर्थः । रम्या लता । कल्प- वहयेवेति यावत् । शिष्टं तु स्पष्टमेव इहोपह्नुतिरलंकारः । अन्यत्प्राग्वदेव ॥

 एवं स्तवनोत्तरं यथेच्छं तद्रात्रौ रति विलासं संपाद्य द्वितीयदिवस आसायं विरहवशेन व्याकुलमनाः श्रीरामः श्रीकृष्णो वा चन्द्रोदयं निरीक्ष्य तत्र सूर्यत्वमुत्प्रेक्षते-

संग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर-
व्यादीर्णोकृतमध्यभागविवरोन्मीलन्नभोनीलिमा।
अङ्गारप्रखरैः करैः कवलयन्नेतन्महीमण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः॥७५॥

 संग्रामेति । संग्रामः संगरस्तस्याङ्गणं स्थलं तत्रापि संमुखं न तु पृष्ठत आहताः समन्तात्खङ्गधारया निहता एतादृशः कियन्तस्तादृशां दुर्लभवात्कविचिदेव ये विवंभरा पृथ्वी तस्या अधीश्वराः पृथ्वीपतयः । क्षत्रिया इति यावत् । तेषामेव रणादौ मुख्याधिकारात् । तैयदीर्गीकृतो विदारितः । तदुक्तम्-‘द्वावेव पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड योगयुक्तश्च रणे चाभिमुखं हतः ॥ इति । तत्र प्रकृतं आद्यं विहायान्यस्यैव कल्पनम् । श्रीरामादेः क्षत्रियत्वात्तस्य शृङ्गा- रविरोधित्वाञ्च युक्तमेव । एतादृशो यो मध्यभागस्तस्य यद्विवरं छिद्रं तेनोन्मील- प्रकटीभवन्नभोनीलिमाकाशकाष्र्यं यस्मिन्स तथेत्यर्थः । एतेन यद्ययं सूर्य एव न चन्द्रस्तर्हि कलङ्ककालिन्नः का गतिरिति शङ्काशान्तिः स्फुटिता । तथा । अङ्गारेति । अङ्गारा ज्वलत्काष्ठानि तद्वत्प्रखराः प्रकर्षण तीक्ष्णास्तैरित्यर्थः। ‘तिग्मं तीक्ष्णं खरम्' इत्यमरः । एतादृशैः करैः किरणैः । एतत्प्रत्यक्षम् । महीति । पृथ्वीतलम् । एतेन खानुमानेन ‘अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत्' इत्यभियुक्तोत्या च नाय- मस्मान्सूर्यवत्संतापयति, ततः कथं त्वयायं सूर्य एवेत्यवधार्यत इति प्रश्नः प्रयुक्तः । कवलयन्प्रसन् । न तु संतापयन्नेव । तेन तत्र परमासह्यत्वं ध्वन्यते । एतादृशः सन् । अयं प्रत्यक्षः । एवं च निरुक्तधर्मितयानुभूयमानत्वेन सर्वथापलापानर्हत्वं योल्यते । मार्तण्डः सूर्य उदेत्युदयं प्राप्नोति । नहि नहि, भो भगवन् , अयं चन्द्र एवेति कृतवादं कंचित्सुहृदं प्रत्याक्षिपति–केनेत्यादिशेषेण । तथा चातस्मिंस्त- द्वद्धिलक्षणेन स्वस्य भ्रमेणाखिललोकवचनं हि मौख्यैककार्यम् । अतः स तत्साध- त्पशुरेवेति भावः । अत्र विनापि सूर्यत्वमेव दृढीकृतं बोध्यम् । इह विरही नायकः । विप्रलम्भः शृङ्गारः । हेत्वपहृत्यलंकारः ॥

 ततः समयानुसारेणाभिसरन्तीं खमेव सीतां राधा वा दूरावलोक्य श्रीरामः श्रीकृष्णो वा स्वमनस्येव तत्कटाक्षपातेन सद्यःसंमोहादिलिईन तक्षेत्रीयश्यामा- दिरूपे हालाहलाद्युत्प्रेक्षते-

श्यामं सितं च सुदृशो न दृशोः स्वरूपं
किं तु स्फुटं गरलमेतदथामृतं च ।
नो चेत्कथं निपतनानयोस्तदैव
मोहं मुदं च नितरां दधते युवानः ॥ ७६ ॥

 श्याममिति । सुदृशः प्रकृतमृगाक्ष्याः। दृशोर्नेत्रयोः । श्यामं कृष्णं सितं शुक्लं च खरूपम् । अत्र रूपपदेनैव चारितार्थे खपदं शुक्लपटादेः काश्मीरजरसजन्यपी- ताद्यगन्तुकरूपव्युदासार्थमेव । तथाच कर्मधारय एवात्र न षष्ठीतत्पुरुषः । तेन खं नाम लक्षणया खभावसिद्धमित्यर्थः । न नैव भवति । किंतु । एतत्प्रत्यक्षम् । स्फुटं सर्वानुभवसिद्धम् । एतेनैकस्यैव खप्नदर्शनवद्धमत्वं प्रत्युक्तम् । क्रमादितिशेषः । गरलं विषम् । अथानन्तरं विषत्वस्य श्यामरूपावच्छेदेनाध्यवसानोर्वमि- त्यर्थः । अमृतं पीयूषम् । चोऽवधारणे । तेनात्र शङ्कानवकाशः सूचितः। विपक्षे- ऽनुकूलतर्कपराहतिमाह-नो चेदित्युत्तरार्धेन । नो चेदुक्तकल्पना नाद्रियेत चेद- नयोः प्रकृतहगवच्छिन्नश्यामादिरूपयोः । निपतनात् । नितरां सानुरागकटाक्षप्र. क्षेपावच्छेदेन कान्त्यात्मना संचरणादित्यर्थः । तदैव न तु क्षणान्तरे। तेन वक्ष्य- माणकार्ये कारणान्तरसंभवव्युदासः सूचितः । युवानोऽस्मदायस्तरुणाः । नितरा- मत्यन्तं नतु क्षणिकम् । तेन लोकोत्तरत्वं द्योत्यते । मोहं वैचित्यम् । मूर्च्र्छ- मिति यावत् । अनुरागस्तहिं तत्र कथमित्यत आह—मुदमिति । हर्षमित्यर्थः । दधते धारयन्तीति संबन्धः । हालाहलस्य दर्शनान्मोहस्तथामृतस्य दर्शनान्मोदश्च समुद्रमथने प्रसिद्ध एवैवं तयोनीलधवले रूपे अपि शिवग्रीवासुधाकरयोरिति युक्त एवायं कार्यान्यथानुपपत्तिमूलकस्तर्क इत्याशयः । अत्राभिसारिका स्वकीयादिन- यिका। मुदितो नायकः । संभोगः शृङ्गारः । हेत्वपहुतिरलंकारः ॥

 ततः किंचिदग्रे समुपागतां तामलक्ष्य तद्वदनं संदेहालंकारेण वर्णयति-

अलिगो वा नेत्रं वा यत्र किंचिद्विभासते।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥ ७७ ॥

 अलिरिति । यत्रालिभैमरो वा मृगो वा नेत्रं वा । जायैकवचनम् । किंचिद्वि- भासते तदिदं क्रमादरविन्दं कमलं वा मृगाङ्कश्चन्द्रो वा मृगीदृशः प्रकृतनायि- काया मुखं वास्तीत्यन्वयः । अत्र मृगीदृक्पदमुक्तयोग्यतार्थम् । शिष्टं तु स्पष्ट- मेव पूर्ववचे ।

 अथाति निकटमभिसृतां सीतां श्रीरामो राधां वा श्रीकृष्णस्तरप्रसन्नतराननवर्ण- नेनाभिनन्दयति–दयिते इत्यादि द्वाभ्याम् ।

दयिते रदनत्विषां मिषा-
दयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो
मकरन्दस्पृहयालवोऽलयः ॥ ७८ ॥

 दयिते इति । अयि दयिते। एतेन प्रेमप्राचुर्यं सूचितम् । ते तव । रदनेति । स्मिताविर्भूतदन्तकान्तिछद्मनेत्यर्थः । अमी प्रत्यक्षाः । एतेन प्रसादस्य तात्कालिकत्वेनात्यानन्दहेतुत्वं व्यज्यते । न तु स्मर्यमाणत्वेन सुखमात्रप्रयोजक- त्वम् । केसराः किञ्जल्काः । एतेन तदानने शरन्मध्याह्न कालिककमलत्वं तदधरे अवालाधिकारुणत्वं शुक्ला परमसूक्ष्मदन्तहीरककणिकाकान्तिपु खदीप्तिसंमेलनेन कुङ्कुमसंपर्कतश्चन्दनस्येव पीतवर्णकिजल्काध्यवसानार्हत्वं च ध्वन्यते। हेलन्तरमपि तत्र निरुक्तपद्मवनिर्णयप्रयोजकमाह-अपि चेति चरमार्धेन । समुच्चयार्थकमेवेदं निपातद्वयम् । मकरन्देति । मकरन्दे पुष्परसे स्पृहयालवः । स्पृहाशीला इत्यर्थः । अतएव । अलकेति । त्वत्केशवेषधरा इत्यर्थः । अलयो भ्रमरा एव सन्तीति । योजना । एतेन तत्केशानां कुटिलत्वनीलत्वे सूचिते । यो हि यमर्थ यतमानोऽपि न लभते स तदर्थं वेषान्तरमपि धृत्वा तं साधयत्येवेति कवचकुण्डलादौ महाभा- रतेऽवलोकितमेव । अतस्त्वद्वदनपझमकरन्दस्य लोकोत्तरत्वेन मधुपानां स्वप्नेऽप्य- लभ्यत्वात्तैस्त्वत्केशवेषमासाद्य तदर्थ यत्यत इत्याशयः । इह मुदिता स्वकीयादिन- यिका । कुशलो नायकः । संभोगः शृङ्गारः । कैतवापलुतिरलंकारः ॥

अनिशं नयनाभिरामया
रमया संमदिनो मुखस्य ते ।
निशि निःसरदिन्दिरं कथं
तुलयामः कलयापि पङ्कजम् ॥ ७९ ॥

 अनिशमिति। न तु दिवस एव । नयनेति । लोचनाप्रिययेति यावत् । रमया लक्ष्म्या । शोभयेत्यर्थः । शब्दादिशोभा हि श्रोत्रैकवेद्येति तद्युदासार्थ नयनेति विशेषण युक्तमेव । संमदिनः । ‘प्रमोदामोदसंमदाः' इत्यमरादानन्दिन इत्यर्थः ।। एतादृशस्य ते मुखस्य वदनस्य । कलयापि षोडशभागेन नेत्रेणापि सहेयर्थः । एतेन सर्वांशतुलाराहियस्य कैमुत्यसिद्धिर्ध्वनिता । तत्र हेतु द्योतयन्पङ्कजं विशि- नष्टि-निशीति । रात्रावियर्थः । निःसरदिति। निःसरन्यपगच्छन्तीन्दिरा शोभा यस्य तत्तथा । सूर्यास्ते हि पद्म मुकुलत्येवेति प्रसिद्ध लोके । एतादृशं क्षणिकैश्वर्य- शालि पङ्कजं पद्म कथं वा तुलयाम इत्यन्वयः। तस्मान्निरुपममेवेदं तवाननमिति तत्त्वम् । अत्र प्रतीपविशेषोऽलंकारः । अन्यत्प्राग्वदेव ॥

 एवम् सीतां श्रीरामो राधां श्रीकृष्णो वाभिनन्द्य यथेच्छ तया सह तृतीयपुमर्थ- सुखमनुभूय तत्सुखपारवश्येन व्युत्थानकालानवधानात्सङ्गवे ( त्सखे ) किमिदं कान्तापारतक्ष्यमायुष्मतां भवतामिति केनचिद्रहःसुहृदाक्षिप्तस्तं प्रत्याहू-अजैरि- त्यादिद्वाभ्याम् ।

अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति ।
विकलयति कुसुमबाणो बाणालीभिर्मम प्राणान् ॥ ८० ॥

 अङ्गैरिति । भो मित्र, सा पूर्वप्रकृता नायिका । कुसुमबाणो मदनः । साभि- प्रायमिदम् । नायिकाङ्गैः पुष्पशोभापहारे कृते तत्पक्षपातितया तल्लक्षणबाणैर्मत्प्रा- णविकलीकरणं राजनीति विरुद्धमेवेति भावः । तस्मादेतादृशविपरीतकारिपरतत्रा- णामस्माकं प्रमादोऽयं कथं नाम दोषावहः स्यात् । प्रत्युत निरुक्तवीरस्मरभट्टारकप- रितोषकारित्वादसौ गुण एवेति तात्पर्यम् । अत्र लोकोत्तरसुन्दरी स्वकीयादिरेव ना- यिका । कोविदो नायकः । संभोगः शृङ्गारः । असंगविरलंकारः। परिकराङ्कुरश्च ॥

खिद्यति सा पथि यान्ती कोमलचरणा नितम्बमारेण ।
खिद्यामि हन्त परितस्तदूपविलोकनेन विकलोऽहम् ॥ ८१ ॥

 खिद्यतीति । सा प्रकृतनायिका । कोमलेति साभिप्रायम् । अत एव पथि यान्ती सती नितम्बमारेण खिद्यतीत्यन्वयः । हन्तेति खेदे। अहं तद्रूपालोकनेन विकलः सन्परितः खिद्यामीति संबन्धः । काव्यलिङ्गादिरलंकारः-शेषमति- रोहितार्थम् ॥

 अथाकस्मादागतेऽकूरे श्वः श्रीकृष्णे मथुरां प्रति जिगमिषौ सति सामान्यतः सर्वासामपि व्रजयुबतीनां प्राणसद्भावोऽपि तद्विरहे भारीभूत एवेति तावतैवातिदुः- खितानां निशि दैवादाकावशेन पूर्णशरदिन्दुकान्तिरपि प्रलयानलायमाना तथा सवमन्दिरावच्छिन्नाम्बरमपि कल्पाब्धिकल्पमेवाभूदिति कविः कल्पयति--

मथुरागमनोन्मुखे मुरारा-
वसुभारार्तिभृतां व्रजाङ्गनानाम् ।।
प्रलयज्वलनायते स्म राका
भवनाकाशमजायताम्बुराशिः ॥ ८२ ॥

 मथुरेति । असवः प्राणास्तेषां यो भारस्तेन यार्तिः परमतमपीडा तां बिभ्रति तास्तथा तासामित्यर्थः । हरि विरहेऽन्तःसमीरोऽपि भारीभूत एवं व्रजसुन्दरीण सामान्यतस्तदा तदेकजीवितावधिकायाः श्रीराधिकायाः कैव कथा तथात्व इत्या- शयः । न केवलमेवमन्तर्वेदनैव, अपि तु बाह्याप्यसौ तथेति कथयति-"लये- त्याद्युत्तरार्धेन । 'ज्वलनो हव्यवाहनः' इत्यमराप्रलयकालानलवदाचरति स्मेत्यर्थः । भवनेति । ‘भवनागारमन्दिरम्' इत्यपि तदुक्तेः खगृहावच्छिन्नव्योमापीत्यर्थः । अम्ब्विति । प्रलयकालिकसमुद्र एवेति यावत् । अत्र तैजसत्वविपुलत्वाभ्यामेवान- योस्तत्साधम्र्ये बोध्ये । इह विरहिण्यः परकीया एवं मध्या नायिकाः । धीरो नायकः । विप्रलम्भः शृङ्गारः । लुप्तोपमादिरलंकारः ॥

 किंच न केवलं रूपवैभवेनैव जानक्यां ममायासक्तिः, किंतु गुणवैभवेनापीति प्रपूर्वपद्यप्रकृतः श्रीरामः खरहःसुहृदं तथा श्रीकृष्णो वा पूर्वपद्योकरीत्या मथुरा गत्वा कंसादींश्च हत्वा राधाद्यखिलगोपिकासान्त्वनार्थ मुद्धवं प्रेषयंस्तं प्रति तच्चा- तुर्यचमत्कारं स्मृवी प्रपञ्चयति--

केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः
सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः ।
जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताझ्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥८३॥

 केलीति । भो मित्र, केल्याः क्रीडाया यन्मन्दिरं गृहं रत्यागारं तत्रागतस्तद- र्थमुपागतस्तस्येत्यर्थः । एतादृशं मामवलोक्येति यावत् । अत एव शनकैः । न तु तत्कालम् । नो चेन्मदागमनमनया ज्ञातमेवेति मम प्रेमासंभवेन वक्ष्यमीणखरो- षावमोषणभङ्गापत्तिः स्यात् । आलीवयस्याः । इङ्गितैः सुप्तिसूचकप्रावरणग्रहणादि. चेष्टितैः । न तु वाचा । तथात्वे जागरसंभवेनोक्तपतितावस्थ्यमेव । एतेन चातु- यतिशयः सूचितः । अपास्य बहिर्निरस्य । सुप्ताया निद्राणायाः । तत्र हेतुः- सेति । किंचिद्विलम्बेनोपगतत्वान्मयि रोष प्रकाशयन्त्या इत्यर्थः । अत एव । सरोरुहेति । कोकनदनयनाया इति यावत् । कर्मणि षष्ठीयम् । अतएव संवीज- नम् । एतादृक्प्रकृतनायिकाकर्मकप्रसूनव्यजनजन्यपवनशिशिरीकरणमित्यर्थः । कुर्वतोऽनुतिष्ठतचेति यावत् । निद्राणायास्तावद्रमण्याः प्रसूनव्यजनसमीरणैः शिशि- रीकरण जागरोद्यर्थं चतुराणामुचितमेव । एतादृशस्य मम पाणिः । जानन्यापि। मदागमनादिज्ञातवत्यापीत्यर्थः । अनभिज्ञयेव । अतएव । कपटेति । कपटेन व्यामीलिते विशेषेण आ ईषन्मीलितेऽक्षिणी यया सा तथा । तयेत्यर्थः । एतेना- धंसुप्तिबोधनं ध्वन्यते । एतादृश्या तया प्रकृतनायिकया। कर्येत्यर्थः । एतेन क्रियाविदग्धत्वं द्योत्यते । हे सखि, त्वं श्रान्तासीत्यभिधाय संवीजनं कुर्वन्तं मां प्रति सखीबुद्ध्यैवेयं जल्पतीति प्रकाश्येति यावत् । वक्षसि । खहृदय इत्यर्थः । एतेनोक्तपवनशीतलेन त्वत्पाणिना तर्हि मम हृदयजाग्निप्रशमनं भवत्विति विरहातिरेकः प्रागुक्तसंवीजनेन परमोपकर्ता श्रान्तश्चायं पाणिरेव हृदये कार्य इति वा प्रत्युपकारपूर्वकः स एव सूचितः आसञ्जितः । समन्तात्संघट्टितः । न तु केवलं योजितः तेनोत्कण्ठौत्कट्यं व्यज्यते । अत्र चतुरावेव नायिकानायकौं । संभोगः शृङ्गारः ॥

 अथ पुनरपि श्रीरामः सीतायाः श्रीकृष्णो वा खोपनयनाद्युत्तरं रुक्मिण्याः पाणिग्रहणादि विधाय खमनस्येव सौन्दर्य वयःसंधिकालिकं संवर्णयति-

मान्थर्यमाप गमनं सह शैशवेन
रक्तं सहैव मनसाधरविम्बमासीत् ।
किं चाभवन्मृगकिशोरदृशो नितम्बः
सर्वाधिको गुरुरयं सह मन्मथेन ॥ ८४ ॥

 मान्थर्यमिति । मृगेति । एतेन तन्नेत्रयोरतिचपलखविशालत्वकृष्णत्वसर- सत्वानि सूचितानि । एतादृश्याः प्रकृतनायिकायाः संबन्धीत्यर्थः । गमनं शैश- वेन बाल्येन सह । मान्थर्य मन्दत्वम् । आपेति योजना । अनयोरपि क्लीबत्वेनो- चितमेव साहचर्यम् । एवमधर बिम्बमपि । अधरोऽधरोष्ठ एव बिम्बम् । एतन्ना- मकं पक्वतुण्डीफलमित्यर्थः । मनसा चेतसा सहैव रक्तमारक्तं पक्षेऽनुरक्तं चासी- दियन्वयः । किं चेति समुच्चये। तथायं प्रत्यक्षः। एतेन तस्यास्तदानीं पुरोवर्तित्वं द्योत्यते । नितम्बः कटिपश्चाद्भागः । जात्यभिप्रायकमेवैकवचनम् । तथोद्वित्व- प्रत्यक्षात् । मन्मथेन मदनेन सहैव । सर्वाधिकः सर्वोत्कटः । एतेन सर्वात्मना- दरणीयत्वं व्यज्यते । तत्रापि गुरुर्महान्पक्षे पूज्योऽभवदित्यन्वयः । तस्मादुचित एवास्यां मदनुरागातिशय इत्याशयः । इह सुन्दरी मध्या स्वकीयैव नायिका ।। अनुरको नायकः । संभोगः शृङ्गारः । सहोक्तिरलंकारः ॥

 अत्रान्तरे श्रीराम प्रति तावत्कालिकविरहमप्यसहन्त्याः सीतायाः, सखा व्रजं प्रति प्रेषितस्ततः समागतस्तावदुद्धवो वा श्रीकृष्ण प्रति राधायाः परमविरहग्लानिं वर्णयति-श्वास इति त्रिपाद्या-

श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।।
तस्याः सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ ८५ ॥

 श्वास इति । हे सुभग शोभनैश्वर्य । एतेन परवेदनानभिज्ञाननिदानं ध्वनितम्। श्वासोऽनुमान वेद्यः। कापससूत्रलेशस्य तन्नासाग्रसंयोजने, विधीयमाने तत्कम्पाख्यकार्यलिङ्गकानुमानैकगम्य इत्यर्थः । अतएव । अङ्गानि हस्तपादायवयवाः । शीतानि शीतलानि । इदं सुष्माभावसूचकत्वेन प्राणोत्क्रमणस्यैव लिङ्ग लोकादी प्रसिद्धमेव । तथा दृष्टिरपि निश्चला । तटस्थेत्यर्थः । पूर्वोत्तरयोर्धर्मयोः समाधिव्य- भिचारित्वेऽपि मध्यमस्यैवाव्यभिचारित्वेनानयोरपि तथात्वमेव ज्ञेयम् । इयं तस्याः प्रकृतनायिकायाः कथास्तीत्यन्वयः । तस्मात्त्वयातित्वयैव तत्र गन्तव्यमिति भावः । एवमत्युक्तिवशादमङ्गलप्रायत्वेनासहिष्णुत्वात्क्रुद्ध इव श्रीरामः श्रीकृष्णो वा तं तिरस्करोति–तिष्ठत्वित्यादिशेषेण । एवं चेदं श्रोतुमपि मया नैव शक्यत इत्याशयः । अत्र विरहिणी स्वकीयादिनायिका । क्रुद्धो नायकः । विप्रलम्भः शृङ्गारः । काव्यलिङ्गमलंकारः ॥

 ततः श्रीरामः शीघ्र सीतामुपेत्य तत्करे खकरस्थापनं धमनीक्षणार्थ कृत्वा तस्यास्तत्स्पर्शमात्रेण चेतनोद्गमात्खस्य च ततः कामिकसात्विकवेपथ्वागमाच्च तत्कालं चकम्प इति कविर्व्य॑नक्ति--

पाणौ कृतः पाणिरिलासुतायाः
सस्वेदकम्पो रघुनन्दनेन ।
हिमाम्बुगङ्गानिलविह्वलस्य
प्रभातपद्मस्य बभार शोभाम् ॥ ८६ ॥

 पाणाविति । इलासुताया भूमिनन्दिन्याः । एतेन तात्कालिकातिजाड्यं व्यज्यते । पाणी करे । रघुनन्दनेन श्रीरामेण कृतः पाणिः सखेदकम्पः सन् । हिमेति । हिमं शीतमम्बु यस्याः । एतादृश्या गङ्गाया योऽनिलो वायुस्तेन विह्वलं विकलं तस्येत्यर्थः । स्पष्टमन्यत् । अत्र विरहिण्येव नायिका। सोत्कण्ठो नायकः। संभोगः शृङ्गारः । निदर्शनालंकारः ॥

 अथ श्रीरामः स्वकरस्पर्शमात्रेण सद्यः सावधानां सीतां प्रपूर्वपद्योक्तरीत्या पाणिग्रहणाद्युत्तरं क्रीडागारमुपानीत रुक्मिणी प्रति श्रीकृष्णो वा चुम्बनार्थित्वेन तधरं प्रवालपल्लवाधिक्येन वर्णयति-

अरुणमपि विद्रुमद् मृदुलतरं चापि पल्लवं बाले।
अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ॥ ८७ ॥

 अरुणमपीति । हे बाले, द्वादशवर्षोषोडशवर्षवयस्के प्रकृतनायिके । एतेनावश्यस्तवनीयत्वमप्रौढ्या ध्वन्यते। तवाधरः । अयमिति शेषः । अरुणमप्यारकमपि विद्रुमद्रुम् । ‘दुद्रुमागमाः' इत्यमरात्प्रवालतरुमित्यर्थः । तथा मृदुलतरं परमकोमलम् । एतादृशं किसलयं पल्लवं चापि । मधुरिमेति । माधुर्योत्कर्षात् । अधरीकरोति । तुच्छीकुरुत इत्यन्वयः । तस्मात्त्वयाद्य स एव मां पाययितव्य इत्याशयः । अत्र वकीयैव मध्या नायिका । कामुको नायकः। संभोगः शृङ्गारः। प्रतीपविशेषोऽलंकारः ।।

 ततस्तया दीयमाने स्वयंग्रहालिङ्गनादिना तृतीयपुमर्थीभूतसुरतसुखे श्रीरामः श्रीकृष्णो वा क्रमाजानक्या रुक्मिण्या वा तात्कालिकलोचनादिसौन्दर्यं वर्णयति-- नयन इत्यादिद्वाभ्याम् ।।

नयने वहतां नु खञ्जनाना-
मिह नानाविधमङ्गभङ्गभाग्यम् ।
मुखमेतु तुलां कथं सुशोभं
सुदृशो भङ्गुरसंपदाम्बुजेन ॥ ८८ ॥

 नयने इति । सुदृशः प्रकृतमृगाक्ष्याः। नयने नेत्रे। इहास्मिन्सुरतकाले। खञ्ज. नानाम्। खञ्जरीटाख्यपक्षिविशेषाणामित्यर्थः। नानाविधं बहुप्रकारम् । एतेन खभा- वोत्या तात्कालिकोऽनिर्वच्यश्चमत्कारस्तल्लोचनयोः सूचितः । अङ्गेति। अङ्गानामव- यवानां भङ्गः ‘भङ्गस्तरङ्ग ऋग्भेदे छेदे जयविपर्यये' इति विश्वात्पराजयो येन तच्च तद्भाग्यम् । ऐश्वर्यमित्यर्थः। एतेन तन्नयनयोस्तत्कालं खञ्जनाङ्गपराभवकारि भूरि- तरसामर्थ्यवत्त्वेनातिचापल्यादि योतितम् । वहतां नु धारयतां किम् । उत्प्रेक्षया त्वेतदपि वक्तुमशक्यमेव तयोर्निरुपमत्वात् । तस्मादनिर्वचनीयमेव तद्वैभवमिति व्यज्यते । एवं चेन्निरुक्तसुन्दरतरनेत्राधिकरणत्वेन सुशोभं परमनिरन्तरशोभा- शालीदमस्या मुखम् । भङ्गुरेति । नश्वरलक्ष्मीकेन का(अ)म्बुजेन पध्मेन सह तुलां कथमेतु । न कथमपीति संबन्धः । एवं चैतदुपलक्षितनिरुपमसर्वाङ्गसुन्दर्ये- वेयमित्याशयः । अत्रोत्प्रेक्षाप्रतीपे चालंकारौ । शेषं सर्वं प्राग्वदेव ॥

सुदृशो जितरत्नजालया
सुरतान्तश्रमबिन्दुमालया।
अलिकेन च हेमकान्तिना
विदधे कापि रुचिः परस्परम् ॥ ८९ ॥

 सुहश इति । जितं पराजितं रत्नजालं हीरकादिरवकणिकाजालकं यया सा तथेत्यर्थः । सुरतेति । बिन्दवोऽत्र स्वेदजा एव । अलिकेन ‘ललाटमलिकम्’ इत्यमराद्भालेनेत्यर्थः । रुचिः कान्तिः । परस्परमन्योन्यं विदधे । कृतेत्यर्थः । स्वदबिन्दुदीप्तिभाले तत्कान्तिश्च । तत्र प्रतिविम्बितेयतिचित्रमिदानीमेतदिति तत्त्वम् । अत्रान्योन्यालंकारः। शिष्टं तु सर्वं स्पष्टमेव । नायिकादिकं च प्राग्वदेव ।

 अथ कविः सीतारामयोरेव निरुपमं दाम्पत्यमिति द्योतयंस्तथाल एव तृतीय- पुमर्थसिद्धिरिति ध्वनयति-

परपुरुषदृष्टिपातवज्रा-
हति भीता हृदयं प्रियस्य सीता।
अविशत्परकामिनीभुजङ्गी-
भयतः सत्वरमेव सोऽपि तस्याः ॥ ९० ॥

 परपुरुषेति। परपुरुषाणां वकान्तभिन्न पुरुषाणां यो दृष्टिपातो इक्संचारः स एव वज्राहतिरशनिकर्तृकक्षतिस्तया भीता त्रस्ता सतीत्यर्थः । एतेन खरमणेतर- निरीक्षणे तस्याः प्राणान्ताधिकदुःसहमिति द्योतितम् । तेन च परमपातिव्रत्याव- धिरेव ध्वनितः । अतएव सीता जानकी प्रियस्य श्रीरामाभिधखप्रेयसः । हृदय. मन्तःकरणमेव । प्रकृतसंभोगपक्षे वक्ष एव । अविशत्प्रविवेश । तत्रैव तद्वयाभाव- संभवादिति भावः । सोऽपि श्रीरामोऽपि । परेति । परस्य या कामिनी सुन्दरी सेव भुजङ्गी सर्पिणी । 'वेश्यापतिभुजङ्गः स्यात्' इति कोशाद्विटस्त्री । वेश्येवि यावत् । तस्या एव प्रायः परपुरुषेक्षणप्रवृत्तिसंभवात् । तस्या यद्भयं तस्माद्धेतो- रित्यर्थः । तस्याः सीताया हृदयमित्यनुषज्यते । संभोगान्तं तद्विवेचनं तु प्राग्वदेव ।। तत्रापि सत्वरमेव न तु विलम्बेन । तेन भीत्यतिशयः सूचितः । इदं पूर्वार्धेऽप्य- पकृष्य योज्यम् । अविशदित्यादि पूर्ववदेव । एवं च प्रकृतरतान्ते गाढालिङ्गनेनैव ताभ्यां प्रसुप्तमिति संभोगपक्षे तात्पर्यम् । आद्यपक्षे तु सीतायाः सर्वदा श्रीराम- हृदयेकवर्तित्वस्य पूर्वार्धं वर्णितवात्तस्य तस्यां निरतिशयानुरागो व्यज्यते । एतेन रुक्मिण्यास्तथात्वेऽपि श्रीकृष्णस्य तथात्वान्न ततृतीयपुमर्थसिद्युदाहरणीभूतदा- म्पत्यमिति ध्वन्यते । एवमुत्तरार्धेऽपि श्रीरामस्य निरन्तरे सीतैकान्तःकरणवर्ति- त्ववर्णनतस्तस्या अपि तस्मिन्नसौ तादृशः सूच्यते । अत्र स्वकीयावेव संभोगैक- लीनौ नायिकानायकौ । स एव शृङ्गारः । रूपकगम्योत्प्रेक्षे अलंकारौ ॥

 ततः क्षणान्तरे समुत्थितां सीतां व्युत्थितः श्रीरामः प्रपूर्वपद्यप्रकृतः श्रीकृष्णो वा रुक्मिणीं पुनः सुरतलालस्येन स्तनमर्दनस्यैवालिङ्गनादिना कामशास्त्रे संभोगा- रम्भकालिकत्वात्तद्वर्णनं कुर्वन्नत्यर्थं प्रोत्साहयति-जम्बीरेत्यादि पञ्चभिः ।। | भा० वि० ९

जम्बीरश्रियमतिलङ्घय लीलयैव
व्यानम्रीकृतकमनीयहेमकुम्भौ ।
नीलाम्भोरुहनयनेऽधुना कुचौ ते ।
स्पर्धेते किल कनकाचलेन सार्धम् ॥ ९१ ॥

 जम्बीरेति। हे नीलेयादिसंबोधनम् । तेन रतिश्रान्तिराहित्यादिदानीं प्रसन्नत्वं व्यज्यते । यद्यपि मध्यवर्तिश्लोकत्रयेण नेत्रकोणादिवर्णनमपि कृतमथापि चरमश्लोके तयोरेव वर्णितत्वात्प्राधान्यं तत्रैव निरुक्तरतिलौल्यकृत्यावगन्तव्यम् । जम्बीरे प्रसिद्ध एव फलविशेषः । तच्छ्यिं तच्छोभाम्। लीलयैव न त्वायासेन अ- तिलछ्यातिक्रम्य। व्यानम्रीकृतेति । विशेषेणासमन्तान्नम्रीकृतौ कमनीयहेमकुम्भा- वुत्तमकनककलश याभ्यां तादृशौ सन्तावित्यर्थः । अधुना ते कुचौ कनकावलेन सार्ध स्पर्धेते किलेत्यन्वयः । एवं च तयोगरतरत्वोन्नतखपृथुत्वकठिनखातिशयः । सूचितः । तस्मादेतादृशाविमौ परश्रीहर्तारौ सकलभुवनभत्र मया कथं न मर्दनी- यावतस्त्वमालिङ्गनमेव द्रुतं देहीत्याशयः । इह खकीयैव मध्या रतान्तव्युत्थिता नायिका । कामुको नायकः । संभोगः शृङ्गारः । पर्यायोऽलंकारः ॥

 तत्र किमिदमित्याकूतेन कटाक्षतः पश्यन्तीं तां प्रत्याह--

अङ्गानि दत्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नणाम् ।
युक्तमेतन्न तु पुनः कोणं नयनपद्मयोः ॥ ९२॥

 अङ्गानीति । हे हेमाङ्गि स्वर्णवद्गौरि, त्वम् । अङ्गान्यालिङ्गनेन कुचादिसर्वा- वयवान् । दत्त्वा नृणाम् । ईश्वरत्वेन सर्वपुंमूलीभूतस्य ममेत्यर्थः । प्राणान्कीणासि चेदेतद्युक्तम् । न तु पुनवरंवारम् ।न तु सकृत् । नयनेति । कोण दत्त्वा प्राणा- न्क्रीणासीति युक्तमिति योजना । तात्पर्यायवशिष्टं सर्वं प्राग्वदेव । बहुतरहेममुद्रा एव दत्त्वा बहवो मणयो विक्रीयन्ते न त्वेकदेशमिति प्रसिद्धमेव लोके । परि- वृत्तिरलंकारः ॥

जितरत्नरुचां सदा रदाना
सहवासेन परां मुदं दधानम् ।
अधरीकुरुते शुभाङ्गि नासा-
मधुना साहसशालि मौक्तिकं ते ॥ ९३॥

 जितेति। अयि शुभाङ्गि, भो सवयवसुन्दरि प्रकृतनायिके । एतेन प्रागुक्ता- लिङ्गनप्रार्थनव्यञ्जनमेव द्योयते । ते तव मौक्तिकम् । तदुपलक्षितं नासाभूषणमित्यर्थः । एवं च नैकवचनेऽपि व्यवहारविरोधः । अधुनेदानीम् । जितेति । परा- जितहीरकादिरत्नकान्तीनामित्यर्थः । एतेन प्रागुक्तप्रार्थनया तस्यां तात्कालिकं स्मितं सूचितम् । एतादृशां रदानां दन्तानाम् । सदा निरन्तरे न तु क्षणमात्रम्। सहेति परामुत्कटाम् । मुदं हर्षम् । दधानं धारयदित्यर्थः । अहो पराजितहीरा- दिरत्नकान्तिदन्तसंततसंगतिशालित्वेन धन्यमेवाहमिति संमदवदिति यावत् । एतेन वक्ष्यमाणप्रमादहेतुर्हषः सूचितः । अतएव साहसेति । विवेकशून्यमित्यर्थः । अतएव नासां नासिकामधरीकुरुते स्वासनीकरोतीति संबन्धः । इह काव्यलिङ्गा- दिरेवालंकारः । शिष्टं तु प्राग्वदेव ॥

निभाल्य भूयो निजगौरिमाणं
मा नाम मानं सहसैव यायाः ।
गृहे गृहे पश्य तवाङ्गवर्णा
मुग्धे सुवर्णावलयो लुठन्ति ॥ ९४ ॥

 निभाल्येति । हे मुग्धे । एतेनैतादृश्यां मयाज्ञायामपि सत्यां नाध्यापि त्वं स्वयमालिङ्गनं ददासीत्यतो नैव त्वयि तादृग्विवेक इति व्यज्यते । त्वं भूयो वारे- वारं न तु क्षणमात्रं सकृद्वा निजेति । स्वशरीरगौरतमित्यर्थः । निभाल्या- वलोक्य । एतेन प्रागुक्तालिङ्गनप्रार्थने सूचिते सति तत्कालं तस्यां धन्याहमेता- दृकुचाद्यवयववत्वेनेति गर्वभरात्पुनःपुनः स्ववक्षोरुहावलोकनकारित्वं द्योत्यते । सहसैवाकस्मादेव । न तु विचारपूर्वकम् । तथात्वे तस्य वक्ष्यमाणबाधायोगात् । मानं गईं मा यायाः । मैव गच्छेत्यर्थः । ‘यासीः' इति पाठेऽप्ययमेवार्थः । कुत इति चेत्तत्र हेतु द्योतयति–गृहे गृह इत्याद्युत्तरार्धशेषेण । तवाङ्गवर्णास्त्वच्छरी- रसरूपाः । सुवर्णेति । हेमपङ्कयः गृहे गृहे प्रतिगृहं छठन्ति संचरजनपादसंपकैरपि चलन्तीति त्वं पश्येति योजना । एतेनात्यनादरणीयत्वं व्यज्यते । एवं च किं कुचादिगौरतायेव भूयो विलोक्य दृप्यसि, किंतु मदालिङ्गनादिनैव तत्साफल्यं कलयेत्याशयः । अत्र प्रतीपविशेषोऽलंकारः । अन्यत्सर्वं पूर्ववदेव ॥

करिकुम्भतुलामुरोजयोः
क्रियमाणां कविभिर्विशृङ्खलैः।
कथमालि ऋणोषि सादरं
विपरीतार्थविदो हि योषितः ॥ ९५ ॥

 करिकुस्मेति । हे आलि अयि सखि । एतेन निरुक्तपद्यश्रवणेन रोषसंभव-

माशङ्कय सामघटकालिपदेन मया सौहार्दवशीदेवेदमुक्तम् । वस्तुतस्तु त्वं लोको- त्तरनिरुपमसुन्दर्येवासीति सूचितम् । किंचाथापि त्वं कुप्यस्येव चेदन्यत्राप्येवं कुतोऽसौ न क्रियत इत्याक्षिपत्यवशिष्टत्रिपाद्या । त्वं विशृङ्खलैः । एतेन कवि- त्वेन क्रन्तिदर्शित्वात्तैर्युत्क्रियेत तद्युक्तमेवेति प्रत्युक्तम् । एतादृशैः कविभिर्वाल्मी- क्यादिभिः । उरोजयोर्निजवक्षोजयोः । करीति । गजगण्डस्थलसाम्यमित्यर्थः । तयोः कृष्णत्वादिना प्रकृतोपमानानर्हत्वमेवेति भावः । क्रियमाणां स्वस्वग्रन्थेषु प्रथ्यमानाम् । सादरं सप्रेम । कथं शृणोषि । नैवैतच्छ्रोतव्यमित्यन्वयः । तत्र हेतु- मर्थान्तरन्यासेन शिष्टपादेनाह–विपरीतेति । तस्मान्मय्यपि नैव रोषः कार्यः । किंवालिङ्गनमेव देयमिति तात्पर्यम् । अत्रापि प्रतीपविशेष एवालंकारः । शिष्टं तु सर्वमवशिष्टमेव पूर्वतः ॥

 एवं प्रार्थितापि श्रीरामेण सीता श्रीकृष्णेन रुक्मिणी वा सद्यः संजातसुरतान्त- श्रान्तिवशेन पुनस्तात्कालिकक्रीडानुत्सुकैवेति तदैत्सुक्यापादनार्थं तेन कस्याश्चि- निदर्शनव्याजेनेदानीं त्वया मत्प्रार्थनानादरे कृतेऽपि संपादिते सति मया परा- मुखत्वे क्षणान्तरे पुनः सद्यस्त्वमेव मदालिङ्गनचुम्बनादिमत्प्रार्थने विनैव खय- मेव संपादयिष्यसि तदपेक्षया वरमद्य मत्प्रार्थनेनैव तत्संपादनं येन पातिव्रत्य- बीजीभूतं मद्वचःपरिपालनमपि सियेदिति भेदेन बोध्यते--

तिरस्कृतो रोषवशात्परिष्वज
न्प्रियो मृगाक्ष्या शयितः पराङ्मुखः ।
किं दुःखितोऽसाविति कांदिशीकया।
कयाचिदाचुम्ब्य चिराय सस्वजे ॥ ९६ ॥

 तिरस्कृत इति । अयि प्रिये, कयाचिन्मृगाक्ष्या। एतेन रूपयौवनादिमद एव वक्ष्यमाणरोषे हेतुर्ध्योतितः । प्रियः प्रेयानपि परिष्वजज्ञालिङ्गन्सन् । रोषवशा- त्किचिदागमविलम्बादिनिमित्तकक्रोधपारतन्त्र्यादित्यर्थः । तिरस्कृतः परिभत्सितः । अत एव पराङ्मुखः शयितो निद्रितः । अत एव किमसौ दुःखित इति कांदिशी- कया ‘कांदिशीको भयद्रुतः' इत्यमराद्धीतिकम्पितया सत्या । आचुम्ब्य दुःखाति- रेकजन्यगाढ निद्रासंभवात्कामशास्त्रप्रसिद्धमालिङ्गनप्राथम्यमुल्लङ्घयैव तज्जागरादिसं- पादकं चुम्बनमेवाधरकपोलादावादौ विधायेति यावत् । चिरायेति देहलीदीपन्य पैन काकाक्षिगोलकन्यायेन वोभयान्वयि । तेन निरुक्तचुम्बने दृढजागरपर्यन्तत्वं ध्योत्यते । तादृकोपाद्यपगमपर्यन्तत्वं च । एवमालिङ्गनेऽपि यावत्स्वकृततिरस्कृति- जनितदुःखध्वस्तिपूर्वकरतिसमुत्थितिपर्यन्तत्वं च । सस्वज आलिङ्गित इत्यन्वयः। तस्मान्नैवं भवत्या विधेयं किंतु मद्वाक्यानादरजन्यदुष्कृतमसंपाचैव क्षणान्तरे तावत्सयां स्वस्या कामानुतापादिपीडायामवश्यप्रदास्यमानालिङ्गनाद्यचैव मह्यं प्रदेयमित्याशयः । अत्र खकीयैव मध्या संबोध्या नायिका । कुशलो नायकः । काव्यलिङ्गमलंकारः ॥

 एवं श्रीकृष्णवाक्यमाकर्ण्य रुक्मिण्येव तं प्रति नाहं गोपिकावत्परकीयास्मि किंतु परमधीरा खकीयैवास्मीति तद्वृत्तान्तवर्णनेन द्योतयति-

चेलाञ्चलेनाननशीतरश्मि
संवृण्वतीनां हरिदृश्वरीणाम् ।
व्रजाङ्गनानां स्मरजातकम्पा-
दकाण्डसंपातमियाय नीवी ॥ ९७ ॥

 चेलाञ्चलेनेति । भो नाथ, चेलाञ्चलेन निचोलपल्लवेन । आननं वदनमेव शीतरश्मिर्हिमकरस्तमित्यर्थः । न तु मुखपद्मम् । आवृण्वतीनामाच्छादयन्तीनाम् । एवं च कृष्णाभिसारिकाणां तासां प्रकाशभीत्या खमुखचन्द्रावरणमुचितमेवेति सूचि- तम् । मुखमाच्छाद्य गमनं तत्स्वभाव एवेति भावः । हरीति । अत्र युष्मदादिप- दावश्यकत्वेऽपि लज्जादिना तदनुक्तिननार्थकहरिपदोक्तिश्च गुण एव । हरि कृष्ण- पक्षीयं चन्द्र, पक्षे श्रीकृष्णं वामेव द्रष्टुं शीलं यास तासामित्यर्थः । चन्द्रदर्शन- शीलं तु खगोपनार्थं तदुदयभीतिशङ्कयैवेत्याशयः । अकाण्डेति। आकस्मिकपतन- मित्यर्थः । न तु श्लथनम् । तेन नग्न एवाभवन्निवि ध्वन्यते । स्पष्टमन्यत्। ‘काण्डो नाले तरुस्कन्धे बाणेऽवसरनीरयोः' इति विश्वः । ‘यमानिलेन्द्रचन्द्रार्कवि- ष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिन कपिले त्रिषु ॥ इत्यमरः । अत्र प्रकृताप्रकृते स्वकीयापरकीये धीराधीरे नायिके । कामुको नायकः । परिक- रादिरलंकारः ॥

 अथ कविः प्रपूर्वपद्यप्रबोधितायाः सीतायास्तद्बोधवेशादेव पूर्वपद्योकरीत्या खधैर्य ध्वनयन्त्याः प्रमोदभराइक्मिण्या वा तत्कालोचितत्वेन संजातं स्मितं चर्णयति

अधरेण समागमाद्रदाना-
मरुणिस्रा पिहितोऽपि शुद्धभावः।
हसितेन सितेन पश्मलाक्ष्याः
पुनरुल्लासमवाप जातपक्षः ॥९८॥

 अधरेणेति । पक्षमलाक्ष्याः प्रशस्तनेत्ररोमायाः । प्रकृतकान्ताया इत्यर्थः । एतेन निरुक्तावयवोपलक्षितपयावत्स्रीगुणवैशिष्ट्यत्तदीयवक्ष्यमाणस्मिते वर्णनीयगु- णगौरवं व्यज्यते । रदानां दन्तानाम् । अधरेण सह समागमात् । अरुणिन्ना तदारकत्वेन । पिहितोऽप्याच्छादितोऽपि । शुद्धभावः शुक्लत्वम् । सितेन शुभ्रेण हसितेन मन्दस्मितेन । जातपक्षः सन्संजातसहायः सन् । पुनरुल्लाको विकास- मवाप प्रापेति संबन्धः । ननु हसितक्षणेऽपि नाधरसमागमापनय स्तथा च कथं तस्य वदनविकासनानुकूलमानसप्रसादप्रयुक्तक्रियाविशेषात्मकस्य तत्कालस्फुरित- दन्तकान्तिनिष्ठसितवस्य तत्रारोपेणापि सितत्वमिति चेत्सत्यम् । निरुक्तवदनवि- कासे हि नासाभरणीयमौक्तिकादिसितकान्तीनां दन्तपर्यन्तप्रवेशसंभवेन प्राक्तना- धरारुणिमसंक्रमापलापेन खाभाविकतत्सितत्वप्राकट्यसंभवात् । तस्माद्युक्तमेवोक्तक- ल्पनमित्याकूतम् । अत्र प्रसन्ना नायिका । पूर्वरूपमलंकारः । तदुक्तम्-‘पुनः खगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुनीलोऽपि शेषः खयशसा सितः ॥' इति । अन्यत्सर्व प्राग्वदेव ।।  ततः श्रीरामः श्रीकृष्णो वा सीताया रुक्मिण्या वा निरुक्तस्मितमेव प्रार्थितसुर- तप्राप्तये स्तौति--

सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ ९९ ॥

 सरसिरुहेति । सरसिरुहपदं तु मनसिजादिपदवत्साध्वेव । कोशे तु ‘सारसं सरसिरुहम्' इति, कासारः सरसी सरः' इति सरसीशब्दं गृहीत्वैवोकमित्यवि- रोधः । हे मृगाक्षि । उपलक्षणमिदं यावत्सौन्दर्यादेः । अयि यावत्स्रीगुणविशिष्ट- स्वरमणीत्यर्थः । एतेन वक्ष्यमाणार्थयोग्यता द्योविता । तव । सरसीति । सरसि- रुहं कमलं तस्य यदुदरं तद्वत्सुरभौ सौगन्ध्यशालिनि मनोज्ञे वेत्यर्थः । अत्र ‘तृती- यादिषु भाषितपुंस्कं पुंवद्गालवस्य' इति वैकल्पिकपुंवद्भावानपुंसकत्वेऽप्युक्तरूपस्या- नादिशब्दवत्साधुत्वं बोध्यम् । एतेन सौगन्ध्यात्ताम्बूलतर्कणं मुखे परास्तम्। एता- दृशे । अधरितेति । अधरितं तुच्छीकृतं बिम्बं पकतुण्डीफलं येन तादृशोऽधरो यस्य तत्रेयर्थः । एतेनाधरोष्ठरागात्तत्र तत्परास्तम् । एतादृशे च । मणीति । मणय इव रदना यत्र । एतेन पूगखण्डादिनापि तत्परास्तम् । एतादृशे वदने मुखे । ताम्बूलं तचर्वणादि । वयं केन लिन लक्षयेम तर्कयेम । तल्लिङ्गं त्वं वद कथयेत्यन्वयः । तस्मात्तादृशलिङ्गाभावात्ताम्बूलसेवनं विनैव वन्मुखस्य तथात्वेन त्वं त्रैलोक्यसुन्दर्येवासीत्याशयः । अतः सद्यः सुरतं वितरेत्याकूतम् । लुप्तोपमादि- रलंकारः । अन्यत्सर्वं प्राग्वदेव ॥

 एवं स्तुतापि सीता रुक्मिणी वा श्रीरामस्य श्रीकृष्णस्य वा प्राक्तनरतिक्ला- न्तिवशान्निकटे केवलं निद्राणाप्यर्थोन्मीलितलोचना सती सानुरागं केवलं मुखमेव पश्यतीति कविराह-

शयिता सविधेऽप्यनीश्वरा
सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं
दरमीलन्नयना निरीक्षते ॥ १०० ॥

 शयेतेति । अपिना सामग्रीप्राचुर्य सूचितम् । दयिता प्रकृतवनिता । दयि- तेति । स्वकान्तास्य कमलमित्यर्थः । इह रविश्रान्तोक्कैव नायिका । अपरमखिलं पूर्ववदेव ॥

 एवं सानुरागरागमन्मीलितया केवलं पश्यन्तीमेव परमसौकुमार्यभरेणाति- तरसुरतान्तक़ान्तिवशेन पुनः प्रार्थनाशतेनाप्यालिङ्गनादिसंभोगप्रदानेऽनुत्सुकतया केवलं खनिकटे शयानां जानकी प्रति श्रीरामो रुक्मिणीं प्रति श्रीकृष्णो वा यदि त्वयाद्य मद्याज्ञाशतेनापि खयंग्रहाश्लेषादिपूर्वकं रतिप्रदानं मह्यं न क्रियते तर्हि मयेतःपरं श्वस्तनरात्रावत्र रतिमन्दिरे त्वां प्रति द्रुतं नैवागम्येत तदानीं त्वं याम- चतुष्टयवियोगसंतप्ता सत्यतीव व्याकुलीभविष्यसीत्यभिसंधाय कयाचिद्विरहिण्या साध्व्या सह कस्यचित्पान्थस्य संवादं कथयति-

किमिति कृशासि कृशोदर किं तव परकीयवृत्तान्तैः ।
कथय तथापि मुदे मम कथयिष्यति पथिक तव जाया १०१

 किमितीति । हे कृशोदरि । न तु तन्वि । एवं च मम नैसर्गिकमेव सर्वाङ्ग- कार्यमतः कथमयं न त्वत्प्रश्नस्त्वामेव भ्रान्तत्वं नयेदित्यापत्तिः प्रत्युका । त्वं किमिति कृशासि । एतेन कारुणिकत्वं खस्य व्यज्यते । तेन यदि विरहप्रयुक्तस्म- रशरव्यथया तथासि तर्हि तामहं सद्यः शमयिष्यामि सति त्वदानुकूल्य इति ध्योत्यते । एवं चातुर्यातिशयेन तदाशयं निश्चित्य पातिव्रत्यादच्युतधैर्यसौ तं तिर- स्करोति-किमित्यादिद्वितीयपादेन । तत्रापि ‘कामातुराणां न भयं न लज्जा' इत्युक्तेस्ताइक्वादेव तद्वचोमात्रलाभलालस्येन पुनः पृच्छति–कथयेति तृतीयेन । पुनरतितिरस्कृतावपि स नैवोपरमेदिति स्वस्याः साध्वीत्वं ध्वनयन्ती तमुपरमन्ती चोत्तरयति--कथयिष्यतीति चरमेण । एवं च सा यथा वद्विरहेण साध्वी चेत्कृ- शैव वयावलोक्येत तथाहमपि वकान्त वियुक्तलात्कृशास्मीत्यतस्तया शीघ्र खगृह प्रत्येव गन्तव्यमित्याशयः । प्रकृते तु तस्मात्त्वयाधुना मद्वचनादरं कृत्वा मह्यमा- लिङ्गनायखिलरतिसुखं पुनरपि शीघ्रं देयमेव सुप्रसन्नतयेति तात्पर्य भगवतः। अत्र प्रकृतौ रतन्तक्लान्तचतुरतरस्मरातुरौ स्वकीयावेव मध्याधीरललितौ नायिका- नायकौ । संभोगः शृङ्गारः । अप्रकृतौ तु परकीयौ विरहिणीसतीपान्थकामुको । विप्रलम्भः शृङ्गारः । उक्तिप्रत्युक्तिरलंकारः ॥

 ततः संजातविवेका तावत्कालविलम्बेन पुनराविभूतमदनी च सीता श्रीरामेण रुक्मिणी वा श्रीकृष्णेन सुप्रसन्नत्वेन खमालिङ्गनादि प्रयच्छन्ती तद्रात्रौ यथेच्छ मुपभुक्तापि प्रातःकाले व्युत्थिता सती गृहदीर्घिकावर्तिबिसिनीविकासमनु निर्मुक्त: षट्पदैस्तद्वदने निरुपमारविन्दत्वं सार्वकालिक विकासशालिवादिना निर्णीय लोको- तरमकरन्दादिलोभेन तत्र परिभ्रमणे विधीयमाने तदीक्षणवशेन पुनः समुद्दीपितम- दनविकारतया तदधरामृतपानयाचने कृते सति ‘प्राणं वा एते प्रस्कन्दन्ति यद्दिवा रत्या संयुज्यन्ते' इति श्रुतेर्दिवा रतिविषयकनिषेधे जागर्ति सति किमिदं स्मरपा- रवश्यं विश्वेशनशीलानां सर्वज्ञानामपि भवतामित्याशयेन बहिरतिसक्रोधवीक्षण- परैवेक्षन्ती कंचित्किमित्यद्य प्रातरुत्थाने विलम्बोऽभूदिति पृच्छन्तं रहःसुहृदं प्रति सोदन्तं तदृश एव सर्वोत्कृष्टत्वेन वय॑न्ते-

वदनारविन्दसौरभलोभादिन्दीवरेषु निपतत्सु।
मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषापरुषाः ॥ १०२ ॥

इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे।

शृङ्गारोल्लासो द्वितीयः ।

वदनेति। हे मित्र, वदनं प्रकृतकान्ताया मुखमेवारविन्दं कमलं तस्य यत्सौ-

रभं सौगन्ध्यं तस्य यो लोभोऽभिलाषस्तस्मादित्यर्थः । इन्दीवरेषु । ‘भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः । इन्दीवरः पुष्पकीटो मधुद्रो मधुकेशटः ॥ इति त्रिका- ण्डशेषाद्भमरेष्वित्यर्थः । निपतत्सु वनपद्ममभितः परिभ्रमत्सु सत्खित्यर्थः । तदा- नीमेवोद्दीपनवशादधरार्थिनि तदधरामृतपानेच्छौ मयि विषये । सुदृशः प्रकृतमृ- गाक्ष्याः । अतिरुषापि परमकोपेनापि । अपरुषा इति छेदः । अकठोरा एव । एतेन हार्दप्रेमा ध्वन्यते । एतादृशो दृशो दृष्टयो जयन्ति कोपेऽप्यपरुषत्वादेव सर्वोत्क- बैण वर्तन्त इति योजना । इह धर्मबोधिनी स्वकीया मध्यैव नायिका । गुणज्ञो नायकः । संभोग एव शृङ्गारः । भ्रान्त्यादिरलंकारः। जयवर्णनादन्ते मङ्गलमपि ॥

               इति प्रणयप्रकाशे द्वितीयः प्रमोदः ।